विश्वास-प्रस्तुतिः - 3
- कर्तात्मा कर्मणां यस्तदधिकमिह न ब्रह्म तस्मान्मखादौ
तद्बुद्ध्यैवोपयुक्तास्स्युरुपनिषद इत्यज्ञमीमांसकोक्तौ ।
जीवान्यब्रह्मचिन्तात्मकभजनविधौ कर्मणामङ्गभावं
प्राह क्षिप्तान्यलिङ्गः कलुषशमनतस्सत्त्वसंवर्धकानाम् ॥
३४-तमाहोबिल-यतिः - 3
- कर्तात्मेत्यादि । य आत्मा कर्मणां कर्ता - यो जीवात्मा कर्मणां कर्तृत्वेन प्रसिद्धः । तदधिकं ब्रह्म - तस्मादधिकं ब्रह्म । इह न - वेदान्ते नास्ति । तस्मात्, मखादौ - यज्ञादौ । तद्बुद्ध्यैव - कर्मकर्तृभूतजीवस्वरूपज्ञानेनैव । उपनिषदः - वेदान्तभागास्सर्वे । उपयुक्तास्स्युरिति - उपकुर्वन्तीति ।अज्ञमीमांसकोक्तौ - वेदहृदयानभिज्ञमीमांसकोक्तौ सत्याम् । क्षिप्तान्यलिङ्गः - प्रतिक्षिप्तजीवलिङ्गः । जीवान्यब्रह्मचिन्तात्मकभजनविधौ - ‘पृथगात्मानं प्रेरितारञ्च मत्वा’ इत्यादिश्रुत्यनुसारेण जीवभिन्नब्रह्मविषयकनिरन्तरध्यानात्मकभक्त्यनुष्ठाने । कलुषशमनतः - अन्तःकरणनैर्मल्यापादनद्वारेण । सत्त्वसंवर्धकानाम् - सत्त्वगुणवृद्धिहेतुभूतानाम् । कर्मणाम् - पूर्वश्लोकोत्तरार्धेन प्रतिपादितानां नित्यनैमित्तिकादिवर्णाश्रमधर्माणाम् । अङ्गभावं प्राह - प्रतिपादयामास । सूत्रकार इति शेषः ॥
कुमार-वरदः - 3
- अत्र पादसङ्गतिर्भाष्ये ‘गुणोपसंहारानुपसंहारफला विद्यैकत्वनानात्वचिन्ता कृता । इदानीं विद्यातः पुरुषार्थ उत विद्याङ्गकात्कर्मण इति चिन्त्यते’ इति । अनेन पूर्वपादे विद्याचिन्ता, अस्मिन्पादे विद्याङ्गचिन्तेति विभागः प्रदर्शितः । अत्र प्रथमाधिकरणे कर्मणामङ्गत्वसिद्ध्यर्थं विद्याया अङ्गित्वं प्रसाध्यत इति प्रथमाधिकरणस्यास्मिन्पादे प्राथम्यसिद्धिः । किञ्च गुणोपसंहारान्तिमाधिकरणे उद्गीथविद्यायाः पृथक्फलत्वेन पुरुषार्थसाधकत्वमुक्तम्, अधुना ब्रह्मविद्यायाः फलवत्त्वेन पुरुषार्थसाधकत्वं साध्यत इति च सङ्गतिरधिकरणस्य । तदर्थविचारस्तु - किं विद्यातः पुरुषार्थ उत विद्याङ्गकात् कर्मण इति । तदर्थं विचार्यते - किं विद्या क्रतुकर्तृभूतात्मसंस्कारमुखेन क्रत्वर्थभूता आहोस्विदपुनरावृत्तिसाधनतया पुरुषार्थेति । किं ‘ब्रह्मविदाप्नोति परम्’ ‘तमेवं विदित्वातिमृत्युमेति’ इत्यादिवेदान्ताः फलविधय उत फलार्थवादाः । किं परविद्यासु कर्मतया प्रतीयमान आत्मा जीवात्मा, उत तदतिरिक्तः परमात्मेति । किं ‘यक्ष्यमाणो हवै भगवन्तोऽहमस्मि’ इत्याचारदर्शनादिलिङ्गानुगृहीतं तत्त्वमस्यादिसामानाधिकरण्यमुपास्यस्य जीवात्मत्वमवगमयति नेति । किमिदं लिङ्गमनैकान्तिकं नेति । अत्र पूर्वपक्षमनुवदति - कर्तेति । यः कर्मणां कर्ता जीवः, तस्मादधिकं ब्रह्म नास्त्येव । तस्मान्मखादौ यज्ञादौ उपनिषदस्तद्बुद्ध्यैवोपयुक्ताः जीवस्वरूपपरिज्ञानेनैवोपकुर्वन्ति । इत्यज्ञमीमांसकोक्ताविति पूर्वपक्षमनूद्य