विश्वास-प्रस्तुतिः - 57
- तत्कालाकारिणस्स्यादहमिति भजने कञ्चुकस्यात्मनो धीः
आसत्तेर्मामुपास्स्वेत्युदितवदिति चेन्नान्यथा सन्निकर्षात् ।
शुद्धो ह्यात्मात्र साध्यः फलमतिरविनाभाविनी बोद्धृकृत्ये
बुद्ध्यासन्नेऽन्तरङ्गे सति विधिनियता तत्क्रतुन्यायसिद्धिः ॥
३४-तमाहोबिल-यतिः - 57
- तत्कालाकारिण इत्यादि । अहमितिभजने - ‘त्वं वाहमस्मि भगवो देवते’ इत्यादिवाक्यविहिते अहङ्ग्रहेण भगवदुपासने । कञ्चुकस्य आत्मनः - कञ्चुकवद्भगवच्छरीरभूतस्य जीवात्मनः । तत्कालाकारिणो धीस्स्यात् - उपासनकाले यदाकारः पुरुषः तदाकारिण एव अनुसन्धानं स्यात् । आसत्तेः - उपासनदशायां तावदाकारस्यैव सन्निहितत्वादित्यर्थः । मामुपास्स्वेत्युदितवत् - प्रतर्दनविद्यायामिन्द्रेण मामुपास्स्वेत्युक्तं, तत्र यथा सन्निहितसहस्राक्षत्वाद्याकार एवेन्द्र उपास्यो नतु मुक्तिकालिकरूपविशिष्ट इन्द्रस्तद्वदित्यर्थः । इति चेन्न - इति शङ्क्यते चेन्नैतद्युक्तम् । अन्यथा सन्निकर्षात् - प्रकारान्तरेण सन्निकर्षस्य विद्यमानत्वादित्यर्थः । तदेवोपपादयति - शुद्ध इत्यादिना । अत्र - अत्र मोक्षसाधनप्रकरणे । शुद्ध आत्मा हि - अपहतपाप्मत्वादिगुणाष्टकविशिष्टतया परिशुद्धरूपः खल्वात्मा । साध्यः - फलत्वेन बुद्धिसन्निहितः । बोद्धृकृत्ये - बोद्धुरुपासकस्य कृत्ये कर्तव्यतया विहिते उपासने । फलमतिः अविनाभाविनी - फलदशानुसन्धानं अविनाभूतम् । यथोपासनं फलस्याम्नातत्वादिति भावः । बुद्ध्यासन्ने - उक्तरीत्या फलतया बुद्धिसन्निहिते । अन्तरङ्गे - यावदात्मभावित्वादव्यवधानसिद्धत्वाच्चान्तरङ्गभूते । सति - श्रेष्ठभूते शुद्धस्वरूपे । तत्क्रतुन्यायसिद्धिः - ‘यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति’ इति श्रुत्युक्ता यथोपासनं फललाभ इति न्यायसिद्धिः । विधिनियता - उक्तश्रुतिसिद्धा भवति । न ह्यशुद्धरूपे तन्न्यायसिद्धिरिति भावः ॥
कुमार-वरदः - 57
- अत्र पूर्वाधिकरणं प्रसङ्गादायातम्, तत्पूर्वाधिकरणेन सङ्गतिर्भाष्यकारैरेवोक्ता ‘‘सर्वासु परविद्यासूपास्योपासनस्वरूपवदुपासकस्वरूपस्यापि ज्ञातव्यत्वमुक्तम्, ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ इति । वक्ष्यति चास्य प्रत्यगात्मनः परमात्मात्मकत्वेनानुसन्धानं ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’ इति । किमयं प्रत्यगात्मा ज्ञाता कर्ता भोक्तेहामुत्र सञ्चारक्षमोऽनुसन्धेयः, उत प्रजापतिवाक्योदितापहतपाप्मत्वादिस्वरूपः" इति । अयमत्र भावः - लिङ्गभूयस्त्वाधिकरणे सर्वविद्योपास्यस्य नारायणस्य निरूपणं कृतम्, अधुना सर्वास्वपि