विश्वास-प्रस्तुतिः - 13
- त्यक्ते यज्ञादिधर्मे परभजनविधेरूर्ध्वरेतस्सु दृष्ट्या
विद्या तेनानपेक्षा गृहवति च भवेदित्यनालोचितोक्तिः ।
यज्ञेनेत्यादिकाभिश्श्रुतिभिरवगता ह्यस्य सा तत्प्रसाध्या
जिज्ञासार्थत्ववादो जिगमिषति पदेत्यादिनीत्या निवर्त्यः ॥
३४-तमाहोबिल-यतिः - 13
- त्यक्त इत्यादि । ऊर्ध्वरेतस्सु - परिव्राजकप्रभृतिषु । यज्ञादिधर्मे त्यक्ते परभजनविधेर्दृष्ट्या - यज्ञादिधर्मे त्यक्तेऽपि परमात्मोपासनानुष्ठानदर्शनात् । गृहवति च विद्या तेनानपेक्षा भवेत् - गृहस्थेऽपि ब्रह्मविद्या यज्ञादिधर्मनिरपेक्षैव भवेत् । इति अनालोचितोक्तिः - इति जल्पनमनोलोचितवचनम् । अस्य - गृहस्थस्य । यज्ञेनेत्यादिकाभिश्श्रुतिभिः - ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन’ इत्यादिभिश्श्रुतिभिः । सा - ब्रह्मविद्या । तत्प्रसाध्या ह्यवगता - यज्ञादिकर्मानुष्ठानसाध्या ह्यवगता । जिज्ञासार्थत्ववादः पदा जिगमिषतीत्यादिनीत्या निवर्त्यः - ‘यज्ञेन, विविदिषन्ति’ इति यज्ञादेर्ज्ञानेच्छासाधनत्ववचनं पदा जिगमिषतीत्यादौ पदो गमनसाधनत्ववत् इच्छासाधनत्वबाधात् इच्छाविषयज्ञानसाधनत्वपरताङ्गीकारेण परिहरणीयम् ॥
कुमार-वरदः - 13
- पूर्वमूर्ध्वरेतस्स्वग्नीन्धनाद्यनपेक्षोक्ता, अधुना पुनः गृहस्थेषु यज्ञादिकर्मापेक्षोच्यत इति सङ्गतेस्स्फुटत्वात् भाष्ये तदनुक्तिः । तदर्थविचारस्तु - किं गृहस्थस्य यज्ञादिकर्मवतो ब्रह्मविद्यायामधिकार उत तद्रहितस्येति । तदर्थं विचार्यते - किं यज्ञादिकर्म विद्याङ्गं नेति । किं ‘यज्ञेन’ इति श्रुतिर्विद्याङ्गतया यज्ञादिकर्म विनियुङ्क्ते नेति । किं कर्मणो विद्योत्पादकत्वं सम्भवति नेति । अत्र पूर्वपक्षमारचयति - त्यक्त इति । ऊर्ध्वरेतस्सु यज्ञादिधर्मे परित्यक्तेऽपि परभजनविधेर्दृष्टत्वाद् गृहस्थेऽपि विद्या यज्ञादिकर्मानपेक्षा भवेदिति । तदिदमपाकरोति - अनालोचितोक्तिरिति । अपाकरणप्रकारं दर्शयति - यज्ञेनेति । अस्य गृहस्थस्य । यज्ञेनेत्यादिकाभिश्श्रुतिभिः सा विद्या तत्प्रसाध्या यज्ञादिप्रसाध्यैव अवगता । ननु यज्ञेनेत्यादिभिः ‘विविदिषन्ति’ इति विविदिषासाधनत्वमेवोच्यते यज्ञादीनाम्, न पुनर्विद्यासाधनत्वम्, तत्कथमुच्यते कर्मणां वेदनसाधनत्वमित्यत्रोत्तरमाह - जिज्ञासेति । यथा अश्वेन जिगमिषतीत्यत्र जिगमिषां प्रति प्रधानभूतगमनसाधनत्वमेवाश्वस्य तथा जिज्ञासां