34 लिङ्गभूयस्त्वाधिकरणम्

विश्वास-प्रस्तुतिः - 52
  1. प्रक्रान्ता दह्रविद्या प्रकटमुपरि च ज्ञायते तैत्तिरीये
    तस्मादूर्ध्वानुवाकः प्रकृतविषयनिर्धारणार्थोऽस्तु, मैवम् ।
    तत्तद्विद्योदितैस्तैः परमिह पुरुषं प्रत्यभिज्ञाप्य शब्दैः
    तस्मिन्नारायणत्वं वददधिकबलं प्रक्रियातो हि वाक्यम् ॥
३४-तमाहोबिल-यतिः - 52
  1. प्रक्रान्तेत्यादि । तैत्तिरीये दह्रविद्या प्रक्रान्ता उपरि च प्रकटं ज्ञायते - तैत्तिरीयके ‘अणोरणीयान्’ इत्यनुवाके ‘दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसँस्थम्’ इत्यादिवाक्येन हि दहरविद्योपक्रान्ता, ‘सहस्रशीर्षं’ इत्याद्युपरितनानुवाके च ‘पद्मकोशप्रतीकाशँ हृदयं चाप्यधोमुखम्’ इत्यादिवाक्ये लिङ्गेन च स्फुटतया दह्रविद्या प्रत्यभिज्ञायते । तस्मादूर्ध्वानुवाकः प्रकृतविषयनिर्धारणार्थोऽस्तु, तस्मात् एवंरूपहेतोः ऊर्ध्वानुवाकः ‘सहस्रशीर्षम्’ इत्याद्यूर्ध्वानुवाकः प्रकृतदहरविद्याविषयभूतदेवताविशेषो नारायण इत्येवं निर्धारणफलकोऽस्तु । मैवम् - एवं मा शङ्किष्ठाः । इह - ‘सहस्रशीर्षम्’ इत्यनुवाके । तत्तद्विद्योदितैः - तासुतासूपनिषद्विद्यासु पठितैः । तैश्शब्दैः - उपास्यसमर्पकैरक्षरशिवशम्भुपरब्रह्मपरज्योतिः परतत्त्व परमात्मादिभिश्शब्दैः । परं पुरुषम् - तासुतासु विद्यासूपास्यतयोक्तं परमात्मानम् । प्रत्यभिज्ञाप्य - स एवायमिति बुद्धिविषयीकृत्य । तस्मिन् - सर्वविद्योपास्ये परमात्मनि । नारायणत्वं वदत् - नारायणत्वं विदधत्, तत्तद्विद्योपास्यः परमात्मा नारायण इति निर्धारयत् । वाक्यम् - ‘नारायणपरं ब्रह्म तत्त्वं नारायणः परः’ इत्यादिवाक्यम् । प्रक्रियातः - प्रकरणात् । अधिकबलं हि - प्रबलमिति प्रसिद्धं खलु । ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ इत्यादि कर्मकाण्ड इत्यर्थः ॥
कुमार-वरदः - 52
  1. अत्र भाष्ये सङ्गतिरुक्ता ‘किं पूर्वप्रकृतविद्यया एकविद्यात्वेन तदुपास्यविशेषनिर्धारणमनेन क्रियते’ इति पूर्वपक्षोत्थानक्रमाभिधानात् । तदर्थविचारस्तु - किं सर्वासु परविद्यासु नारायण एवोपास्यः, उत दहरविद्यायामेव नारायण उपास्य इति । तदर्थं विचार्यते - किं नारायणानुवाके सर्वविद्योपास्यविशेषनिर्धारणं क्रियते, उत दहरविद्योपास्यविशेषनिर्धारणमिति । किमत्र ‘पद्मकोशप्रतीकाशँ हृदयञ्चाप्यधोमुखम्’ इत्यादिना प्रतीयमानदहरविद्योपास्यदहरोद्देशेन नारायणत्वं विधीयते, उत सर्वविद्यासु अक्षरशिवशम्भुपरब्रह्मपरज्योतिःपरतत्त्वपरमात्मादिशब्दनिर्दिष्टमुपास्यं वस्त्विह तैरेव शब्दैरनूद्य नारायणत्वं विधीयत इति । किं ‘पद्मकोशप्रतीकाशम्’ इत्यादिहृदयायतनत्वश्रवणानुरोधेन दहरोद्देेशेन विधानं न्याय्यम्, उत विधेयनारायणत्वानुरोधेन लिङ्गभूयस्त्वेन सर्वोपास्योद्देशेन नारायणत्वविधानं न्याय्यमिति । अत्र सङ्गतिगर्भं