सिद्धान्तमाह - जीवान्येति । जीवव्यत्तिरिक्तब्रह्मचिन्तात्मकभजनविधौ कर्मणामङ्गभावं प्राह । ननु जीवपरत्वे सप्रमाणे कथं ब्रह्मपरत्वमुपनिषदामित्यत्राह - क्षिप्तान्यलिङ्ग इति । प्रतिक्षिप्तजीवलिङ्ग इत्यर्थः । यानि जीवलिङ्गानि प्रतिभान्ति तानि प्रतिभासमात्रसिद्धत्वान्न तत्त्वानीत्यर्थः । कीदृशानां कर्मणां ब्रह्मविद्यायामङ्गभाव इत्याशङ्क्याह - सत्त्वसंवर्धकानामिति । केन प्रकारेणेत्यत्राह - कलुषशमनत इति । अयमत्रान्वयः - सत्त्वसंवर्धकानां फलसङ्गकर्तृत्वादिविधुराणां कलुषशमनतः अन्तःकरणनैर्मल्यापादनद्वारेण सत्त्वसंवर्धनेन ब्रह्मविद्यायामङ्गत्वं भवति । विमलकर्मानुष्ठानेन निर्मलीकृतमनसां ब्रह्मविद्ययैवापवर्गप्राप्तिरिति विद्यायाः पुरुषार्थत्वमेवेति ॥
मूलम् - 3
- कर्तात्मा कर्मणां यस्तदधिकमिह न ब्रह्म तस्मान्मखादौ
तद्बुद्ध्यैवोपयुक्तास्स्युरुपनिषद इत्यज्ञमीमांसकोक्तौ ।
जीवान्यब्रह्मचिन्तात्मकभजनविधौ कर्मणामङ्गभावं
प्राह क्षिप्तान्यलिङ्गः कलुषशमनतस्सत्त्वसंवर्धकानाम् ॥
विश्वास-प्रस्तुतिः - 4
- पादैरत्रैवमेकादशभिरपि परं ब्रह्म वेद्यं निरूढं
भूयः किं क्षुद्रलिङ्गैर्गगनलिपिसमैः क्षोभ्यते ब्रह्मविद्या ।
सत्यं, तत्तादृगल्पश्रुतमतिकलहत्रासितच्छात्रडिम्भ-
स्तोमक्षेमाय जैमिन्यहृदयकथितं पक्षमुत्क्षिप्य हन्ति ॥
३४-तमाहोबिल-यतिः - 4
- पादैरित्यादि । अत्र - शारीरकशास्त्रे । एवम् - उपपादितक्रमेण । एकादशभिरपि पादैः - समुच्चितैरेकादशभिः पादैः । परं ब्रह्म - सर्वोत्कृष्टं ब्रह्म । वेद्यं निरूढम् - वेदान्तवेद्यतया सम्प्रतिष्ठापितम् । भूयः - पुनरपि । गगनलिपिसमैः - आकाशाक्षरतुल्यैः, असत्स्वरूपैरित्यर्थः । क्षुद्रलिङ्गैः - फल्गुहेतुभिः । ब्रह्मविद्या किं क्षोभ्यते - कुतः क्षोभ्यते । ब्रह्मप्रतिष्ठापनस्य च बहुमुखेन कृतत्वात् हेतूनाञ्चात्यन्तफल्गुरूपत्वात् पुनर्विचारणं विफलमिति भावः । सत्यम् - अर्धमङ्गीकृतम् । तत्तादृगल्पश्रुतमतिकलहत्रासितच्छात्रडिम्भस्तोमक्षोमाय - तत्तादृशां त एव तादृशो येषां त इति वा ते च तादृशश्चेति वा समासः । उभयथा निरुपमस्वभावा इत्यर्थः । अन्यादृशदुष्टस्वभावानां अल्पश्रुतानां किञ्चिज्ज्ञानां मतिकलहैर्बुद्धिकृतैर्विवादैस्त्रासिता ये छात्रडिम्भा बालान्तेवासिनस्तेषां स्तोमो वर्गस्तस्य क्षेमाय शङ्कालेशशून्यस्थिरप्रतिष्ठिततत्त्वज्ञानलाभाय । जैमिन्यहृदयकथितम् - ‘परं जैमिनिर्मुख्यत्वात्’ इत्यादिभिर्जीवभिन्नपरब्रह्मवादित्वेन प्रसिद्धेन जैमिनिना अहृदयेन प्रतीयमानार्थतात्पर्यं विनैव कर्मश्रद्धासंवर्धनरूपतात्पर्यान्तरेण जल्पितम् । पक्षम् - अनीश्वरपक्षम् । उत्क्षिप्य - पूर्वपक्षीकृत्य । हन्ति - निरस्यतीत्यर्थः ॥
कुमार-वरदः - 4