विद्यासूपासकस्य च उपास्यविशेषणभूततया स्वयमप्यनुसन्धेयस्य जीवस्य स्वरूपं निरूप्यत इति । तदर्थविचारस्तु - ‘अहं ब्रह्मास्मि’ इति परमात्मशरीरतया प्रत्यगात्मानुसन्धेयः, स किं ज्ञातृत्वकर्तृत्वभोक्तृत्वाद्याकारोऽनुसन्धेयः, उत प्रजापतिवाक्योक्तापहतपाप्मत्वाद्याकारेणानुसन्धेय इति । तदर्थं विचार्यते - किं ‘यथाक्रतुरस्मिंल्लोके’ इति यथोपासनं प्राप्तिरिति वचनं परमात्ममात्रविषयम्, उत प्रत्यगात्मविषयमपीति । किं ‘तं यथायथोपासते तथैव भवति’ इति तच्छब्दनिर्देशो यथोपासनं प्राप्तिरिति वचनस्य परमात्मपरतामवगमयति नेति । किमत्र तच्छब्दो जीवशरीरपरमात्मपरः, उत परमात्ममात्रपर इति । अत्र पूर्वपक्षमारचयति - तत्कालाकारिण इति । ‘त्वं वा अहमस्मि भगवो देवते’ इत्यादिभिरहंग्रहेण भगवदुपासनमुक्तम्, अहमिति बुद्धिस्तु तत्कालाकारयुक्त एवात्मनि वर्तते । तेनाहमिति परमात्मभजने कञ्चुकभूतस्य जीवस्य धीस्तत्कालाकारेण युक्तस्य जीवस्य स्यात् । तेन कर्तृत्वभोक्तृत्वादियुक्तजीवात्मस्वरूपमेवोपासनदशायामनुसन्धेयमिति । तदिदमाह - आसत्तेरिति । सन्निहितत्वादुपासनदशायामित्यर्थः । तत्र दृष्टान्तमाह - मामुपास्स्वेत्युदितवदिति । यथा प्रतर्दनविद्यायामिन्द्रेण मामुपास्वेत्युक्ते तादात्विकसहस्राक्षत्वादियुक्त एवोपास्यः, न पुनरागामिमुक्ताकारयुक्तः, तद्वदत्रापीति । तदिदं निराकरोति - नेति । तत्र हेतुमाह - अन्यथेति । प्रकारान्तरेण सन्निकर्षस्य विद्यमानत्वादित्यर्थः । तदेव प्रकारान्तरमुपपादयति - शुद्ध इति । द्वे हि रूपे जीवस्य शुद्धमशुद्धञ्च । यत् शुद्धं तदेवोपादेयम् । यदेवोपादेयं तदेवोपासनदशायामनुसन्धेयम्; यथोपासनं फलस्यैव श्रुतिभिराम्नातत्वात् । तेन शुद्धमेव रूपं बुद्धिसन्निहितमित्युपपादयितुं शुद्धस्यैव रूपस्य फलत्वं तावदाह - शुद्धो ह्यात्मात्र साध्य इति । अस्तु शुद्धस्य फलत्वम्, अथापि कथं तस्य बुद्धिसन्निहितत्वमित्यत्राह - फलमितिरिति । ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादौ स्वर्गफलानुसन्धानेन हि स्वर्गार्थप्रवृत्तिः, एवमत्रापि फलभूतशुद्धस्वरूपानुसन्धानसाहित्येनैवोपासनप्रवृत्तिरिति बुद्धिसन्निहितत्वसिद्धिश्शुद्धस्यैव रूपस्य । अत्र तत्क्रतुन्यायोऽप्यमुमेवार्थं विशदमुपपादयतीत्याह - बुद्ध्यासन्न इति । बुद्ध्यासन्नेऽन्तरङ्गे सति शुद्धस्वरूपे तत्क्रतुन्यायसिद्धिः प्रमाणेन नियमिता भवति । अतश्शुद्धमेव स्वरूपमनुसन्धेयमित्यर्थः ॥
मूलम् - 57
- तत्कालाकारिणस्स्यादहमिति भजने कञ्चुकस्यात्मनो धीः
आसत्तेर्मामुपास्स्वेत्युदितवदिति चेन्नान्यथा सन्निकर्षात् ।
