41 यथाश्रयभावाधिकरणम्

विश्वास-प्रस्तुतिः - 68
  1. तत्तद्विद्यासु तादृक्फलतरतमतां वारयित्वा प्रसङ्गात्
    प्रागुक्तोद्गीथविद्याफलमथ पुनराक्षिप्य गाढीकरोति ।
    मा भूदुक्तं स्ववाक्ये फलमिह तु न सा पर्णमय्यादिनीतिः
    स्पष्टा खल्वत्र विद्या फलकरणतया वर्तमानोक्तितोऽपि ॥
३४-तमाहोबिल-यतिः - 68
  1. तत्तद्विद्यास्वित्यादि । तत्तद्विद्यासु - सदक्षरदहरादिसर्वविद्यासु । तादृक्फलतरतमताम् - तादृक् विद्यातुल्यं विद्यानां चिन्तनीयगुणादितारतम्येन स्वरूपतारम्यमस्ति हि, तत्तुल्यं फलस्य तारतम्यम् । वारयित्वा - अविशिष्टफलश्रवणादिहेतुभिर्निवार्य । अथ - ततः परमस्मिन्नधिकरणे । प्रसङ्गात् - फलविचारप्रसक्त्या । प्रागुक्तोद्गीथाविद्याफलम् - ‘तन्निर्धारण’ इत्याद्यधिकरणे प्रागुक्तमेवोद्गीथविद्यायाः फलम् । पुनराक्षिप्य - शिष्टिसमाहारगुणसाधारण्यश्रुतिरूपैराक्षेपहेतुभिराक्षिप्य । गाढीकरोति - पूर्वोपक्षिप्तैर्हेतुभिर्दृढीकरोति । स्ववाक्ये फलमुक्तं मा भूत् - ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इत्यादाविव स्ववाक्ये फलमुक्तं मा भूत् । इह - उद्गीथविद्याप्रकरणे । वर्तमानोक्तितोऽपि - ‘यस्य पर्णमयी जुहुर्भवति न स पापं श्लोकं शृणोति’ इतिवत् ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति वर्तमाननिर्देशादपि । सा - फलकरणताबोधकश्रुतिराहित्येन प्रकृतविलक्षणा । पर्णमय्यादिनीतिर्न तु - पर्णमय्यधिकरणनीतिर्न भवेत् । कुत इत्यत्राह - अत्र विद्या फलकरणतया स्पष्टा खलु - अत्र वाक्ये विद्यया करोतीति तृतीयाश्रुत्या विद्या फलकरणतया स्पष्टमवगम्यते खलु । अतः पर्णमय्यधिकरणन्यायो न भवेदित्यर्थः ॥
कुमार-वरदः - 68
  1. पूर्वाधिकरणे तासुतासु ब्रह्मविद्यासु फलतारतम्यमाशङ्क्य तन्निवार्य फलप्रसङ्गात् पूर्वाक्तोद्गीथविद्याया एव फलमत्र बहुभिर्हेतुभिराक्षिप्य समाधीयत इति सङ्गतिः । अथवा भाष्य एव ‘यथाकामम्’ इति पदेन सङ्गतिरुक्ता । यथाकामं विकल्पः समुच्चयो वेति हि पूर्वत्रोक्तम् । तथोद्गीथादिविद्या यथाकाममुपादेया नवेति शङ्कया सङ्गतिः । तदर्थविचारस्तु - क्रत्वङ्गाश्रयाण्युद्गीथाद्युपासनानि क्रतुषु नियमेनोपादेयानि उत गोदोहनादिवदनियमेनेति । किं क्रत्वङ्गोद्गीथादिमुखेन पर्णतादिवत् क्रत्वर्थानि उत गोदोहनादिवत् क्रत्वङ्गाश्रिततया ‘यदेव विद्यया करोति’ इति फलश्रवणात् पुरुषार्थभूतानि । तदर्थं विचार्यते - किं गोदोहनादीनां पुरुषार्थत्वं स्ववाक्ये फलसम्बन्धश्रवणात् उत