49 सर्वान्नानुमत्यधिकरणम्

विश्वास-प्रस्तुतिः - 18
  1. आहारस्य व्यवस्था न भवति वचनात्प्राणविद्याधिकर्तुः
    सामान्यस्थो निषेधो बलवति हि विधौ संकुचेदित्ययुक्तम् ।
    अङ्गत्वेनाविधेस्स्यादनुमतिवचनं प्राणभङ्गप्रसङ्गे
    पश्यैतत्प्राणनिष्ठादधिकमहिमनि ब्रह्मनिष्ठे ह्युषस्तौ ॥
३४-तमाहोबिल-यतिः - 18
  1. आहारस्येत्यादि । प्राणविद्यामधिकर्तुः - प्राणविद्यानिष्ठस्य । वचनात् - ‘न ह वा एवंविदि किञ्चनानन्नं भवति’ इति सर्वान्नानुमतिवचनात् । आहारस्य व्यवस्था - श्रोत्रियान्नस्य भक्षणीयत्वं शूद्राभिशस्ताद्यन्नस्यानदनीयत्वमित्यादिरूपो जात्याश्रयनिमित्तादिदुष्टादुष्टान्नाभक्षणभक्षणव्यवस्था न भवति । कुत इति चेत् सामान्यस्थो निषेधः - सामान्यधर्मसम्बद्धो ‘न हिंस्यात्सर्वा भूतानि’ इत्येवमादिरूपो निषेधः । बलवति विधौ - अनन्यथासिद्धे ‘अग्नीषोमीयं पशुमालभेत’ इत्यादि विशेषविधौ सति । संकुचेद्धि - विशेषविधिविषयमपहाय तदन्यविषयमात्र एव व्यवतिष्ठेत हि । तथा च ‘आहारशुद्धौ सत्त्वशुद्धिः’ इत्यादिसामान्यनिषेध उदाहृतप्राणविद्यानिष्ठविषयसर्वान्नानुमतिवचनात् तद्विषयमपहाय अन्यविषय एव सङ्कुचितस्तिष्ठतु, प्राणविद्यानिष्ठः सर्वान्नीनोऽपि न दुष्यतु । इति अयुक्तम् - इति यत् शङ्कनं तन्न युक्तम् । अनुमतिवचनं अङ्गत्वेनाविधेः प्राणभङ्गप्रसङ्गे स्यात् - प्राणविद्यायां सर्वान्नभक्षणानुमतिवचनं विद्याङ्गत्वेन विधानाभावात् प्राणात्ययप्रसङ्गदशाविषयमेव स्यात् । प्राणनिष्ठात् अधिकमहिमनि ब्रह्मनिष्ठे - प्राणविद्यानिष्ठपुरुषापेक्षया अधिकमाहात्म्यशालिनि ब्रह्मविद्यानिष्ठे । उपस्तौ हि - प्रसिद्धम् । एतत् - प्राणात्ययप्रसङ्गदशायामेव अनन्नभक्षणम् । पश्य - ‘मटचीहतेषु’ इत्यादिच्छान्दोग्यस्थोषस्त्युपाख्यानपर्यालोचनयावगच्छेत्यर्थः ॥
कुमार-वरदः - 18
  1. ब्रह्मविदां शमदमादयोऽनुष्ठेया इत्युक्तम् । तत्र भोजननियतिरूपशमविशेषोऽस्ति नेति चिन्त्यत इति सङ्गतिः । तदर्थविचारस्तु - किं प्राणविदस्सर्वान्नानुमतिस्सर्वदा उत प्राणसंशयापत्तौ । किं ब्रह्मविद उषस्तेः प्राणसंशये सति उच्छिष्टान्नभक्षणदर्शनं प्राणविदस्सर्वान्नानुमतेरापद्विषयत्वमवगमयति नेति । अत्राह पूर्वपक्षी - वचनात् प्रवृत्तिर्वचनान्निवृत्तिरिति हि लोकसिद्धोऽयं न्यायस्सर्वैरप्यनतिलङ्घनीय एव । प्राणविद्यानिष्ठे हि सर्वान्नयोग्यत्वमुच्यते । तेन निषिद्धभक्षणनिषेधः प्राणविद्यानिष्ठव्यतिरिक्तविषय एव, यथा न हिंस्यादित्यादौ सामान्यनिषेध आलभेतेति विहितव्यतिरिक्तविषय इति निर्णायते तद्वदत्रेति । इमं पूर्वपक्षमाह - आहारस्येत्यादिना । अनूद्य प्रतिक्षिपति - अयुक्तमिति । अयुक्तत्वमेवोपपादयति - अङ्गत्वेनेति । प्राणविद्यायां सर्वान्नभक्षणवचनं विद्याङ्गत्वेन विधानाभावात् प्राणात्ययप्रसङ्गेष्वनुमतिवचनमात्रमेव । तदिदं सूत्रकार एव साक्षात्प्राह - ‘सर्वान्नानुमतिश्च’ इति । एतस्य प्राणविद्यानिष्ठस्य सर्वान्नानुमतिवचनं प्राणात्ययविषय इत्युपपादयितुं प्राणनिष्ठादधिकमहिमनि ब्रह्मनिष्ठेऽप्युषस्तौ प्राणात्ययविषयत्वेनैव दर्शनात् कैमुत्यन्यायेनोपपादयति - पश्येति । शब्दान्वयस्तु - प्राणविद्याधिकर्तुर्वचनादाहारस्य व्यवस्था न भवति । सामान्यमात्रेण प्रवृत्तः पुनरभोज्यभोजननिषेधो बलवद्विधिदर्शनेन संकुचेदेवेत्ययुक्तम् - प्राणविद्याङ्गत्वेन विधानाभावात् । प्राणविदोऽधिकमाहात्म्यवत्युषस्तावपि ‘न वाजीविष्यम्’ इति प्राणभङ्गप्रसङ्गे प्राणात्ययप्रसङ्गे निषिद्धभक्षणदर्शनात् प्राणविद्यायां केवलसर्वान्नभक्षणानुमतिवचनमापद्विषयमिति कैमुत्यन्यायसिद्धम् ॥
मूलम् - 18
  1. आहारस्य व्यवस्था न भवति वचनात्प्राणविद्याधिकर्तुः
    सामान्यस्थो निषेधो बलवति हि विधौ संकुचेदित्ययुक्तम् ।
    अङ्गत्वेनाविधेस्स्यादनुमतिवचनं प्राणभङ्गप्रसङ्गे
    पश्यैतत्प्राणनिष्ठादधिकमहिमनि ब्रह्मनिष्ठे ह्युषस्तौ ॥