विश्वास-प्रस्तुतिः - 1
- कर्म प्राक् चिन्तयित्वा ननु परममथ ब्रह्म जिज्ञास्यमुक्तं
पादे विद्याङ्गतोक्तिः पुनरिह वितथानेकधा त्याज्यतोक्तेः ।
मैवं कर्मैव तत्तद्गुणयुतविनियुक्त्यन्यभावेन भिन्नं
विद्यानिष्पत्तिहेतुः किमपि च सुकृतं स्यान्निवृत्त्येकसंज्ञम् ॥
३४-तमाहोबिल-यतिः - 1
- कर्म प्रागित्यादि । प्राक् - कर्मकाण्डे । कर्म - अग्निहोत्रादिकं सर्वमपि कर्म । चिन्तयित्वा ननु - प्रमाणाद्युपकरणैस्सह तत्तत्पूर्वपक्षनिरासपूर्वकं विचार्य खलु । अथ - अनन्तरम् । परमम् - स्वापेक्षयोत्कृष्टशून्यम् । ब्रह्म - स्वरूपतो गुणतश्च परिबृढं निखिलजगदेककारणं वस्तु । जिज्ञास्यमुक्तम् - विचार्य निर्धारणीयमिति ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रे प्रतिपादितम् । इह पादे - अस्मिन् पुरुषार्थपादे । पुनर्विद्याङ्गतोक्तिः - पुनरपि तेषामेव कर्मणां विद्याङ्गत्वकथनम् । अनेकधा त्याज्यतोक्तेः - ‘न कर्मणा न प्रजया’ ‘प्लवा ह्येते अदृढा यज्ञरूपाः’ इत्यादिभिरनेकधा त्याज्यत्वकथनेन । वितथा - व्यर्थं विरुद्धञ्च । मैवम् - एवं मा शङ्किष्ठाः । कर्मैव - पूर्वकाण्डविचारितं फलतस्त्याज्यमग्निहोत्रादि कर्मैव । तत्तद्गुणयुतविनियुक्त्यन्यभावेन भिन्नम् - फलसङ्गकर्तृत्वत्यागादिगुणसमन्वितभगवद्गीतादिप्रमाणकविनियोगपृथक्त्वेन काम्यकर्मणो विभक्तम् । विद्यानिष्पत्तिहेतुः - विद्याविरोधिरजस्तमोनिबर्हणसत्त्वविवृद्ध्यादिद्वारा विद्यानिष्पत्तिसाधनभूतम् ।निवृत्त्येकसंज्ञम् - फलसङ्गादिनिवृत्तियुक्ततया निवृत्तिमुख्याभिधानम् । किमपि च सुकृतं स्यात् - अमोघं सुकृतं भवेत् । तस्माद्विनियोगपृथक्त्वेनाङ्गभूतकर्मविचारोऽस्मिन्पादे सुसङ्गतस्सफलश्चेति भावः ॥
कुमार-वरदः - 1
- गुणोपसंहारपादे मोक्षसाधनभूतब्रह्मविद्यानिरूपणं कृतम्, अथ ब्रह्मविद्याङ्गभूतकर्मनिरूपणं क्रियत इति सङ्गतिः । ननु पूर्वस्मिन्काण्डे कर्माणि निरूपितानि स्वर्गस्वाराज्यादिसांसारिकफलसाधनानीति तेषां कथं ब्रह्मविद्याङ्गत्वम् कथं वा तत्प्रतिपादनेन विद्याङ्गपादस्य वेदान्ते समन्वय इत्याशङ्क्य परिहरति - कर्मेति । अयमत्र शब्दान्वयः - कर्म प्रागेव चिन्तयित्वा कर्मजिज्ञासानन्तरमेव ब्रह्मणो जिज्ञास्यत्वमुक्तम् ‘अथातो ब्रह्मजिज्ञासा’ इति । अस्मिन्पादे कर्मणां विद्याङ्गतोक्तिर्वितथा पौनरुक्त्यात् । किञ्च कर्मणां विरोधिफलसाधनत्वेन विरुद्धत्वाच्च । तदिदमाह - अनेकधा त्याज्यतोक्तेरिति । ‘न कर्मणा न प्रजया’ ‘प्लवा ह्येते अदृढा यज्ञरूपाः’ इति त्याज्यत्वमेव कर्मणामुच्यते । इत्थमाशङ्कितमर्थं प्रतिक्षिपति - मैवमिति । प्रतिक्षेपप्रकारं द्वेधा विभज्य दर्शयति - कर्मैवेति । कर्माणि खलु फलान्तरे यानि विनियुक्तानि तान्येव विनियोगभेदेन विद्याङ्गत्वेन विनियुज्यन्ते । अतस्तेषामङ्गत्वसिद्धिः । तथा स्वर्गादिष्वविनियुक्तान्यपि परमपुरुषचरणयुगलध्यानार्चनप्रणामादीनि बहूनि कर्माणि श्रुतिस्मृतीतिहासपुराणसत्त्वोत्तरागमसदाचारप्रमाणकानि विद्यन्ते तेषां विद्याङ्गत्वप्रकारपरिशोधनं क्रियत इति पादारम्भस्य सार्थकत्वसिद्धिः । अत्राप्ययमन्वयः - कर्मैव यज्ञादिकं कर्मैव फलसङ्गकर्तृत्वत्यागादिगुणसमन्वितं भगवद्गीतादिप्रमाणकविनियोगपृथक्त्वेन भिन्नं काम्यकर्मणो विभक्तं विद्यानिष्पत्तिहेतुर्भवतीति तन्निवृत्तिधर्म इति नामान्तरेण कथ्यमानं सुकृतमेव स्यात् । तथा विद्यानिष्पत्तिहेतुतयेतिहासपुराणादिप्रसिद्धं नमस्कारादिकमपि निवृत्तिधर्म इति तदुभयप्रकारविशेषोपपादनेन विद्याङ्गपादन्यायकलापः प्रतायत इति सुसंगतमेतत् ॥