क्रतुफलात् पृथक्फलसंबन्धश्रवणादिति । अत्र सङ्गत्यभिधानपूर्वकं पूर्वपक्षमुक्त्वा पूर्वपक्ष्यभिप्रायस्थान् हेतूननुक्रमेण समाधातुमुपक्रमते - तत्तदिति । पूर्वाधिकरणे तासुतासु ब्रह्मविद्यासु फलतारतम्यं वारयित्वा समानफलसाधनत्वमुक्तम् । फलसाधनप्रसङ्गादनेनाधिकरणेन ‘तन्निर्धारणानियमः’ इत्यत्र प्रागेवोक्तमुद्गीथविद्याफलं बहुभिर्हेतुभिः पुनराक्षिप्य तत्तद्धेतुनिरासेन दृढीकरोति । अनेनोद्गीथविषययोरनयोः पौनरुक्त्यं परिहृतम्; पूर्वोक्ताक्षेपसमाधानतया एतस्याधिकरणस्याधिकप्रयोजनलाभादिति । एवं किल पूर्वपक्षी मन्यते - पूर्वं हि गोदोहनन्यायेनोद्गीथविद्यायाः पुरुषार्थत्वमुक्तम्, तन्नोपपद्यते, गोदोहनवाक्ये स्ववाक्य एव फलनिर्देशो दृश्यते ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इति । उद्गीथविद्यावाक्ये तु न फलनिर्देशः, केवलं ‘उद्गीथमुपासीत’ इत्युपासनस्योद्गीथविषयत्वमेव प्रतीयते । ‘यदेव विद्यया करोति’ इति वाक्यान्तर एव फलनिर्देशो दृश्यते । इदं तावदेकं वैषम्यम् । वैषम्यान्तरमपि - गोदोहनवाक्य एव ‘पशुकामस्य प्रणयेत्’ इति विधिश्रुतिरस्ति, ‘यदेव विद्यया करोति’ इति वाक्ये करोतीति वर्तमाननिर्देश एव, नतु विधिश्रुतिः । तेन ‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति’ इति वर्तमाननिर्देशोपेतपर्णमयत्ववाक्यवत् न पुरुषार्थसाधकत्वसिद्धिः । वीर्यवत्तरत्वरूपफलनिर्देशोऽप्यपापश्लोकश्रवणरूपफलनिर्देशवदर्थवाद एव । तेनाव्यभिचरितक्रतुसम्बन्धिजुहूमुखेन पर्णमयत्वं यथा क्रत्वङ्गम्, एवमुद्गीथोपासनमप्यव्यभिचरितक्रतुसम्बन्ध्युद्गीथमुखेन क्रत्वङ्गमिति । इदमपि वैषम्यं गोदोहनवाक्यादस्य वाक्यस्य । तृतीयमपि वैषम्यं सौत्रमेव दृश्यते । ‘उद्गीथमुपासीत’ इति द्वितीयाश्रुत्या साक्षादेवोद्गीथाङ्गभूतमुपासनं विधीयते । उद्गीथश्च कर्माङ्गम् । तेन तद्द्वारेणोपासनमपि कर्माङ्गम्; ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इतिवत् विधिवाक्येऽधिकारान्तरश्रवणात् उद्गीथाङ्गभाव एव हि विधेय इति गम्यत इति । समाहारादिति हेत्वन्तरमपि दृश्यते ‘होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति’ इत्युपासनस्य नियमेन समाहारोऽभिधीयते । तथा हि - वेदनहीनमुद्गीथं दुरुद्गीथम् । तस्य होतृषदनादनुसमाहाराभिधाने सति उद्गीथोपासनस्य नियमेन कर्तव्यत्वमुक्तं भवति । अवश्यकर्तव्यस्य ह्यपचारे समाधानं वक्तव्यम् । तेनोपासनस्यावश्यकर्तव्यत्वात् कर्माङ्गत्वमेव । अत्र गुणसाधारण्यश्रुतिरपि कर्माङ्गत्वे हेतुरस्ति । तदप्युक्तं भाष्य एव ‘उपासनगुणस्य उपासनाश्रयस्य प्रणवस्य सोपासनस्य ‘तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति’ इति साधारण्यश्रुतेश्चोपासनसमाहारो गम्यते इति । एवमाक्षेपहेतूननुक्रमात् निराकरोति - मा भूदिति । स्ववाक्ये फलमुक्तं मा भूदेव । अथापीह पर्णमयत्वादिनीतिर्न स्यात् पुरुषार्थत्वप्रतिपादकस्य स्फुटतरस्य हेतोरत्र विद्यमानत्वात् । अस्ति पर्णमयीवाक्ये वर्तमाननिर्देशः अस्ति च ‘यदेव विद्यया करोति’ इति वाक्ये वर्तमाननिर्देशः । तावता साम्येन उद्गीथोपासनस्य न पर्णतादिवदपुरुषार्थत्वसिद्धिः । ‘यदेव विद्यया करोति, तदेव वीर्यवत्तरम्’ इति तृतीयानिर्देशेन फलसाधनत्वस्य स्फुटतराभिधानात् उद्गीथोपासनस्य पुरुषार्थत्वमेव । पर्णतायास्तु फलसाधनत्वप्रतिपादकविभक्तिविशेषाभावात् क्रत्वङ्गत्वमेवेति विभागः । तदिदमाह - स्पष्टेति । अत्र ‘यदेव विद्यया करोति’ इति वाक्ये विद्या फलकरणतया स्पष्टैव दृश्यते । अतः पर्णमयीवाक्याद्वैषम्यमिति ॥
मूलम् - 68
  1. तत्तद्विद्यासु तादृक्फलतरतमतां वारयित्वा प्रसङ्गात्
    प्रागुक्तोद्गीथविद्याफलमथ पुनराक्षिप्य गाढीकरोति ।
    मा भूदुक्तं स्ववाक्ये फलमिह तु न सा पर्णमय्यादिनीतिः
    स्पष्टा खल्वत्र विद्या फलकरणतया वर्तमानोक्तितोऽपि ॥
विश्वास-प्रस्तुतिः - 69
  1. तादर्थ्यं नात्र कर्मश्रुतिरवगमयेदाश्रयालम्बमात्राद्
    विद्याहानौ च युक्तं प्रतिविधिवचनं तत्फलार्थिप्रसङ्गे ।
    तारे सोपासनेऽस्तु स्तवनमनुगमात् तावता सा तु नाङ्गं
    प्राग्वक्तव्यस्य हित्वा वच इदमुपरि स्थापनीयप्रसक्त्यै ॥
३४-तमाहोबिल-यतिः - 69
  1. तादर्थ्यमित्यादि । अत्र - उद्गीथविद्याप्रकरणे । आश्रयालम्बमात्रात् - पुरूषार्थस्यैव उपासनस्याश्रयमात्रत्वेनोद्गीथावलम्बनात्, तावन्मात्रापेक्षणादित्यर्थः । कर्मश्रुतिः - ‘उद्गीथमुपासीत’ इत्यत्रोद्गीथपदोत्तरं विद्यमाना कर्मत्वबोधिका द्वितीयाश्रुतिः । तादर्थ्यम् - अङ्गत्वम् । नावगमयेत् । आश्रयमात्रलाभेन तृप्तत्वात् । विद्याहानौ - उपासनानुष्ठानाभावे । प्रतिविधिवचनञ्च - होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति, इति वेदनरहिततया दुष्टमप्युद्गीथं होतृकर्तृकोद्गीथप्रणवैक्यज्ञानात् समादधातीति प्रतिविधिवचञ्च । तत्फलार्थिप्रसङ्गे युक्तम् - विद्याफलभूतवीर्यवत्तरत्वाद्यर्थिनो विद्यामशक्त्यादिभिरननुतिष्ठतस्तत्समाधानप्रसक्तौ सत्यामवश्यकर्तव्यत्वेन युक्तमेव । सोपासने तारे अनुगमात् स्तवनमस्तु - ‘तेनेयं त्रयी