39 शब्दादिभेदाधिकरणम्

विश्वास-प्रस्तुतिः - 63
  1. सर्वासु ब्रह्म वेद्यं फलमपि खलु तद्ब्रह्मविद्येति चाख्या
    ध्यानाद्युक्त्येकलक्ष्ये विधिरपि भजने सर्वविद्यैक्यमित्थम् ।
    तन्नाख्यारूपभेदात् तदुपहितविधौ तेन वैशिष्ट्यसिद्धेः
    मिश्रं मध्वादिविद्याफलमिह च पृथक्काम्यविद्यासु चैवम् ॥
३४-तमाहोबिल-यतिः - 63
  1. सर्वास्वित्यादि । सर्वासु ब्रह्म वेद्यम् - सर्वासु वैश्वानरदहराक्षरोपकोसलशाण्डिल्यादिविद्यासु ब्रह्मैव वेद्यम् । तेन रूपमविशिष्टमित्यर्थः । फलमपि तत् खलु - सर्वब्रह्मविद्यासाध्यं फलमपि तद्ब्रह्मैवेति सर्वमतसम्मतं खल्वित्यर्थः । आख्या च ब्रह्मविद्येति - संज्ञा च ब्रह्मविद्येति सर्वासामविशिष्टेत्यर्थः । विधिरपि ध्यानाद्युक्त्येकलक्ष्ये भजने - चोदना च ध्यानोपासनादिज्ञानविशेषवाचिपदवाच्ये भक्तिरूपे विषये इत्यविशिष्टा । इत्थं सर्वविद्यैक्यम् । - एवं संयोगरूपचोदनाख्यानामविशेषोपपादनात् सर्वासामपि ब्रह्मविद्यानामैक्यमस्त्विति । तन्न - तच्छङ्कनमयुक्तम् । आख्यारूपभेदात् - सद्धिद्यादहरविद्याभूमविद्येत्यादिरूपाणां आख्यानाम् अपहतपाप्मत्वादिरूपाणां रूपाणाञ्च भेदात् । नहि ब्रह्मविद्येति सामान्याख्या ब्रह्मरूपं सामान्यरूपञ्च दहराक्षरादिविशेषाख्याभेदम् अपहतपाप्मत्वादितत्तद्विद्याप्रतिनियतगुणविशेषभेदञ्च वारयितुं शक्नुयादिति भावः । तदुपहितविधौ तेन वैशिष्ट्यसिद्धेः - उदाहृततत्तद्रूपविशेषज्ञानविशेषविधाने तैरेव रूपविशेषैर्विद्यानां परस्परविलक्षणचोदनाविशेषसिद्धेः । मध्वादिविद्याफलं मिश्रम् - मध्वादिविद्यासु वस्वादिपदप्राप्तिपूर्वकब्रह्मप्राप्तेः फलतया फलमितरफलमिलितम् । इह - तदितरब्रह्मविद्यासु । पृथक् - फलान्तरामिश्रं ब्रह्मप्राप्तिरूपमेव फलम् । काम्यविद्यासु च एवम् - वेदान्तोक्तासु काम्यविद्यासु च एवमुक्तरीत्या संयोगरूपचोदनादिभेदैर्भेदो निरूपणीयः ॥
कुमार-वरदः - 63
  1. पूर्वस्मिन्नधिकरणे विद्याविशेषविषयचिन्ता कृता, इदानीं सर्वविद्याविषयचिन्ता क्रियत इति सङ्गतिः । अथवा वैश्वानरविद्यायां समस्तोपासनस्यैवोपपन्नत्वेन व्यस्तोपासनानामभावात् विद्यानानात्वं निराकृतम्, अधुना सद्विद्यादहरविद्योपकोसलनिद्यादिषु नानात्वं भेदकप्रमाणानुरोधादुपपाद्यत इति सङ्गतिः । तदर्थविचारस्तु - वेदान्तविधेयानां सर्वासां विद्यानां किमैक्यमेव उत भेद इति । तदर्थं विचार्यते - किं प्रत्ययावृत्तिरूपविदिधात्वर्थोपासनस्य सर्वत्र ब्रह्मकर्मतया रूपाभेदात्, अपुनरावृत्तिरूपफलाभेदाच्चैक्यसमाश्रयणं न्याय्यम्, उतोपास्यब्रह्मण एकत्वेऽपि