विश्वास-प्रस्तुतिः - 16
- यज्ञादिव्यापृतत्वादनिभृतकरणे सर्वकालं गृहस्थे
शान्त्यादीनामयोगात्तदितरविषयास्ते गुणा इत्ययुक्तम् ।
प्रव्रज्यादिस्थितानामपि तदुपधिकानेकधर्मप्रवृत्तेः
तत्सर्वं सह्यते चेत्सह तदपि फलाद्युज्झनञ्चात्र तुल्यम् ॥
३४-तमाहोबिल-यतिः - 16
- यज्ञादीत्यादि । यज्ञादिव्यापृतत्वात् - यज्ञादीनां गृहस्थधर्मतया तेषु प्रवृत्तिरूपेषु सर्वदा गृहस्थस्य प्रवृत्तकरणत्वात् । सर्वकालम् - सर्वस्मिन्नपि काले । अनिभृतकरणे - अनिश्चलेन्द्रिये । गृहस्थे - गार्हस्थ्यधर्मानुष्ठातर्यधिकारिणि । शान्त्यादीनामयोगात् - निखिलकरणव्यापारोपरमरूपाणां शमदमादीनामशक्यानुष्ठानत्वात् । ते - शमादयो गुणाः । तदितरविषयाः - गृहस्थेतरयत्यादिविषयतया नेयाः । इत्ययुक्तम् - इति शङ्कनमसाधु । प्रव्रज्यादिस्थितानामपि - प्रव्रज्या सन्यासः आदिशब्देन वानप्रस्थ्यमुच्यते । तन्निष्ठानां यतिवनिप्रमुखानामपि । तदुपधिकानेकधर्मप्रवृत्तेः - तत्तदाश्रमोचितेषु सन्ध्यावन्दन दण्डपात्रशिक्यकषायकन्थादिमात्राधारणभैक्षाचरणप्रमुखेषु बहुषु स्वस्वाश्रमधर्मेषु शमादिविरोधिषु प्रवृत्तेर्दर्शनात् । तत्सर्वं सह्यते चेत् - तत्सर्वं प्रवृत्तिरूपतया शमादिविरोधिभूतमपि विहितत्वाच्छमादीन् तद्व्यतिरिक्तविषयतया व्यवस्थाप्य सह्यते चेदङ्गीक्रियते यदि । तदपि - गृहस्थाश्रमकर्मापि । सह - विहितत्वादत्याज्यत्वाच्च शमादीन् तदतिरिक्तविषयतयापि व्यवस्थाप्य सहस्व अङ्गीकुर्वित्यर्थः । अत्र फलाद्युज्झनञ्च तुल्यम् - अत्र गृहस्थाश्रमे फलसङ्गकर्तृत्वादित्यागपूर्वककर्मानुष्ठानादिकं यत्याश्रमतुल्यमेव । फलसङ्गकर्तृत्वादित्यागस्य सर्वमुमुक्षुजनसाधारणत्वात् न तस्य यत्याश्रमे विशेषोऽस्तीति शमादीनां विहितव्यतिरिक्तविषयतया व्यवस्थापनेन न यतिषु विशेष इति भावः । अत्र सहेति परस्मैपदित्वमनुदात्तेत्त्वप्रयुक्तस्यात्मनेपदस्यानित्यत्वात् । चक्षिङ इकारस्यानुदात्तत्वेऽपि ङित्करणादनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यमिति ज्ञाप्यते ॥
कुमार-वरदः - 16
- अत्र सङ्गतिर्भाष्ये एव सुव्यक्तमुच्यते ‘गृहस्थस्य शमदमादीन्यप्यनुष्ठेयानि उत नेति चिन्तायाम्’ इति । तदर्थविचारस्तु - किं विद्यानिष्ठस्य गृहस्थस्य शमदमादीन्युपादेयानि उत नेति । किं यज्ञादीनां शमदमादीनाञ्च विरोधोऽस्त्युत नेति । किमत्र विधीयमाना करणव्यापारोपरमरूपा शान्तिर्यज्ञादिव्यतिरिक्तव्यापारशान्तिरुत सर्वव्यपारशान्तिः । अत्र पूर्वपक्षमुपन्यस्य निराकरोति - यज्ञादीति । अयं किल पूर्वपक्षसिद्धान्तसंग्रहः । यज्ञादिकर्मणां करणव्यपाररूपत्वात् शमादीनां तदुपरमत्वाच्च गृहस्थे शमदमादीनामभाव इति पूर्वः पक्षः । तर्हि प्रव्रज्यादिनिष्ठेष्वपि तत्तदाश्रमनियततत्तद्व्यापारभूयस्त्वात् तत्रापि शमदमादिर्न स्यात् तत्र विहितव्यतिरिक्तविषयत्वे शमदमादिरूपस्योपरमस्योक्ते गृहस्थेऽपि शमदमादिर्विहितव्यतिरिक्तविषयव्यपारोपरम इति समस्समाधिरिति सिद्धान्तः । शब्दान्वयस्तु - यज्ञादिव्यापृतत्वात् सर्वकालमनिभृतकरणे गृहस्थे शान्त्यादीनां अयुक्तत्वात् गृहस्थव्यावृत्तविषयास्ते शान्त्यादयो गुणा इत्युक्तम् । सन्न्यासाश्रमस्थितानामपि तत्तदाश्रमोचितानेकधर्मप्रवृत्तेः । विधिबलात् तत्सर्वं करणव्यापाररूपमपि सह्यते चेत्, सह तदपि गृहस्थाश्रमादिप्रयुक्तं कर्मापि तुल्यन्यायेन सहस्व । तैः प्रव्रज्यादिनिष्ठैः फलसङ्गकर्तृत्वत्यागेनैव कर्मानुष्ठीयत इति चेत्, तद् गृहस्थेऽपि समानमिति न वैषम्यसिद्धिः ॥
