विश्वास-प्रस्तुतिः - 66
- ज्योतिष्टोमाग्निहोत्रप्रभृतिवदधिकानन्दसिद्ध्यै समुच्चि-
त्यर्हास्स्युर्ब्रह्मविद्या न च भजनविधिः कश्चिदेकं प्रति स्यात् ।
कर्तुं ताः कालभेदात् क्षममिति न मिथो वासनास्थैर्यबाधात्
सम्पूर्णब्रह्मलब्ध्यै पृथगिह च विधिः प्रायणान्ते समाधौ ॥
३४-तमाहोबिल-यतिः - 66
- ज्योतिष्टोमेत्यादि । ज्योतिष्टोमाग्निहोत्रप्रभृतिवत् - एकस्मै स्वर्गादिफलाय विहिता ज्योतिष्टोमाग्निहोत्रादय एकेनैवाधिकारिणा फलाधिक्यार्थं यथा समुच्चयेनानुष्ठीयन्ते तद्वत् । अधिकानन्दसिद्ध्यै - एकद्वित्र्यादिविद्यासाध्यानन्दादधिकानन्दलाभाय । ब्रह्मविद्यास्समुच्चित्यर्हास्स्युः - सर्वा ब्रह्मविद्यास्समुच्चयेनानुष्ठानार्हास्स्युः । कश्चित् - एको भजनविधिः । एकं प्रति - एकं पुरुषं प्रति । नच स्यात् - इति न हि नियमस्स्यात् । ‘नचैकं प्रति शिष्यते’ इति न्यायादिति भावः । ताः - सर्वा अपि विद्याः । कालभेदात् । कर्तुम् - अनुष्ठातुम् । क्षमम् - युक्तम् । यथा ज्योतिष्टोमाग्निहोत्रदर्शपूर्णमासादयः कालभेदेनानुष्ठीयन्ते । इति न - इति शङ्कनं न युक्तम् । मिथो वासनास्थैर्यबाधात् - अनेकविद्यानामेकेनानुष्ठानेऽङ्गीक्रियमाणे तत्तद्विद्यानियतविलक्षणस्थानगुणरूपादिविशिष्टब्रह्मध्यानजनितवासनास्थैर्यस्य तादृशविद्यान्तरवासनया एवं तद्वासनास्थैर्यस्य तादृशविद्यान्तरवासनावशेनेति च परस्परं बाधापत्तेः । ‘तस्मात्सर्वेषु कालेषु मामनुस्मर’ इति विधेस्सर्वविद्यातुल्यतया सदा तच्चिन्तनेन वासनास्थैर्यमावश्यकम्, नह्येवं कर्मानुष्ठाने विरोधः क्रियारूपत्वात् । इह च - मोक्षशास्त्रे च । सम्पूर्णब्रह्मलब्ध्यै - निखिलविभूतिगुणविग्रहविशिष्टब्रह्मलाभरूपमोक्षाय । प्रायणान्ते - देहन्यासावधिके ।समाधौ - तैलधारावदविच्छिन्नस्मृतिसन्ततिरूपे समाधौ । पृथग्विधिः - सदक्षरदहरादिविद्याभेदेन प्रत्येकं विधिर्दृश्यते । यदविकलब्रह्मप्राप्तिरूपं फलं तस्मै प्रत्येकं प्रायणान्तानां विद्यानां नैरपेक्ष्येण विधिर्दृश्यते, अतस्ससर्वस्यापि पुरुषायुषस्य एकविद्यावरुद्धत्वात् विद्यान्तरानुष्ठानकाल एव न सम्भाव्यते, अतो विद्यानां फलतौल्याद्विकल्प एवेति ॥
कुमार-वरदः - 66
- अत्र भाष्य एव सङ्गतिर्व्यक्तमुच्यते ‘ब्रह्मप्राप्तिफलानां सद्विद्यादहरविद्यादीनां नानात्वमुक्तम् । इदानीमासां विद्यानामेकस्मिन् पुरुषे प्रयोजनवत्त्वेन समुच्चयोऽपि सम्भवति उत प्रयोजनाभावात् विकल्प एवेति विशये’ इति । तदर्थविचारस्तु - किमेकस्मिन् पुरुषे प्रयोजनसम्भवात् सर्वासां समुच्चयः उत विकल्पः । तदर्थं विचार्यते - किं सर्वासु विद्यासु फलरूपा ब्रह्मप्राप्तिरेकरूपा उत स्वर्गादिप्राप्तिवत् विलक्षणेति । अत्र पूर्वपक्षी मन्यते - लोके हि