अपहतपाप्मत्वादिगुणविशिष्टस्योपास्यतयोपासनस्यापि भेदसम्भवात् तादृशोपासनप्रतिपादने निरपेक्षत्वात् वाक्यानां भेदसमाश्रयणं न्याय्यमिति । अत्र पूर्वपक्षी विद्यैक्यं सयुक्तिकमुपपादयति - सर्वास्विति । अत्र प्रथमाधिकरणे संयोगरूपचोदनाख्याविशेषात् विद्यैक्यमुक्तम्, तदत्रापि समानम् । सर्वास्वपि विद्यासु ब्रह्मैव वेद्यमिति रूपमविशिष्टम् । संयोगोऽप्यविशिष्ट इत्याह - फलमपीति । तथा आख्याप्यविशिष्टा ब्रह्मविद्येति । अस्तु त्रितयमिदमविशिष्टम् तथापि चोदना भिद्यते क्वचित् ‘विद्यात्’ इति, क्वचिच्च ‘उपासीत’ इति, क्वचिच्च ‘निदिध्यासितव्यः’ इति, क्वचिच्च ‘निचाय्य तं मृत्युमुखात्प्रमुच्यते’ इति दर्शनपर्यायेण धातुना मृत्युतरणोपाय उच्यते । भगवद्गीतादिषु भक्तिशब्देनैव क्रियासमभिहारेणापवर्गसाधनं विधीयते । अतः कथं चोदनाभेदे सति विद्यैक्यशङ्का? मैवम् । भाष्य एव भगवता भाष्यकारेणैव सर्वेषामेवैषां विधीनां छागपशुन्यायेनैकार्थ्यमुपपादितम् । तेनैकार्थ्यं सिद्धम् । अपर्यायप्रायाणामेव हि शब्दानां प्रयोगे चोदनाभेदमाहुस्तान्त्रिकाः । यथा यजति ददाति जुहोतीति । अत्र पुनरेकत्रैव विश्रान्तेर्न चोदनाभेदः । तदिदं दर्शयति - ध्यानादीति । विधिरप्यविशिष्ट एवेत्यर्थः । तस्मात् विद्यैक्यमेवेति । तदेतन्निराकरोति - तन्नेति । अत्राख्यादिभेदरूपं हेतुचतुष्टयमाह - आख्येत्यादिना । आख्याभेदस्तावत् सद्विद्यादहरविद्याभूमविद्येत्यादिः । नच सामान्यनाममात्रैक्यं विशेषनामप्रयुक्तं विद्याभेदं निवारयति यथा ‘अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिः’ इति विशेषनामप्रयुक्तं भेदं सर्वसाधारणयागादिशब्दमात्रं न निवारयति । तद्वदत्रापि ब्रह्मविद्येति सामान्यनाममात्रं विद्याभेदं न निवारयितुं शक्नोति । रूपभेदश्च सर्वास्वपि विद्यासु स्फुटमोवोपलभ्यते । ब्रह्मेति रूपसामान्यं तु तत्तद्विद्यासु प्रतिनियतगुणविशेषप्रयुक्तरूपभेदस्य न परिपन्थितामश्नुते विशेषणभेदाद्विशिष्टभेदस्यापरिहार्यत्वात् । इत्थं हि कर्मकाण्डेऽप्यनुष्ठाननियमः । इत्थं रूपभेदमाख्याभेदञ्चोपपाद्य चोदनाभेदमप्युपपादयति - तदुपहितेति । तत्तद्विद्यासाधारणगुणविशेषितवेदनविद्यौ ‘अर्थेनैव विशेषो हि निराकारतया धियाम्’ इति न्यायेन तेनतेनार्थेनैव तत्तद्विद्याभेदसिद्धेश्चोदनानामपर्यायत्वमेवेति भाष्यकारैरेव सुव्यक्तमुपपादितम् । अत्र संयोगभेदोऽप्यस्तीत्याह - मिश्रमिति । मधुविद्यायां वसुपदप्राप्तिपूर्वकपरमात्मप्राप्तेः फलत्वात् क्वचित् मिश्रं फलम्, विद्यान्तरेषु केवलपरमात्मप्राप्तेः फलत्वादमिश्रमेव फलमिति संयोगभेदोऽप्यस्ति । इत्थं ब्रह्मविद्यासूक्तन्यायेन वेदान्तभागोक्तासु काम्यविद्यास्वपि भेदो निरूप्य इत्याह - काम्येति ॥