विद्या वर्तते’ इति वचने तेनेतिपदेन सोपासनं प्रणवं निर्दिश्य त्रय्यामनुगमात् स्तवनं कामं क्रियताम् । तावता, सा तु - उपासना तु । अङ्गं न - अङ्गमिति न सिध्येदित्यर्थः । उपासनस्य वीर्यवत्तरत्वादिफलसाधनत्वेन पुरुषार्थत्वेऽपि तस्य स्तवनस्य योजयितुं शक्यत्वादिति भावः । प्राक् - तन्निर्धारणानियमः इत्याद्यधिकरणे । वक्तव्यस्य - अत्रोच्यमानस्य सर्वस्यार्थजातस्य तत्र वक्तव्यस्य । हित्वा - स्थानं विहाय । इदं वचः - अस्मिन्नधिकरणे इदं वचनम् । उपरि अङ्गपादे । स्थापनीयप्रसक्त्यै - स्थापनीयस्य ब्रह्मविद्याङ्गस्य प्रसङ्गार्थम् । अस्मिन्नन्तिमाधिकरणेऽङ्गाङ्गित्वचिन्तने कृते उपरितनपादे करिष्यमाणस्याङ्गविचारस्य प्रसङ्गरूपसङ्गतिर्लभ्येतेति हृदयेनात्र पुनर्वचनमित्यर्थः ॥
कुमार-वरदः - 69
  1. पूर्वम् ‘उद्गीथमुपासीत’ इति द्वितीयाश्रुत्योद्गीथाङ्गत्वमुपासनस्येत्युक्तम्, तत् परिहरति - तादर्थ्यमिति । अत्र कर्मश्रुतिः तादर्थ्यमङ्गत्वं नावगमयति । तत्र हेतुमाह - आश्रयालम्बमात्रादिति, अत्र कर्मश्रुतिः पुरुषार्थस्यैवोपासनस्याश्रयमेवोद्गीथमवलम्बते न ततोऽङ्गत्वं वदतीत्यर्थः । विद्याहानौ दुरुद्गीथत्वात् प्रतिविधानमुक्तमिति कर्माङ्गत्वे हेतुर्भवतोक्तः, सोऽपि हेतुरन्यथासिद्ध इत्याह - विद्याहानाविति । विद्याहानौ दुरुद्गीथत्वमुक्त्वा यत् प्रतिविधिवचनं तदपि तत्फलार्थिप्रसङ्गे युक्तमेव । अयमर्थः - यस्त्वधिकारी कर्माङ्गभूतोद्गीथे वीर्यवत्तरत्वादिकं विद्याफलं कामयित्वा विद्यामारभ्य विद्यां यथावत् न करोति तस्याधिकारिण एव होतृषदनादनुसमाहारोऽभिधीयते, न पुनः कर्माङ्गभूतोद्गीथकर्तुस्सर्वस्याप्यधिकारिणः, अतो न कर्माङ्गत्वसिद्धिरुद्गीथोपासनस्य । अयमत्र शब्दान्वयः - उपासनफलभूतवीर्यवत्तरत्वाद्यर्थिप्रसङ्गे विद्याहानौ होतृषदनात् समाहारवचनं युक्तमेव । ‘तेनेयं त्रयी विद्या वर्तत इति तच्छब्देनोपासनसहितं प्रणवं निर्दिश्य त्रय्यामनुगमनवचनादुपासनस्य प्रणवाङ्गत्वमिति यदुक्तं तदपि नास्तीत्याह - तार इति । सोपासने तारे स्तवनमस्तु नाम अनुगमात् त्रिष्वपि वेदेष्वनुवृत्तत्वात् । तथाप्युपासनस्य नाङ्गत्वम् । उपासनस्य वीर्यवत्तरत्वादिफलसाधनत्वेन पुरुषार्थत्वेऽपि तस्य स्तोत्रत्वेन योजयितुं शक्यत्वादित्यर्थः । ननु पूर्वमेवोद्गीथविद्याप्रसङ्गे सर्वमिदमधुनोक्तमर्थजातं वक्तव्यमेव, किमर्थमिह स्थानं हित्वोच्यत इत्याशङ्क्याह - प्राग्वक्तव्यस्येति । अयमत्र भावः - ब्रह्मविद्याङ्गप्रतिपादनमुत्तरपादे करिष्यते तत्प्रसङ्गार्थं पादान्तेऽङ्गाङ्गित्वचिन्तनमधुना कृतमिति नास्थानपातित्वदोषः ॥
