विश्वास-प्रस्तुतिः - 12
- यज्ञादेरङ्गभावान्न तदनधिकृतेष्वङ्गिनोऽधिक्रिया स्यात्
विद्यैवं नोर्ध्वरेतस्स्विति न बहुविधस्वाश्रमार्हाङ्गतोक्तेः ।
विद्यायोगश्चतुर्णां विधिरपि हि समश्श्रूयते स्मर्यते च
प्रायेणौचित्यभूम्ना मुनिभिरभहितं क्वापि मोक्षाश्रमत्वम् ॥
३४-तमाहोबिल-यतिः - 12
- यज्ञादेरित्यादि । यज्ञादेरङ्गभावात् तदनधिकृतेषु अङ्गिनोऽधिक्रिया न स्यात् - ‘यज्ञेन दानेन’ इत्यादिना यज्ञादेर्ब्रह्मविद्याङ्गत्वेनोपदेशात् यज्ञाद्यनधिकृतेषु यज्ञाद्यनर्हेषु अङ्गिनो विद्याया अधिक्रिया अधिकारो न भवेत् । एवं ऊर्ध्वरेतस्सु विद्या न - उक्तक्रमेण यज्ञाद्यनर्हेषु ऊर्ध्वरेतआश्रमिषु ब्रह्मविद्या न सिध्यतीत्यर्थः । अङ्गवैकल्येऽप्यङ्गिनस्साद्गुण्याभावेन फलसाधनत्वभङ्गादिति भावः । इति न - एवं शङ्कापि न युक्ता । बहुविधस्वाश्रमार्हाङ्गतोक्तेः - बहुविधानां बहूनां साधारणानां सत्यवचनादीनां स्वाश्रममात्रनियतानां जपोपवासभगवदाराधनादीनाञ्च विद्याङ्गत्ववचनात् । तैर्विद्याया अङ्गापेक्षा शाम्यतीति भावः । चतुर्णां विद्यायोगो विधिरपि हि समश्श्रूयते - चतुर्विधानामाश्रमाणां ब्रह्मविद्याधिकारो विधानञ्च तुल्यतया श्रूयते ‘ब्रह्मसंस्थोऽमृतत्वमेति’, ‘ब्रह्मचर्यं समाप्य गही भवेद्गृहाद्वनी भूत्वा प्रव्रजेद्यदि वेतेरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ इत्यादिश्रुत्या प्रतीयते । स्मर्यते च - पराशरादिभिः ‘प्राजापत्यं गृहस्थानां ब्राह्मं सन्न्यासिनां स्मृतम्’ इत्यादिस्मृत्या प्रतिपाद्यते च । प्रायेण औचित्यभूम्ना मुनिभिः क्वापि मोक्षाश्रमत्वमभिहितम् - बहुशः पुत्रकलत्रादिविरोध्यसंवासादिरूपनिवृत्तिमार्गौचित्यातिशयेन सर्वज्ञैर्मुनिभिः चतुर्ष्वाश्रमेषु मोक्षार्हेषु सत्स्वपि सन्न्यासरूपे कुत्रचिदेकस्मिन्नाश्रमे मोक्षाश्रमत्वमभ्यधायि । तथावचनस्यौचित्यमेव हेतुः नत्वाश्रमान्तरे मोक्षाभावप्रतिपादनमिति भावः ॥
कुमार-वरदः - 12
- अत्र व्याख्यातयोरधिकरणयोः प्रासङ्गिकत्वं भाष्य एव व्यक्तमुक्तं ‘स्तुतिप्रसङ्गादवान्तरसङ्गतिविशेषेणार्थद्वयं चिन्तितम्’ इति । एतस्य पुनरधिकरणस्य प्रथमाधिकरणेन सङ्गतिरपि भाष्योपात्ता “विद्यावन्त ऊर्ध्वरेतस आश्रमिणस्सन्तीत्युक्तम् ‘ऊर्ध्वरेतस्सु च शब्दे हि’ इत्यादिभिस्सूत्रैः । इदानीमूर्ध्वरेतसो