35 पूर्वविकल्पाधिकरणम्

विश्वास-प्रस्तुतिः - 55
  1. अङ्गं पूर्वप्रसक्तेष्टकचितसमुपस्थापितस्य क्रतोस्स्याद्
    बुद्ध्यात्माग्निर्मनश्चित्प्रभृतिरपि यथा मानसं द्वादशाहे ।
    तद्वीर्यस्यातिदेशादिति न सदुदितो ह्यत्र विद्यात्मकोऽङ्गी
    श्रुत्याद्यैरेव तस्मिन्नुपकृतिसमताबोधनार्थोऽतिदेशः ॥
३४-तमाहोबिल-यतिः - 55
  1. अङ्गमित्यादि । वाजसनेयकेऽग्निरहस्ये ‘मनश्चितो वाक्चितः प्राणचितश्चक्षुश्चितश्श्रोत्रचितः कर्मचितोऽग्निचितः’ इति मनश्चिदादयोऽग्नय आम्नाताः, तत्र द्वादशहे मानसं यथा - द्वादशाहसाध्ये क्रियारूपेऽपि क्रतुविशेषे दशमेऽहनि विशेषतो वचनाभावादविवाक्यसंज्ञे क्रियमाणस्य पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृह्यमाणस्य ग्रहणासादनहवनाहरणोपाह्वानभक्षणादिरूपग्रहकल्पस्य मनसैव क्रियमाणतया मानसस्य यथा अङ्गत्वेन सम्बन्धः । बुद्ध्यात्मा मनश्चित्प्रभृतिरग्निरपि पूर्वप्रसक्तेष्टकचितसमुपस्थापितस्य क्रतोरङ्गं स्यात् - तथा बुद्धिकल्पनारूपतया बुद्ध्यात्मको मनश्चिदादिरग्निरपि एतत्पूर्वप्रकरणस्थेष्टकचिताग्निना अव्यभिचरितक्रतुसम्बन्धितया समुपस्थापितस्य क्रतोरङ्गं स्यात् । तद्वीर्यस्यातिदेशात् - क्रियामयक्रत्वनुप्रविष्टानामिष्टकचिताग्नीनां सामर्थ्यस्य तेषामेकैक एव तावान् यावानसौ पूर्वः, इति वाक्येन मनश्चिदाद्यग्नावतिदेशात् । क्रतोरङ्गं स्यादिति पूर्वेणान्वयः । इति सन्न - इत्याशङ्कनं साधु न भवति । अत्रैव - अस्मिन्मनश्चिदाद्यग्निप्रकरण एव । श्रुत्याद्यैः - ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ इति वाक्येन विवृतया ‘ते हैते विद्याचित एव’ इति श्रुत्या ‘तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि विचिन्वन्त्यपि स्वपते’ इति वाक्यप्रतिपन्नेन लिङ्गेनार्थसामर्थ्यरूपेण ‘एवंविदे विचिन्वन्ति’ इति वाक्येन च । विद्यात्मकोऽङ्गी उदितो हि - विद्यात्मकः क्रतुरूपोऽङ्गी प्रतिपन्नो हि । अतस्स्वप्रकरणलब्धं स्वसजातीयं विद्यामयं क्रतुं विसृज्य प्रकरणान्तरे कल्प्यं विसजातीयं क्रियामयं क्रतुं मनश्चिदादयो नाङ्गत्वेन सम्बन्द्धुमर्हन्तीति भावः । तस्मिन् - मनश्चिदादावग्नौ । अतिदेशः - ‘तेषामेकैक एव’ इत्यादिना इष्टकचिताग्निवीर्यतुल्यवीर्यातिदेशः । उपकृतिसमताबोधनार्थः - इष्टकचिताग्निस्स्वाङ्गिभूतक्रियामयक्रतोर्यावदुपकरोति तावदयं मनश्चिदाद्यग्निरपि स्वाङ्गिभूतविद्यामयक्रतोरुपकरोतीत्युपकारसाम्यमात्रबोधनार्थः । नतु क्रियामयक्रत्वनुप्रवेशकृतसाम्यबोधनार्थस्स इति भावः ॥