मूलम् - 16
- यज्ञादिव्यापृतत्वादनिभृतकरणे सर्वकालं गृहस्थे
शान्त्यादीनामयोगात्तदितरविषयास्ते गुणा इत्ययुक्तम् ।
प्रव्रज्यादिस्थितानामपि तदुपधिकानेकधर्मप्रवृत्तेः
तत्सर्वं सह्यते चेत्सह तदपि फलाद्युज्झनञ्चात्र तुल्यम् ॥
विश्वास-प्रस्तुतिः - 17
- प्रज्ञातस्वापराधाः प्रभुमनुतपने लोकसिद्धैरुपायैः
आत्मार्हैरर्चयन्तः क्रमशमितरुषस्तस्य सेवां लभन्ते ।
इत्थं नश्शास्त्रसिद्धैरिदमनिदमिति स्वाधिकारैर्विभक्तै-
र्निष्प्रत्यूहः प्रसादो निरुपधिसुहृदश्श्रीधरस्याधिगम्यः ॥
३४-तमाहोबिल-यतिः - 17
- प्रज्ञातस्वापराधा इत्यादि । प्रज्ञातस्वापराधाः - प्रज्ञातास्स्वकृतापराधा यैस्ते प्रज्ञातस्वापराधाः सेवकाः । अनुतपने - पश्चात्तापे जाते सति । लोकसिद्धैः - एतैरेतैः प्रभुस्सन्तुष्यतीति लोकतस्सिद्धैरवगतैः । आत्मार्हैः उपायैः - तदिष्टपुष्पफलादिसमर्पणस्तुतिकरणाद्युपायैः । प्रभुम् - अनुग्रहे निग्रहे च समर्थं दयालुं स्वामिनम् । अर्चयन्तः - आराधयन्तस्सन्तः । क्रशमितरुषः - क्रमेण किञ्चित्कालसेवाक्रमेण शमितकोपास्सन्तः । तस्य - प्रभोः । सेवाम् - कैङ्कर्यम् । लभन्ते । इत्थम् - उक्तराजसेवकन्यायेन । नः - चेतनानामस्माकम् । शास्त्रसिद्धैः - ‘तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ’ इत्यादिवचनेन शास्त्रैकसमधिगतैः । इदम् - कर्तव्यम् । अनिदम् - अकर्तव्यम् । इति - एवङ्क्रमेण । स्वाधिकारैः - स्वस्वयोग्यताभिः । विभक्तैः - इमे धर्मा ब्राह्मणस्य, इमे धर्माः क्षत्रियस्य, इमे ब्रह्मचारिणः, इमे गृहस्थस्य इत्यादिरीत्या प्रतिवर्णं, प्रत्याश्रमञ्च व्यवस्थापितैः कर्मभिः । निष्प्रत्यूहः - निवृत्तस्वविरोधिभूतहृदयकालुष्यः । निरुपधिसुहृदश्श्रीधरस्य प्रसादः - ‘सुहृदं सर्वभूतानाम्’ इति सर्वभूतसुहृदः कारुण्यादिसन्धुक्षणविचक्षणां निखिललोकमातरं सदा वक्षसि वहतः पुरुषोत्तमस्य प्रसादः । अधिगम्यः - प्रथमं सम्पादनीयः । तस्मिन् सिद्धे ‘किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने’ इत्युक्तरीत्या सर्वं सिध्यतीति भावः ॥
कुमार-वरदः - 17
- पूर्वं भगवदपराधादिप्रसक्तानामधिकारिणां तदनुरूपप्रायश्चित्तरूपकर्मानुष्ठानेन भगवन्तं प्रसाद्य फलप्राप्तौ लोकदृष्टप्रक्रियया शिष्याणां विश्वासमातनोति - प्रज्ञातेति । लोके हि प्रज्ञातस्वापराधास्सेवकाः पश्चादनुतापे सति लोकसिद्धैरेव उपायैस्स्वाधिकारानुरूपैरर्चयन्तः क्रमेण शमितरुषस्तस्य सेवाफलं लभन्ते । इत्थमस्माकमपि इदं कर्तव्यमिदमकर्तव्यमिति स्वाधिकारैः विभक्तैः कर्मभिर्निरुपधिसुहृदश्श्रीधरस्य निष्प्रत्यूहः प्रसादस्तत्परैरध्यात्मविद्भिरधिगम्य इत्यन्वयः ॥
मूलम् - 17
- प्रज्ञातस्वापराधाः प्रभुमनुतपने लोकसिद्धैरुपायैः
आत्मार्हैरर्चयन्तः क्रमशमितरुषस्तस्य सेवां लभन्ते ।
इत्थं नश्शास्त्रसिद्धैरिदमनिदमिति स्वाधिकारैर्विभक्तै-
र्निष्प्रत्यूहः प्रसादो निरुपधिसुहृदश्श्रीधरस्याधिगम्यः ॥