ज्योतिष्टोमाग्निहोत्रप्रभृतयस्स्वर्गाद्यर्थं विहिता एकेनैवाधिकारिणा फलाधिक्यार्थं समुच्चयेनैवानुष्ठीयन्ते, तत्तदनुष्ठानाधिक्येन फलञ्चाधिकमुपलभ्यते, एवमत्रापि ब्रह्मविद्याः परब्रह्मप्राप्त्यर्थं समुच्चयेनानुष्ठीयन्ताम्, फलमपि देशकालाधिक्येन तारतम्येन लभ्यतामिति । तदिदमाह - ज्योतिष्टोमेति । नचैकस्यैवाधिकारिण एकमुपासनमिति नियमोऽस्तीत्याह - न चेति । ‘न चैकं प्रति शिष्यते’ इति न्यायेन सर्वो़ऽपि भजनविधिस्सर्वान्प्रत्येव विधीयते । तेन समुच्चयस्सम्भवत्येवेति । नन्वेकस्योपासनस्य चिरकालानुष्ठेयत्वात् उपासनान्तरस्य कालो नास्तीत्याशङ्क्य परिहरति - कर्तुमिति । ज्योतिष्टोमाग्निहोत्रादिवत् अत्राप्यनुक्रमेणानुष्ठातुं शक्यत इत्यनुष्ठानकालाभावात् न समुच्चय इति न भ्रमितव्यमित्यर्थः । तमिमं पक्षं प्रतिक्षिपति - नेति । तत्र हेतुमाह - मिथ इति । अयमर्थः - ‘स खल्वेवं वर्तयन् यावदायुषम्’ इति ब्रह्मविद्याया आशरीरपातमनुष्ठेयत्वं श्रूयते । तच्च सर्वासामपि ब्रह्मविद्यानां समानमेव । तेनैकयैव ब्रह्मविद्यया कृत्स्नस्यापि कालस्यावरुद्धत्वात् ब्रह्मविद्यान्तरानुष्ठानकालाभावात् समुच्चयो न भवत्येव । इत्थमुपपादितमर्थं निगमयति - सम्पूर्णेति । अत्रैकमेव फलं दृश्यते या सम्पूर्णब्रह्मलब्धिः, तत्सिद्ध्यै पृथगेवानुष्ठेयान्युपासनानि, तानि च पृथगेव विधीयन्ते । तत्र हेतुमाह - प्रायणान्ते समाधाविति । अयमर्थः - एकैकस्सद्विद्यादहरविद्यादिस्समाधिः प्रायणान्तो विधीयते । तेन विधेयानां सामस्त्येनानुष्ठानविरोधात् प्रत्येकानुष्ठानलाभाय पृथगेव साधनत्वमिति विकल्प एव स्वीकार्यः ॥
मूलम् - 66
- ज्योतिष्टोमाग्निहोत्रप्रभृतिवदधिकानन्दसिद्ध्यै समुच्चि-
त्यर्हास्स्युर्ब्रह्मविद्या न च भजनविधिः कश्चिदेकं प्रति स्यात् ।
कर्तुं ताः कालभेदात् क्षममिति न मिथो वासनास्थैर्यबाधात्
सम्पूर्णब्रह्मलब्ध्यै पृथगिह च विधिः प्रायणान्ते समाधौ ॥
विश्वास-प्रस्तुतिः - 67
- रूपादीनां विशेषैर्ननु परभजनं नैकरूपं विभक्तं
सामग्रीभेदतस्तत्फलमपि विषमं सम्मतं न्यायतस्स्यात् ।
न स्यात् सर्वासु विद्यास्वपि हि फलतया वक्ष्यते भोगसाम्यं
प्राप्यैक्यञ्च प्रसिद्धं बहुसरणिजुषां लोकतो वेदतश्च ॥
३४-तमाहोबिल-यतिः - 67
- रूपादीनामित्यादि । रूपादीनाम् - रूपसंयोगचोदनाख्यानाम् । विशेषैः - भेदैः । परभजनम् - परमात्मोपासनम् । नैकरूपम् - एकरूपं न भवतीति नैकरूपम् । नगनैकादिशब्दवत् नसमासः । अनेकविधतया । विभक्तं ननु - परस्परभिन्नतया प्रतिपादितं खलु । सामग्रीभेदतः - एवं कारणभेदात् । तत्फलमपि - विद्यासाध्यं मोक्षरूपं फलमपि । न्यायतः - कारणभेदात्कार्यभेद इति न्यायात् । विषमं सम्मतं स्यात् - विभिन्नतयाङ्गीकार्यं भवतु । न स्यात् - एवं न भवेत् । सर्वास्वपि विद्यासु - सदक्षरदहरादिषु सर्वास्वपि विद्यासु ।