44 स्तुतिमात्राधिकरणम्

विश्वास-प्रस्तुतिः - 8
  1. जुह्वादिस्तोत्रनीत्या भजतु रसतमाद्युक्तिरङ्गस्तुतित्वं
    मैवं, तत्तद्विधानप्रकरणरहितापूर्वनिर्देशयुक्तेः ।
    तत्तद्दृष्टेर्विधानं विविधमिह समालक्षि चैतत्समीपे
    तेनानन्यार्थशिष्टे फलवति च विधिर्युज्यते कल्प्यमानः ॥
३४-तमाहोबिल-यतिः - 8
  1. जुह्वादीत्यादि । रसतमाद्युक्तिः - छान्दोग्ये ‘स एष रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथः’ इत्यादिषु रसतमाद्युक्तिः । जुह्वादिस्तोत्रनीत्या - ‘इयमेव जुहूः स्वर्गो लोक आहवनीयः’ इत्यादिषु जुह्वादिस्तोत्ररूपत्वकल्पनन्यायेन । अङ्गस्तुतित्वं भजतु - क्रत्वङ्गभूतोद्गीथस्तुतिरूपत्वमेव भजतु । मैवम् - एवं मा शङ्किष्ठाः । तत्तद्विधानप्रकरणरहितापूर्वनिर्देशयुक्तेः - उद्गीथादितत्तत्क्रत्वङ्गविधानप्रकरणरहितस्य अपूर्वनिर्देशस्याप्राप्तार्थनिर्देशस्य युक्तेर्योगात् । यद्युद्गीथादिविधानप्रकरण एवेदं वाक्यं स्यात् तदानीं विहितार्थप्रशंसारूपार्थवादत्वं भजेत । तेन तत्प्रकरणरहितत्वेनापूर्वार्थयोगेन च नार्थवादरूपत्वं युक्तिमदिति भावः । किञ्च इह विविधं तत्तद्दृष्टेर्विधानं एतत्समीपे समालक्षि च - युक्त्यन्तरं चास्ति, एतत्प्रकरणे नानाविधं तत्तद्दृष्टेर्विधानं तत्तद्रूपेण दृष्टेर्विधानम् एतत्समीपे रसतमत्वदृष्टिविधिसमीपे समुपलभ्यते च । तेन - एवमुपपादितेन हेतुना । अनन्यार्थशिष्टे - अन्यस्याङ्गतया विधानरहिते । फलवति च - ‘यदेव विद्यया करोति, तदेव वीर्यवत्तरं भवति’ इति फलवति उद्गीथोपासने । कल्प्यमानो विधिर्युज्यते - विधिरेव युक्तः, न पुनरर्थवादत्वम् । पर्णमयत्वादिकं त्वन्यार्थशिष्टं फलसाधनताप्रतिपादकविभक्त्यभावात् फलशून्यञ्च, तस्मात् तत्र न विधिः किन्त्वर्थवादत्वमेवेति प्रागेवोक्तमिति भावः ॥
कुमार-वरदः - 8
  1. पूर्वं हि ब्रह्मसंस्थस्य स्तुत्यर्थमनूदितत्वं पूर्वपक्षीकृत्याश्रमद्वयस्य विधिरेव प्रत्यपादि । एवमधुना पुनस्स्तुतिप्रसङ्गात् रसतमत्वप्रतिपादकवाक्यानि स्तुतिपराणि अथवा नेति शङ्कया पूर्वपक्षोत्थानमिति अस्याधिकरणस्य प्रासङ्गिकी सङ्गतिः । ननु पूर्वमेवायमुद्गीथप्रसङ्गः कृतः किमर्थं पुनरुच्यते इत्याशङ्क्य भाष्यकारैरेवोद्गीथविषयाधिकरणयोः प्रयोजनभेदेन वैषम्यमुक्तम् ‘अत्र प्रतिपादितमुपासनपरत्वमङ्गीकृत्योपासनस्य पुरुषार्थत्वेन क्रतुषूपादानानियम उक्तः’ इति । अयमर्थः - अत्रोपासनपरत्वे तात्पर्यं, पूर्वत्र क्रतुषूपादानानियमे तात्पर्यमिति । तदर्थविचारस्तु, स एष रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथः इत्येवञ्जातीयकानि वाक्यानि किं सामावयवभूतोद्गीथादिस्तुतिमात्रपराणि उतोद्गीथादिषु रसतमत्वदृष्टिविधिपराणीति । तदर्थं विचार्यते - किं पदानामेषामर्थवादत्वसमाश्रयणं न्याय्यम् उत विधिपरत्वम् । अत्रापूर्वत्वं किं विधित्वमवगमयति नेति । अत्र पूर्वपक्षमाह - जुह्वादीति । इयमेव जुहूस्स्वर्गो लोक आह्वनीयः इति जुह्वादिस्तोत्रवद् रसतमाद्युक्तिरपि यज्ञाङ्गभूतोद्गीथादिस्तुतित्वमेव भजतु । पूर्वपक्षं निराकरोति - मैवमिति । निराकरणमेव विवृणोति - तत्तदिति । यद्युद्गीथादिविधानप्रकरण एवेदं वाक्यं स्यात् तदानीं विहितार्थप्रशंसारूपार्थवादत्वं भजेत । तेन तत्प्रकरणरहितत्वेनार्थवादत्वं न भजेत । किञ्च अत्र अपूर्वार्थकथनमस्ति, तस्मात् अप्राप्ते शास्त्रमर्थवत् इति न्यायेन उपासनविधित्वमङ्गीकार्यमित्यर्थः । किञ्चैतद्वाक्यसमीप एव तत्तद्दृष्टेर्विधानञ्च दृश्यते, नैवं जुह्वादिवाक्ये, अनारभ्याधीतत्वात् । तस्मादनन्यार्थशिष्टेऽन्यस्याङ्गतया विधानरहिते ‘यदेव विद्यया करोति, तदेव वीर्यवत्तरम्’ इति फलवत्युद्गीथोपासने कल्प्यमानो विधिरेव युज्यते न पुनरर्थवादत्वम् । पर्णमयत्वादिकं त्वन्यार्थशिष्टं फलसाधनत्वप्रतिपादकविभक्त्यभावाच्च फलशून्यं, तस्मात्तत्र न विधिरिति प्रागेवोक्तमिति भावः ॥
मूलम् - 8
  1. जुह्वादिस्तोत्रनीत्या भजतु रसतमाद्युक्तिरङ्गस्तुतित्वं
    मैवं, तत्तद्विधानप्रकरणरहितापूर्वनिर्देशयुक्तेः ।
    तत्तद्दृष्टेर्विधानं विविधमिह समालक्षि चैतत्समीपे
    तेनानन्यार्थशिष्टे फलवति च विधिर्युज्यते कल्प्यमानः ॥
विश्वास-प्रस्तुतिः - 9
  1. किञ्च प्राप्तेरभावान्न तदनुवदनं नाधिरोप्य स्तुतिर्वा
    युक्ता विध्येकवाक्ये गतिरियमगतेस्सात्र नासक्तिहानेः ।
    उत्कर्षः कल्प्यते चेदगतिकविषये तत्प्रसह्य प्रसह्यं
    मध्ये विद्याविधीनां वचनमिदमिति स्यात्तु विद्यार्थमेतत् ॥
३४-तमाहोबिल-यतिः - 9
  1. किञ्चेत्यादि । किञ्च - पुनर्युक्त्यन्तरमुच्यते । प्राप्तेरभावात् तदनुवदनं न - युक्तेत्युपरितनस्य पदस्य लिङ्गविपरिणामेनानुकर्षः । रसतमत्वादीनामन्यत्र विधानाभावात् तदनुवादत्वं न युक्तम् । अन्यत्र विहितस्य ह्यन्यत्रानुवाद इत्यर्थः । अधिरोप्यस्तुतिर्वा न युक्ता - अन्यत्राधिरोप्यस्य रसतमत्वादेः स्तुतिर्वा न युक्ता । अन्यत्र विधानाभावादेव । अन्यत्र विहितस्य हि स्तुतिर्वा भवति तदभावात् स्तुतिरपि न युक्तेत्यर्थः । विध्येकवाक्ये अगतेरियं गतिः - विधिना एकत्वेन प्रतिपन्न एव वाक्ये अगत्या इयं तत्प्रशंसारूपत्वरूपार्थवादत्वगतिर्युक्ता । आसक्तिहानेः - विध्यासक्त्याभावात् । सा - अर्थवादरूपता । अत्र - रसतमत्वादिदृष्टिविधाने । न - न सम्भवति । उत्कर्षः कल्प्यते चेत् - अत्र विध्यभावेऽपि यत्र विधिरस्त्यन्यत्र तत्रेदं वाक्यमुत्कृष्य स्तुतिपरत्वेन नेयमिति चेत् । तत् - उत्कर्षकल्पनम् । अगतिकविषये - गत्यन्तरशून्यविषये । प्रसह्य - बलात्कारेण । प्रसह्यम् - सोढव्यम् । अत्र पुना रसतमत्वाद्यपूर्वार्थदृष्टिविधानेन गत्यन्तरसद्भावान्नोत्कर्षसम्भव इति भावः । किञ्च विद्याविधीनां मध्ये - अधश्चोपरि च विद्याविधीनां मध्ये । इदं वचनम् - रसतमत्वादिदृष्टिविधिवचनम् । इति - एवं पूर्वोत्तरः प्रकरणस्यापि विद्यापरत्वाद्धेतोः । एतत् - रसतमत्वादिवाक्यमपि । विद्यार्थं तु स्यात् - तथा उपासनार्थमेव भवेत् ॥
कुमार-वरदः - 9
  1. उक्तमेव विधिपरत्वं विशदप्रतिपत्त्यर्थं युक्तिभिः प्रतिष्ठापयति - किञ्चेति । अयमर्थः - विधिपरत्वं नास्तीति वदता किमत्रानुवादत्वमेवोच्यते उत विधेयस्तुतिपरत्वं, उभयमपि नास्ति - प्राप्तेरभावात् । पूर्वमेव रसतमत्वादिविशिष्टविधाने सत्येव ह्यत्रानुवादत्वं कल्पयितुं शक्येत । तथै(दै?)व स्तुतिमात्रत्वमपि कल्पयितुं शक्येत । अत्र तु प्राप्तेरभावादुभयमपि कल्पयितुं न शक्यते । नाधिरोप्यस्तुतिर्वा अन्यत्राधिरोप्यस्य रसतमत्वादेस्स्तुतिश्च न भवतीति । ननु तत्रतत्रोभयपरिकल्पनमपि दृश्यते तत्किमत्र नाश्रीयत इत्याशङ्क्याह - युक्तेति । ‘विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः’ इति न्यायानुसारेण विध्येकवाक्यत्वे प्रतिपन्ने सत्येवागत्या गतिरियं युक्ता । सा गतिरत्र रसतमत्वादि दृष्टिविधायकवाक्ये नास्ति, आसक्तिहानेः विध्यासक्तिहानेः विध्येकवाक्यत्वप्रसङ्गाभावादित्यर्थः । नन्वत्र विध्यासक्त्यभावेऽपि यत्र विधिरस्त्यन्यत्र तत्रेदं वाक्यमुत्कृष्य स्तुतिपरत्वेन नेयमिति चेत्, तदपि नेत्याह - अगतिकविषये तत्प्रसह्य प्रसह्यमिति । उत्कर्षकल्पनं हि गतिशून्यविषय एव बलादङ्गीकरणीयम् । अत्र पुनरस्ति गतिः, अपूर्वार्थविषयस्य रसतमत्वादिदृष्टिविधानस्योपपादनादित्यर्थः । किञ्च बहूनां विधीनां मध्य एव रसतमत्वादिदृष्टिप्रतिपादनपरमिदं वाक्यं पठ्यते, तेन समभिव्याहारसामर्थ्यादस्य वाक्यस्य विधिपरत्वमेव न्याय्यमित्याह - मध्य इति ॥
मूलम् - 9
  1. किञ्च प्राप्तेरभावान्न तदनुवदनं नाधिरोप्य स्तुतिर्वा