- अत्र कश्चिच्चोदयति - एवमेकादशभिः पादैः परं ब्रह्मैव परतत्त्वमिति प्रसाधितं कथमस्मिन्नधिकरणे जीवस्यैवोपनिषत्प्रतिपाद्यत्वशङ्केति । तदिदमाह - पादैरिति । अयमत्रान्वयः - अत्रैकादशभिः पादैः परं ब्रह्मैव वेद्यतया निरूढं प्रसिद्धम् । भूयः कथं गगनलिपिसमैः आकाशाक्षरसन्निभैः क्षुद्रलिङ्गैराभासहेतुभिर्ब्रह्मविद्या क्षोभ्यत इति । तत्रार्धाङ्गीकारेणोत्तरमाह - सत्यमिति । उक्तार्थस्य सत्यत्वेनाङ्गीकारः, अथापि बालबुद्धीनां विकटविद्वत्क्षोभितानां सङ्क्षोभणप्रशमनेन संरक्षणार्थं वक्तव्यशेषोऽस्तीत्यर्धांशेनानङ्गीकारः । अयमर्थः - धूर्तोक्तीनां तावन्निश्शेषनिराकरणं कर्तव्यमेव, किञ्च बादरायणशिष्यतल्लजस्य जैमिनेर्ब्रह्मनिराकरणमत्यन्तानिष्टमित्युक्तं भवति ॥
मूलम् - 4
- पादैरत्रैवमेकादशभिरपि परं ब्रह्म वेद्यं निरूढं
भूयः किं क्षुद्रलिङ्गैर्गगनलिपिसमैः क्षोभ्यते ब्रह्मविद्या ।
सत्यं, तत्तादृगल्पश्रुतमतिकलहत्रासितच्छात्रडिम्भ-
स्तोमक्षेमाय जैमिन्यहृदयकथितं पक्षमुत्क्षिप्य हन्ति ॥
विश्वास-प्रस्तुतिः - 5
- कुर्वन्नेवेति वाक्यं परविदि नियताचारतोक्तिस्सहैवा-
न्वारम्भो धीक्रियाभ्यामपि न नियमयेदङ्गतामङ्गितां वा ।
विद्यापूर्वं क्रियाणां करणमनुवदद्वाक्यमन्यार्थमुक्तं
न ह्येतद् ब्रह्मविद्यामनुवदति न चोद्गीथविद्या क्रियाङ्गम् ॥
३४-तमाहोबिल-यतिः - 5
- कुर्वन्नेवेतीत्यादि । कुर्वन्नेवेतिवाक्यम् - ईशावास्योपनिषदि ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ इत्यादिवाक्यम् । परविदि - ब्रह्मविदि । नियताचारतोक्तेः - ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इत्यादिरीत्या नियतवर्णाश्रमाचारत्वप्रतिपादनाद्धेतोर्भवति । ब्रह्मविदां विद्याविवृद्ध्यर्थसत्त्ववर्धकनित्यनैमित्तिकाद्याचारनियमावश्यकत्वप्रतिपादनार्थं तथोक्तिः, नतु विद्यायाः कर्माङ्गत्वप्रतिपादनार्थमित्यर्थः । धीक्रियाभ्याम् - विद्याकर्मभ्याम् । सहैव - एकदैव । अन्वारम्भोऽपि - ‘तं विद्याकर्मणी समन्वारभेते’ इत्यादिप्रतिपन्नस्सम्बाधोऽपि । अङ्गताम् - विद्यायाः कर्माङ्गताम् । अङ्गितां वा - कर्माङ्गितां वा । न नियमयेत् - नोपपादयेत् । शक्त्यभावादिति भावः । अङ्गत्वमङ्गित्वं वा प्रमाणान्तरावसेयमेव तथा च ‘कर्मणैव हि संसिद्धिम्’ इत्याद्यनेकप्रमाणेन कर्मण एव विद्याङ्गत्वं सिध्यतीति हृदयम् । विद्यापूर्वं - विद्याग्रहणपूर्वकम् । क्रियाणाम् - गार्हस्थ्यधर्माणाम् । करणम् - आचरणम् ।