पूर्वपक्षोपन्यासमाह - प्रक्रान्तेति । ‘अणोरणीयान्’ इत्यस्मिन्ननुवाके दह्रविद्या प्रक्रान्ता । ‘सहस्रशीर्षम्’ इत्यनुवाके ‘पद्मकोशप्रतीकाशम्’ इत्यादिना तैत्तरीयकवाक्ये सैव विद्या प्रत्यभिज्ञायते । तेन ‘सहस्रशीर्षम्’ इत्यनुवाकः पूर्वप्रकृतदहरविद्यावेद्यनिर्धारणार्थ इति पूर्वपक्षोत्थानम् । तद्दूषयति - मैवमिति । पूर्वपक्षप्रतिक्षेपप्रकारं प्रकटयति - तत्तदिति । श्रुतिलिङ्गवाक्यादिषु प्रमाणेषु उत्तरोत्तरदौर्बल्यस्य न्यायसिद्धत्वात् प्रकरणाद्वाक्यं बलीयः । ‘नारायणपरं ब्रह्म’ इति पदान्तरसमभिव्याहारो वाक्यम् । तच्च वाक्यं ‘तत्त्वं नारायणः परः’, नारायणपरो ज्योतिः’ इत्यादिरूपं सर्वविद्यावेद्योपस्थापनं करोति । भवता पुनः प्रकरणादेव दहरविद्यामात्रशेषत्वमभिधीयते । तेन दुर्बलप्रमाणसिद्धं दहरविद्यामात्रशेषत्वं परित्यज्य प्रबलप्रमाणसिद्धं सर्वविद्याशेषत्मेव संग्राह्यमिति । तदिदमाह - अधिकबलं प्रक्रियातो हि वाक्यमिति ॥
मूलम् - 52
  1. प्रक्रान्ता दह्रविद्या प्रकटमुपरि च ज्ञायते तैत्तिरीये
    तस्मादूर्ध्वानुवाकः प्रकृतविषयनिर्धारणार्थोऽस्तु, मैवम् ।
    तत्तद्विद्योदितैस्तैः परमिह पुरुषं प्रत्यभिज्ञाप्य शब्दैः
    तस्मिन्नारायणत्वं वददधिकबलं प्रक्रियातो हि वाक्यम् ॥
विश्वास-प्रस्तुतिः - 53
  1. वाक्यैस्सर्वार्थतायां दहरभजनमप्यत्र भागीति सार्थः
    तल्लिङ्गोपेतभागो न च बहुभिरलं योद्धुमेकं गतार्थम् ।
    नैकस्यास्योपकुर्यात् प्रकरणमलसं किञ्च सर्वोपजीव्ये
    तत्त्वे तात्पर्यमत्र स्फुटमिति वितथा तत्परित्यागकॢप्तिः ॥
३४-तमाहोबिल-यतिः - 53
  1. वाक्यैरित्यादि । वाक्यैः ‘नारायण परं ब्रह्म’ इत्यादिरूपैर्बहुभिर्वाक्यैः । सर्वार्थतायाम् - सर्वविद्याविषयदेवतानिर्धारणार्थतायामुपपादितायाम्, दहरभजनमपि - दहरोपासनमपि । अत्र - अस्मिन्नर्थे । भागीति - भागवदिति हेतोः । तल्लिङ्गोपेतभागस्सार्थः - दहरविद्याशेषत्वोपपादकलिङ्गान्वितो वाक्यभागः कृतार्थ एव । गतार्थमेकं बहुभिर्योद्धुञ्च नालम् - एवं कृतार्थम्, अत एवोदासीनं, लिङ्गं बहुभिस्तत्परैर्वाक्यैस्स्पर्धितुं न समर्थञ्च । अलसं प्रकरणमेकस्यास्य नोपकुर्यात् - प्रकरणमपि स्वभावतो दुर्बलत्वात् दहरविद्याशेषत्वस्यापि लाभेन कृतार्थत्वाच्चालसमेकस्य लिङ्गस्योपकर्तुं न प्रवर्तेत । नहि बहुषु विरुद्धेषु बलवत्सु विद्यमानेषु स्वयं कृतार्थत्वादलसस्य लिङ्गस्य स्वयमपि स्वभावतो दुर्बलं कृतार्थत्वादलसञ्च प्रकरणमुपकरोतीति भावः । किञ्च सर्वोपजीव्ये तत्त्वे तात्पर्यमत्र स्फुटमिति तत्परित्यागकॢप्तिर्वितथा - ‘सहस्रशीर्षं देवम्’ इति पुरुषसूक्तप्रत्यभिज्ञया पूर्वोक्तैस्सर्वविद्यापठिताक्षरशिवादिशब्दघटितैर्बहुभिर्वाक्यैस्सर्वविद्यापेक्षिततत्त्वनिर्धारणतात्पर्यस्यास्मिन् वाक्ये स्फुटप्रतिपत्त्या तत्परित्यागकल्पना विफला विरुद्धा चेत्यर्थः ॥
