विश्वास-प्रस्तुतिः - 49
- कामानेतांश्च सत्यानिति वचनबलाद्धर्म्युपास्तेर्विभक्ता
धर्मोपास्तिस्तदर्थं गुणिपरिगणनं तन्त्रतोऽस्त्वित्ययुक्तम् ।
तत्तद्वैशिष्ट्यभेदात् प्रतिविधि गुणिनश्चिन्तनावृत्तिरर्थ्या
राजत्वाद्यैः पृथक्त्वाद्भवति हि हविषो दानमावृत्तमिन्द्रे ॥
३४-तमाहोबिल-यतिः - 49
- कामानेतांश्चेत्यादि । एतांश्च सत्यान्कामान् इति वचनबलात् - दहरविद्यायां ‘तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्’ इतिवाक्ये ‘आत्मानमनुविद्य’ इति दहराकाशशब्दितपरमात्मोपासनविध्यनन्तरं एतांश्च सत्यान्कामाननुविद्येति सत्यकामशब्दवाच्यगुणोपासनविधायकवचनबलात् । धर्मोपास्तिर्धर्म्युपास्तेर्विभक्ता - धर्मभूतसत्यकामशब्दवाच्यापहतपाप्मत्वादिगुणाष्टकोपास्तिरात्मानमनुविद्येत्युक्तगुणाष्टकाश्रयपरमात्वस्वरूपोपासनात् भिन्ना । तदर्थं गुणिपरिगणनं तन्त्रतो़ऽस्तु - धर्मोपासनार्थं गुणाश्रयभूतधर्मिचिन्तनम् एकवारमेवास्तु । धर्म्युपासनार्थं धर्म्युपादाने कृते तदुपजीवनेनैव धर्मोपासनेऽपि धर्म्युपादानसिद्वेर्धर्मोपासनार्थं पुनर्धर्म्युपादानं न कर्तव्यमित्यर्थः । इत्ययुक्तम् - इति चिन्तनमयुक्तम् । तत्तद्वैशिष्ट्यभेदात् - अपहतपाप्मत्वादिगुणविशिष्टोपासने तत्तद्गुणवैशिष्ट्यभेदात् तत्तद्गुणवैशिष्ट्यकृताद्धर्भिभेदात् । प्रतिविधि - तत्तद्गुणविशिष्टब्रह्मोपासनविधाने सर्वत्रापि । गुणिनः - ब्रह्मणः । चिन्तनावृतिः - चिन्तनस्य पुनः पुनः करणम् । अर्थ्या - अर्थादनपेता फलवतीत्यर्थः । तेन पूर्वमनुविद्येति विहितगुण्यनुसन्धाने एतांश्च सत्यान् कामानिति विहितगुणविशिष्टानुसन्धाने च गुण्यनुसन्धानं प्रत्येकमेव कर्तव्यमित्यर्थः । राजत्वाद्यैः - इन्द्राय राज्ञे पुरोडाशमेकादशपालं निर्वपेत्, इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञे, इत्यादिवाक्यविहितेष्टिविशेषे राजत्वाधिराजत्वस्वराट्त्वधर्मैः । पृथक्त्वात् - पूर्वपूर्वधर्मविशिष्टेन्द्रापेक्षयोत्तरोत्तरधर्मविशिष्टेन्द्रस्य भिन्नत्वात् । इन्द्रे - एकस्मिन्नेवेन्द्रे । हविषो दानम् - एकादशकपालसंस्कृतपुरोडाशात्मकहविषस्समर्पणम् । आवृत्तं भवति - असकृत् कृतं भवति । हीत्यनेन ‘नाना वा देवता पृथक्त्वात्’ इत्यादिपूर्वकाण्डसूत्रप्रसिद्धिस्सूच्यते ॥
कुमार-वरदः - 49