शुद्धो ह्यात्मात्र साध्यः फलमतिरविनाभाविनी बोद्धृकृत्ये
बुद्ध्यासन्नेऽन्तरङ्गे सति विधिनियता तत्क्रतुन्यायसिद्धिः ॥
विश्वास-प्रस्तुतिः - 58
- कर्तुर्भोक्तृत्वमात्रं गणयितुमुचितं दृष्टभोगार्थयत्ने
स्वर्गाद्यर्थेऽन्यदेहानुगतिरपि परं स्वाधिकारानुविद्धा ।
मुक्त्यर्थे प्राप्त्यवस्थाप्रणिधिकथनतस्तत्क्रतुन्यायवाचां
तद्युक्तोपास्यरूपं विषय इति कुतोऽतिप्रसङ्गादिशङ्का ॥
३४-तमाहोबिल-यतिः - 58
- कर्तुरित्यादि । दृष्टभोगार्थयत्ने - दृष्टभोगा ऐहिकसुखानि तदर्थप्रयत्ने क्रियमाणे सति । कर्तुर्भोक्तृत्वमात्रं गणयितुमुचितम् - तदानीं तदनुष्ठातुर्जीवस्य फलभोक्तृत्वशक्तिमात्रं चिन्तयितुं युक्तम् । न त्वन्यत् उपयोगाभावात्, तावदाकारानुसन्धानेनैव साधनानुष्ठानप्रवृत्तिसिद्धेरिति भावः ।स्वर्गाद्यर्थेऽन्यदेहानुगतिरपि परं स्वाधिकारानुविद्धा - लोकान्तरदेहान्तरसम्भावितस्वर्गादिफलसाधनानुष्ठानदशायां देहान्तरप्राप्तियोग्यतात्मकनित्यत्वादिधर्मानुसन्धानं परम् अतीव स्वाधिकारनियतम् । आत्मनित्यत्वज्ञानाभावे लोकान्तरदेहान्तरभाविफलसाधनानुष्ठानप्रवृत्त्यसम्भवादिति भावः । मुक्त्यर्थे प्राप्त्यवस्थाप्रणिधिकथनतः - मोक्षार्थसाधनानुष्ठानदशायां प्राप्त्यवस्थायाश्चिन्तनीयत्वस्य श्रुत्या कथनात् । तत्क्रतुन्यायवाचाम् - यथाक्रतुरित्यादिश्रुतीनाम् । तद्युक्तोपास्यरूपं विषयः - तादृशप्राप्तिदशासम्भाविताकारविशिष्टोपास्यस्वरूपं विषयः । इति कुतोऽतिप्रसङ्गादिशङ्का - एवं जीवात्मनस्तत्तत्फलसाधनानुष्ठानदशायामविनाभूतमुपयुक्तं प्रमाणसिद्धमनुसन्धेयं तत्तद्रूपं तदातदा व्यवस्थितम्, अतो नातिप्रसङ्गावकाशः । अयं भावः - वेदान्त एव हि तत्क्रतुन्यायो विशेषतः ख्यापितो न पुनः कर्मकाण्डे । तेनोपासनदशायां प्राप्त्यवस्थानुसन्धानं नियमेन कर्तव्यम् । कर्मकाण्डे तु कालान्तरभाविस्वर्गादिफलभोक्तृत्वानुरूपात्मस्थैर्यानुसन्धानमात्रमेव कर्मारम्भे कर्तव्यमिति ॥
कुमार-वरदः - 58
- ननु कर्तुर्यथावस्थितात्मस्वरूपमनुसन्धेयमित्युक्ते कर्मकाण्डे कर्मकर्तुरपि तादृशमेव रूपमनुसन्धेयं स्यात्, एवञ्च तत्रैव जीवस्वरूपयाथात्म्ये निरूपिते निरर्थक एव वेदान्तशास्त्रे जीवस्वरूपनिरूपणविस्तरस्स्यादित्याशङ्कापरिहारार्थं लौकिकवैदिकाद्यनुष्ठानकर्तृभूतजीवस्वरूपानुसन्धानविभागं विशदमेव दर्शयति - कर्तुरिति । त्रिविधो हि कर्ता, लौकिकं शयनासनभोजनकृष्यादिकं कर्म कश्चित् करोति, परस्तु यागदानहोमादिकं वैदिकं कर्म । तृतीयः पुनः परब्रह्मोपासनं परमपुरुषार्थप्राप्तिहेतुभूतम् । त्रिष्वप्यधिकारिषु कर्तृत्वानुसन्धानमस्त्येव । तत्र प्रथममाह - दृष्टेति । दृष्टभोगार्थयत्ने भोक्ता कश्चिदस्तीत्येतावन्मात्रमेव गणयितुमुचितम् । स पुनर्देहो वा देहातिरिक्तो वेति विशेषनिश्चयो नास्ति, अनुपयोगात् । दृश्यन्ते हि देहातिरिक्तात्मस्थैर्यपरिज्ञानविधुराणामपि पामराणां स्वाभिमतप्राप्तिहेतवः प्रवृत्तयश्शतशस्सहस्रशोऽपि । अथ द्वितीयं प्रकटयति - स्वर्गादीति । अयमत्र शब्दार्थः - स्वर्गाद्यर्थे कर्मणि स्वाधिकारानुविद्धा ब्राह्मणत्वादिस्वाधिकारानुविद्धा कालान्तरसम्बन्धिफलसम्बन्धानुविद्धैव देहान्तरानुगतिरात्मनो गणयितुमुचिता । नैतावता वेदान्तवेद्यार्थसिद्धिः । तृतीयमपि पक्षमाह - मुक्त्यर्थ इति । मुक्त्यर्थे पुनरुपासने प्राप्त्यवस्थाप्रणिधिकथनतः उपासनदशायां चिन्तनीयत्वकथनेन तत्क्रतुन्यायवाचा यत् चिन्त्यं तदेव प्राप्यमित्यर्थो गमित इति ज्ञापित इति अतिप्रसङ्गादिशङ्का नास्त्येव । अयमत्र भावः - वेदान्त एव हि तत्क्रतुन्यायो विशेषतः ख्यापितः, न पुनः कर्मकाण़्डे, तेनोपासनदशायां प्राप्त्यवस्थानुसन्धानं नियमेन कर्तव्यम् । कर्मकाण्डे तु कालान्तरभाविस्वर्गादिफलभोक्तृत्वानुरूपस्थैर्यानुसन्धानमात्रं कर्मारम्भे कर्तव्यमिति ॥
मूलम् - 58
- कर्तुर्भोक्तृत्वमात्रं गणयितुमुचितं दृष्टभोगार्थयत्ने
स्वर्गाद्यर्थेऽन्यदेहानुगतिरपि परं स्वाधिकारानुविद्धा ।
मुक्त्यर्थे प्राप्त्यवस्थाप्रणिधिकथनतस्तत्क्रतुन्यायवाचां
तद्युक्तोपास्यरूपं विषय इति कुतोऽतिप्रसङ्गादिशङ्का ॥
विश्वास-प्रस्तुतिः - 59
- विद्याभेदेषु वेद्याकृतिविषमतया यावदुक्तेऽपि चिन्त्ये
प्राप्यं सर्वोपपन्नं खलु तदिह कथं प्राप्यचिन्तानिषेधः ।
तस्माद्बद्धस्य चिन्तास्त्विति न कलुषितो नह्यहंशब्दमुख्यः
प्राजापत्यात्तु वाक्यादकलुषदशया भावनीयत्वसिद्धिः ॥
३४-तमाहोबिल-यतिः - 59
- विद्याभेदेष्वित्यादि । विद्याभेदेषु - सदक्षरदहरादिविद्याविशेषेषु । वेद्याकृतिविषमतया - वेद्याकाराणां गुणानां विषमतया न्यूनाधिकभावप्रयुक्तवैषम्येण । यावदुक्ते - तत्तद्विद्योक्तगुणादिक एव । चिन्त्येऽपि - चिन्तनीये सिद्धेऽपि ।सर्वोपपन्नम् - चिन्तिताचिन्तितभेदं विना उभयविभूतिस्थसर्ववस्तुरूपविशेषणविशिष्टमेव ब्रह्म । प्राप्यमिति सिद्धं खलु । तदिह प्राप्यचिन्तानिषेधः कथम् - तस्मात्कारणादिह विषये प्राप्यचिन्तानिषेधः कथम् । उक्तरीत्या सर्ववस्तुविशिष्टब्रह्मरूपप्राप्यान्तर्गतस्य बद्धरूपस्य चिन्तानिषेधः कथं क्रियत इति भावः । तस्माद्बद्धस्य चिन्तास्तु - तस्माद्बद्धरूपस्यापि प्राप्यकोट्यन्तर्गतत्वात् बद्धरूपस्य उपास्यविशेषणतया चिन्तनमस्तु । इति न - इत्याशङ्कनं न