विश्वास-प्रस्तुतिः - 61
- व्यस्तो वैश्वानरात्मा प्रतिनियतफलोदाहृतेश्चिन्तनीयः
कृत्स्नोपास्तौ फलोक्तिस्स्तुतिरिह यदि वा कृत्स्नरूपोऽप्युपास्यः ।
मैवं व्यस्तेषु दोषः पृथगनुकथितस्तत्फलोक्तिस्स्तुतिस्स्याद्
दृष्टं ह्यष्टाकपालप्रभृतिषु च तथा तेन चिन्त्यस्समस्तः ॥
३४-तमाहोबिल-यतिः - 61
- व्यस्तो वैश्वानरात्मेत्यादि । वैश्वानरात्मा - ‘प्राचीनशाल औपमन्यवः’ इत्यादिच्छान्दोग्यप्रकरणादौ प्रतिपन्नो द्युमूर्धत्वादिविशिष्टो वैश्वानरात्मा । प्रतिनियतफलोदाहृतेः - ‘अत्त्यन्नं पश्यति प्रियम्’ इत्यादिना तत्तदवयवोपासनस्य व्यवस्थितफलोदाहरणात् । व्यस्तः - द्युप्रभृत्येकैकावयवमात्रविशिष्टः । चिन्तनीयः - उपास्यः । इह - प्रकरणे । कृत्स्नोपास्तौ फलोक्तिः - ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति’ इति समस्तोपासने फलकथनं तु । स्तुतिः - अर्थवाद एव ।यदि वा कृत्स्नरूपोऽपि - समस्तोऽपि । उपास्यः - व्यस्तोपासने फलनिर्देशाद्व्यस्तश्चिन्तनीयः, एवं समस्तोपासने फलनिर्देशात् समस्तोऽपि चिन्तनीयः । मैवम् - एवं न शङ्क्यम् । व्यस्तेषु पृथक् दोषोऽनुकथितः - व्यस्तोपासनविषये विशिष्य ‘मूर्धा ते व्यपतिष्यत्’ इति दोषः श्रुतः । तत्फलोक्तिस्स्तुतिस्स्यात् - उदाहृतं फलवचनमर्थवाद एवेति कल्पनीयम् । अष्टाकपालप्रभृतिषु च तथा दृष्टं हि - ‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते’ इति वाक्ये द्वादशकपालस्यैव विधेयत्वम्, पुत्रगतं पूतत्वादिकं फलम्, अष्टाकपालादीनां विधिः पृथक्फलनिर्देशश्चावयुत्यानुवादमात्रमिति चात्रोक्तमिव पूर्वकाण्डे दृष्टं हि । तेन समस्तश्चिन्त्यः - तेन कारणेन समस्त एवोपास्यः ॥
कुमार-वरदः - 61
- पूर्वाधिकरणे उद्गीथादिकं प्रस्तुतम्, तत्र सामावयवोद्गीथादेस्समस्तस्य व्यस्तस्य चोपासनं श्रुतिसिद्धमिति पूर्वमेवोक्तम्, एवं वैश्वानरविद्यायां किं समस्तस्योपासनं कार्यम् उत व्यस्तस्य उतोभयस्येति शङ्कया सङ्गतिः । तदर्थविचारस्तु - किं वैश्वानरविद्यायां पृथिव्याद्यवयवस्य वैश्वानरस्य व्यस्तस्यैवोपास्यत्वम्, उत व्यस्तस्य समस्तस्य च, अथवा समस्तस्यैवेति । किं ‘उद्दालको हवै भगवन्तः’ इत्यादिवाक्ये उपासनविधिर्व्यस्तस्यैव उत व्यस्तस्य समस्तस्य च, अथवा समस्तस्यैवेति । किं प्रत्यवयवं वैश्वानरव्यपदेशात् फलसम्बन्धश्रवणाच्चावयवेषूपासनविधिनानात्वे ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानम्’ इति समुदायानुवादः, उत ‘अत्त्यन्नं