- पूर्वाधिकरणं प्रसङ्गादायातम्, अधुना तत्पूर्वदहरविद्याविषयनिरूपणमत्र क्रियत इति सङ्गतिः । तदर्थविचारस्तु - ‘तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’ इति अपहतपाप्मत्वादीनामपि भेदेनोपासनं विहितम्, तत्र गुणचिन्तने गुणविशिष्टतया दहरस्यात्मनश्चिन्तनमावर्तनीयं नेति । तदर्थं विचार्यते - किं दहरमात्रचिन्तने गुणवद्दहरचिन्तनमपि कृतं नेति । अत्र कश्चिदाह - ‘य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’ इति पृथगनुद्ध्यानवचनबलात् धर्म्युपासनात् विभक्ता धर्मोपास्तिः । तदर्थं गुणिपरिगणनं धर्मोपासनार्थं धर्म्युपादानं तन्त्रतोऽस्तु एकवारमेवास्तु । अयमर्थः - धर्म्युपासनार्थं धर्म्युपादाने कृते तदुपजीवनादेव धर्मोपासनार्थं पुनर्धर्म्युपादानं न कर्तव्यम्, पूर्वोपात्तधर्म्युपादानेनैवोत्तरोपासनेऽपि धर्मिसिद्धेरिति । तदेतत् सर्वमनुवदति - कामानिति । तदिदं निराकरोति - अयुक्तमिति । अयुक्तत्वमेवोपपादयति - तत्तदिति । अपहतपाप्मत्वादिगुणगणविशिष्टोपासने तत्तद्गुणवैशिष्ट्यभेदात् प्रतिविधि तत्तद्गुणविशिष्टब्रह्मोपासनविधाने सर्वत्रापि गुणिनो ब्रह्मणश्चिन्तनावृत्तिरर्थ्या अर्थादनपेता । तेन पूर्वं ‘अनुविद्य’ इति विहितगुण्यनुसन्धाने एतांश्च सत्यान्कामाननुविद्य व्रजन्तीति तत्तद्गुणविशिष्टब्रह्मानुसन्धाने गुण्यनुसन्धानं प्रत्येकमेव कर्तव्यमित्यर्थः । अस्मिन्नर्थे पूर्वकाण्डोक्तन्यायं दृष्टान्ततया सूत्रकारोक्तं दर्शयति - राजत्वाद्यैरिति । अयमर्थः - ‘इन्द्राय राज्ञे पुरोडाशमेकादशकपालं निर्वपेत्’ इत्यादौ तत्तद्विशेषणविशिष्टेन्द्रे प्रदानाख्यं कर्मावृत्तम् । एवमपहतपाप्मत्वादिनानाविशेषणविशिष्टे परस्मिन् ब्रह्मणि स्थिते तस्यैव परस्य ब्रह्मणः पौनः पुन्येनावृत्तिरर्थवतीति ॥
मूलम् - 49
- कामानेतांश्च सत्यानिति वचनबलाद्धर्म्युपास्तेर्विभक्ता
धर्मोपास्तिस्तदर्थं गुणिपरिगणनं तन्त्रतोऽस्त्वित्ययुक्तम् ।
तत्तद्वैशिष्ट्यभेदात् प्रतिविधि गुणिनश्चिन्तनावृत्तिरर्थ्या
राजत्वाद्यैः पृथक्त्वाद्भवति हि हविषो दानमावृत्तमिन्द्रे ॥
विश्वास-प्रस्तुतिः - 50
- तत्तद्भोगप्रतीतेर्गुणघटितपरोपासना भोगहेतुः
मुक्तिश्च स्यात् क्रमादित्यसदगुणवचस्यान्यपर्याभिधानात् ।
शास्त्रेऽस्मिन्ना समाप्तेः क्व फलमभिहितं निर्गुणोपास्तिसाध्यं
नोच्छास्त्रञ्च प्रकल्प्यं गुणनियमनतः ख्यातिमांश्चैष पादः ॥
३४-तमाहोबिल-यतिः - 50
