32 तन्निर्धारणानियमाधिकरणम्

विश्वास-प्रस्तुतिः - 47
  1. उद्गीथादौ क्रियाङ्गे भजनमपि भवेत्पर्णताद्युक्तनीत्या
    कर्माङ्गं तत्फलोक्तिस्त्विह नुतिरिति गोदोहनन्यायभग्नम् ।
    स्वर्गादीनां फलत्वं क्रतुषु तदधिको ह्यत्र वीर्यातिरेकः
    पर्णत्वादौ न वाक्यं वदति करणतां कर्म चाहानुपास्तौ ॥
३४-तमाहोबिल-यतिः - 47
  1. उद्गीथादावित्यादि । क्रियाङ्गे उद्गीथादौ भजनमपि पर्णताद्युक्तनीत्या कर्माङ्गं भवेत् - यज्ञाङ्गभूते उद्गीथादौ उपासनमपि अव्यभिचरितक्रतुसम्बन्धिजुह्वादिमुखेन पर्णतादिकं क्रत्वङ्गमिति पर्णमय्यधिकरणोक्तन्यायेन कर्माङ्गं भवेत् । इह - ‘यदेव विद्यया करोति श्रद्धयोनिषदा तदेव वीर्यवत्तरं भवति’ इति वाक्ये तत्फलोक्तिस्तु – उपासनस्य फलोक्तिस्तु । नुतिरिति - अपापश्लोकश्रवणवाक्यवदङ्गभूतोपासनस्तुतिरिति । गोदोहनन्यायभग्नम् - ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इति विहिते क्रतुफलभिन्नपशुरूपफलाय गोदोहनपात्रेणाप्प्रणयने क्रतुफलभिन्नफलदर्शनेन यो नियमन्यायस्तेन पूर्वोक्ताशङ्कनं निरस्तमित्यर्थः । गोदोहने क्रतुफलभिन्नं फलं दृष्टम्, अत्र क्रतुफलभिन्नं किं फलमस्तीत्याशङ्कायां तद्विवृणोत्युत्तरार्धेन - क्रतुषु स्वर्गादीनां फलत्वम् - ज्योतिष्टोमादिक्रतुषु स्वर्गादीनां हि फलत्वं सर्वसम्मतम् । अत्र वीर्यातिरेकः तदधिको हि - अत्रोद्गीथाद्युपासने श्रुतो वीर्यातिरेकः प्रबलकर्मान्तराप्रतिबन्धरूपस्तदधिको हि क्रतुफलाद्भिन्नो हि । पर्णत्वादौ - जुह्वादीनां पर्णमयत्वादौ । करणताम् - अपापश्लोकश्रवणरूपफलकरणताम् । वाक्यम् - ‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति’ इति
    वाक्यम् । न वदति - न प्रतिपादयति । उद्गीथोपासनविषये तु ‘यदेव विद्यया’ इति वीर्यवत्तरत्वरूपफलकरणतां तृतीयाश्रुतिर्वक्तीत्यर्थः । किञ्च अनुपास्तौ च कर्माह - उपासनाभावेऽप्युद्गीथरूपकर्मानुष्ठानं श्रुतिराह । ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’ इत्युपासनाभावेऽप्युद्गीथानुष्ठानं दर्शयति । न ह्यङ्गत्वेऽनुष्ठानानियम उपपद्यते । तथाच भाष्यं ‘उपलभ्यते ह्युपासनानियमः - ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’ इत्यविदुषोऽप्यनुष्ठानवचनात् । न चाङ्गत्वे सत्युपासनस्यानुष्ठानानियम उपपद्यते’ इत्यादि । एवं स्वरसार्थे सत्यपि श्रीभाष्येऽपि जाग्रति चिन्तामणौ पङ्क्तिर्दृश्यते ‘यदि करणत्वं न वदति किं तर्हि तत्राहेत्यत आह - कर्म चाहानुपास्ताविति । अनुपास्तौ उपासनव्यतिरिक्ते कर्मप्रयोगेऽङ्गभूतजुह्वादेः परिग्रहरूपं कर्मैव वाक्यं वदतीत्यर्थः । चोऽवधारणे कर्मैव वदति’ इत्यादिः । इदं व्याख्यानं कीदृशं? प्रक्षिप्तमेवेति युक्तम् ॥