अनुवदत् - प्रतिपादयत् । वाक्यम् - ‘आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्त्य कुटुम्बे शुचौ देशे’ इत्यादिवाक्यम् । अन्यार्थमुक्तम् - उक्तवाक्यघटकस्य कर्माङ्गत्वेन विद्यासमर्पकतया भवदभिमतस्य अधीत्येतिपदस्य ‘अध्ययनमात्रवतः’ इति सूत्रेण केवलाक्षरराशिग्रहणमात्रपरत्वमुक्तम् । एतत् - पूर्वोदाहृतवाक्यघटकं वेदमधीत्येतिपदम् । ब्रह्मविद्यां नानुवदति हि - अध्ययनस्यार्थज्ञानपर्यन्तत्वेऽपि विद्याया अर्थज्ञानातिरिक्तत्वेन ब्रह्मविद्यामनुवदितुं क्षमं न भवति हि । उद्गीथविद्या च क्रियाङ्गं न - ‘तन्निर्धारण’ इत्याद्यधिकरणेन ‘अङ्गेषु’ इत्याद्यधिकरणेन च उद्गीथोपासनस्य पुरुषार्थत्वस्थापनेनाङ्गत्वनिरासात् उद्गीथोपासनं क्रियाङ्गं न भवति ॥
कुमार-वरदः - 5
- अत्र विद्यायाः कर्माङ्गत्वे पूर्वपक्ष्यभिप्रेतानि लिङ्गान्यनुक्रमेणानूद्य निराकरोति - कुर्वन्नेवेत्यादिना । अयमर्थः - ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ इति कर्मणः प्राधान्यं वदति, तेन ब्रह्मविद्या कर्माङ्गमिति तावदेकं चोद्यमन्यथासिद्धम् । तद्वाक्यं ब्रह्मविदः कर्म कर्तव्यमेवेत्याह न पुनर्विद्यायाः कर्माङ्गत्वं तत्साधकविशेषलिङ्गाभावात्, तेनेदं वाक्यं ब्रह्मविदि नियताचारतोक्तिरेव । हेत्वन्तरमप्यनूद्य निराकरोति - अन्वारम्भ इति । ‘तं विद्याकर्मणी समन्वारभेते’ इति विद्याकर्मणोर्ब्रह्मविदि नियतान्वयवचनात् ब्रह्मविद्या कर्माङ्गमिति । तदपि न - तत्र विद्याकर्मणोस्साहित्यमेवोच्यते, न पुनर्विद्याया अङ्गत्वम्, नापि च कर्मणोऽङ्गित्वम्, साहित्ये सति यथाप्रमाणं विद्या वा कर्म वा अङ्गित्वमश्नुवीत, अत्र पुनः ‘यज्ञेन दानेन’ ‘कर्मणैव हि संसिद्धिम्’ ‘इयाज सोऽपि सुबहून्’ इति प्रमाणकोटिसहस्रानुसारेण कर्मैव विद्याङ्गम्, न पुनर्विद्या कर्माङ्गमिति । धीक्रियाभ्यां सहैवान्वारम्भो ज्ञानकर्मणोरङ्गतां वा अङ्गितां वा न नियमयेदिति शब्दान्वयः । परवाद्यबिमतं तृतीयमपि हेतुं निराकरोति - विद्यापूर्वमिति । ‘यो वा एतदक्षरं गार्ग्यविदित्वा’ इति विद्यारहितं कर्म निराकृत्य ‘यो विदित्वा’ इति विद्यापूर्वं कर्मानूद्य ‘स ब्राह्मणः’ इति ब्राह्मणत्वप्राप्तिरूपफलोपदेशात् विद्या कर्माङ्गमिति । एतच्च वाक्यं ब्रह्मविद्याङ्गकर्म ब्रह्मज्ञानपूर्वकमेव कर्तव्यमिति वदति, न पुनर्ब्रह्मविद्यायाः कर्माङ्गत्वं वदतीति तत्रतत्रोक्तम् । तदेव विवृणोति - न ह्येतदिति । ‘यो वा एतदक्षरं गार्गि विदित्वा’ इत्यत्रानुष्ठानोपयुक्तं वेदान्तजन्यं ज्ञानमेवोच्यते तेनैतद्वाक्यं न ब्रह्मोपासनरूपां विद्यामनुवदतीत्यर्थः । अतो न ब्रह्मविद्यायाः कर्माङ्गत्वम् । अथवा ‘आचार्यकुलाद्वेदमधीत्य’ इति विद्यायाः कर्माङ्गत्वमाशङ्क्य तस्यापि वेदाध्ययनमात्रपरत्वं न पुनर्ब्रह्मविद्यापरत्वमुच्यते - न ह्येतदिति । मा भूदेतैर्हेतुभिर्ब्रह्मविद्यायाः कर्माङ्गत्वम्, अथाप्युद्गीथविद्यायाः कर्माङ्गत्वविधानादस्तु विद्याकर्माङ्गमित्याशङ्क्य तदपि प्रागेव प्रतिक्षिप्तमित्याह - न चेति । एवं पराभिप्रेतहेतुसमुदायनिरासात् कर्मैव विद्याङ्गमित्यर्थः ॥
