विश्वास-प्रस्तुतिः - 19
- वर्णादेः कर्मणां हि श्रुतिभिरभिदधे ब्रह्मविद्याङ्गभावः
तस्मादब्रह्मनिष्ठे तदननुसरणात्स्वैरितैवास्तु मैवम् ।
नित्यत्वस्यापि सिद्धेस्तदुचितविनियुक्त्यन्यभावानुसारात्
तन्त्रं काम्याग्निहोत्रादिवदिह परविन्नित्यवर्गेऽपि योज्यम् ॥
३४-तमाहोबिल-यतिः - 19
- वर्णादेरित्यादि । वर्णादेः कर्मणाम् - वर्णाश्रमसम्बन्धिनां सन्ध्यावन्दनाग्निहोत्रादिकर्मणाम् । ब्रह्मविद्याङ्गभावः - ब्रह्मविद्याङ्गत्वम् ।श्रुतिभिरभिदधे हि - ‘तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन’ इत्यादिश्रुतिभिरुक्तं हि । तस्मात् - कारणात् । अब्रह्मनिष्ठे - ब्रम्हविद्याशून्ये केवलाधिकारिणि । तदननुसरणात् - ब्रह्मविद्याङ्गभूतकर्माननुसरणात् । स्वैरतैवास्तु - कर्मविधिपारतन्त्र्याभावेन यथेच्छवर्तनमेव भवतु । तथा वर्तनेऽपि तस्य प्रायश्चित्तमनुष्ठेयं मा भूदिति भावः । मैवम् - एवं मा शङ्किष्ठाः । तदुचितविनियुक्त्यन्यभावानुसारात् नित्यत्वस्यापि सिद्धेः - एवं हि तान्त्रिकमर्यादा, यानि कर्माण्येकत्र विनियुज्यन्ते तान्यन्यत्रापि विनियुक्तानि चेत् विनियोगपृथक्त्वादेवोभयत्रान्वयसिद्धिरिति ।अतस्तत्तत्कर्मोचितविनियोगान्तरानुसारात् तेषां कर्मणां विद्याङ्गत्वं विनापि नित्यानुष्ठेयत्वसिद्धेः । इह परविन्नित्यवर्गेऽपि - अस्मिन् ब्रह्मवित्सम्बन्धिनित्यकर्मवर्गेऽपि । काम्याग्निहोत्रादिवत् - काम्याग्निहोत्रादिभिस्तुल्यम् । यथा स्वर्गादिफलसाधनं वर्णाश्रमशेषभूतञ्चाग्निनिहोत्रदर्शपूर्णमासादिकं देशकालाद्यैक्येन पृथगनुष्ठानानर्हतया फलार्थमनुष्ठीयमानमपि नित्यानुष्ठानसिद्धिमपि करोति तथेत्यर्थः । तन्त्रं योज्यम् - एकवारानुष्ठानेनैव उभयानुष्ठानसिद्धिहेतुत्वं पर्यालोचनीयम् । तथा चाचार्यकारिका - ‘नित्यकाम्यस्वरूपैक्ये विनियोगपृथक्त्वतः । फलार्थं क्रियमाणेऽपि नित्यं भवति तन्त्रतः ॥’ इति ।
कुमार-वरदः - 19
- अत्र सङ्गतिर्भाष्ये ‘यज्ञादिकर्माङ्गिका ब्रह्मविद्येत्युक्तम् । तानि च यज्ञादीनि कर्माण्यमुमुक्षुणा केवलाश्रमिणाप्यनुष्ठेयानि उत नेति चिन्तायाम्’ इति । तदर्थविचारस्तु - किं विद्याङ्गभूतान्याश्रमकर्माणि केवलाश्रमिणाप्यनुष्ठेयानि उत नेति । किमेषां विद्याङ्गत्वे केवलाश्रमाङ्गत्वं सम्भवति नेति । किं केवलाश्रमाङ्गत्वे नित्यानित्यसंयोगविरोधः प्रसज्यते नेति । अत्र पूर्वपक्षमनुवदति - वर्णादेरिति । ‘यज्ञेन’ इत्यादिवाक्येन वर्णादेः कर्मणो ब्रह्मविद्याङ्गभावोऽभिदधे । तस्मात् अब्रह्मनिष्ठे ब्रह्मविद्याऽभावेन ब्रह्मविद्याङ्गकर्माननुसरणात्स्वैरित्वमेवास्तु । अत्रोत्तरम् - मैवमिति । तत्र हेतुमाह - नित्यत्वस्येति । इत्थं किल तान्त्रिकमर्यादा - यानि कर्माण्येकत्र विनियुज्यन्ते तान्यन्यत्रापि विधिना विनियुक्तानि चेद् विनियोगपृथक्त्वादेवोभयत्रान्वयसिद्धिरिति । विनियुक्त्यन्यभावानुसारात् विनियुक्त्यन्तरादित्यर्थः । अत्र चानुष्ठानं तन्त्रमेव भवति । यत्र हि देशकालाद्यैक्येन पृथगनुष्ठानं कर्तुं न शक्यते तत्र तन्त्रेणानुष्ठानमिति तान्त्रिकप्रक्रिया । उक्तार्थे सम्प्रतिपन्नदृष्टान्तमाह - काम्येति । काम्याग्निहोत्रमनुष्ठीयमानं नित्यसिद्धिमपि करोतीति हि मर्यादा । एतच्च परविदां नित्यवर्गेऽपि योज्यमित्याह - इहेति । अध्यात्मविदां नित्यानुष्ठानं हि ब्रह्मविद्याङ्गभावेन तत्सिद्धिमपि तन्त्रेण करोतीत्यर्थः ॥
मूलम् - 19
- वर्णादेः कर्मणां हि श्रुतिभिरभिदधे ब्रह्मविद्याङ्गभावः
तस्मादब्रह्मनिष्ठे तदननुसरणात्स्वैरितैवास्तु मैवम् ।
नित्यत्वस्यापि सिद्धेस्तदुचितविनियुक्त्यन्यभावानुसारात्
तन्त्रं काम्याग्निहोत्रादिवदिह परविन्नित्यवर्गेऽपि योज्यम् ॥