मूलम् - 63
  1. सर्वासु ब्रह्म वेद्यं फलमपि खलु तद्ब्रह्मविद्येति चाख्या
    ध्यानाद्युक्त्येकलक्ष्ये विधिरपि भजने सर्वविद्यैक्यमित्थम् ।
    तन्नाख्यारूपभेदात् तदुपहितविधौ तेन वैशिष्ट्यसिद्धेः
    मिश्रं मध्वादिविद्याफलमिह च पृथक्काम्यविद्यासु चैवम् ॥
विश्वास-प्रस्तुतिः - 64
  1. नानाशब्दादिभेदादिति कथमवदत् सूत्रकृच्छब्दसाम्ये
    न ह्येते यागदानादय इव भिदुरा भक्तिविश्रान्तिसिद्धेः ।
    सत्यं शब्दस्य भेदस्त्वयमुपचरितो रूपभेदद्रढिम्ने
    ज्ञानं ये चाविधेयं करणमिति जगुस्तन्निरासेऽभिसन्धिः ॥
३४-तमाहोबिल-यतिः - 64
  1. नानाशब्दादीत्यादि । सूत्रकृत् शब्दसाम्ये शब्दादिभेदात् नाना इति कथमवदत् - सूत्रकारश्शब्दसाम्ये वेदनोपासनध्यानादीनां विद्यावाचिशब्दानां अर्थभेदाभावात् पर्यायत्वरूपे साम्ये अविशेषे तिष्ठति सति शब्दभेदान्नानेति कथमुक्तवान् । भक्तिविश्रान्तिसिद्धेः - ‘वेदनमुपासनं स्यात्’ इत्यादिवाक्यकारभाष्यकारवाक्यैस्सर्वेषामपि मोक्षोपायभूतज्ञानवाचिशब्दानां भक्तिरूपापन्नज्ञानविशेषे पर्यवसानसिद्ध्या । एते - ‘विद्यात्’ ‘उपासीत’ ‘ध्यायीत’ इत्यादयश्शब्दाः । यागदानादय इव - यागदानहोमवाचकाः यजति ददाति जुहोतीत्यादिशब्दा इव । भिदुरा नहि - अर्थभेदेनापर्याया न भवन्ति हि । चोदनाभेदो हि नाम यजतिजुहोतिददातीत्यपर्यायेण शब्देन भावार्थविधिः । सत्यम् - अर्धाङ्गीकारपरोऽयम् । उपचरितोऽयं शब्दस्य भेदस्तु रूपभेदद्रढिम्ने - उपात्त इति शेषः । शब्दान्तराधिकरणोक्तरीत्या मुख्यस्य शब्दभेदस्याभावात् रूपभेदप्रयुक्ततयोपचरितोऽयं शब्दस्य भेदो, रूपभेदद्रढिम्ने - रूपभेदस्य दार्ढ्याय, आरोपितत्वनिरासेन तात्त्विकत्वस्थापनाय उपात्तः । ये अविधेयं ज्ञानं करणमिति जगुस्तन्निरासे चाभिसन्धिः - ये मायिप्रभृतयः अविधेयं विधेरविषयं ज्ञानं करणमिति मोक्षोपायभूतमित्युक्तवन्तः, तन्निरसने चाभिसन्धिः । अयमाशयः - यदि वेदनध्यानोपासनादिशब्दानां तत्तत्प्रकरणस्थानां पर्यायत्वम्, यदि वा छागपशुन्यायेन विशेषपर्यवसानम्, यदि वा भाष्यकारोक्तक्रमेण भिन्नेषु प्रकरणेषु वेद्यभेदनिबन्धनभेदप्रतिपादकत्वेनापर्यायत्वम्, सर्वथापि विधेयमेव ज्ञानम्, तथा विधेयादेव ज्ञानात् अपवर्गसिद्धिरितीममर्थमुपपादयितुं चोदनाभेदकथनमिति ॥
कुमार-वरदः - 64