मूलम् - 5
- कुर्वन्नेवेति वाक्यं परविदि नियताचारतोक्तिस्सहैवा-
न्वारम्भो धीक्रियाभ्यामपि न नियमयेदङ्गतामङ्गितां वा ।
विद्यापूर्वं क्रियाणां करणमनुवदद्वाक्यमन्यार्थमुक्तं
न ह्येतद् ब्रह्मविद्यामनुवदति न चोद्गीथविद्या क्रियाङ्गम् ॥
विश्वास-प्रस्तुतिः - 6
- स्वाध्यायप्राप्तये ह्यध्ययनमुदितमाधानवन्नोत्तराङ्गं
विद्याङ्गं त्वर्थबोधो भवतु यदधिका सा स्वरूपैः फलैश्च ।
नित्यात्मज्ञानमात्रं क्रतुषु नियमतोऽपेक्षितं नान्यविद्या
काम्यत्यागस्सविद्ये कथमिह भविता सापि यद्यङ्गमेषाम् ॥
३४-तमाहोबिल-यतिः - 6
- स्वाध्यायप्राप्तय इत्यादि । हि - यस्मात्कारणात् । अध्ययनं स्वाध्यायप्राप्तये उदितम् - अध्ययनं वेदाख्याक्षरराशिलाभाय विहितम् । अतः आधानवत् उत्तराङ्गं न - अग्निसिद्धये विहितमाधानं यथोत्तरक्रत्वङ्गं न भवति, तथा उत्तराङ्गं न भवति । उत्तरस्य पश्चादनुष्ठास्यमानस्य क्रतोरङ्गं न भवति । सा - ब्रह्मविद्या । स्वरूपैः - अहरहरभ्यासाधेयातिशयत्वाप्रायणानुवर्तनीयत्वापरोक्षतुल्यत्वादिस्वासाधारणधर्मैः । फलैश्च - निश्शेषाविद्यानिवृत्तिब्रह्मप्राप्तितत्कैङ्कर्यरूपैः फलैश्च । यदधिका - वाक्यजन्यत्वमननादिहेतुत्वपरोक्षत्वादिस्वरूपफलकात् यस्मात् विलक्षणा । सः अर्थबोधो विद्याङ्गं तु भवतु - तथा विद्यातो विलक्षणं वेदान्तवाक्यार्थज्ञानं समानविषयत्वेन स्वसापेक्षाया विद्याया अङ्गं भवतु । तुरेवार्थः । विद्याया एवाङ्गं भवितुर्महति नतु कर्मणः, अनपेक्षत्वात् कर्मत्यागहेतुत्वाच्च । नित्यात्मज्ञानमात्रं क्रतुषु नियमतोऽपेक्षितम् - देहान्तरानुभाव्यफलसाधनानुष्ठानाय नित्यात्मज्ञानमात्रं यागादिषु नियमेनापेक्षितम् । नान्यविद्या - नतु पृथक्फला जीवभिन्नपरमात्मभक्तिः । अपेक्षितेति शेषः । सापि - एवंविलक्षणा विरोधितया अनपेक्षणीया विद्यापि । एषाम् - तद्विरुद्धगतीनां काम्यकर्मणाम् । यद्यङ्गं - अङ्गमिति यद्यङ्गीक्रियते तर्हि । सविद्ये इह - ब्रह्मविद्यानिष्णातेऽस्मिन्नधिकारिणि । काम्यत्यागः कथं भविता - काम्यानां कर्मणां श्रुतिस्मृत्यादिप्रतिपन्नस्त्यागः कथं भविता । अङ्गत्वे विद्यावतः काम्यकर्मत्यागविधानं न सम्भवेदित्यर्थः ॥
कुमार-वरदः - 6
- विद्या कर्माङ्गमिति वदतः पूर्वपक्षिणो भावं विकल्प्य दूषयति - स्वाध्यायेति । किं वेदाध्ययनमेव विद्येति भवताभिधीयते किं वा अध्ययनजनितमक्षरराशिग्रहणम् अथवा तज्जन्यं शारीरकमीमांसाश्रवणम् अथवा तदुपबृंहितवेदान्तवाक्यार्थपरिज्ञानं उत मननसन्तानमुखेन तज्जन्यं ब्रह्मोपासनम् इति विकल्पः । तत्र प्रथमपक्षस्य दूषणं दर्शयति - स्वाध्यायेति । ‘स्वाध्यायोऽध्येतव्यः’ इत्यध्ययनमक्षरराशिग्रहणप्राप्त्यर्थमेव विधीयते । नोत्तराङ्गम् - उत्तरकर्मानुष्ठानार्थं न विधीयते । अत्र कर्मकाण्डानुमतं दृष्टान्तमाह - आधानवदिति । आधानं ह्यग्निसिद्धये विधीयते, न पुनरुत्तरकर्मानुष्ठानार्थम् । अक्षरराशिग्रहणमिति द्वितीयपक्षेऽपि तस्य श्रवणशेषत्वेन सुप्रसिद्धत्वात् तत्रापि नोत्तराङ्गमित्यनुषज्यते ।