कुमार-वरदः - 55
  1. प्रकरणाद्बलीयसा वाक्येन नारायणानुवाकस्य सर्वविद्यासाधारण्यमुक्तम् । इह तु प्रकरणस्य बाधकाभावात् मनश्चिदादयः क्रियामयक्रत्वनुप्रवेशिन इति शङ्कया सङ्गतिः । तदर्थविचारस्तु - वाजसनेयके ‘मनश्चितो वाक्चितः प्राणचितश्चक्षुश्चितश्श्रोत्रचितः कर्मचितोऽग्निचितः’ इति मनश्चिदादयोऽग्नय आम्नायन्ते, ते किं क्रियामयक्रत्वन्वयेन क्रियारूपाः, उत विद्यामयक्रत्वन्वयेन विद्यारूपा इति । तदर्थं विचार्यते - किमिष्टकचिताग्निसन्निधानात् तद्द्वारा सन्निहिते क्रतौ क्रियामये विनियोगोऽस्ति तेषामुत नेति । किं ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि विचिन्वन्ति इति श्रुतिलिङ्गवाक्यैर्विद्यारूपक्रतौ विनियोगोऽवगम्यते नेति । किं ‘मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशंसन्’ इति स्तोत्रशस्त्राद्यनुबन्धान्वयात् ‘तेषामेकैक एव तावान्यावानसौ पूर्वः’ इत्यतिदेशात् फलसम्बन्धसम्भवात् विद्याविधिः कल्प्यः, उत विधिप्रत्ययाश्रवणात् वेदनाश्रवणाच्च न कल्प्य इति । अस्मिन्नधिकरणे सूत्रकारोक्तस्यार्थजातस्य भाष्यकारैरेव सुव्यक्तं विवृतत्वात् पूर्वपक्षसिद्धान्तस्वरूपोपपादनमात्रेण स्वयमपि किञ्चिदाचष्टे । तेन भाष्य एवान्तेवासिभिरापादचू़डमत्यन्तादरेणाधिकरणार्थश्चिन्तनीयः । अत्र हि मनश्चिदाद्यग्नयः पूर्वमिष्टकचिताग्न्यन्वयेन पूर्वप्रसक्तक्रियामयक्रत्वनुप्रवेशेन क्रियारूपाः, किं वा परिकल्पितविद्यामयक्रत्वनुप्रवेशेन विद्यारूपा इति चिन्ता । अत्र पूर्वपक्षाभिप्रायमनुवदति - अङ्गमिति । पूर्वप्रसक्तेष्टकचितसमुपस्थापितस्य क्रतोरेव मनश्चिदादिरप्यङ्गं स्यात् । अयमर्थः - पूर्वमपि क्रियामयक्रतुर्न श्रुतः अथाप्यव्यभिचरितक्रतुसम्बन्धीष्टकचिताग्निश्रवणबलात् परिकल्प्यत एव । तस्यैवात्र प्रकरणात् सन्निहितस्यैव क्रतोर्मनश्चिदादिरपि विकल्पादङ्गमस्तु । तदिदमाह - बुद्वीति । मनश्चित्प्रभृतिः स्वयं बुद्ध्यात्मापि अङ्गिसाकाङ्क्षत्वात् पूर्वप्रसक्तस्य प्रकरणोपस्थापितस्य क्रियामयक्रतोरेवाङ्गं स्यादित्यर्थः । ननु स्वयं ज्ञानात्मकं क्रियामयक्रतोः कथमङ्गं स्यादित्याशङ्क्य तत्र दृष्टान्तमाह - यथेति । यथा द्वादशाहे मानसग्रहस्य क्रियामयक्रत्वङ्गत्वं तथात्रापि स्वरूपतो विद्यारूपाणामपि मनश्चिदादीनां