कुमार-वरदः - 53
  1. ननु न केवलं प्रकरणमात्रमस्माभिरवलम्ब्यते, अपि तु दहरविद्याशेषत्वोपपादकलिङ्गमप्यस्मिन्वाक्ये दृश्यते, तेन तद्विरोधे सति वाक्याल्लिङ्गस्य प्राबल्यात् दहरविद्याशेषत्वमेवाङ्गीकार्यमित्याशङ्क्य परिहरति - वाक्यैरिति । अयमर्थः - यद्येकमेव वाक्यं, तदा लिङ्गल्य प्राबल्यं वक्तुं शक्येतापि । अत्र तु बहूनि वाक्यानि विद्यन्ते, अतस्तेषामेव प्राबल्यम् । नच तानि लिङ्गेन विरुध्यन्ते । सर्वविद्याशेषत्वमेव हि वाक्यैरुपपाद्यते । अत्रोपलक्षणन्यायेन कतिपयोपादानमिति सर्वविद्याशेषत्वसिद्धौ दहरविद्यापि सर्वविद्यान्तर्गतेति तद्विद्याशेषत्वमपि वाक्यानामभिमतमेव । तेनोपशान्तविरोधं स्ववाक्ये दहरविद्याशेषत्वलिङ्गमविरोधेनावतिष्ठते । प्रकरणमपि दहरविद्याशेषत्वोपपादकं तच्छेषत्वलाभेन कृतार्थत्वात् सर्वविद्याशेषत्वप्रतिपादकवाक्यैः प्रबलैर्न विरुध्यते । किञ्च ‘सहस्रशीर्षं देवम्’, ‘सहस्रशीर्षा पुरुषः’ इति पुरुषनारायणप्रत्यभिज्ञारूप-लिङ्गमुपक्रमस्थत्वादत्यन्तप्रबलमेव दृश्यते । तेन लिङ्गादुपसंहारस्थात् न दहरविद्यामात्रशेषत्वसिद्धिः । अयमत्र शब्दान्वयः - वाक्यैस्सर्वार्थतायामुपपादितायां दहरभजनमप्यत्र भागीति अस्मिन्नर्थे भागवदिति सार्थः कृतार्थतावान् अस्मिन्वाक्ये दहरविद्याशेषत्वोपपादकलिङ्गान्वितो भागः, तस्मादेव कृतार्थत्वात् लिङ्गस्य विरोध एव नास्ति । स्वाभिमतार्थलाभेन विरोधाभावात् लिङ्गमुदासीनमेवावतिष्ठते । एवं कृतार्थत्वेनोदासीनं लिङ्गं बहुभिस्तत्परैर्वाक्यैर्योद्धुं नालमेव । एवञ्च सति प्रकरणमपि स्वयमलसं स्वभावतो दुर्बलत्वात् दहरविद्याशेषत्वस्यापि लाभेन कृतार्थत्वाच्च । तेन नैकस्यास्य लिङ्गस्योपकरोति । नहि बहुषु विरुद्धेषु बलवत्सु विद्यमानेषु स्वयं कृतार्थत्वादलसस्य लिङ्गस्य स्वयमपि स्वभावतो दुर्बलं कृतार्थत्वादलसं च प्रकरणमुपकरोति । किञ्चोपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गपरामर्शेन वाक्यार्थे निर्णीते प्रतिपन्नमर्थान्तरं त्याज्यमेवेति हि न्यायमार्गः । अत्र पुनस्सर्वविद्योपजीव्यत्वात् नारायणस्यैव परमप्राप्यत्वप्रतिपादनमिति स्फुटमेव उपक्रमादिपरामर्शेन उपलभ्यते । तच्च दहरविद्यायामप्युपकरोति । तेन प्रधानभूतं स्फुटप्रतिपन्नमसंकुचितमर्थं परित्यज्य दहरविद्यामात्रशेषत्वं नोपपादनीयमिति सर्वविद्याशेषत्वमेव वाक्यस्येति सिद्धम् । अयमर्थः - इदं तु वाक्यं न केवलशेषत्वोपपादकम् । समन्वयाधिकरणे विधिशेषत्वमन्तरेणापि वाक्यप्रामाण्यस्योपपादनात् । अथापि सर्वविद्योपकारकमेव, परतत्त्वपरिज्ञानमन्तरेण तद्ध्यानस्य कर्तुमशक्यत्वात् । तेन प्रमाणबलात् सर्वोपजीव्यत्वसिद्धिरिति तत्परित्यागकॢप्तिर्वितथैव ॥
मूलम् - 53
  1. वाक्यैस्सर्वार्थतायां दहरभजनमप्यत्र भागीति सार्थः