  1. अत्र खलु ‘नाना शब्दादिभेदात्’ इति विद्याभेदं वदन् सूत्रकारश्शब्दभेदमेव पुरस्करोति, शब्दभेदो नाम चोदनाभेदः, चोदनाभेदोऽपि यजतिददातिजुहोतीत्यपर्यायेण शब्देन भावार्थविधिः । अत्र पुनर्भाष्यकारैरेव वेदनोपासनादिशब्दानां पर्यायत्वमुपपादितम् । तेन शब्दसाम्ये सति कथं ‘नाना शब्दादिभेदात्’ इति सूत्रकारोणोच्यत इति कश्चिदाक्षिपति - नाना शब्देति । विद्यात्, उपासीत, ध्यायीत, इति धातुभेदादिति पराभिप्रायमाशङ्क्योत्तरमाह - नहीति । धातवो हि न स्वरूपभेदमात्रेण शब्दभेदत्वमश्नुवते, अस्ति विद्यते भवतीत्यादीनामपि शब्दभेदत्वप्रसङ्गात् । तेनापर्यायशब्दप्रयोग एव शब्दभेदो वाच्यः । विद्यादित्यादीनां पर्यायत्वं प्रागेव समर्थितमिति । सत्यमित्यर्धाङ्गीकारेण परिहरति । यद्यपि शब्दान्तराधिकरणोक्तमुख्यशब्दभेदो नास्ति, अथापि रूपभेदप्रयुक्तश्शब्दभेद उपचर्यते । तत् किमर्थमित्यत्राह - रूपभेदद्रढिम्न इति । अयमर्थः - रूपभेद एवात्र साक्षाद्भेदकः । स तु रूपभेदो धात्वर्थविशेषकत्वेन धात्वर्थमपि भिनत्तीति भिन्नार्थवाचकत्वेन शब्दभेदोऽपि सिध्यतीत्यौपचारिकी शब्दभेदोक्तिः । अत्रोपचारोक्तौ प्रयोजनमाह - ज्ञानमिति । मृषावादिनः खल्वविधेयमेव ज्ञानं मोक्षसाधनमित्याहुः तन्निरासेन ज्ञानस्य विधेयत्वसिद्ध्यर्थं विद्याविषयचोदनाभेदोऽस्तीत्युच्यते । अयमभिसन्धिः - यदि वेदनध्यानोपासनादिशब्दानां तत्तत्प्रकरणस्थानां पर्यायत्वम्, यदि वा छागपशुन्यायेन विशेषपर्यवसानम्, यदि वा भाष्यकारोक्तक्रमेण भिन्नेषु प्रकरणेषु वेद्यभेदनिबन्धनवेदनभेदप्रतिपादकत्वेनापर्यायत्वम्, सर्वथापि विधेयमेव ज्ञानम् । विधेयादेव ज्ञानादपवर्गसिद्धिरितीममर्थं प्रतिपादयितुं चोदनाभेदकथनमिति ॥
मूलम् - 64
  1. नानाशब्दादिभेदादिति कथमवदत् सूत्रकृच्छब्दसाम्ये
    न ह्येते यागदानादय इव भिदुरा भक्तिविश्रान्तिसिद्धेः ।
    सत्यं शब्दस्य भेदस्त्वयमुपचरितो रूपभेदद्रढिम्ने
    ज्ञानं ये चाविधेयं करणमिति जगुस्तन्निरासेऽभिसन्धिः ॥
विश्वास-प्रस्तुतिः - 65
  1. यद्वा शब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यक्
    न्यासोपासे विभक्ते यजनहवनवच्छब्दभेदादभाक्तात् ।
    आख्यारूपादिभेदश्श्रुत इतरसमः किञ्च भिन्नोऽधिकारः
    शीघ्रप्राप्त्यादिभिस्स्याज्जगुरिति च मधूपासनादौ व्यवस्थाम् ॥
३४-तमाहोबिल-यतिः - 65