क्रियामयक्रत्वङ्गत्वं स्यादित्यर्थः । तत्र हेत्वन्तरमप्यस्तीत्याह - तद्वीर्यस्येति । इष्टकचितादीनां वीर्यं मनश्चिदादिष्वतिश्यते । तेनेष्टकचितादीनां यथा क्रियामयक्रतूपकारसामर्थ्यम्, एवं मनश्चिदादीनामपि तत्सामर्थ्यान्वयस्य विद्यमानत्वात् क्रियामयक्रत्वनुप्रवेशेन इत्यर्थः । तदिदं निराकरोति - न सदिति । तदेतदुपपादयति - उदित इति । अयमर्थः - स्ववाक्ये विद्यामयक्रत्वभावे हि पूर्ववाक्यपरिकल्पितक्रियामयक्रत्वनुप्रवेशे मनश्चिदादीनां सापेक्षत्वं स्यात् । स्ववाक्य एव श्रूयमाणानुबन्धादिपरिकल्पितो विद्यामयक्रतुरस्ति । तेन स्ववाक्यस्थं विद्यामयक्रतुं हित्वा पूर्ववाक्यपरिकल्पितेन क्रियामयक्रतुना मनश्चिदादयस्सम्बध्यन्त इति न कल्पनीयमिति । श्रुत्याद्यैरिति - स्ववाक्ये विद्यामयक्रतुरस्तीति श्रुतिरेवोपपादयतीत्यर्थः । तर्हि क्रियामयक्रत्वनुप्रविष्टानामिष्टकचितानां सामर्थ्यातिदेशादत्रापि मनश्चिदादीनां क्रियामयक्रत्वनुप्रवेशो ह्यवश्यमङ्गीकर्तव्य इति मयैवोक्तं तत्र किमुत्तरं दत्तमित्याशङ्क्याह - उपकृतीति । अयमर्थः - अतिदेशो हि साम्याद्भवति, तेनेष्टकचितादीनां स्वाङ्गिभूतक्रियामयक्रत्वनुप्रवेशेन यत्सामर्थ्यमस्ति, तत्सामर्थ्यं मनश्चिदादीनां स्वाङ्गिभूतविद्यामयक्रत्वनुप्रवेशेनैवास्तीति नातिदेशविरोधः ॥
मूलम् - 55
  1. अङ्गं पूर्वप्रसक्तेष्टकचितसमुपस्थापितस्य क्रतोस्स्याद्
    बुद्ध्यात्माग्निर्मनश्चित्प्रभृतिरपि यथा मानसं द्वादशाहे ।
    तद्वीर्यस्यातिदेशादिति न सदुदितो ह्यत्र विद्यात्मकोऽङ्गी
    श्रुत्याद्यैरेव तस्मिन्नुपकृतिसमताबोधनार्थोऽतिदेशः ॥
विश्वास-प्रस्तुतिः - 56
  1. कल्प्यो ह्यत्र क्रियात्मा क्रतुरपि तदपि प्रागुपात्ताङ्गशक्त्या
    वाक्यस्थैश्चानुबन्धैरिह समुपनतो भाति विद्यामयस्तु ।
    दूरस्थाकृष्टयोगात् स्ववचनपठिताकृष्टयोगो लघीयान्
    अप्राप्तेऽर्थे विधित्वं ह्यनुवदनसमेऽप्याश्रितं तद्वदत्र ॥
३४-तमाहोबिल-यतिः - 56
  1. कल्प्यो ह्यत्रेत्यादि । अत्र क्रियात्मा क्रतुरपि कल्प्यो हि - अत्र प्रकरणे क्रियारूपः क्रतुरपि कल्पनीय एव हि । न तु श्रुत इत्यर्थः । तदपि - तथा कल्पनमपि । प्रागुपात्ताङ्गशक्त्या - पूर्वोदाहृतेष्टकचिताग्निरूपक्रत्वङ्गसामर्थ्येन । न तु श्रुत्येत्यर्थः । विद्यामयस्तु - विद्यारूपः क्रतुस्तु । वाक्यस्थैश्चानुबन्धैः - स्ववाक्यस्थैरेव श्रुत्यादिभिरनुबन्धैः । इह - स्वप्रकरण एव । समुपनतो भाति - एकजातीयत्वस्वप्रकरणस्थत्वादिभिस्सम्बद्ध एव भाति । दूरस्थाकृष्टयोगात् - प्रकरणान्तरस्थैः क्रत्वङ्गादिभिराकृष्टस्य योगात् अङ्गित्वेन सम्बन्धात् । स्ववचनपठिताकृष्टयोगः - स्ववचनपठितैश्श्रुतिलिङ्गवाक्यैराकृष्टस्य विद्यामयक्रतोरङ्गित्वेन सम्बन्धः । लघीयान् - बुद्धिसौकर्यादिभिर्न्याय्यः । अर्थे अप्राप्ते विधित्वं अनुवदनसमेऽप्याश्रितं हि - प्रतीयमानेऽर्थे प्रमाणान्तराविषये सति वाक्यस्य विधिरूपत्वम् अनुवादसरूपेऽपि वाक्ये ‘उपरि हि देवेम्यो धारयति’ इत्यादिरूपे तान्त्रिकैरङ्गीकृतं हि । तद्वदत्र - तथात्रापि विधिप्रत्ययाश्रवणेऽपि वाक्यस्य विधिरूपत्वमप्राप्तार्थसामर्थ्यात् कल्प्यत इत्यर्थः ॥
कुमार-वरदः - 56
  1. नन्वत्र भवता कल्प्यविद्यामयक्रत्वनुप्रवेशो मनश्चिदादीनामुच्यते, ततो वरं पूर्वसिद्धक्रियामयक्रत्वनुप्रवेश इति चोदकस्य कस्यचिन्मन्दस्योत्तरमाह - कल्प्य इति । अत्र विद्यामयक्रतुरेव न कल्प्यते, पूर्वं क्रियामयक्रतुरपि कल्प्य एव, तेन पूर्वकल्पितक्रियामयक्रतुमाकृष्य तेन मनश्चिदादीनामन्वयाद्वरमत्रैव परिकल्पितविद्यामयक्रत्वन्वय इत्यर्थः । अयमत्र शब्दान्वयः - क्रियात्मा क्रतुरपि कल्प्य एव तच्च कल्पनं प्रागुपात्ततदङ्गशक्त्यैव क्रियते । अत्र कल्प्यस्य विद्यामयक्रतोर्वैषम्यमाह - वाक्यस्थैरिति । वाक्यस्थैरेवानुबन्धैरिह समुपनतो विद्यामयक्रतुर्भाति प्रकाशते । तेन परवाक्यस्थानुबन्धपरिकल्पितक्रियामयक्रतोश्श्रेयानेवासौ स्ववाक्यस्थानुबन्धपरिकल्पितो विद्यामयक्रतुरिति तदन्वय एव मनश्चिदादीनामित्यर्थः । अस्मिन्नर्थे न्यायानुग्रहं विशदं दर्शयति - दूरस्थेति । दूरस्थैराकृष्टस्य च योगात् स्ववचनपठितैराकृष्टस्य च योगो लघीयानेव । लघुपक्षाश्रयणं हि न्यायप्राप्तम् । तर्हि विद्यामयक्रतोरत्र विधिप्रत्ययो नास्ति साक्षाद्वेदनशब्दश्च नास्तीत्याशङ्क्य विधिश्रवणाभावेऽपि विधिकल्पनं कर्मकाण्ड एव सम्मतमित्याह - अप्राप्तेऽर्थ इति । विद्यारूपक्रत्वनुप्रवेशे प्रमाणतः प्रतिपन्ने वेदनशब्दाभावोऽपि न दोषायेति शेषः । शेषमशेषमपि भाष्य एव विशदं द्रष्टव्यम् ॥
मूलम् - 56
  1. कल्प्यो ह्यत्र क्रियात्मा क्रतुरपि तदपि प्रागुपात्ताङ्गशक्त्या
    वाक्यस्थैश्चानुबन्धैरिह समुपनतो भाति विद्यामयस्तु ।
    दूरस्थाकृष्टयोगात् स्ववचनपठिताकृष्टयोगो लघीयान्
    अप्राप्तेऽर्थे विधित्वं ह्यनुवदनसमेऽप्याश्रितं तद्वदत्र ॥