मूलम् - 69
  1. तादर्थ्यं नात्र कर्मश्रुतिरवगमयेदाश्रयालम्बमात्राद्
    विद्याहानौ च युक्तं प्रतिविधिवचनं तत्फलार्थिप्रसङ्गे ।
    तारे सोपासनेऽस्तु स्तवनमनुगमात् तावता सा तु नाङ्गं
    प्राग्वक्तव्यस्य हित्वा वच इदमुपरि स्थापनीयप्रसक्त्यै ॥
विश्वास-प्रस्तुतिः - 70
  1. विद्यैक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावाः
    सर्वास्वानन्दतादेर्गुणिवदनुगतिः प्राणवासस्त्वदृष्टिः ।
    शाण्डिल्यैक्यं विभज्य स्थितिरहरहमोस्सम्भृतेस्स्थानसीमा
    पुंविद्याया विभेदोऽध्ययननियतता शन्न इत्यादिकानाम् ॥
३४-तमाहोबिल-यतिः - 70
  1. विद्यैक्येत्यादि । विद्यैक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावाः - विद्यैक्यञ्च उद्गीथविद्याद्वितयविभजनञ्च प्राणविद्यैकभावश्च विद्यैक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावाः । विद्यैक्यं वैश्वानरविद्यादीनामनेकशाखासु श्रूयमाणानां संयोगरूपचोदनाख्याविशेषादैक्यम् । इदं ‘सर्ववेदान्त’ इत्यादिप्रथमाधिकरणार्थः । उद्गीथविद्याद्वितयविभजनम् - छान्दोग्यवाजसनेयकपठितयोः उद्गीथविद्ययोः द्वितयस्य उद्गीथसामान्योद्गीथावयवप्रणवरूपरूपभेदादिभिर्विभागः । अयं ‘अन्यथात्वं शब्दात्’ इत्यादिद्वितीयाधिकरणार्थः । प्राणविद्यैकभावः - छान्दोग्यवाजसनेयककौषीतक्यादिपठितायाः प्राणविद्याया ज्यैष्ठ्यश्रैष्ठ्यादिगुणसाम्योपपादनेन एकविद्यात्वम् । इदं ‘सर्वाभेदादान्यत्रेमे’ इत्यादितृतीयाधिकरणार्थः । सर्वास्वानन्दतादेर्गुणिवदनुगतिः - सर्वासु परविद्यासु आनन्दत्वादिपञ्चकस्य गुणिभूतब्रह्मवदनुगतत्वम् । इदं ‘आनन्दादयः प्रधानस्य’ इत्यादिचतुर्थाधिकरणार्थः । प्राणवासस्त्वदृष्टिः - आचमनीयास्वप्सु प्राणवासस्त्वानुसन्धानम् । इदं ‘कार्याख्यानात्’ इत्यादिपञ्चमाधिकरणार्थः । शाण्डिल्यैक्यम् - वाजसनेयके अग्निरहस्ये बृहदारण्यके चाम्नातायाश्शाण्डिल्यविद्याया आरण्यकोक्तवशित्वादिगुणजातस्य अग्निरहस्यप्रतिपन्नसत्यसङ्कल्पत्वविततिरूपत्वादिभिर्गुणाविशेषप्रतिपादनेन एकविद्यात्वम् । शाण्डिल्येन दृष्टा विद्या शाण्डिली तस्या ऐक्यमिति वा, शाण्डिल्याशब्देन लक्षणया विद्याप्रतिपादनमङ्गीकृत्य शाण्डिल्याया ऐक्यमिति वा समासः । अयं ‘समान एवञ्च’ इत्यादिषष्ठाधिकरणार्थः । अहरहमोर्विभज्य स्थितिः - बृहदारण्यकपठिताक्ष्यादित्यमण्डलपुरुषोपासनयोः स्थानभेदेन विद्याभेदात् तच्छेषभूतयोर्द्वयोरहरहमिति