एवं श्रवणस्यापि तुल्यन्यायेन दत्तोत्तरत्वात् तत्रापि वक्तव्यं नावशिष्यते । वेदान्तवाक्यपरिज्ञानमिति चतुर्थः पक्षः परिशिष्यते, तत्रोत्तरमाह - विद्याङ्गमिति । वेदान्तवाक्यार्थपरिज्ञानं ब्रह्मोपासनाङ्गमेव भवतु, एकविषयत्वात् सापेक्षत्वाच्च । न पुनः कर्माङ्गम् परस्परापेक्षाभावात् । ननु वाक्यजन्यं ज्ञानमेव ब्रह्मविद्या, ब्रह्मज्ञानाद् ब्रह्मविद्याप्राप्तिरित्यसङ्गतमात्माश्रयादित्याशङ्क्य परिहरति - यदधिकेति । वाक्यजन्यज्ञानादुपासनात्मकं ज्ञानमधिकमेव । वाक्यजन्यज्ञानं हि परोक्षं सकृच्च मननहेतुर्भवति । उपासनात्मकं त्वहरहरभ्यासाधेयातिशयमाप्रायणादनुवर्तमानमपरोक्षज्ञानशिरस्कं साक्षाद् ब्रह्मप्राप्त्यर्थञ्च भवति । तदिदमुच्यते - स्वरूपैः फलैश्चाधिका ब्रह्मोपासनात्मिका सा विद्येति । ननु ज्ञानमन्तरेण कथं कर्मानुष्ठानं सेत्स्यति तेन ब्रह्मज्ञानं कर्मणोऽप्यङ्गं स्यात् ; नेत्याह - नित्यात्मज्ञानमात्रमिति । प्रवृत्तिधर्मनिष्णातैः क्रियमाणेषु कर्मसु । देहातिरिक्तनित्यात्मज्ञानमेव ह्यपेक्ष्यते । तच्च कर्मकाण्ड एव सिद्धम् । ब्रह्मकाण्डसाध्यं तु ब्रह्मज्ञानं प्रवृत्तिधर्मनिष्ठानां विरुद्धमेव तत्परित्यागहेतुत्वात् । तेन पञ्चमः पक्षः परिशिष्यते सोऽपि न - वीतरागमात्रानुष्ठेयस्य परब्रह्मोपासनस्य स्वर्गादिप्रापककर्माङ्गत्वप्रसङ्गाभावात् । तेन न विद्यायाः कर्माङ्गत्वसिद्धिः । अथापि परब्रह्मविद्या काम्यकर्माङ्गमिति मोहाद् यदि वदसि तदुन्मत्तप्रलपितमेव । यदि ब्रह्मविद्या काम्यकर्माङ्गम्, कथं तर्हि ब्रह्मविद्यानिष्ठस्य काम्यकर्मपरित्यागस्सर्वत्राप्यध्यात्मवित्सु श्रूयते? विद्यां प्रति अङ्गित्वेनानुष्ठेयस्य कर्मणस्त्यागे प्रधानलोपः; अत्यागे पुनस्त्याज्यताप्रतिपादकप्रमाणविरोध इति । अयमत्र शब्दान्वयः - सा परब्रह्मविद्यापि यद्येषां पूर्वकाण्डप्रतिपाद्यकाम्यकर्मणामङ्गं तदा सविद्ये ब्रह्मविद्यानिष्णातेऽधिकारिणि काम्यकर्मत्यागः कथं स्यादिति ॥
मूलम् - 6
- स्वाध्यायप्राप्तये ह्यध्ययनमुदितमाधानवन्नोत्तराङ्गं
विद्याङ्गं त्वर्थबोधो भवतु यदधिका सा स्वरूपैः फलैश्च ।
नित्यात्मज्ञानमात्रं क्रतुषु नियमतोऽपेक्षितं नान्यविद्या
काम्यत्यागस्सविद्ये कथमिह भविता सापि यद्यङ्गमेषाम् ॥
विश्वास-प्रस्तुतिः - 7
- नाङ्गं विद्या मखादेर्न हि तदधिकृतेष्वेव तामामनामः
स्यात्तत्तत्कर्मणां सेत्यपि न बहुविधाद् वैपरीत्योपदेशात् ।
जाबालैरूर्ध्वरेतोविधिरपि पठितोऽनूद्यतेऽन्यैश्च तस्मात्