मूलम् - 1
- कर्म प्राक् चिन्तयित्वा ननु परममथ ब्रह्म जिज्ञास्यमुक्तं
पादे विद्याङ्गतोक्तिः पुनरिह वितथानेकधा त्याज्यतोक्तेः ।
मैवं कर्मैव तत्तद्गुणयुतविनियुक्त्यन्यभावेन भिन्नं
विद्यानिष्पत्तिहेतुः किमपि च सुकृतं स्यान्निवृत्त्येकसंज्ञम् ॥
विश्वास-प्रस्तुतिः - 2
- त्यागः काम्यक्रियाणां क्वचन परविदः क्वाप्यनर्हक्रियाणां
स्वैकाधीनत्वबुद्धेः क्वचिदनुपधिकस्वार्थबुद्धेश्च गीतः ।
अत्राहिंसादिकानां त्वघविहतिकृतां सर्वसाधारणानां
ब्रूते वर्णाश्रमादिप्रतिनियतिमतामप्युपास्त्यङ्गभावम् ॥
३४-तमाहोबिल-यतिः - 2
- कर्मणां त्याज्योपादेयविभागं दर्शयति - त्याग इत्यादिना । क्वचन परविदः काम्यक्रियाणां त्यागो गीतः - क्वापि भागे परविदः काम्यक्रियाणां फलार्थमेव विहितानां कर्मणां त्यागस्स्वरूपेण त्यागो गीतायामुक्तः । क्वाप्यनर्हक्रियाणाम् - क्वापि अनर्हक्रियाणां पापरूपाणां त्यागः पूर्ववत् स्वरूपत्यागो गीतः । क्वचित् स्वैकाधीनत्वबुद्धेः - ईश्वरनिरपेक्षकर्तृत्वबुद्धेस्त्यागो गीतः । क्वचिदनुपधिकस्वार्थबुद्धेश्च - क्वचित् परमात्मशेषभूतस्वार्थबुद्धेरविरुद्धत्वात् तादृशपरमात्मशेषभूतत्वाद्युपाधिरहितस्वार्थबुद्धेस्त्यागो गीतः । अत्र तु - शारीरकतार्तीयीकलक्षणचतुर्थपादे तु । अघविहतिकृताम् - पापक्षयकृताम् । सर्वसाधारणानाम् - सर्ववर्णाश्रमसाधारणानाम् । अहिंसादिकानाम् - अहिंसासत्यास्तेयादीनाम् । वर्णाश्रमादिप्रतिनियतिमतामपि - वर्णाश्रमादिसम्बन्धिनां धर्माणामपि । उपास्त्यङ्गभावं ब्रूते - उपासनाङ्गत्वं प्रतिपादयतीत्यर्थः ॥
कुमार-वरदः - 2
- अत्र केषां परित्यागः कार्यः केषां वा परिग्रह इत्यजानानस्य शिष्यस्य त्याज्योपादेयप्रकारविशेषोपपादनेन विभागमाह - त्याग इति । काम्यक्रियाणां परित्यागः कर्तव्य एव ब्रह्मविद्यानिष्ठस्य । क्वाप्यनर्हक्रियाणां पापरूपाणामित्यर्थः । निषिद्धकाम्ययोस्स्वरूपेण परित्यागमुक्त्वा नित्यनैमित्तिकयोरपि फलसङ्गकर्तृत्वत्यागमाह - स्वैकाधीनत्वबुद्धेरिति । अयं कर्तृत्वत्यागः ईश्वरनिरपेक्षकर्तृत्वबुद्धेस्स्वात्मनि परित्यागात् । फलत्यागमप्याह - अनुपधिकेति । परमात्मशेषभूतस्वार्थबुद्धिर्न विरुद्धा, स्वतन्त्रस्वार्थबुद्धिर्विरुद्धेत्यनुपधिकशब्देन विशेषयति । राजभृत्यादिपरिपोषणं राजार्थम्, न स्वार्थम्, एवमध्यात्मविदां तत्त्वज्ञानादिसम्पादनमपि न स्वार्थम्, अपितु स्वशेषिभूतपरमात्मातिशयार्थमेवेति भावः । पतिव्रतालङ्कारो हि पत्यर्थो नतु स्वार्थ इति हि तत्त्वविदामालापः । तेन ‘पतिं विश्वस्यात्मेश्वरम्’ इत्युक्तपरमात्मशेषत्वेनैव स्वातिशयमपि कुर्वते तत्त्वविदः । अत्र गीत इति भगवद्गीताप्रतिपाद्यत्वमुच्यते । एवं त्याज्यत्वमुक्त्वा विदुषामुपादेयमपि विभज्य दर्शयति - अत्रेति । अहिंसासत्यास्तेयादीनां नियमरूपाणं पापक्षयहेतूनां सर्वजातिसाधारणानां तथा वर्णाश्रमादिप्रतिनियतिमतामुपास्त्यङ्गभावमत्रास्मिन्पादे ब्रूते ॥
मूलम् - 2
- त्यागः काम्यक्रियाणां क्वचन परविदः क्वाप्यनर्हक्रियाणां
स्वैकाधीनत्वबुद्धेः क्वचिदनुपधिकस्वार्थबुद्धेश्च गीतः ।
अत्राहिंसादिकानां त्वघविहतिकृतां सर्वसाधारणानां
ब्रूते वर्णाश्रमादिप्रतिनियतिमतामप्युपास्त्यङ्गभावम् ॥