नाम्नोः क्रमेणादित्यमण्डलोपासननियततया अक्ष्युपासननियततया च विभज्य स्थितिः । अयं ‘सम्बन्धादेवम्’ इत्यादिसप्तमाधिकरणार्थः । सम्भृतेस्स्थानसीमा - सम्भृतेः ‘ब्रह्म ज्येष्ठा वीर्या सम्भृतानि’ इत्याद्यनारभ्यवाक्यप्रतिपन्नज्येष्ठवीर्यसम्भृत्यादिगुणजातस्य सहपठिताल्पस्थानकविद्यास्वसम्भावितद्युव्याप्त्याद्युचितस्थानव्यवस्थितिः । अयं ‘सम्भृतिद्युव्याप्ति’ इत्याद्यष्टमाधिकरणार्थः । पुंविद्याया विभेदः - छान्दोग्ये पठितायाः ‘पुरुषो वाव यज्ञः’ इत्यादिप्रतिपन्नायाः दीर्घायुःफलायाः पुरुषविद्यायाः ‘तस्यैवं विदुषः’ इत्यादितैत्तिरीकोपनिषत्प्रतिपन्नायाः ब्रह्मविद्याङ्गभूतायाः पुरुषविद्यायाश्च परस्परं रूपादिभेदाद्भेदः । अयं ‘पुरुषविद्यायाम्’ इत्यादिनवमाधिकरणार्थः । शन्न इत्यादिकानामध्ययननियतता - ‘शन्नो मित्रः’ इत्यादिमन्त्राणां स्वाध्यायाध्ययनाङ्गता । अयं ‘वेधाद्यर्थभेदात्’ इत्यादिदशमाधिकरणार्थः ॥
कुमार-वरदः - 70
  1. उक्तानामधिकरणानां प्रधानार्थभेदान् विभज्योद्गृणाति - विद्यैक्येति । प्रथमाधिकरणे विद्यैक्यम् । अतः परम् उद्गीथविद्याद्वितयविभजनम् । इत्थमनुक्रमात् प्राणविद्यैकभावः । सर्वासु विद्यास्वानन्दतादेस्स्वरूपनिरूपकधर्मस्य स्वरूपवदनुगतत्वम् । प्राणवासस्त्वदर्शनम् । शाण्डिल्यविद्यैक्यम् । अहश्शब्दस्य अहंशब्दस्य च विभज्यावस्थानम् । सम्भृत्यादिगुणस्य स्थाननियमः । पुरुषविद्याभेदः । ‘शन्नः’ इत्यादिमन्त्राणामध्ययनशेषत्वम् ॥
मूलम् - 70
  1. विद्यैक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावाः
    सर्वास्वानन्दतादेर्गुणिवदनुगतिः प्राणवासस्त्वदृष्टिः ।
    शाण्डिल्यैक्यं विभज्य स्थितिरहरहमोस्सम्भृतेस्स्थानसीमा
    पुंविद्याया विभेदोऽध्ययननियतता शन्न इत्यादिकानाम् ॥
विश्वास-प्रस्तुतिः - 71
  1. हानाद्यन्योन्ययोगस्तदुचितसमयो देवयानादिसाम्यं
    सर्वत्रास्थूलतादि व्यतिहरणमथानेकशिष्यश्रुतानाम् ।
    दह्रोपास्त्येकभावो गुणफलविधिरुद्गीथमाश्रित्य दृष्टौ
    गुण्यावृत्तिर्गुणार्थं निखिलपरतरोपास्तिवेद्यावसायः ॥
३४-तमाहोबिल-यतिः - 71
  1. हानादीत्यादि । हानाद्यन्योन्ययोगः - हानादेः ‘अश्व इव रोमाणि विधूय पापम्’ ‘तत्सुकृतदुष्कृते धूनुते’ ‘सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्याम्’ इत्यादिप्रतिपन्नसुकृतदुष्कृतप्रहाणतत्सुहृद्द्विषत्प्रवेशयोः पृथक् श्रुतयोरपि परस्परं सहानुसन्धेयत्वरूपस्सम्बन्धः । अयं ‘हानौ तूपायन’ इत्याद्येकादशाधिकरणार्थः । तदुचितसमयः - तस्य सुकृतदुष्कृतप्रहाणस्य उचितो देहविश्लेषकालरूपस्समयः ।