    युक्ता विध्येकवाक्ये गतिरियमगतेस्सात्र नासक्तिहानेः ।
    उत्कर्षः कल्प्यते चेदगतिकविषये तत्प्रसह्य प्रसह्यं
    मध्ये विद्याविधीनां वचनमिदमिति स्यात्तु विद्यार्थमेतत् ॥
विश्वास-प्रस्तुतिः - 10
  1. विद्यार्थत्वेऽपि युक्ता स्तुतिरियमसतः कीर्तनादित्ययुक्तं
    दृष्ट्युद्देशेऽतिचारादथ च विशयनं स्यादिति त्वर्भकोक्तिः ।
    नित्येऽस्मिन्ह्यप्रमाणं प्रसजति निगमो युक्तिवार्यत्वपक्षे
    त्वित्थम्भावे बुभुत्स्ये वच इह फलवद् दृष्टिविध्यर्थमेव ॥
३४-तमाहोबिल-यतिः - 10
  1. विद्यार्थत्वेऽपीत्यादि । विद्यार्थत्वेऽपि असतः कीर्तनादियं स्तुतिर्युक्ता - भवदुक्तरीत्या विद्यार्थत्वेऽपि अविद्यमानार्थकथनात् इयं स्तुतिरित्युचिता । अविद्यमानार्थकथनं हि स्तुतिरित्युच्यत इति भावः । इत्ययुक्तम् - इति शङ्कनमयुक्तम् । दृष्ट्युद्देशेऽतिचारात् - ‘गरुडमात्मानं ध्यायेत्’ इत्यादिदृष्टिविधौ अविद्यमानार्थकथनरूपत्वसत्त्वेऽपि स्तुतिरूपत्वाभावेन व्यभिचारात् । अथ च विशयनं स्यादिति त्वर्भकोक्तिः - अविद्यमानकीर्तनरूपत्वयुक्तेर्व्यभिचारेऽपि सन्देह एव स्यात्, व्यभिचारो हि विवक्षितार्थासाधकत्वेन सन्देहमेवावहति तेन रसतमादिवाक्यं विधिर्वा स्तुतिर्वेति सन्देह एव स्यात्, इति पूर्वपक्षिवाक्यं बालभाषितमित्यर्थः । अस्मिन् नित्ये निगमः अप्रमाणं हि प्रसजति - अस्मिन् संशये नित्ये नियामकविशेषदर्शनानन्तरमपि सर्वदासम्भावितत्वेनाङ्गीकृते वेदः अप्रमाणं भवेत् । नित्यस्य संशयस्य सर्वत्रापि सुलभत्वादिति भावः । युक्तिवार्यत्वपक्षे तु - संशयस्य विशेषदर्शनादियुक्तिवार्यत्वरूपद्वितीयपक्षे तु । इत्थम्भावे बुभुत्स्ये - ‘इतिकर्तव्यताभागं मीमांसा पूरयिष्यति’ इति वचनात् प्रमाणवाक्यस्य न्यायपर्यालोचनारूपेतिकर्तव्यतायामपेक्षितायाम् । इह - उदाहृतप्रकरणे । फलवद्वचः - ‘यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति’ इति फलयुक्तविषयकमिदं रसतमादिदृष्टिवचनम् । दृष्टिविध्यर्थमेव - रसतमत्वादिदृष्टिविध्यर्थमेव भवेत् । फलवदप्राप्तार्थवचनस्य विध्यर्थत्वमेव हि न्यायवित्सम्मतमिति भावः ॥
कुमार-वरदः - 10