कुमार-वरदः - 47
  1. पूर्वत्र सत्यकामत्वसत्यसङ्कल्पत्वादीनां गुणानामुपसंहार्यत्वमुक्तम्, एवमुद्गीथाद्युपासनानामपि नियमेनोपसंहार्यत्वं स्यादिति शङ्कोत्थानेन सङ्गतिः । तदर्थविचारस्तु - ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यादिकर्माङ्गाश्रितोद्गीथाद्युपासनादीनि किं क्रतुषु नियमेनोपादेयानि उतानियमेन इति । तदर्थं विचार्यते - किमेतानि क्रत्वङ्गोद्गीथादिमुखेन क्रत्वङ्गानि? उत गोदोहनादिवत् पुरुषार्थभूतानि ? इति । किं ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’ इत्यनियमदर्शनं गोदोहनादिवत् पुरुषार्थतामवगमयति नेति । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति अपापश्लोकश्रवणादिवत् किं फलार्थवादः, उत फलविधिरिति । अत्र ‘यस्य पर्णमयी जुहूर्भवति’ इति पर्णमय्यधिकरणोक्तन्यायेन उद्गीथादौ क्रियाङ्गे भजनं कर्माङ्गं भवेत् । पर्णमय्यधिकरणेऽप्यव्यभिचरितक्रतुसम्बन्धिजुह्वादिमुखेन पर्णतादिकं क्रत्वङ्गमित्येव हि निरणायि । तत्र यथा अपापश्लोकश्रवणादिकं फलं स्तुतिरेव, एवं ‘यदेव विद्यया करोति’ इत्यारभ्य ‘तदेव वीर्यवत्तरम्’ इति फलोक्तिरर्थवाद एव स्यात् । उभयत्रापि ‘यस्य पर्णमयी जुहूर्भवति’ ‘यदेव विद्यया करोति’ इति वर्तमाननिर्देशस्याविशिष्टत्वात् । तदिदमाह - उद्गीथादाविति । उक्तमिमं पूर्वपक्षं प्रतिक्षिपति - गोदोहनेति । ननु गोदोहनादौ प्रधानफलात् फलान्तरस्य पशोर्दर्शनादधिकृताधिकारत्वमङ्गीकृतम्, इदमेवाश्रित्यविधानमित्युच्यते इह तु कथमित्याशङ्क्यात्रापि फलान्तरदर्शनमस्तीति परिहार उच्यते - स्वर्गादीनामिति । अयमत्र शब्दान्वयः - क्रतुषु स्वर्गादीनामेव फलत्वम्, क्रत्वङ्गाश्रयोद्गीथाद्युपासनेष्वत्र वीर्यातिरेकः पूर्वोक्तफलादधिकमेव फलम् । तत्र वीर्यवत्तरत्वं नाम कर्मान्तरैरप्रतिबद्धफलकत्वम् । लोके हि कर्मफलं प्रबलकर्मान्तरफलैः प्रतिबध्यते । उद्गीथाद्युपासनं तु प्राचीनकर्मान्तरप्रतिबन्धवारणसामर्थ्यं करोतीत्युद्गीथाद्युपासनस्य वीर्यवत्तरत्वं फलमित्यर्थः । दृश्यते हि लोके स्वभावतः कारणं स्वकार्यकरणमातनुते, प्रतिबन्धकमागत्य तच्छक्तिं निरुन्धे, उत्तम्भकं पुनर्मणिमन्त्रादिकं तामेव करणशक्तिमुत्तम्भयति । तेनायमर्थः - उद्गीथाद्युपासनसहितं चेत् कर्म सहसैव स्वकार्यं कुर्यात्, नचेत् सहसैव न कुर्यादिति । तेनोद्गीथादिकं कर्माङ्गं प्रधानफलेनैव फलवत्त्वात् । उपासनं तु न कर्माङ्गम् ; प्रधानफलातिरिक्तवीर्यवत्तरत्वरूपफलान्तरवत्त्वात् । पर्णतादिकं तु