विश्वास-प्रस्तुतिः - 60
- उद्गीथादेर्विशेषे भजनविधिरसौ स्यात् स्वसान्निध्यगीते
मैवं सर्वाङ्गिभूतक्रतुमुखत इहाशेषसान्निध्यसिद्धेः ।
सामान्यं व्यक्त्यपेक्षक्रियमपि नियमादर्शने व्रीहितावत्
शब्दश्चोद्गीथमात्रं वदति नतु भिदां छागनीतिस्तु नात्र ॥
३४-तमाहोबिल-यतिः - 60
- उद्गीथादेरित्यादि । असौ भजनविधिः - ‘उद्गीथमुपासीत’ इत्यादिरूपोऽसौ उपासनविधिरसौ । स्वसान्निध्यगीते - स्वसन्निधिगीते । उद्गीथादेर्विशेषे - शाखाविशेषपठितस्वरविशेषविशिष्टोद्गीथादिविशेष एव । स्यात् । मैवम् - एवं मा शङ्किष्ठाः । सर्वाङ्गिभूतक्रतुमुखत इह अशेषसान्निध्यसिद्धेः - उद्गीथोपस्थितिवेलायामेव सर्वशाखाविहितयावदुद्गीथाङ्गकस्य स्वाङ्गिनः क्रतोरुपस्थित्या सर्वेषामप्युद्गीथानामत्रैव सान्निध्यसिद्धेः । नोद्गीथविशेषस्य सन्निधिविशेषोऽस्ति । सामान्यं व्यक्त्यपेक्षक्रियमपि नियमादर्शने व्रीहितावत् - उद्गीथमिति सामान्योपस्थितावपि तत्सामान्यं व्यक्तिविशेषसापेक्षानुष्ठानकमेव, तथापि विशेषनियामकप्रमाणाभावे ‘व्रीहिभिर्यजेत’ इत्यत्र व्रीहितया यथा अविशेषेण सर्वव्रीहिव्यक्तय उपस्थाप्यन्ते, तद्वत् सर्वा एवोद्गीथव्यक्तयस्सामान्येनोपस्थाप्यन्ते । अनुष्ठानं तु तैस्तैरधिकारिभिस्तत्तद्व्रीहिविशेषैरिव तत्तदुद्गीथविशेषैर्भविष्यति । शब्दश्चोद्गीथमात्रं वदति नतु भिदाम् - ‘उद्गीथमुपासीत’ इत्युद्गीथशब्दश्च उद्गीथसामान्यं वदति नतु व्यक्तिविशेषम् । ‘पशुना यजेत’ इति सामान्येन विधानेऽपि ‘छागस्य वपायाः’ इति विशेषश्रवणात् व्यक्तिविशेषपरश्छागशब्दः, अत्र तु न तथा व्यक्तिविशेषसमर्पकं पदमस्तीत्याह - छागनीतिस्तु नात्रेति । अत्र - व्यक्तिविशेषवाचिपदरहिते सामान्योपस्थापकशब्दमात्रयुक्ते उद्गीथप्रकरणे । छागनीतिस्तु - ‘छागो वा मन्त्रवर्णात्’ इत्यधिकरणोक्तन्यायः । न - न सम्भवतीत्यर्थः ॥
कुमार-वरदः - 60
- पूर्वस्मिन्नधिकरणे यत्र यत्र ब्रह्मण उपास्यत्वं तत्रतत्र सर्वत्रापि शुद्धस्य जीवस्योपात्यत्वमुक्तम्, अधुना पुनर्यत्रयत्र शाखासूद्गीथानुप्रवेशस्तत्रतत्र सर्वत्राप्युद्गीथाद्युपासनानुप्रवेशोऽस्ति नेति शङ्कया सङ्गतिः । तदर्थविचारस्तु - ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इति क्रत्वङ्गाश्रयोद्गीथाद्युपासनानि प्रतिशाखं व्यवतिष्ठेरन्निति । तदर्थं विचार्यते - किं ‘उद्गीथमुपासीत’ इत्युद्गीथशब्द उद्गीथमात्रे वर्तते, उत स्वरभेदभिन्नोद्गीथे इति । किं शाखाविशेषस्य स्वरभेदयोगात् स्वरभेदभिन्नोद्गीथव्यक्तेरेव सन्निधिः, उत शेषिभूतक्रतोस्सर्वशाखास्वेकत्वमुखेन सर्वोद्गीथव्यक्तीनां सन्निधिरिति । पूर्वमुद्गीथोपासनयोर्भेदाभेदचिन्ता कृता, समनन्तरं तस्यैवोद्गीथोपासनस्याश्रयिकर्मत्वेन कर्मफलात् पृथक्फलत्वेन पूरुषार्थत्वं प्रसङ्गाच्चिन्तितम्, अधुना पुनरेकत्राम्नातस्योद्गीथोपासनस्य सर्वत्राम्नातोद्गीथमात्रशेषत्वं प्रतिपाद्यत इत्यर्थविभागात् न पौनरुक्त्यम् । अत्र पूर्वपक्षमाह - उद्गीथादेरिति । असौ भजनविधिस्स्वसान्निध्यगीते उद्गीथविशेष एव स्यादिति । तमिमं पूर्वपक्षं प्रतिक्षिपति - मैवमिति । प्रतिक्षेपप्रकारं दर्शयति - सर्वाङ्गीति । सन्निधिवशादेव हि तत्रैवोपासनस्यान्वय इति भवतोच्यते सन्निधिस्सर्वेषामप्युद्गीथानां समान एव सर्वशाखाप्रत्ययन्यायेन सर्वाङ्गिभूतक्रतोस्सन्निधाने सिद्धे सर्वेषामप्युद्गीथानामत्रैव सान्निध्यसिद्धेरिति । ननु सामान्यं व्यक्तिविशेषमन्तरेणानुष्ठानयोग्यं न भवति । तेनोद्गीथमिति सामान्येनोक्तं तत्रत्योद्गीथविशेषरूपव्यक्तिमपेक्षते, ततश्च तस्मिन्नेवोद्गीथविशेषे उपासनान्वयः स्यात्; न स्यात्, यथा ‘व्रीहिभिर्यजेत’ इत्युक्ते व्रीहिमात्रेण यागोऽनुष्ठीयते, एवमत्राप्युद्गीथमात्रान्वयेनोपासनमनुष्ठीयतां नाम । शब्दार्थस्तु - सामान्यं व्यक्त्यपेक्षानुष्ठानमपि नियामकप्रमाणाभावे ‘व्रीहिभिर्यजेत’ इत्यत्र व्रीहितावत् यं कञ्चन व्यक्तिविशेषमुपादायावतिष्ठते । तर्हि ‘पशुना यजेत’ इत्यत्रच्छाग एव पर्यवसानं कथं स्यात् ? इत्थं स्यात् । तत्र हि विशेषपर्यवसानसाकाङ्क्षस्य पशुशब्दस्य विशेषोपस्थापकच्छागशब्दो मन्त्रवर्णे श्रूयते । इह तु तादृशशब्दविशेषो नास्ति । तस्मादुद्गीथमात्रविषयमुपासनं न पुनस्सन्निहितोद्गीथविषयमिति सिद्धमित्याह - शब्दश्चेति । उद्गीथसामान्यं वदति नतु भिदां नपुनरुद्गीथविशेषमिति ॥
मूलम् - 60
- उद्गीथादेर्विशेषे भजनविधिरसौ स्यात् स्वसान्निध्यगीते
मैवं सर्वाङ्गिभूतक्रतुमुखत इहाशेषसान्निध्यसिद्धेः ।
सामान्यं व्यक्त्यपेक्षक्रियमपि नियमादर्शने व्रीहितावत्
शब्दश्चोद्गीथमात्रं वदति नतु भिदां छागनीतिस्तु नात्र ॥