प्रति प्रधानभूतज्ञानसाधनत्वमेव यज्ञादीनामिति न्यायसिद्धोऽयमर्थः । तेन जिज्ञासार्थत्ववादो निवर्त्य एवेत्यर्थः । अयमत्र भावः ‘धातोः कर्मणस्समानकर्तृकादिच्छायां वा’ इति सूत्रे धात्वर्थप्राधान्येनैवोच्छायां सन् विधीयते, तेन सन्प्रत्यय एव धात्वर्थप्राधान्यं स्वयमेव वदतीति यज्ञादिभिर्वेदनस्यैव साध्यत्वाङ्गीकारे न सन्प्रयोगविरोध इति । एवमसिना जिघांसतीति दृष्टान्तान्तरमुदाहर्तव्यम् । श्लोके तावत् पदा जिगमिषतीति पाददृष्टान्त उक्तः ॥
मूलम् - 13
- त्यक्ते यज्ञादिधर्मे परभजनविधेरूर्ध्वरेतस्सु दृष्ट्या
विद्या तेनानपेक्षा गृहवति च भवेदित्यनालोचितोक्तिः ।
यज्ञेनेत्यादिकाभिश्श्रुतिभिरवगता ह्यस्य सा तत्प्रसाध्या
जिज्ञासार्थत्ववादो जिगमिषति पदेत्यादिनीत्या निवर्त्यः ॥
विश्वास-प्रस्तुतिः - 14
- नन्विच्छार्थत्वहानिर्जिगमिषति पदेत्यादिके गत्यभावात्
श्रुत्युक्तेऽस्मिंस्तथा नेत्यसदिह च यतो गत्यभावस्समानः ।
इच्छा स्याद्धीविशेषात्तदनुपजनने कर्मभिस्सा न साध्या
जिज्ञासां प्राप्तुमिच्छोर्न च न भवति तज्ज्ञानमिष्टं पुरैव ॥
३४-तमाहोबिल-यतिः - 14
- नन्वित्यादि । ननु - आक्षिप्यते । जिगमिषति पदेत्यादिके इच्छार्थत्वहानिः गत्यभावात् - जिगमिषति पदेत्यादिस्थले इच्छार्थत्वत्यागः पदो गमनेच्छासाधनत्वबाधात् अगत्या आश्रितः । श्रुत्युक्ते अस्मिन् तथा न - अतीन्द्रियार्थे प्रमाणभूतया श्रुत्या प्रतिपन्ने वेदनेच्छां प्रति यज्ञादीनां साधनत्वे तु तथा प्रमाणान्तरेण बाधो नास्ति । श्रुतिर्यथा वदति तथा हि प्रतिपत्तव्यम् । इत्यसत् - इति शङ्कनमसाधु । इह च यतो गत्यभावस्समानः - इह च श्रुत्युक्तेऽपि यज्ञादीनां विविदिषासाधनत्वे यतः इच्छार्थत्वबाधप्रयुक्तो गत्यभावस्तुल्यः । श्रुतिरपि प्रमाणान्तरविरुद्धं न प्रतिपादयति ‘आदित्यो यूपः’ इत्यादावान्यपर्यस्थापनादिति भावः । गत्यभावसाम्यमेव प्रकटयति - इच्छा स्यादित्यादिना । धीविशेषात् इच्छा स्यात् - विषयवैलक्षण्यज्ञानात् इच्छा उत्पद्येत । तदनुपजनने - विषयवैलक्षण्यज्ञानस्यानुत्पत्तौ । सा - इच्छा । कर्मभिः - यज्ञादिभिः । न साध्या - विषयवैलक्षण्यज्ञानमन्तरा कर्मभिर्वेदनेच्छा नोत्पादयितुं शक्येत्यर्थः । किञ्च जिज्ञासां प्राप्तुमिच्छोस्तज्ज्ञानं पुरैव इष्टं नन भवति - जिज्ञासाप्राप्त्यर्थं कर्मानुतिष्ठतः पुरुषस्य कर्मानुष्ठानसाध्येच्छाविषयभूतं ज्ञानं कर्मानुष्ठानात्पूर्वमेव इष्टं न भवतीति न । इष्टमेव भवति । फलेच्छाभावे साधनाप्रवृत्त्या ज्ञानेच्छाविषयकेच्छायास्सिद्धत्वात् तदैवेच्छाविषयभूतं ज्ञानमपि इच्छाविषयभूतमिति कर्मानुष्ठानात्पूर्वमेव ज्ञानेच्छावश्यकीति न तदर्थं कर्मानुष्ठेयमित्यर्थः ॥