- तत्तद्भोगेत्यादि । तत्तद्भोगप्रगीतेर्गुणघटितपरोपासना भोगहेतुः - ‘जक्षत्क्रीडन् रममाणस्त्रीभिर्वा यानैर्वा’ इत्यादिभिर्वाक्यैर्नानाविधभोगवचनात् गुणयुक्तपरोपासना भोगहेतुः। मुक्तिश्च क्रमात् स्यात् - निश्शेषाविद्यानिवृत्तिपूर्वकनिर्गुणस्वस्वरूपानुभवरूपमोक्षश्च उत्तरकाले क्रमेण भवेत् । इत्यसत् - इति कल्पनमयुक्तम् । अगुणवचस्यान्यपर्याभिधानात् - ‘नेह नानास्ति’ ‘अथात आदेशो नेतिनेति’ इत्यादिनैर्गुण्यवचनस्य ‘न स्थानतोऽपि’ इत्यधिकरणे ’ उत्सर्गेणापवादं न खलु नयविदः क्षोभणीयं क्षमन्ते तस्माद्ब्राह्मे गुणादौ विधिविषयमतिक्रम्य तिष्ठेन्निषेधः’ इत्यादिना हेयगुणनिषेधविषयत्वेन व्यवस्थापनात् । तेन निर्गुणमेव नास्ति कुतस्तस्योपासनं कुतस्तरां निर्गुणब्रह्मप्राप्तिः कुतस्तमाञ्चोपासनफलवैविध्येन वाक्यार्थभेदपरिकॢप्तिरिति भावः । उक्तमेवार्थं वैशद्याय पुनरुपपादयत्युत्तरार्धेन अस्मिन् शास्त्रे आ समाप्तेर्निर्गुणोपास्तिसाध्यं फलं क्वाभिहितम् - अस्मिन् शारीरकशास्त्रे ‘अथातो ब्रह्मजिज्ञासा’ इत्यारभ्य ‘अनावृत्तिश्शब्दात्’ इत्यादिचरमसूत्रपर्यन्तं निर्गुणब्रह्मोपासनसाध्यं फलमिदम् एवंविधमिति क्व सूत्रेऽभिहितम् । मा भूत् शास्त्रे निर्गुणब्रह्मोपासनविधानं तत्फलञ्च, तथाप्यस्मत्सम्प्रदायपारम्पर्येण तथाङ्गीकार्यमित्यत्रोच्यते - नोच्छास्त्रञ्च प्रकल्प्यमिति । न ह्यतीन्द्रियविषये शास्त्रमुत्सृज्य केवलबुद्ध्या कल्पनं विद्वच्छिष्टसम्मतं भवेत् । एष पादश्च गुणनियमनतः ख्यातिमान् - तिष्ठन्त्वितराणि दूषणानि, इदमेकं ब्रह्मास्त्रम् । अयं खलु पादो गुणोपसंहारपाद इति नामतः प्रसिद्धः । अस्मिन्पादे गुणनिषेधवचनमुन्मत्तप्रलपितमेव भवेदिति भावः ॥
कुमार-वरदः - 50
- अत्र कश्चिदाह - अत्र खलु द्विविधमुपासनमुक्तम्, निर्गुणस्वरूपोपासनमेकं, गुणविशिष्टब्रह्मोपासनमपरम्, इह च यथोपासनं फलमिति न्यायेन निर्गुणस्वरूपोपासनात् निर्गुणब्रह्मप्राप्तिः, तदिदमुच्यते ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभनिष्पद्यते’ इति, सगुणोपासनात् पुनस्सगुणब्रह्मप्राप्तिः, तदप्यत्रोच्यते ‘जक्षत् क्रीडन् रममाणः’ इत्यादिना, तेन क्रममुक्तिमत्रोपकल्पयामः, ततस्सगुणोपासनात् सगुणं प्राप्य निर्गुणोपासनात् निर्गुणमपि प्राप्नोतीति । तदिदं सर्वमनुवदति - तत्तद्भोगेति । तत् प्रतिक्षिपति - असदिति । अयमर्थः - अत्रोभयविधोपासनं भवता किं प्रमाणमनुसृत्य कल्प्यते उत न । नाद्यः - उपासनस्य सर्वस्यापि सगुणविषयत्वात् । न द्वितीयः - अतिप्रसङ्गात् । असत्या एव गुणा इति चेन्न ‘त इमे सत्याः कामाः’ इति तत्सत्यत्वस्यैवात्यादरेण प्रतिपादनात् । ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इत्येतस्मादनन्तरमेव ‘जक्षत्क्रीडन् रममाणः’ इति सगुणफलस्य प्रतिपादनाच्च । पूर्वमेव निर्गुणवाक्यस्य हेयगुणनिषेधविषयत्वेन व्यवस्थापनादिति । तेन निर्गुणमेव नास्ति कुतस्तस्योपासनं कुतस्तरां निर्गुणब्रह्मप्राप्तिः कुतस्तमाञ्चोपासनफलवैविध्येन वाक्यार्थभेदपरिकॢप्तिरिति । उक्तमेवार्थं वैशद्याय पुनरुपपादयति - शास्त्रेऽस्मिन्निति । अस्मिन् शास्त्रे खलु ‘अथातो ब्रह्मजिज्ञासा’ इत्यारभ्य ‘अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्’ इति सूत्रपर्यन्तं निर्गुणब्रह्मोपासनप्रसङ्ग एव नास्ति । इष्टमेवैतद्भवताम् (अन्यथा?) उपास्यत्वेन मिथ्यात्वप्रसङ्गात् । फलञ्च निर्गुणोपासने परिकल्पयितुं न शक्यते । तत्फलं ब्रह्मस्वरूपं चेदनादिसिद्धत्वादफलमेव । तस्मात् सगुणादेवोपासनात् फलसिद्धिः । तच्च फलं सगुणात्मकमेवेति सिद्धम् । मा भूत् शास्त्रे निर्गुणब्रह्मोपासनम्, मा भूदपि तत्फलम्, अथाप्यस्मत्संप्रदायपारम्पर्यात् परिकल्पितमिति चेत् तत्रोत्तरमाह - नोच्छास्त्रमिति । तिष्ठन्त्वेतानि दूषणानि, इदमेकं ब्रह्मास्त्रम् । अयं खलु पादो गुणोपसंहारपाद इत नामतः प्रसिद्धः । अस्मिन्पादे गुणनिषेधवचनं भवतामुन्मत्तप्रलपितमेवेत्याह - गुणनियमनत इति ॥
मूलम् - 50
- तत्तद्भोगप्रतीतेर्गुणघटितपरोपासना भोगहेतुः
मुक्तिश्च स्यात् क्रमादित्यसदगुणवचस्यान्यपर्याभिधानात् ।
शास्त्रेऽस्मिन्ना समाप्तेः क्व फलमभिहितं निर्गुणोपास्तिसाध्यं
नोच्छास्त्रञ्च प्रकल्प्यं गुणनियमनतः ख्यातिमांश्चैष पादः ॥
विश्वास-प्रस्तुतिः - 51
- प्रत्येकं मेलनाद्वा दहरगुणगणेऽप्यत्र सञ्चिन्त्यमाने
गुण्यावृत्त्यर्थलब्धेः कथमिह तदनावृत्तिशङ्केति चेन्न ।
बुद्ध्यारोहे गुणानां यदवधि गुणिनो रूपमर्थ्यं ततोऽन्यद्
विद्यैकान्तं तदावृत्त्यनुघटिततदावृत्तिचिन्ताप्रवृत्तेः ॥
३४-तमाहोबिल-यतिः - 51