  1. यद्वेत्यादि । यद्वा - पक्षान्तरे । शब्दादिभेदादिति तु कथयता - नानाशब्दादीतिसूत्रे शब्दादिभेदादितिपदं प्रयुक्तवता सूत्रकारेण । अभाक्तात् मुख्यात् । शब्दभेदात् - ‘अनित्यमसुखं लोकमिमं प्राष्य भजस्व माम्’, ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ इति अपर्यायाच्चोदनाभेदात् । यजनहवनवत् - यजतिजुहोतीत्यादिचोदितयागहोमवत् । न्यासोपासे - न्यसनभजनात्मिके विद्ये । सम्यक् - स्पष्टतया, विभक्ते । आख्यारूपादिभेदः - सद्विद्यादहरविद्येत्यादिर्भक्तेराख्या, निक्षेपो न्यासश्शरणागतिरित्यादिः प्रपत्तेराख्या, एवमाख्याभेदः, सद्विद्यादहरविद्यादीनामपहतपाप्मत्वादिगुणजातं रूपम्, भगवत उपायान्तरस्थानापत्तिरूपं निरपेक्षोपायत्वं प्रपत्ते रूपम्, एवं रूपभेदः । आदिशब्देन वर्णाश्रमधर्मशमदमादिकं भक्तिविद्यास्वङ्गम्, आनुकूल्यसङ्कल्पादिपञ्चकं प्रपत्तिविद्यायामङ्गमिति भेदः प्रत्याय्यः । इतरसमः - सद्विद्यादहरविद्यादितुल्यः । श्रुतः - श्रुतिस्मृत्यादिभिः प्रतिपन्नः । किञ्च - विद्याभेदकहेत्वन्तरञ्चास्तीत्यर्थः ।शीघ्रप्राप्त्यादिभिः - ‘साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी’ इत्यादिप्रमाणसिद्धया एकजन्मावसानादिस्वापेक्षितकालावधिकया प्रपत्तौ शीघ्रप्राप्त्या भक्तेः प्रारब्धानाशकत्वेन प्रारब्धकर्मावसानसापेक्षया विलम्बितया प्राप्त्या च । अधिकारः - तत्तत्फलाकाङ्क्षामूलकस्तत्तद्विद्यानुष्ठानयोग्यतारूपः । भिन्नस्स्यात् - भिन्नो भवेत् । मधूपासनादौ - मधुविद्यादौ । व्यवस्थाम् - अधिकारव्यवस्थाम् । इति च जगुः - एवमेव विलम्बितप्राप्तिशीघ्रप्राप्तिरूपफलभेदनिबन्धनाधिकारव्यवस्थामाचार्या उक्तवन्त इत्यर्थः ॥
कुमार-वरदः - 65
  1. एवं भाष्यकारोक्तप्रकारेण शब्दभेदमुक्त्वा भाष्यकाराभिप्रायस्थं मुख्यमेव शब्दभेदं उपपादयति - यद्वेति । अयमर्थः - नानाशब्दादिभेदादिति सूत्रकारश्शब्दभेदमेव तावत् प्राह । स च शब्दभेदोऽपर्यायशब्दकथनम् । तच्च ब्रह्मविद्यायास्साक्षादेवास्ति । भक्तिप्रपत्त्योर्मोक्षोपायतया विहितयोर्विधिभेददर्शनात् । ‘अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्’ इति भक्तिविधिर्दृश्यते ‘मामेकं शरणं व्रज’ इति प्रपत्तिविधिः । प्रपत्तिरेव हि शरणागतिः । ‘अनन्यसाध्ये’ इत्यस्मिन् प्रपत्तिलक्षणवाक्ये ‘प्रपत्तिश्शरणागतिः’ इति पर्यायत्वेनोपदेशात् । तेन साक्षादेव भक्तिप्रपत्त्योर्विधिभेद उपलभ्यत इति मुख्य एवायं शब्दभेदो भाष्यकारभावस्थः । यजतिददातिजुहोतीत्यादिशब्दभेदवदस्यापि शब्दभेदस्य साक्षादेव शब्दभेदलक्षणोपेतत्वात् । अयमत्र शब्दान्वयः - यद्वेति पक्षान्तरोपन्यासमाह । शब्दादिभेदादिति वदता सूत्रकारेण सम्यगेव न्यासोपासे विभक्ते । तत्र दृष्टान्तमाह - यजनहवनवदिति । तत्र विभागहेतुं दर्शयति - शब्दभेदादिति । अभाक्तादिति मुख्यत्वमाह । तेन पूर्वोक्तप्रकारात् प्रकारान्तरसिद्धिः । एवं चोदनाभेदमुक्त्वा