अयं ‘साम्पराये’ इत्यादिद्वादशाधिकरणार्थः । देवयानादिसाम्यम् - देवयानादेः अर्चिरादेस्साम्यं सर्वब्रह्मविद्यानिष्ठसाधारण्यम् । इदं ‘अनियमस्सर्वेषाम्’ इत्यादित्रयोदशाधिकरणार्थः । अस्थूलतादि - अस्थूलत्वादिकं स्थूलादिप्रपञ्चवैलक्षण्यरूपम् । सर्वत्र - सर्वब्रह्मविद्यास्वनुसन्धेयमित्यर्थः । अयं ‘अक्षरधियाम्’ इत्यादिचतुर्दशाधिकरणार्थः । अथ अनेकशिष्यश्रुतानां व्यतिहरणम् - तदुपरितनाधिकरणे उषस्तकहोलाख्यानेकशिष्यश्रुतानां ब्रह्मसम्बन्धिनां प्राणनादिव्यापारकर्तृत्वाशनायाद्यतीतत्वादीनां सर्वान्तरत्वपर्यन्तानां गुणानां व्यतिहरणं मेलनेनानुसन्धानं कार्यमित्यर्थः । अयं ‘व्यतिहारो विशिंषन्ति’ इत्यादिपञ्चदशाधिकरणार्थः । दह्रोपास्त्येकभावः - छन्दोगवाजिपठितयोर्दहरोपासनयोर्वशित्वादेस्सत्यसङ्कल्पताप्रकारभेदत्वप्रतिपादनादिना एकरूपगुणकत्वादेकविद्यात्वम् । इदं ‘कामादीतत्र’ इत्यादिषोडशाधिकरणार्थः । उद्गीथमाश्रित्य दृष्टौ गुणफलविधिः - उद्गीथाश्रयोपासने ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इत्यादाविव गुणफलार्थविधिः । अयं ‘तन्निर्धारण’ इत्यादिसप्तदशाधिकरणार्थः । गुणार्थं गुण्यावृत्तिः - अपहतपाप्मत्वादिगुणानुसन्धानार्थं गुणिनो दहराकाशस्य पुनःपुनरनुसन्धानावृत्तिः । अयं ‘प्रदानवत्’ इत्याद्यष्टादशाधिकरणार्थः । निखिलपरतरोपास्तिवेद्यावसायः - निखिलासु परतरोपास्तिषु परविद्यासु वेद्यस्य नारायणत्वेन निष्कर्षः । अयं ‘लिङ्गभूयस्त्वात्’ इत्याद्येकोनविंशाधिकरणार्थः ॥
कुमार-वरदः - 71
  1. हानोपायनयोरन्योन्ययोगः, तयोर्हानोपायनयोः प्राप्तकालः, तथा अर्चिरादेस्सर्वविद्यासाधारणत्वम्, सर्वत्र विद्यासु अस्थूलतादिगुणसंगतिः, अनेकशिष्यश्रुतानामन्योन्यव्यतिहरणम् । दहरविद्यानामैक्यम् । उद्गीथमाश्रित्य दृष्टौ उपासने गुणफलविधिः । अपहतपाप्मत्वादिगुणोपासनेषु सर्वत्र गुणिन आवृत्तिः । सर्वपरविद्यावेद्यो नारायण इति निर्णयः ॥
मूलम् - 71
  1. हानाद्यन्योन्ययोगस्तदुचितसमयो देवयानादिसाम्यं
    सर्वत्रास्थूलतादि व्यतिहरणमथानेकशिष्यश्रुतानाम् ।
    दह्रोपास्त्येकभावो गुणफलविधिरुद्गीथमाश्रित्य दृष्टौ
    गुण्यावृत्तिर्गुणार्थं निखिलपरतरोपास्तिवेद्यावसायः ॥
विश्वास-प्रस्तुतिः - 72
  1. विद्यारूपा मनश्चित्प्रभृतय उचिता ज्ञानरूपक्रतुस्थाः
    क्षेत्री शुद्धोऽनुचिन्त्यः क्रतुगुणसकलोद्गीथपूर्वेषु दृष्टिः ।
