51 विधुराधिकरणम्

विश्वास-प्रस्तुतिः - 20
  1. दारालाभे विरक्तेर्म्रदिमनि च भवेदन्तरेणाश्रमान् यः
    तस्मिन्निश्शेषधर्मत्यजि भवतु कथं ब्रह्मविद्येति चेन्न ।
    सामान्यैर्वर्णधर्मैर्गुणनियतियुतैस्सा हि तत्रापि साङ्गा
    भीष्मादौ दृष्टमेतद् भवति तु वृषले गत्यभावादभावः ॥
३४-तमाहोबिल-यतिः - 20
  1. दारालाभ इत्यादि । दारालाभे विरक्तेर्म्रदिमनि च - पाणिगृहीतदाराणां मरणे धनाद्यभावाद्दारान्तरालाभे विरक्तेः प्रव्रज्याधिकारभूतवैराग्यस्य म्रदिमनि च दार्ढ्याभावे च सति । आश्रमानन्तरेण यो भवेत् - आश्रमशून्यतया यो वर्तेत । निश्शेषधर्मत्यजि तस्मिन् - साकल्येन धर्मान् अग्निहोत्रयज्ञादिकान् त्यक्तवति तस्मिन् विधुरे । ब्रह्मविद्या कथं भवतु - ‘सर्वापेक्षा च’ इत्यादिना यज्ञाद्यङ्गिका ब्रह्मविद्या कथं सम्भवेत् । इति चेन्न - इति शङ्क्यते चेत्तन्न युक्तम् । गुणनियतियुतैः - फलसङ्गस्वतन्त्रकर्तृत्वादित्यागरूपगुणनियतियुक्तैः । सामान्यैः - साधारणैः । वर्णधर्मैः - सत्यवचनजपोपवासदेवतापूजनादिभिर्विधुरस्यापि सम्भावितैर्वर्णधर्मैः । सा - ब्रह्मविद्या । तत्रापि - विधुरेऽपि । साङ्गा हि - अङ्गयुक्ततया प्रसिद्धा । न तु लुप्ताङ्गेत्यर्थः । एतत् - आश्रमशून्यत्वेऽपि सम्भावितवर्णधर्माङ्गकं ब्रह्मविद्यानुष्ठानम् । भीष्मादौ - भीष्मसंवर्तरैक्वप्रभृतिब्रह्मविज्जने । दृष्टम् - भारतादिप्रमाणैरवगतम् । वृषले तु गत्यभावादभावो भवति - शूद्राधिकारिविषये तु गत्यभावात् वेदाध्ययनादिनिषेधेन विद्यासम्भवकल्पकप्रमाणाभावेन च ब्रह्मविद्याया अभावो भवति । अनुष्ठानाभावोऽङ्गीकृतो भवतीत्यर्थः ॥
कुमार-वरदः - 20
  1. अत्र भाष्ये सङ्गतिरुक्ता, ‘चतुर्णामाश्रमिणां ब्रह्मविद्यायामधिकारोऽस्ति, विद्यासहकारिण आश्रमधर्मा इति चोक्तम् । ये पुनराश्रमानन्तरा वर्तन्ते विधुरादयस्तेषां ब्रह्मविद्यायामधिकारोऽस्ति नवेति विशये’ इति । तदर्थविचारस्तु - किं विधुरादीनां ब्रह्मविद्यायामधिकारोऽस्ति नेति । किं तेषां साङ्गब्रह्मविद्योपसंहारसामर्थ्यमस्ति नेति । किमाश्रमसाधारणधर्माङ्गिकापि विद्या सम्भवति नेति । ‘तपसा ब्रह्मचर्येण’ इत्यादिविनियोगोपबृंहितं रैक्वादीनां विद्यानिष्ठत्वदर्शनं विद्यायास्साधारणधर्माङ्गकत्वमवगमयति नेति । अत्र पूर्वपक्षमाह - दारालाभ इति । दारालाभभावे परिव्राजकाश्रमप्राप्त्यनुरूपविरक्त्यभावे च मध्ये तिष्ठन्नन्तरेणाश्रमान् यो भवति - आश्रमशून्यो भवति य इत्यर्थः । तस्मिन्नधिकाराभावान्निश्शेषकर्मानुष्ठानशून्ये कथं भवति ब्रह्मविद्याधिकार इत्याशङ्का । तां निराकरोति - नेति । मा भूदाश्रमधर्मः, सामान्यैरेव वर्णधर्मैः फलसङ्गकर्तृत्वादिपरित्यागात्मकगुणनियतियुतैः सा ब्रह्मविद्या तस्मिन्नधिकारिणि साङ्गा भवत्येव । न केवलमस्माभिः परिकल्प्यते, किंतु गाङ्गेयादिषु दृष्टमेतदित्याह - भीष्मादाविति । तर्हि शूद्रेऽप्यधिकारः किं न स्यादित्याशङ्क्यापशूद्राधिकरणे शूद्राधिकारनिषेधस्य दृष्टत्वात्तस्य ब्रह्मविद्यायामनधिकार एव । विधुरादीनां वेदाध्ययनादिविद्यानुष्ठानौपयिकबहुधर्मदर्शनाच्चाधिकारोऽस्तीति, न शूद्रस्य तादृशं कर्म बहुप्रमाणनिषेधादिति भावः ॥
मूलम् - 20
  1. दारालाभे विरक्तेर्म्रदिमनि च भवेदन्तरेणाश्रमान् यः
    तस्मिन्निश्शेषधर्मत्यजि भवतु कथं ब्रह्मविद्येति चेन्न ।
    सामान्यैर्वर्णधर्मैर्गुणनियतियुतैस्सा हि तत्रापि साङ्गा
    भीष्मादौ दृष्टमेतद् भवति तु वृषले गत्यभावादभावः ॥