कुमार-वरदः - 14
- ननु पादेन जिगमिषतीत्यादौ गत्यभावात् सन्प्रयोगस्य धात्वर्थमात्रपरत्वम्, गत्यभावश्चोपलम्भविरोधात् । नहि पादो जिगमिषासाधनम् अपि तु गमनसाधनमेव । अतोऽर्थविरोधात् दृष्टान्ते प्रयोगवैपरीत्यं भवतु नाम ।यज्ञादिभिर्विविदिषन्तीत्यादौ तादृशो न कश्चिदर्थविरोधोऽस्तीति पूर्वपक्ष्यभिप्रायमाशङ्क्य निराकरोति - नन्वित्यादिना असदित्यन्तेन । पूर्वपक्षिणोक्तस्य दृष्टान्ते गत्यभावस्य पक्षेऽपि साम्यं प्रदर्शयति - गत्यभाव इति । साम्यमेव प्रकटयति - इच्छेति । तथा हि ब्रह्मजिज्ञासां प्राप्तुमिच्छोः कर्मानुष्ठानं भवतोच्यते । तन्न, विषयवैलक्षण्यज्ञानमन्तरेण कर्मभिरिच्छाया असाध्यत्वात् । विषयवैलक्षण्यज्ञानार्थं कर्मेति चेत् तर्हि ज्ञानार्थमेव कर्मेत्युक्तं स्यात् । तथा चापसिद्धान्तः, स्ववचनविरोधश्च । कर्मणो जिज्ञासाहेतुत्वस्य स्वोक्तस्यैवोपघातात् । अथवा कर्मानुष्ठानादिच्छा, इच्छया कर्मानुष्ठानमिति वैघट्यम् । वैघट्यमेव विवृणोति - जिज्ञासामिति । जिज्ञासां प्राप्तुमिच्छोः कर्मानुष्ठातुः पुरुषस्य पूर्वमेव ज्ञानमिष्टं न न भवति - इष्टमेव भवतीत्यर्थः । अतो ज्ञानेच्छैव जिज्ञासा सा पूर्वमेव सिद्धा । तां प्राप्तुकामः कर्मानुष्ठाय तां पुनः प्राप्नोतीत्यसङ्गतमेतत् । अयमत्र शब्दान्वयः - जिज्ञासां प्राप्तुमिच्छोः पुरुषस्य ज्ञानं पुरैवेष्टं न न भवति, ज्ञानार्थमेव हि जिज्ञासा प्रार्थ्यते, ज्ञानार्थमित्युक्ते ज्ञानस्याभिलषितत्वं प्रागेव सिद्धम् । ज्ञानाभिलाष एव हि जिज्ञासा । सा पूर्वमेव सिद्धा ॥
मूलम् - 14
- नन्विच्छार्थत्वहानिर्जिगमिषति पदेत्यादिके गत्यभावात्
श्रुत्युक्तेऽस्मिंस्तथा नेत्यसदिह च यतो गत्यभावस्समानः ।
इच्छा स्याद्धीविशेषात्तदनुपजनने कर्मभिस्सा न साध्या
जिज्ञासां प्राप्तुमिच्छोर्न च न भवति तज्ज्ञानमिष्टं पुरैव ॥
विश्वास-प्रस्तुतिः - 15
- नन्वत्रेच्छानुवृत्तिं प्रति विहितमिदं कर्म योज्यं ततः किं
नेच्छार्थं धीविशेषप्रजननमुदितं तावता वारितं स्यात् ।