युक्तम् । कलुषितः - बद्धः । अहंशब्दमुख्यो न हि - अहंशब्दस्य मुख्यार्थो न खलु । कलुषिताकारो हि न स्वाभाविकः, अतस्स्वाभाविकापहतपाप्मत्वाद्याकारविशिष्ट एवाहंशब्दमुख्यार्थः । अतस्स एवानुसन्धेयः । प्राजापत्याद्वाक्यात्तु - ‘अपहतपाप्मा विजरः’ इत्यादिकात् प्रजापत्युक्ताद्वाक्यात् । अकलुषदशया - मुक्तिकालिकगुणाष्टकविशिष्टाकारेण । भावनीयत्वसिद्धिः - जीवस्य चिन्तनीयत्वसिद्धिः । तथा च प्रजापतिवाक्यादेव जीवात्मनोऽनुसन्धेयत्वं सिध्यति, तत्र चापहतपाप्मत्वाद्याकार एव जीवात्मानुसन्धेयः प्रतिपन्न इति तादृशाकारस्यैवानुसन्धानं प्रामाणिकमिति भावः ॥
कुमार-वरदः - 59
- अत्र कश्चिच्चोदयति - विद्याभेदेषु वेद्याकाराणां विषमत्वात् यावदुक्तमेव चिन्त्यम्, अन्यथा परस्परसङ्करप्रसङ्गात् । प्राप्यं पुनरुभयविभूतिविशिष्टम्, तेन बद्धरूपस्यापि सर्वान्तर्गतत्वेन ब्रह्मविशेषणत्वात् प्राप्यत्वमस्त्येव । तत् कथं तस्य रूपस्याप्राप्यत्वात् चिन्तनीयत्वं नास्तीति निषेधः क्रियते । तस्मात् सन्निहितस्य बद्धरूपस्य चिन्तास्त्विति । तदिदमाह - विद्येति । शब्दार्थस्तु - सद्विद्यादहरविद्यादिविद्याविशेषेषु वेद्याकाराणां भिन्नत्वात् यावदुक्तमेव चिन्त्यम् । तत्र ब्रह्मविशेषणतया ‘अहं मनुरभवं सूर्यश्च’ इत्यहङ्ग्रहोपासनात् जीवस्यापि चिन्तनीयत्वमस्ति, प्राप्यं तु ब्रह्म सर्वविशेषणविशिष्टम्, सर्वशब्दार्थे बद्धस्यापि जीवस्यान्तर्गतत्वात् बद्धरूपमपि ब्रह्मविशेषणत्वादनुसन्धेयमस्तु सन्निहितपरित्यागायोगात् इति । तदेतद्दूषयति - नेति । प्रतिक्षेपमेव विवृणोति - कलुषित इति । अयमर्थः - अहंशब्दार्थो हि मुख्य एवाहङ्ग्रहोपासने ब्रह्मविशेषणतयानुसन्धेयः । तत्तु विशुद्धमेव रूपम् । तेनाहंशब्दश्रुतिविरोधात् कलुषितं रूपं नानुसन्धेयममुख्यत्वात् । किञ्च प्रजापतिवाक्ये हि ब्रह्मविद्याशेषतयानुसन्धेयं जीवात्मस्वरूपमभिधीयते । तत्तु विशुद्धमेव गुणाष्टकविशिष्टमभिहितम् । तस्मात् विशुद्धानुसन्धानमेव जीवस्यापि वेदान्तेषूपासनदशायां विहितमिति नाशुद्धरूपचिन्तनप्रसङ्गः । अत एव भगवता पराशरेण योगिध्येयार्थनिर्णये ‘हिरण्यगर्भो भगवान्’ इत्युपक्रम्य ‘अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः’ इत्यशुद्धानामचिन्तनीयत्वमुक्तमिति । तदिदमाह - प्राजापत्यादिति ॥
मूलम् - 59
- विद्याभेदेषु वेद्याकृतिविषमतया यावदुक्तेऽपि चिन्त्ये
प्राप्यं सर्वोपपन्नं खलु तदिह कथं प्राप्यचिन्तानिषेधः ।
तस्माद्बद्धस्य चिन्तास्त्विति न कलुषितो नह्यहंशब्दमुख्यः
प्राजापत्यात्तु वाक्यादकलुषदशया भावनीयत्वसिद्धिः ॥