    तल्लिङ्गोपेतभागो न च बहुभिरलं योद्धुमेकं गतार्थम् ।
    नैकस्यास्योपकुर्यात् प्रकरणमलसं किञ्च सर्वोपजीव्ये
    तत्त्वे तात्पर्यमत्र स्फुटमिति वितथा तत्परित्यागकॢप्तिः ॥
विश्वास-प्रस्तुतिः - 54
  1. आत्मैक्यं देवतैक्यं त्रिकसमधिगता तुल्यतैक्यं त्रयाणाम्
    अन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः ।
    त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिभिश्च
    श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः ॥
३४-तमाहोबिल-यतिः - 54
  1. आत्मैक्यमित्यादि । आत्मैक्यम् - अत्रात्मशब्दः परमात्मपरः । तस्य चेतनाचेतनात्मककृत्स्नप्रपञ्चैक्यमित्यर्थः । इदं यादवभास्करमतद्वयसंग्रहणम् । मायिमतं तु इत्याद्यनिपुणेत्यत्र आदिशब्देन ग्राह्यम् । देवतैक्यम् - देवतानां सर्वासामन्योन्यं परमात्मना चैक्यम् । एवं केषाञ्चित्पक्षः । त्रिकसमधिगता - त्रिकं प्रसिद्धं ब्रह्मविष्णुरुद्ररूपमूर्तित्रयं समधिगता प्राप्ता । तुल्यता - मूर्तित्रयं तुल्यमिति केषाञ्चित् पक्षः । त्रयाणामैक्यम् - तेषामेव ब्रह्मविष्णुरुद्राणामेकवस्तुत्वम् । इदं केषाञ्चिन्मतम् । अन्यत्र - विष्णोरन्यत्र रुद्रे वा मूर्तित्रयादुत्तीर्णे कस्मिंश्चिद्वा । ऐश्वर्यम् - स्वेतरसमस्तवस्तुनियन्तृत्वरूपमीश्वरत्वम् । इत्याद्यनिपुणफणितीः - इति उक्ताः प्रकाराः, आदिः निर्गुणं ब्रह्मैव तत्त्वं तद्व्यतिरिक्तं किमपि नास्तीति मायिपक्षः, तत्सम्बन्धिनीः अनिपुणानां तत्त्वनिर्धारणोपयुक्तसत्सम्प्रदायतन्मूलकयथावस्थितज्ञानशून्यानां फणितीरुक्तीः । इति च आदिश्च इत्यादयः तत्सम्बन्धिन्योऽनिपुणफणितयः इत्याद्यनिपुणफणितयस्ताः । यद्वा इति उक्तप्रकाराः पक्षाः आदिर्यस्य मायिमतस्येति तद्गुणसंविज्ञानबहुव्रीहिः । इत्यादिसम्बन्धिन्यः अनिपुणफणितय इति पूर्ववत् । सन्तः - सत्सम्प्रदायसिद्धयथावस्थितपरतत्त्वज्ञानलब्धसत्ताकास्संख्यावदग्रगण्याः । नाद्रियन्ते - न बहुमन्यन्ते । एककण्ठैस्त्रय्यन्तैः - श्रीपुरुषसूक्तोत्तरानुवाक-सहस्रशीर्षानुवाक-सुवर्णघर्मानुवाक-महोपनिषन्नारायणोपनिषन्महानारायणोपनिषत्कठवल्ली-सौबाल-ब्रह्मबिन्दु-नृसिंहतापनीय-रामतापनीय-बृहदारण्यक-च्छान्दोग्यादिभिस्तदैककण्ठ्यमपेक्ष्य लब्धासत्ताकैरन्यैश्च वेदान्तैरुपनिषद्भिः प्रमाणैः । तदनुगुणमनुव्यासमुख्योक्तिभिश्च - उदाहृतसर्वोपनिषदां तात्पर्यप्रकाशनेनानुकूलाभिः सकलबुभुक्षुमुमुक्षुजनभेषजभूतस्ववाक्यस्य मनोः, नारायणावतारतया प्रसिद्धस्य पञ्चमवेदप्रणेतुः व्यासस्य, मुख्यानां पराशर-श्रीशठमथन-नाथ-यामुन-रामानुजात्रेयरामानुजादीनां उक्तिभिश्च मनुस्मृति-श्रीमन्महाभारत-श्रीपुराणरत्न-दिव्यप्रबन्ध-योगतत्त्व-पुरुषनिर्णय-श्रीभाष्यादिरूपाभिस्सूक्तिभिश्च तदुपबृंहणभूताभिः । श्रीमान् - सर्वावस्थास्वपि श्रिया समेतः । नारायणः - पुरुषोत्तम एव । नः पतिः अखिलतनुर्मुक्तिदो मुक्तभोग्यः - अवगत इति शेषः । सर्वास्वामितया सर्वनियन्तृतया परमपुरुषार्थप्रदातृतया मुक्तिदशायां प्राप्यतया चाधिगत इत्यर्थः । अत्र केचिदाचार्याः ‘त्रिकमधिकता’ इति पाठमवलम्ब्य त्रिमूर्त्युत्तीर्णपरत्वपक्षं प्रतिपादयन्ति । तथावर्णने श्रीमद्रहस्यत्रसारे एतच्छ्लोकानन्तरमधिकारादौ साम्यैक्योत्तीर्णव्यक्यन्तरपक्षाणां क्रमेणोपपादनं विरुध्यते । अत एव सारदीपिकाचार्यैः ‘त्रिकसमधिगता तुल्यता’ इति पाठमवलम्ब्य ‘अन्यत्रैश्वर्यम्’ इत्यनेनैवोत्तीर्णव्यक्त्यन्तरपक्षयोस्संग्रहः कृत इति दिक् ॥
कुमार-वरदः - 54
  1. उक्तं नारायणस्यैव पारम्यं नानाविधपरपक्षप्रतिक्षेपपूर्वकं सम्प्रतिपन्नप्रमाणविशेषप्रतिपादनादुपपादयति - आत्मैक्यमिति । सर्वेऽप्यात्मान एकमेवेति भास्करयादवप्रकाशशङ्करमतानुसारिणो वदन्ति । सर्वासां देवतानामैक्यमिति प्रशिथिलपरिपठितकतिपयनिगमाः पामरप्रायाः । त्रिमूर्त्युत्तीर्णं किमपि तत्त्वमस्तीति व्योमातीतवादिनः । केवलपुराणपठनमात्रसंतुष्टा विशेषज्ञानविधुरा ब्रह्मविष्णुरुद्राणां तुल्यत्वमिति प्रतिपेदिरे । तादृशा एवान्ये पुनस्त्रयाणामैक्यमिति । अपरे पुनरयथायथमेव यथाभिमानं कल्पयन्तो भास्करादिष्वन्यतममेव सर्वस्मात्परं वर्णयन्ति । अनिपुणा एवैते । वेदविरोधात् स्मृतिविरोधात् सत्त्वोत्तरपुराणविरोधाच्च एतेषां फणितीस्तत्त्वविदो नाद्रियन्ते । तर्हि किं प्रमाणं भवतामित्याशङ्क्य प्रमाणोपादानपूर्वकं परतत्त्वनिर्णयमुपपादयति - त्रय्यन्तैरिति । एककण्ठैरिति सर्वश्रुत्यविरोधमाह । तदनुगुणेति सोपबृंहणत्वमाह । श्रीमानिति ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’ इत्युत्तरनारायणोक्तनियामकलिङ्गं दर्शयति । नारायण इति अस्यैव नारायणानुवाकोपादानम् । पतिरिति ‘पतिं विश्वस्य’ इत्यादिनानाविधश्रुतिप्रतिपन्नशेषशेषिभावव्यक्तीकरणम् । स एव हि प्रणवार्थः । प्रणव एव हि सकलवेदसारः ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यारभ्य ‘तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्’ इति निगमनात् । नः पतिरिति बहुवचनोपादानात् ‘नित्यो नित्यानाम्’ इति श्रुतिसिद्धजीवनानात्वमुपपाद्यते । अखिलतनुरिति अन्तर्यामिब्राह्मणादिसिद्धमध्यात्मशास्त्रसारभूतं सर्वशरीरत्वमुच्यते । मुक्तिदो मुक्तभोग्य इति तृतीयचतुर्थाध्यायप्रतिपाद्यार्थतत्त्वमभिधीयते । मोक्षप्रदत्वं तृतीये मुक्तप्राप्यत्वं चतुर्थे इति तयोरर्थविभागः ॥
मूलम् - 54
  1. आत्मैक्यं देवतैक्यं त्रिकसमधिगता तुल्यतैक्यं त्रयाणाम्
    अन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः ।
    त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिभिश्च
    श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः ॥