- प्रत्येकमित्यादि । अत्र प्रत्येकं मेलनाद्वा दहरगुणगुणे सञ्चिन्त्यमानेऽपि गुण्यावृत्त्यर्थलब्धेः इह तदनावृत्तिशङ्का कथम् - अत्र दहरविद्यायां ‘अपहतपाप्मा विजरः’ इत्याद्युक्तरीत्या प्रत्येकं तत्तद्गुणविशिष्टानुसन्धानपक्षे ‘एतांश्च सत्यान्कामान्’ इत्युक्तरीत्या यावद्गुणविशिष्टतया मेलनेनानुसन्धानपक्षेऽपि गुणिनमन्तरेण गुणानुसन्धानासम्भवात् ब्रह्मानुसन्धानं स्वयमेव सिद्ध्यतीति गुणिनः ब्रह्मणः आवृत्तेः अर्थाल्लाभेन अत्र गुण्यनुसन्धानानावृत्तिशङ्का कथं क्रियते । तथाचैतदधिकरणपूर्वपक्षोऽनुत्थान इति भावः । इति चेन्न - इति शङ्क्यते चेत् तन्न युक्तम् । गुणानां बुद्ध्यारोहे यदवधि गुणिनो रूपमर्थ्यं ततोऽन्यद्विद्यैकान्तं तदावृत्त्यनुघटिततदावृत्तिचिन्ताप्रवृत्तेः - गुणानां बुद्ध्या विषयीकरणे यदवधि यावत्, गुणिनो रूपं सत्यत्वज्ञानत्वानन्तत्वादिरूपं अर्थ्यमर्थादनपेतमवियुक्तमित्यर्थः, तद्गुणानुसन्धाने अत्याज्यतया स्वयमेव सिध्यत्येव, ततोऽन्यत् विद्यैकान्तं स्थानादिरूपं तदावृत्त्यनुघटिततदावृत्तिचिन्ताप्रवृत्तेः - तादृशस्थानादिघटितस्य तस्य ब्रह्मण आवृत्तिचिन्ताप्रवृत्तेस्सर्वविद्यासाधारणसामान्यगुणातिरिक्ततत्तद्विद्याविशेषनियत- स्थानादिविशेषणसहितस्यैव ब्रह्मण आवृत्तिचिन्तेत्यर्थः ॥
कुमार-वरदः - 51
- एतस्मिन्नधिकरणे पूर्वपक्षोत्थानमाक्षिप्य समाधातुमुपक्रमते - प्रत्येकमित्यादिना । ‘अपहतापाप्मा’ इत्यादिना प्रत्येकानुसन्धानम् । ‘व्रजन्त्येतांश्च सत्यान् कामान्’ इत्यादिना मेलनानुसन्धानम् । यद्वा तद्वा भवतु । उभयथानुसन्धानेऽपि गुणिनमन्तरेण गुणानुसन्धानाभावात् ब्रह्मानुसन्धानं स्वयमेव सिध्यति । अत्र गुण्यननुसन्धानं कथमिवाशङ्क्यते आशङ्काभावे कथमिव समाधीयत इति चोदकाभिप्रायः । तदिदं प्रतिक्षिपति - नेति । प्रतिक्षेपप्रकारमाह - गुणानामिति । गुणानां बुद्ध्यारोहे यदवधि च गुणिनो रूपं सत्यत्वज्ञानत्वानन्तत्वादिरूपं अर्थ्यं अर्थादनपेतं तदवियुक्तमित्यर्थः । तत् स्वयमेव सिध्यत्येव । ततोऽन्यत् यत् तत् विद्यैकान्तं स्थानादिरूपम् । तदावृत्तीति - तस्य स्थानादेरावृत्तिसहितस्य ब्रह्मण आवृत्तिचिन्ताप्रवृत्तेरिति शब्दार्थः । अयमर्थः - सर्वविद्यासाधारणसामान्यगुणातिरिक्ततत्तद्विद्याविशेषनियतस्थानादिविशेषणसहितस्यैव ब्रह्मण आवृत्तिरिति ॥
मूलम् - 51
- प्रत्येकं मेलनाद्वा दहरगुणगणेऽप्यत्र सञ्चिन्त्यमाने
गुण्यावृत्त्यर्थलब्धेः कथमिह तदनावृत्तिशङ्केति चेन्न ।
बुद्ध्यारोहे गुणानां यदवधि गुणिनो रूपमर्थ्यं ततोऽन्यद्
विद्यैकान्तं तदावृत्त्यनुघटिततदावृत्तिचिन्ताप्रवृत्तेः ॥