यज्ञाद्यभावात् तदङ्गिका विद्या न सम्भवतीत्यासङ्क्याह” इति । तदर्थविचारस्तु - किं परिव्राजकानां ब्रह्मविद्यायामधिकारोऽस्ति नेति । किं ‘विविदिषन्ति’ इत्यादिना यज्ञाद्यङ्गिकैव विद्या उताश्रमप्रयुक्तधर्माङ्गिकेति । तदर्थं विचार्यते - किं ‘ब्रह्मसंस्थोऽमृतत्वमेति’, ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ इत्येवमादीनि वाक्यान्यूर्ध्वरेतसो विद्यासम्बन्धं प्रतिपादयन्त्याश्रमप्रयुक्तधर्माङ्गिका विद्येत्यवगमयन्ति नेति । किं कर्मणो विद्योत्पादकत्वं सम्भवति नेति । अत्र पूर्वपक्षशङ्कामनुवदति - यज्ञादेरिति । ‘यज्ञेन दानेन तपसाऽनाशकेन’ इति यज्ञादेर्ब्रह्मविद्याङ्गत्वेनोपदेशाद् यज्ञाद्यनधिकृतेषु ऊर्ध्वरेतस्सु अङ्गिनः उपासनस्याधिकारो न स्यात् । अङ्गवैकल्येऽङ्गिनस्साद्गुण्याभावेन फलसाधनत्वभङ्गादिति । इमं पक्षं प्रतिक्षिपति - नेति । तत्र हेतुमाह - बहुविधेति । अयमर्थः - बहुविधानां सत्यवचनादीनां सामान्यधर्माणां स्वाश्रममात्रनियतानां विशेषधर्माणा़ञ्चाङ्गत्वोक्तेः । किञ्च चतुर्णामाश्रमाणां विद्यायोगस्तत्प्रतिपादको विधिश्च श्रूयते श्रुत्यैव प्रतिपाद्यत इत्यर्थः । न केवलं श्रुतिः, स्मृतिरप्यस्तीत्याह - स्मर्यते चेति । चतुर्णामाश्रमाणां धर्मविधानं हि प्रायेण स्मृतीनां प्रवृत्तिप्रयोजनम् । तेन चतुर्णामप्याश्रमाणां स्वोचितकर्मानुष्ठानेन ब्रह्मविद्यायामधिकारोऽस्ति । ननु तर्हि मोक्षाश्रम इति सन्न्यासाश्रमस्य विशेषतः प्रसिद्धिः कथमुपपद्यत इत्याशङ्क्य परिहरति - प्रायेणेति । अयमर्थः - पुत्रपौत्रादिबहूपप्लवोपप्लुतानां गृहस्थानां तावद् ब्रह्मविद्यायामैकाग्र्यं भज्यते । केषांचित्तु भागधेयवशात् सिध्यत्यैकाग्र्यम् । एवं ब्रह्मचारिवानप्रस्थानामपि च सन्न्यासिवदत्यन्तैकाग्र्याभावात् भज्येत वा नवा ब्रह्मविद्याधिकारः । सन्न्यासिनस्तु परित्यक्तपरिग्रहत्वेन प्रायेण ब्रह्मविद्याधिकारः परिपूर्णस्सम्पत्स्यत इति तस्मिन्नेव मोक्षाश्रमत्वप्रसिद्धिर्योज्यते ॥
मूलम् - 12
- यज्ञादेरङ्गभावान्न तदनधिकृतेष्वङ्गिनोऽधिक्रिया स्यात्
विद्यैवं नोर्ध्वरेतस्स्विति न बहुविधस्वाश्रमार्हाङ्गतोक्तेः ।
विद्यायोगश्चतुर्णां विधिरपि हि समश्श्रूयते स्मर्यते च
प्रायेणौचित्यभूम्ना मुनिभिरभहितं क्वापि मोक्षाश्रमत्वम् ॥