पश्यति प्रियं भवति’ इति व्यस्तोपासने फलश्रवणात् ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति’ इति समस्ते फलश्रवणाच्च उभयत्र विधिर्न्याय्यः, उत एकवाक्यतानुरोधेन ‘यस्त्वेतम्’ इत्यत्र समस्तस्यैवोपासनविधिः, अवयवोपासनं तु अवयुत्यानुवाद इति । अत्र कश्चिदाह - वैश्वानरविद्यायां व्यस्तोपासने फलनिर्देशात् व्यस्त एव चिन्तनीयः । समस्तोपासने फलनिर्देशस्तु अर्थवाद एव । अथवा व्यस्तोपासनवत् समस्तोपासनेऽपि फलनिर्देशात् व्यस्तश्चिन्तनीयः, समस्तश्चापि तथा चिन्तनीय एवेति । तमिमं पक्षमनुवदति - व्यस्त इति । तदेतत् प्रतिक्षिपति - मैवमिति । तत्रोपपत्तिमाह - व्यस्तेष्विति । अत्र हि व्यस्तोपासनेषु दोषोऽभिधीयते, तेन व्यस्तोपासनेषु फलवचनमर्थवादमात्रमिति कल्पनीयम् । उक्तमेवार्थं वैश्वानरेष्टिवाक्यदृष्टान्तेन द्रढयति - दृष्टमिति । यथा ‘वैश्वानरं द्वादशकपालं निर्वापेत्’ इत्यस्मिन् वाक्ये द्वादशकपालनिर्वापस्यैव विधेयत्वम्, ‘पूत एव’ इत्यादिना तस्यैव फलनिर्देश उच्यते । अष्टाकपालादीनां न विधिः तत्र फलनिर्देशश्चावयुत्यानुवादमात्रमिति तान्त्रिकगोष्ठीनिष्ठानां निर्णयः । तद्वदत्रापि समस्तस्यैवोपासनं विधीयते न पुनर्व्यस्तस्य । तत्र फलनिर्देशोऽप्यवयुत्यानुवादेन स्तुतिमात्रमेवेति ॥
मूलम् - 61
- व्यस्तो वैश्वानरात्मा प्रतिनियतफलोदाहृतेश्चिन्तनीयः
कृत्स्नोपास्तौ फलोक्तिस्स्तुतिरिह यदि वा कृत्स्नरूपोऽप्युपास्यः ।
मैवं व्यस्तेषु दोषः पृथगनुकथितस्तत्फलोक्तिस्स्तुतिस्स्याद्
दृष्टं ह्यष्टाकपालप्रभृतिषु च तथा तेन चिन्त्यस्समस्तः ॥
विश्वास-प्रस्तुतिः - 62
- सामस्त्यस्यैव योगे द्रढिमवति महावाक्यतात्पर्यवृत्त्या
व्यस्तेष्वंशाननूद्य स्तुतिनियतनयादान्यपर्यं फलोक्तेः ।
नामादीनामुपास्तौ फलमवधितयापेक्षितं भूमवाक्ये
नाप्येवं प्रत्यवायश्श्रुत इति विषमोदाहृतिर्नार्थसिद्ध्यै ॥
३४-तमाहोबिल-यतिः - 62
- सामस्त्यस्यैवेत्यादि । महावाक्यतात्पर्यवृत्त्या - महावाक्यतात्पर्यपर्यालोचनया । सामस्त्यस्यैव - समस्तानुसन्धानस्यैव । योगे - समन्वये । द्रढिमवति - दार्ढ्ययुक्ते सति दृढतयावगते सतीत्यर्थः । व्यस्तेषु - अवयवोपासनेषु । अंशाननूद्य - जातेष्टिवाक्ये ‘यदष्टाकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति’ इत्यादिभिर्द्वादशकपालांशभूतानष्टाकपालनवकपालदशकपालैकादशकपालादीनंशानूद्य । स्तुतिनियतनयात् - ब्रह्मवर्चसादिफलप्रतिपादकार्थवादन्यायात् । फलोक्तेः - ‘अत्त्यन्नं पश्यति’ इत्यादिव्यस्तोपासनफलवचनस्य । आन्यपर्यम् - स्तुतिपरत्वमेव युक्तम् । भूमवाक्ये - भूमविद्यावाक्ये तु । नामादीनामुपास्तौ अवधितया - उत्तरोत्तरोपासनफलस्य पूर्वपूर्वोपासनफलादुत्कृष्टत्वात् तदुत्कर्षावधितया । फलमपेक्षितम् - पूर्वपूर्वोपासनेष्वपि फलवत्त्वमवश्यमपेक्षितम् । पूर्वोपासनस्य फलवत्त्वाभावे उत्तरोपासनफलस्याधिक्यप्रतिपादनायोगात् । नहि निष्फलात् सफलस्याधिकफलत्वं युज्यते । एवं प्रत्यवायोऽपि न श्रुतः - यथा वैश्वानरविद्यायां व्यस्तोपासने ‘मूर्धा ते व्यपतिष्यत्’ इत्यादिना अनर्थप्राप्तिरूपः प्रत्यवायः श्रुतः, तथा प्रत्यवायोऽपि न श्रुतः । इति - एवम् । विषमोदाहृतिः - विषमस्य भूमविद्यायामवान्तरफलस्य उदाहृतिर्निदर्शनायोपन्यासः । अर्थसिद्ध्यै न - अभिमतार्थसिद्ध्यै न भवति ॥
कुमार-वरदः - 62
- अत्र समस्तोपसनमिव व्यस्तोपासनमपि विहितमेव प्रतीयते फलनिर्देशश्चोभयत्रास्ति, इत्थं भूमविद्यायामपि पूर्वमल्पोपासनमुक्त्वा पश्चादुत्तरोत्तरमधिकोपासनमुच्यते तत्र पूर्वेषामुपासनानामल्पाल्पफलमङ्गीकृतम्, अवयुत्यानुवादत्वमपि न कल्पितम्, कथमिदं वैषम्यमुच्यत इति केनाप्यनुयुक्ते वैषम्यद्वयं दर्शयन् समाधातुमुपक्रमते - सामस्त्यस्येति । इत्थमत्र शब्दान्वयः - महावाक्यतात्पर्यवृत्त्या समस्तानुसन्धानस्यास्मिन् वाक्ये योगे समन्वये द्रढिमवति सति व्यस्तेषूपासनेषु वैश्वानरेष्ट्यादिवत् अंशानुवादेन स्तुतिनियतन्यायात् फलनिर्देशास्यान्यपर्यं स्तुतिपरत्वमेव भवति । भूमविद्यायां तु पूर्वस्मादुत्तरस्याधिकफलसाधनत्वेन भूमत्ववचने पूर्वोपासनानां अल्पफलत्वमवश्यमङ्गीकार्यम् । नहि निष्फलात् सफलस्य अधिकफलत्वं वक्तुं युज्यते, अनन्वितत्वात् । अपि तु अल्पफलादधिकफलस्याधिक्येन भूमत्वं वाच्यम् । तेनावधित्वेन पूर्वेषामपि फलसम्बन्धो वाच्य इति वैषम्यसिद्धिः । अत्र हेत्वन्तरमप्याह - नाप्येवमिति । वैश्वानरविद्यायां व्यस्तोपासने प्रत्यवायश्श्रुतः । भूमविद्यायां तु पूर्वपूर्वोपासने प्रत्यवायो न श्रुतः । तेनेदमपि किञ्चिद्वैषम्यम् । तस्मात् विषमस्य दृष्टान्तस्योदाहरणं नार्थसिद्ध्यै उभयत्रैकरूपत्वरूपार्थसिद्ध्यै न भवत्येव ॥
मूलम् - 62
- सामस्त्यस्यैव योगे द्रढिमवति महावाक्यतात्पर्यवृत्त्या
व्यस्तेष्वंशाननूद्य स्तुतिनियतनयादान्यपर्यं फलोक्तेः ।
नामादीनामुपास्तौ फलमवधितयापेक्षितं भूमवाक्ये
नाप्येवं प्रत्यवायश्श्रुत इति विषमोदाहृतिर्नार्थसिद्ध्यै ॥