भोगसाम्यम् - ब्रह्मणा सहानन्दसाम्यम् । फलतया वक्ष्यते हि - फलत्वेन ‘भोगमात्रसाम्यलिङ्गाच्च’ इति वक्ष्यते हि । बहुसरणिजुषाम् - नानामार्गगामिनाम्, नानाविधाग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादिकर्मानुतिष्ठतां च । प्राप्यैक्यञ्च - एकग्रामरूपगम्यैक्यञ्च, एकस्वर्गरूपफलैक्यञ्च । लोकतो वेदतश्च प्रसिद्धम् - लोके वेद च प्रसिद्धम् । अतो बहुभिर्मार्गैरेकग्रामप्राप्तिवत् अग्निहोत्रादिभिर्बहुभिः कर्मभिरेकस्वर्गफललाभवच्च बहुभिर्विद्याभिर्ब्रह्मप्राप्तिरूपमेकमेव फलं लब्धुं युज्यत इति फलाभेदाद्विद्यानां विकल्प एवेति सिद्धम् ॥
कुमार-वरदः - 67
- ननु भवता ब्रह्मविद्यानां फलैक्यात् विकल्प एवेति प्रतिज्ञातम्, नहि प्रतिज्ञामात्रेणार्थसिद्धिः, फलैक्यमेव हि नाङ्गीकुर्महे कारणभेदे कार्यभेदस्यावश्यसम्भवात्, कारणानि तु ब्रह्मोपसनानि भिन्नान्येव रूपादिभेदात्, तेन फलभेदोऽप्यवश्याश्रयणीयः, तस्मात् भिन्नफलत्वे कथं विकल्प इतीमं पूर्वपक्षमनुवदति - रूपादीनामिति । शब्दान्वयस्तु - रूपादीनां विशेषैः परभजनं नैकरूपं विभक्तम् । नैकरूपमिति नगनैकादिशब्दवन्नसमासः । कारणभेदमुपपाद्य फलभेदमप्याह - सामग्रीभेदत इति । सम्मतं न्यायत इति - कारणभेदात्कार्यभेदो लोकसम्मत एवेति । तदिदं प्रतिक्षिपति - न स्यादिति । तत्र हेतुमाह - सर्वास्विति । ‘भोगमात्रसाम्यलिङ्गाच्च’ इति ‘निरञ्जनः परमं साम्यमुपैति’ इतिश्रुतिप्रतिपन्नं भोगसाम्यमेव फलतयोच्यते, तेन फलैक्यसिद्धिः । ननु सालोक्यादीनां चतुर्णामपि फलत्वेनाभिधानात् कथं फलैक्यमित्याशङ्क्याह - प्राप्यैक्यमिति । ‘सायुज्यमन्ये स तु मोक्ष उक्तः’ इत्यनेन ब्रह्मणस्सायुज्यमेव मोक्ष इति निर्णीतम् । सालोक्यादीनि तु तदन्तर्गततया फलत्वेनानूद्यन्त इति भावः । अनेन भिन्नानामुपायानां भिन्नमेव फलमिति शङ्कापि निरस्ता । लोकतो वेदतश्चोपायभेदेऽपि फलैक्यदर्शनात् । लोके हि बहुभिर्मार्गैरेकमेव ग्रामं प्राप्नुवन्ति वेदेऽपि यागदानहोमादिभिर्बहुभिरपि कर्मभिस्तत्रतत्र विहितैरेकमेव फलं प्राप्नुवन्ति कर्मठाः । तथा अध्यात्मविदोऽपि स्तुतिनमस्कारकीर्तनादिभिः परमपुरुषमाराध्य स्वाभिमतं फलं प्राप्नुवन्तीति भारतादिप्रसिद्धम् । एवं नानाविद्यानिष्ठाः स्वाधिकारानुरूपतत्तद्विद्यानुष्ठानेन परमपुरुषं प्राप्नुवन्तीति श्रुतिसिद्धत्वात् सुसङ्गतमेतत् ॥
मूलम् - 67
- रूपादीनां विशेषैर्ननु परभजनं नैकरूपं विभक्तं
सामग्रीभेदतस्तत्फलमपि विषमं सम्मतं न्यायतस्स्यात् ।
न स्यात् सर्वासु विद्यास्वपि हि फलतया वक्ष्यते भोगसाम्यं
प्राप्यैक्यञ्च प्रसिद्धं बहुसरणिजुषां लोकतो वेदतश्च ॥