ज्ञानार्थं कर्मविध्यन्तरमपि विविधं नापलापक्षमं ते
निध्यानन्यायतोऽतस्त्वनुवदति विधेयेष्टतां सन्प्रयोगः ॥
३४-तमाहोबिल-यतिः - 15
- नन्वित्यादि । ननु - पुनराक्षिप्यते । अत्र - ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन’ इत्यादिवाक्ये । इच्छानुवृत्तिं प्रति - यज्ञेन विविदिषन्तीत्यनेन इच्छानुवृत्तिं प्रति पुनः पुनर्वेदनेच्छानुवृत्तिसिद्ध्यर्थम् । इदं कर्म विहितं योज्यम् - इदं यज्ञादिकर्म विहितमिति योज्यम् । अयमाशयः - पूर्वं सामान्यतो ज्ञानं, तेनेच्छा, इच्छातः कर्मानुष्ठानं, कर्मानुष्ठानात् पुनर्विशेषत इच्छा, तस्मादुत्तरोत्तरमिच्छा, ज्ञानानुवृत्तिरित्येवमिच्छानुवृत्त्यर्थं कर्मविधानं न पुनः पूर्वेच्छां प्रतीति । ततः किम् - तावता किमभिमतं लभ्यते । प्रत्युत सिद्धान्तविरोध एवेत्यर्थः । इदं हृदयम् - यावज्जीवमिच्छानुवृत्तिं प्रति कर्मानुष्ठानमपि योज्यञ्चेत् तर्हि विविदिषार्थस्य कर्मणो नित्यानुवृत्तत्वात् अनुष्ठेयस्य कर्मणस्स्वरूपप्रतिपत्त्यर्थं कर्मविचारस्यैव पूर्ववृत्तत्वं सिद्धं भवतीति स्वसिद्धान्तविरोध इति । इच्छार्थमुदितं धीविशेषप्रजननं तावता वारितं न स्यात् - किञ्च इच्छाया विषयवैलक्षण्यज्ञानायत्तत्वात् इच्छार्थमुक्तं ज्ञानविशेषजननं तावता इच्छानुवृत्तिं प्रति कर्मेति कल्पनामात्रेण वारितं न भवेत् । इच्छार्थं तादृशज्ञानपरम्परैव सिध्यति नतु पुनः कर्मैवाव्यवधानेनेच्छाहेतुरिति सिध्यतीति भावः । ज्ञानार्थं विविधं कर्म विध्यन्तरं तेऽपि नापलापक्षमम् - ज्ञानोत्पत्त्यर्थं नानाविधं ‘क्रियावानेष ब्रह्मविदां वरिष्ठः’, ‘कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’, ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’, ‘इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः’ इत्यादिरूपं कर्मणो ज्ञानार्थविध्यन्तरं जगदपलापसमर्थस्य तेऽपि न दुरर्थकल्पनया अपलपितुं योग्यम् । अतस्तु - उक्तोपपादनात् । निध्यानन्यायतः - यथा ‘निदिध्यासितव्यः’ इति ध्याने सन्प्रयोगो विधेयस्य ज्ञानस्येष्टतामाह, न पुनरिच्छाया विधेयत्वं, तद्वदित्यर्थः । सन्प्रयोगः - ‘विविदिषन्ति’ इतीच्छार्थकसन्प्रत्ययप्रयोगः । विधेयेष्टतामनुवदति - विधेयस्य वेदनस्येष्टताम् आनन्दरूपब्रह्मविषयकत्वेन स्वस्यापि सुखरूपत्वादेष्टव्यतां प्रतिपाद्य सार्थक्यमनुभवति । न पुनरिच्छाया विधेयत्वं वदति, तस्या ज्ञानविशेषं विना कर्मासाध्यत्वादिति भावः ॥