प्राप्तिर्ग्राह्यान्यथापि स्वयमिह तु विधिस्तन्निषेधस्सरागे ॥
३४-तमाहोबिल-यतिः - 7
- नाङ्गमित्यादि । विद्या मखादेरङ्गं न - ब्रह्मविद्या यज्ञादिकर्मणोऽङ्गं न भवति । हि - यस्मात् कारणात् । तदधिकृतेष्वेव तां नामनामः - कर्माधिकृतेष्वेव प्रकरणेषु विद्यां नामनामः । दर्शपूर्णमासप्रकरणे प्रयाजादीनामिव यज्ञादिकर्मप्रकरणे विद्याया अनाम्नानात् श्रुतिलिङ्गवाक्यस्थानसमाख्यानाञ्चाभावात् न विद्या कर्माङ्गमिति भावः । तत्तत्कर्मणां सा अङ्गं स्यादित्यपि न - ब्रह्मविद्यानिष्ठानामेव तपस्तीर्थदानादिविधानात् तत्तत्कर्मणां विद्या अङ्गं भवत्वित्यपि न युक्तम् । बहुविधाद्वैपरीत्योपदेशात् - ‘तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन’ ‘क्रियावानेष ब्रह्मविदां वरिष्ठः’ ‘कर्मणैव हि संसिद्धिम्’ इत्यादिबहुविधविद्याङ्गित्वकर्माङ्गत्वरूपविपरीतोपदेशात् । जाबालैरूर्ध्वरेतोविधिः पठितः अन्यैरपि चानूद्यते - जाबालैश्शाखिविशेषैः ऊर्ध्वरेतोविधिः ‘ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद्वनी भूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्यचर्यादेव प्रव्रजेत्’ इत्यूर्ध्वरेतआश्रमविधिः पठितः, अन्यैरपि शाखान्तरस्थैरपि चानूद्यते ‘त्रयो धर्मस्कन्धाः’ इत्यादिना ऊर्ध्वरेतआश्रमोऽनूद्यते । तस्मात् प्राप्तिर्ग्राह्या - एवं प्रमाणदर्शनाद्विधिरङ्गीकार्यः । ऊर्ध्वरेतआश्रमविधिरङ्गीकार्य इत्यर्थः । अन्यथापि - ‘त्रयो धर्मस्कन्धाः’ इत्यादिवाक्यस्याप्राप्तविषयत्वात् अनुवादत्वाभावेऽपि । इह तु - अस्मिन् ‘त्रयो धर्मस्कन्धाः’ इति वाक्य एव । स्वयं विधिः - साक्षाद्विधिः । धारणादिवाक्य इव विधिप्रत्ययः कल्पनीय इत्यर्थः । ‘त्रयो धर्मस्कन्धाः’ इत्यादिवाक्यस्यानुवादरूपत्वे तस्य पुरोवादसापेक्षत्वात् तस्मादेव पुरोवादादूर्ध्वरेतआश्रमविधिरस्तु । यद्वा अस्य वाक्यस्याप्राप्तार्थविषयत्वेनानुवादत्वाभावे इदं वाक्यमेव ऊर्ध्वरेतआश्रमविधायकमित्याश्रमान्तरस्य प्रामाणिकत्वात् तन्निष्ठेषु यज्ञाद्यभावेऽपि विद्यादर्शनात् न विद्या कर्माङ्गमिति भावः । तन्निषेधः - ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ इत्यादिनिषेधस्तु । सरागे - अविरक्ताधिकारिविषये । सावकाश इति शेषः ॥
कुमार-वरदः - 7
- विद्यायाः कर्माङ्गत्वे दूषणमाह - नाङ्गमिति । अयमर्थः - किं विद्यायाः कर्माङ्गत्वं श्रुतिलिङ्गादिष्वन्यतमेन प्रमाणेन? यदि वा मानमन्तरेण ? उत्तरत्र सर्वं सर्वाङ्गं स्यात् । पूर्वत्रापि श्रुत्या नैतदस्ति । विद्यायाः कर्माङ्गत्वप्रतिपादकश्रुतेरदर्शनात् । न च लिङ्गेन, तस्याप्यदर्शनात् । नापि वाक्यस्थानसमाख्याभिः, तासामप्यनुपलम्भात् । प्रकरणमेकमवशिष्यते तदपि नास्तीत्याह - न हीति । कर्माधिकृताधिकारिणमधिकृत्य यदि ब्रह्मविद्या