45 पारिप्लवाधिकरणम्

विश्वास-प्रस्तुतिः - 11
  1. विद्यास्वाख्यानभेदा विधिमहिमहृतास्सन्तु पारिप्लवार्थाः
    न स्युर्विद्याविधानैः प्रकरणपठितैरेकवाक्यत्वदृष्टेः ।
    मन्वाद्याख्यानमात्रं भवति च कथितं तत्र पारिप्लवार्थं
    तेनाकाङ्क्षानिवृत्तौ न तदधिकपराख्यानतादर्थ्यकॢप्तिः ॥
३४-तमाहोबिल-यतिः - 11
  1. विद्यास्त्वित्यादि । विद्यासु - कौषीतकिच्छान्दोग्यसद्विद्यादिषु ब्रह्मविद्याप्रकरणेषु । आख्यानभेदाः - ‘प्रतर्दनो हवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम’, ‘श्वेतकेतुर्हारुणेय आस’ इत्यादयः कथाभागविशेषाः । विधिमहिमहृताः - ‘आख्यानानि शंसन्ति’ इति सामान्यशब्दघटितविधिबलेन तादर्थ्यं नीतास्सन्तः । पारिप्लवार्थास्सन्तु - आख्यानशंसनरूपपारिप्लवप्रयोगशेषभूता भवन्तु । न स्युः - तथा न भवेयुः । कुत इति चेत्, प्रकरणपठितैर्विद्याविधानैरेकवाक्यत्वदृष्टेः - तत्तदाख्यानप्रकरणपठितैर्विद्याविशेषविधिवाक्यैरेकार्थाभिधायित्वरूपैकवाक्यत्वदर्शनात् । तत्तत्प्रकरणगतविद्याविध्येकवाक्यत्वेन विद्याविध्यर्थत्वदर्शनान्न पारिप्लवार्थत्वमित्यर्थः । तर्हि पारिप्लवप्रयोगस्य को विषय इत्यत्राह - मन्वाद्याख्यानमात्रमिति । तत्र च - पारिप्लवशंसनविधिप्रकरणे । कथितम् - ‘मनुर्वैवस्वतो राजा’ इत्यादिनोदाहृतम् । मन्वाद्याख्यानमात्रम् - मन्वाद्याख्यानविशेषमात्रम् । पारिप्लवार्थं भवति - पारिप्लवंशसनार्थं भवति, मन्वाद्याख्यानवदितराण्यपि स्युरित्यत्राह - तेनेत्यादि । तेन - मन्वाद्याख्यानेन । आकाङ्क्षानिवृत्तौ - ‘शंसन्ति’ इति विधेर्विषयसिद्ध्या आकाङ्क्षायां निवृत्तायां सत्याम् । तदधिकपराख्यानतादर्थ्यकॢप्तिर्न - तदधिकानां पराख्यानानां तादर्थ्यकॢप्तिः पारिप्लवार्थकल्पनं न युक्तमित्यत्यर्थः ॥
कुमार-वरदः - 11
  1. अत्रापि प्रासङ्गिकी सङ्गतिः । पूर्वस्मिन्नधिकरणे हि रसतमत्वादिवाक्यानां स्तुत्यर्थत्वं पूर्वपक्षीकृत्योपासनपरत्वं स्थापितम् । एवं प्रतर्दनाद्याख्यानानि किं स्तुत्यर्थत्वेन नेयानि उत पारिप्लवार्थत्वेनेति शङ्कयोत्थानात् । तदर्थविचारस्तु ‘प्रतर्दनो हवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम’ ‘श्वेतकेतुर्हारुणेय आस’ इत्याद्याख्यानानि वेदान्तवाक्यस्थानि किं पारिप्लवप्रयोगार्थानि उत विद्याविधानार्थानीति । तदर्थं विचार्यते - किं पारिप्लवे सर्वाख्यानानां विनियोग उत मन्वाद्याख्यानानामेवेति । किं ‘आख्यानानि शंसन्ति’ इति पारिप्लवाख्यानशब्दः सर्वाख्यानपरः उत मन्वाद्याख्यानपर इति । किं ‘मनुर्वैवस्वतो राजा’ इति तत्रैवाख्यानविशेषस्याम्नानमाख्यानशब्दस्य विशेषपरतामवगमयति नेति । अत्र सर्वेषामप्याख्यानानां ‘आख्यानानि शंसन्ति’ इति विधिबलात् पारिप्लवार्थत्वमिति पूर्वपक्षमाशङ्कते - विद्यास्विति । सर्वास्वपि विद्यास्वाख्यानभेदाः ‘प्रतर्दनो हवै’ इत्यादय आख्यानविशेषाः - ‘आख्यानानि शंसन्ति’ इति विधिमहिम्ना परिगृहीताः पारिप्लवार्थास्सन्त्वेवेति । तदिदं प्रतिक्षिपति - न स्युरिति । तत्र हेतुमाह - विद्याविधानैरिति । तत्तदाख्यानप्रकरणपठितैस्तत्तद्विद्याविधानैस्तेषां सर्वेषामाख्यानानामेकवाक्यत्वदृष्टेः पारिप्लवार्थत्वं नास्तीत्यर्थः । नह्यत्र ‘उद्गीथमुपासीत’ इत्युद्गीथसामान्यस्योपासनसम्बन्धप्रतिपादकद्वितीयाश्रुतिवत् सर्वाख्यानानां पारिप्लवसम्बन्धप्रतिपादिका काचित् श्रुतिरस्ति । केवलं प्रकरणमेव विद्यते । तत्पुनः प्रकरणं प्रकृतमाख्यानं पारिप्लवार्थत्वेन नियमयति । तर्हि पारिप्लवार्थमाख्यानशंसनविधानस्य को विषय इत्याशङ्क्याह - मन्वादीति । तत्र कथितं मन्वाद्याख्यानमात्रमेव पारिप्लवार्थं भवत्विति न नैरर्थक्येन विधिभङ्गप्रसङ्गः । ननु प्रकरणान्मन्वाद्याख्यानमस्त्वङ्गम्, अथाप्याख्यानान्तराण्यपि पारिप्लवाङ्गं भवन्त्वित्याशङ्क्य परिहरति - तेनेति । अयमर्थः - पारिप्लवस्य स्वप्रकरणपठितेन मन्वाद्याख्यानेन नैराकाङ्क्ष्यात् प्रतर्दनाद्याख्यानानाञ्च स्ववाक्यपठिततत्तद्ब्रह्मविद्यासमन्वयेन नैराकाङ्क्ष्याच्च सर्वेषामाख्यानानां पारिप्लवे समन्वयकॢप्तिर्निष्प्रमाणिकेति । शब्दार्थस्तु - उक्तेनानेन हेतुना आकाङ्क्षानिवृत्तौ मन्वाद्याख्यानाधिकप्रतर्दनाद्याख्यानानां पारिप्लवार्थत्वकॢप्तिर्न स्यादिति ॥
मूलम् - 11
  1. विद्यास्वाख्यानभेदा विधिमहिमहृतास्सन्तु पारिप्लवार्थाः
    न स्युर्विद्याविधानैः प्रकरणपठितैरेकवाक्यत्वदृष्टेः ।
    मन्वाद्याख्यानमात्रं भवति च कथितं तत्र पारिप्लवार्थं
    तेनाकाङ्क्षानिवृत्तौ न तदधिकपराख्यानतादर्थ्यकॢप्तिः ॥