कुमार-वरदः - 15
- ननु पूर्वमेव जिज्ञासायां सत्यां कर्मानुष्ठानम्, कर्मानुष्ठाने सति जिज्ञासेत्यन्योन्याश्रयणादिकमुक्तम्, तन्न सम्भवति, विषयविशेषेण ज्ञानभेदात् ।तथाहि पूर्वं सामान्यतो ज्ञानम्, तेनेच्छा, इच्छातः कर्मानुष्ठानम्, कर्मानुष्ठानात् पुनरिच्छाविशेषः, तस्मादुत्तरोत्तरमिच्छाज्ञानानुवृत्तिरिति न कश्चिद्दोष इति पूर्वपक्ष्यभिप्रायमनूद्य परिहरति - नन्विति । अयमत्र शब्दार्थः - इच्छानुवृत्तिं प्रति कर्म विहितं योज्यम् । न पुनः पूर्वेच्छां प्रति । ततः किमित्याह सिद्धान्ती । अयमभिप्रायः - यावज्जीवमिच्छानुवृत्तिं प्रति कर्मानुष्ठानं प्रयोज्यं चेत्, तर्हि विविदिषार्थस्य कर्मणो नित्यानुवृत्तत्वादनुष्ठेयस्य स्वरूपप्रतिपत्त्यर्थं कर्मविचारस्यैव पूर्ववृत्तत्वं सिद्धं भवतीति स्वसिद्धान्तविरोधः । किंचोत्तरोत्तरमिच्छासिद्ध्यर्थं पूर्वमेव धीविशेषप्रजननमुदितं तावता न वारितं स्यादित्याह - नेच्छार्थमिति । अयमर्थः - इच्छातः पूर्वमेव ब्रह्मज्ञानविशेषसद्भावोऽङ्गीकार्य इति तस्य ज्ञानस्य सद्भावः कर्मणेति कर्मविचारस्य पूर्ववृत्तत्वसिद्धिः । अस्तु वा अयं विधिर्विविदिषार्थः, वेदनार्थमपि कर्मविधिरस्तीत्याह - ज्ञानार्थमिति । अस्तु विविदिषार्थमपि कर्मानुष्ठानम्, अथापि ‘क्रियावानेष ब्रह्मविदां वरिष्ठः’, ‘कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’, ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’, ‘इयाज सोऽपि सुबहून्’ इत्यादिभिर्ज्ञानार्थमपि कर्म नापलपितुं शक्यते । ततोऽपि कर्मविचारपूर्ववृत्तत्वं सिद्धं शास्त्रस्य । तर्हि ‘विविदिषन्ति’ इत्यस्य सन्प्रयोगस्य का गतिरित्याशङ्क्य ‘निदिद्यासितव्यः’ इति न्यायमतिदिशति - निद्ध्यानन्यायत इति । अयमर्थः - यथा ‘निदिद्ध्यासितव्यः’ इति ध्याने सन्प्रयोगो विधेयस्य ध्यानस्येष्टतामाह, न पुनरिच्छाया विधेयत्वम् तद्वदत्रापि ‘विविदिषन्ति’ इतीच्छाया न विधेयत्वम् इच्छाविषयत्वेन ज्ञानस्य प्राप्यत्वमुच्यत इति सुसङ्गतमेतत् ॥
मूलम् - 15
- नन्वत्रेच्छानुवृत्तिं प्रति विहितमिदं कर्म योज्यं ततः किं
नेच्छार्थं धीविशेषप्रजननमुदितं तावता वारितं स्यात् ।
ज्ञानार्थं कर्मविध्यन्तरमपि विविधं नापलापक्षमं ते
निध्यानन्यायतोऽतस्त्वनुवदति विधेयेष्टतां सन्प्रयोगः ॥