विधीयते तदा तस्याः कर्मशेषत्वमङ्गीकार्यम्, न च तद् विद्यते, ततः कर्माङ्गत्वं कथमिव विद्यायाः । ननु ब्रह्मविद्यानिष्ठानामेव तपस्तीर्थदानादिविधानाद् विद्यायास्तत्तद्धर्मशेषत्वमित्याशङ्क्य सा च विपरीतकल्पनेत्याह - स्यादिति । तत्तत्कर्मणां विद्या अङ्गं स्यादिति न वक्तव्यं कल्पनाया विपरीतत्वात् । तपस्तीर्थादिनिष्ठानां व्यासपराशरादीनां विद्यैव प्रधानं कर्म गुण इति सर्वेऽपि निर्वहन्ति । तथा च श्रूयते ‘यज्ञेन दानेन तपसा नाशकेन ब्राह्मणा विविदिषन्ति’, ‘क्रियावानेष ब्रह्मविदां वरिष्ठः’ ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ ‘कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’ इति सहस्रशोऽपि वचनजातम्, तस्मात्कर्मैव विद्याङ्गमिति विदुषां निर्णयः । यदि च विद्या यज्ञादिकर्माङ्गम्, तदोर्ध्वरेतसां यज्ञादिकर्माभावात् विद्या विनश्येदेव । अङ्ग्यभावे सति किमनेनाङ्गेन निष्फलेन सफलत्वे वा कथमङ्गत्वं परिकल्प्यते । तर्हि ऊर्ध्वरेतसामाश्रममेव परित्यजामः, तदाश्रमनिष्ठानां विद्यामप्यविद्यापरिकल्पितामामनाम इत्याशङ्क्योत्तरमाह - जाबालैरिति । जाबालैरूर्ध्वरेतोविधिः पठ्यते । तथान्यैरपि श्रुतीतिहासपुराणपाठकैरूर्ध्वरेतसामाश्रमस्तत्रतत्रानूद्यते । अतस्सोऽप्याश्रमस्स्वीकर्तव्यः । तेषां ब्रह्मविद्या च यथाप्रमाणमङ्गीकर्तव्या । यज्ञादिकर्माभावाद् विद्यायाः कर्मशेषत्वमपि परिहर्तव्यमिति । ननु सर्वमप्येतदनुवादमात्रम्, न पुनर्विधिः । तेनोर्ध्वरेतसामाश्रमस्य प्रमाणमूलत्वं नास्तीत्याशङ्क्य परिहरति - तस्मात्प्राप्तिरिति । अयमर्थः - परिदृश्यमानस्य प्रमाणजातस्यानुवादत्वे पुरोवादमन्तरेणानुपपत्तेः पुरोवादश्श्रुतार्थापत्त्या परिकल्प्यत इति तस्याप्याश्रमस्य प्रामाणिकत्वसिद्धिः । अन्यथापि एषामनुवादत्वाभावेऽपि अप्राप्तविषयत्वादेतदेव प्रमाणम् । अयमत्र शब्दार्थः - एतेषामनुवादत्वे प्राप्तिः पुरोवादोक्तिः परिग्राह्या एतेषामप्राप्तविषयत्वे स्वयमेवैतानि वाक्यानि प्रमाणानीति । ननु बाधकप्रामाणाभावे हि प्राप्तिः परिकल्प्या, विद्यते हि बाधकप्रमाणम् ‘वीरहा वा एष देवानां योग्निमुद्वासयते’ इति, तेनोर्ध्वरेतसामाश्रमो नास्तीत्याशङ्क्य परिहारमाह - तन्निषेध इति । सरागस्यैवाग्निपरित्यागनिषेधः । वीतरागस्य तु ब्रह्मचर्याद्याश्रमपरित्यागेन चरमाश्रमपरिग्रहस्य सर्वेष्वपि स्मृतीतिहासपुराणेषु सुप्रसिद्धत्वात् । श्रुतिषु च जाबालादिपठितासु निर्बाधमेव दृष्टत्वादिति ॥
मूलम् - 7
- नाङ्गं विद्या मखादेर्न हि तदधिकृतेष्वेव तामामनामः
स्यात्तत्तत्कर्मणां सेत्यपि न बहुविधाद् वैपरीत्योपदेशात् ।
जाबालैरूर्ध्वरेतोविधिरपि पठितोऽनूद्यतेऽन्यैश्च तस्मात्
प्राप्तिर्ग्राह्यान्यथापि स्वयमिह तु विधिस्तन्निषेधस्सरागे ॥