    सामस्त्येनैव वैश्वानरभजनमथानेकविद्योपपत्तिः
    मोक्षार्थानां विकल्पः पुनरनियतिरुद्गीथदृष्टेरिहोचे ॥
३४-तमाहोबिल-यतिः - 72
  1. विद्यारूपा इत्यादि । विद्यारूपा मनश्चित्प्रभृतयो ज्ञानरूपक्रतुस्था उचिताः - बुद्धिकल्पनारूपा मनश्चिदाद्यग्नयस्स्वप्रकरणे श्रुत्याद्युपस्थापितविद्यारूपक्रतोरङ्गभूता उचिता इत्यर्थः । अयं ‘पूर्वविकल्पः’ इत्यादिविंशाधिकरणार्थः । क्षेत्री शुद्धोऽनुचिन्त्यः - जीवः अहंग्रहाद्यनुसन्धानवेलायामपहतपाप्मत्वादिविशिष्टश्शुद्ध एवानुसन्धेय इत्यर्थः । अयं ‘एक आत्मनः’ इत्याद्येकविंशाधिकरणार्थः । क्रतुगुणसकलोद्गीथपूर्वेषु दृष्टिः - यज्ञाङ्गभूतसर्वोद्गीथादिषु उपासनविधिः । अयं ‘अङ्गावबद्धाः’ इत्यादि द्वाविंशाधिकरणार्थः । वैश्वानरभजनं सामास्त्येनैव - वैश्वानरोपासनं सर्वावयववैशिष्ट्येनैव कार्यमित्यर्थः । अयं ‘भूम्नः क्रतुवत्’ इत्यादित्रयोविंशाधिकरणार्थः । अथ अनेकविद्योपपत्तिः - तदुपर्यधिकरणे अनेका विद्या इत्यस्योपपत्तिर्युक्तिरित्यर्थः । विद्यानानात्वमिति यावत् । इदं ‘नानाशब्दादि’ इत्यादिचतुर्विंशाधिकरणार्थः । मोक्षार्थानां विकल्पः - मोक्षफलानां परविद्यानां फलतौल्याद्विकल्पः । अयं ‘विकल्पोऽविशिष्टफलत्वात्’ इति पञ्चविंशाधिकरणार्थः । पुनः - पूर्वमुक्तस्यापि पुनः । उद्गीथदृष्टेः - उद्गीथोपासनस्य । अनियतिः - पुरुषार्थत्वेन गोदोहनादिवदनैयत्यमित्यर्थः । अयं ‘अङ्गेषु यथाश्रय’ इत्यादिषड्विंशाधिकरणार्थः । इह - पादे । ऊचे - क्रमादुक्तम् । क्रियापदस्यैकवचनान्तत्वात् प्रथमश्लोके विद्यैक्येत्यादीनां प्रत्येकान्वयासम्भवाच्च इत्यादिकमर्थजातमित्यध्याहारः कार्यः । इह गुणोपसंहारपादे विद्यैक्येत्यादिकमर्थजातमूचे इत्यन्वयः ॥
    ॥ इति तृतीयाध्यायस्य तृतीयः पादः समाप्तः ॥
कुमार-वरदः - 72
  1. मनश्चित्प्रभृतयो विद्यारूपा विद्यामयक्रत्वनुप्रवेशिनः । क्षेत्री तु शुद्ध एवानुचिन्तनीयः । क्रियाङ्गभूतसर्वोद्गीथादिषु उपासनविधिः । वैश्वानरविद्यायां सामस्त्येनैव भजनम् । अथ विद्यानानात्वम् । मोक्षार्थानां विद्यानां विकल्पः । उद्गीथोपासनस्य पूर्वमुक्तस्यापि सुदृढमेव युक्तिभिरनियतिरूचे ॥
    इति तृतीयाध्यायतृतीयपादः सम्पूर्णः ॥
मूलम् - 72
  1. विद्यारूपा मनश्चित्प्रभृतय उचिता ज्ञानरूपक्रतुस्थाः
    क्षेत्री शुद्धोऽनुचिन्त्यः क्रतुगुणसकलोद्गीथपूर्वेषु दृष्टिः ।
    सामस्त्येनैव वैश्वानरभजनमथानेकविद्योपपत्तिः
    मोक्षार्थानां विकल्पः पुनरनियतिरुद्गीथदृष्टेरिहोचे ॥