तद्वदेवाख्याभेदो रूपभेदस्संयोगभेदोऽप्यस्तीत्याह - आख्येति । भक्तौ हि सद्विद्यादहरविद्येत्यादिराख्या, प्रपत्तौ पुनर्निक्षेपो न्यासश्शरणागतिरित्यादिः । एवं भक्तिरूपे दहरविद्यादौ अपहतपाप्मत्वादिकं रूपम् । इह पुनरुपायान्तरस्थानापत्तिर्भगवतो रूपम्, तदेव निरपेक्षोपायत्वमित्यध्यात्मविद्भिरभिधीयते । भक्तियोगनिष्ठानां हि सद्विद्यादहरविद्यादिसापेक्षः परमपुरुषः फलं ददाति । इह पुनरुपायान्तरस्थाने स्वयमेवावस्थितस्तदेव मुक्तिरूपं फलं ददाति । इदमेवोच्यते ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ इति । अस्यार्थस्य विस्तरो न्यासविंशत्यादिष्वाचार्यप्रबन्धेष्वनुसन्धेयः । इतरसम इति - यथा सद्विद्यादीनामाख्याभेदाद्रूपभेदात् संयोगभेदाद्भेद उपपद्यते तथैव प्रपत्तेरपि भेद इत्यर्थः । यद्यपि सर्वासां ब्रह्मविद्यानां प्रधानफलं मोक्षः तथाप्यनुसन्धानवेलायां तत्तद्रूपविशिष्टभगवदनुभवरूपफलवैषम्यमस्तीति भावः । अधिकारभेदादपि रूपभेदमाह - किञ्च भिन्नोऽधिकारश्शीघ्रप्राप्त्यादिभिरिति । भक्तियोगनिष्ठस्य प्रारब्धकर्मावसाने हि मोक्षः । प्रपत्तिनिष्ठस्य तु प्रारब्धमपि कर्म प्रपत्तिरेव क्षपयितुं शक्नोति ‘उपायभक्तिः प्रारब्धन्यतिरिक्ताघनाशिनी । साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी ॥’ इति वचनादेव प्रपत्तेश्शीघ्रफलप्रदत्वश्रवणात् । शब्दार्थस्तु - उपायरूपा भक्तिः प्रारब्धं च न हन्यात् अपि तु तद्व्यतिरिक्तमेव हन्यात् । साध्यभक्तिः प्रपत्तिः प्रारब्धमपि हन्यात् । अत एव भक्तेः प्रपत्तिर्भूयसी फलाधिक्यात् । अत्र आदिशब्देन ‘भक्त्यादौ शक्त्यभावः’ इत्याचार्यग्रन्थोक्ताः पञ्चदशाप्यधिकारविशेषा उच्यन्ते । शक्तिर्ज्ञानं जन्म विलम्बक्षमत्वमित्येतानि समस्तानि भक्त्यधिकारः । तत्रैकैकविरहे द्विकद्विकविरहे त्रिकत्रिकविरहे सर्वविरहे च सम्पद्यन्ते प्रपदनाधिकारा इति पञ्चदशत्वसिद्धिः । ननु ब्रह्मविद्यानां ब्रह्मप्राप्तिरेव फलम्, तच्चैकमेवेत्याशङ्कमानस्य बालबुद्धेरन्यत्र फलभेदं दृष्टान्ततया दर्शयति - जगुरिति । मधुविद्यायां हि वसुपदप्राप्तिपूर्वकपरमात्मप्राप्तिः फलम् । दहरविद्यादौ तु परमात्मप्राप्तिमेव फलतया निर्दिशति । अतस्संयोगभेदादपि न्यासोपासनयोस्सिद्ध एव भेदः ॥
मूलम् - 65
  1. यद्वा शब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यक्
    न्यासोपासे विभक्ते यजनहवनवच्छब्दभेदादभाक्तात् ।
    आख्यारूपादिभेदश्श्रुत इतरसमः किञ्च भिन्नोऽधिकारः
    शीघ्रप्राप्त्यादिभिस्स्याज्जगुरिति च मधूपासनादौ व्यवस्थाम् ॥