  1. अत्र पूर्वपक्ष्यभिप्रेतामाभासयुक्तिमनूद्य प्रतिक्षिपति - विद्यार्थत्व इति । ‘स एष रसानां रसतमः’ इत्यादिवाक्यस्य विद्यार्थत्वमेव न पुनस्स्तुतित्वमिति हि भवतोक्तम् । तन्न युज्यते, विद्यार्थत्वेऽपि स्तुतिपरत्वं युक्तमेव, अविद्यमानस्यैव रसतमत्वादेर्दृष्ट्यर्थमत्राभिधानात् । अतस्स्तुतिपरमेवेदं वाक्यमविद्यमानर्थकथनादिति पूर्वपक्षिणोऽभिप्रायः । तदिदमयुक्तमित्याह - अयुक्तमिति । तत्र हेतुमाह - दृष्ट्युद्देशेऽतिचारादिति दृष्टिविधिषु व्यभिचारादित्यर्थः । गरुडमात्मानं जानीयादित्यादिषु दृष्टिविधिष्वसतः कीर्तनमस्त्येव, अथापि विधिपरत्वमङ्गीक्रियते, तेन यदसतः कीर्तनं तद्विधिपरं न भवतीति नियमाभावाद् व्यभिचरितमेवेदमिति । नन्वसतः कीर्तनादिति युक्तेर्व्यभिचारेऽपि सन्देह एव स्यात्, व्यभिचारे हि विवक्षितार्थासाधकत्वेन सन्देहामेवावहति तेन रसतमत्वादिवाक्यं विधिर्वा स्तुतिर्वा भवत्विति सन्देह एव स्यादिति पूर्वपक्षिवाक्यं बालभाषितमेवेत्याह अथ चेति । बालभाषितत्वं प्रकटयति - नित्य इति । अत्रायं विकल्पः - किं नित्यमेव संशयस्स्यादिति भवतोच्यते, किं वा यावन्नियामकविशेषादर्शनमिति । पूर्वत्र वेदाप्रामाण्यमेव स्यादित्याह - नित्य इति । नियामकदर्शनेऽपि नित्यस्य संशयस्य सुलभत्वात् । अस्तु संशयः, स च संशयः विशेषदर्शनादियुक्तिवार्य इति द्वितीयपक्षेऽपि दोषमाह - युक्तीति । इत्थम्भावे बुभुत्स्ये - प्रमाणवाक्यस्येत्थम्भावो न्यायपर्यालोचनमेव ‘इतिकर्तव्यताभागं मीमांसा पूरयिष्यति’ इतिवचनात्, अत्र वाक्यानुग्राहकन्याये निरूपयितुमभिलषिते सति वच इह फलवत् ‘यदेव विद्यया’ इति फलवत्त्वेन प्रतिपन्नं रसतमत्वादिवचो रसतमत्वादिदृष्टिविध्यर्थमेव भवति न पुनस्स्तुतिमात्रम् । अयमर्थः - न्यायानुगृहीतवाक्यपर्यालोचनाक्षमाणां नोत्तरमेव देयम् । तत्पर्यालोचनक्षमाणां तु रसतमत्वादिवाक्यं रसतमत्वादिदृष्टिविधानार्थमेवेति सिद्धं भवति । अयमत्र शब्दान्वयः - विद्यार्थत्वेऽपि अविद्यमानार्थकीर्तनात् स्तुतिरेव युक्तेत्ययुक्तम् । असतः कीर्तनादिति हेतोर्गरुडमात्मानं जानीयादित्यादिदृष्टिविधौ स्तुतिमात्रत्वव्यभिचारात् । तर्हि स्तुतिर्वा विधिर्वेति संशयस्स्यादिति बालभाषितं वैदिकार्थे नित्यसंशयाङ्गीकारे वेदाप्रामाण्यमेव स्यात् । विशेषदर्शनात् संशयनिवृत्त्यङ्गीकारे त्वत्रापि विशेषदर्शनमस्ति । विधित्वनियामकयुक्तीनां बह्वीनां वाक्यार्थनिर्णयेतिकर्तव्यतारूपाणामत्र विद्यमानत्वादिति । तेन विधित्वमेव न पुनस्स्तुतिमात्रत्वमित्यर्थः ॥
मूलम् - 10
  1. विद्यार्थत्वेऽपि युक्ता स्तुतिरियमसतः कीर्तनादित्ययुक्तं
    दृष्ट्युद्देशेऽतिचारादथ च विशयनं स्यादिति त्वर्भकोक्तिः ।
    नित्येऽस्मिन्ह्यप्रमाणं प्रसजति निगमो युक्तिवार्यत्वपक्षे
    त्वित्थम्भावे बुभुत्स्ये वच इह फलवद् दृष्टिविध्यर्थमेव ॥