पृथक्फलशून्यत्वात् अव्यभिचरितक्रतुसम्बन्धिजुह्वादिमुखेन क्रत्वङ्गमेव । ननु ‘यस्य पर्णमयी’ ‘यदेव विद्यया’ इति वाक्ययोस्तुल्यतया फलश्रवणे कथमिह वैषम्यमभिधीयते ? इत्थम् । इदमवधानेनाकर्णयेथाः । विषमरूपत्वाद्वाक्यश्रवणस्य, क्वचिद्विद्ययेति तृतीया श्रुतिराकर्ण्यते । सा च तृतीया फलसाधनत्वमेव साक्षादुपदिशति । पर्णतावाक्ये तु न तृतीयानिर्देशः । तेन तत्र न फलसम्बन्धः । तस्मादर्थवादमात्रमेव । तदिदं विशदमेव दर्शयति - पर्णत्वादाविति । यदि करणत्वं न वदति किं तर्हि तत्राहेत्यत आह - कर्म चाहानुपास्ताविति । अनुपास्तौ उपासनव्यतिरिक्ते कर्मप्रयोगे अङ्गभूतजुह्वादेः परिग्रहरूपं कर्मैव वाक्यं वदतीत्यर्थः । चोऽवधारणे कर्मैव वदतीति ॥
मूलम् - 47
  1. उद्गीथादौ क्रियाङ्गे भजनमपि भवेत्पर्णताद्युक्तनीत्या
    कर्माङ्गं तत्फलोक्तिस्त्विह नुतिरिति गोदोहनन्यायभग्नम् ।
    स्वर्गादीनां फलत्वं क्रतुषु तदधिको ह्यत्र वीर्यातिरेकः
    पर्णत्वादौ न वाक्यं वदति करणतां कर्म चाहानुपास्तौ ॥
विश्वास-प्रस्तुतिः - 48
  1. उद्गीथे प्राणदृष्टौ क्रतुघटितफलादन्यदुक्तं फलं तत्
    स्वीकृत्य प्राग्विचारः स्थित इति विहतः पूर्वपक्षोऽत्र मैवम् ।
    अत्रत्येऽनङ्गभावे स्थिरनिहितधियस्तत्र विद्यैक्यशङ्का
    त्यक्त्वाङ्गानङ्गभावौ पृथगपृथगिति स्याच्च पूर्वत्र चिन्ता ॥
३४-तमाहोबिल-यतिः - 48
  1. उद्गीथ इत्यादि । उद्गीथे - उद्गीथावयवभूते प्रणवे । प्राणदृष्टौ - प्राणत्वेनोपासने । क्रतुघटितफलात् अन्यत् फलमुक्तम् - क्रतुसम्बन्धिफलादन्यत् शत्रुपरिभवाख्यं फलं श्रुत्युक्तम् । तत्स्वीकृत्य - तदङ्गीकृत्य । प्राक् - पूर्वं ‘अन्यथात्वं शब्दादिति चेत्’ इत्यधिकरणे । विचारः - विद्याभेदाभेदविचारः स्थितः । इति - एवमुद्गीथोपासनस्य क्रतुफलभिन्नफलत्वस्य पूर्वमङ्गीकृत्य विचारकरणाद्धेतोः । अत्र - अस्मिन्नधिकरणेऽपि । पूर्वपक्षः - पृथक्फलकत्वाभावपूर्वपक्षः । विहतः - निरुद्धः, नोत्तिष्ठेदित्यर्थः । मैवम् - एवं मा शङ्किष्ठाः । अत्रत्येऽनङ्गभावे स्थिरनिहितधियस्तत्र विद्यैक्यशङ्का - एतदधिकरणसिद्धे उद्गीथोपासनस्य क्रत्वनङ्गभावे स्थिरतया न्यस्तबुद्धेश्श्रोतुरधिकारिणस्तस्मिन्नधिकरणे विद्यैक्यशङ्का, सा च परिहृता । अयमेकस्समाधिः । यद्वा अङ्गानङ्गभावौ त्यक्त्वा च पूर्वत्र पृथगपृथगिति चिन्ता स्यात् - अत्रत्याङ्गानङ्गभावौ परित्यज्यानवलम्ब्यापि पूर्वोक्ताधिकरणे विद्याद्वयस्य पृथक्त्वापृथत्वचिन्ता स्यात् । तत्र विद्याद्वयस्य पृथक्त्वे निर्णीते विद्यायाः पृथक्फलत्वेनाश्रयिकर्मत्वमत्र केवलं समर्थ्यत इति भावः ॥
कुमार-वरदः - 48
  1. अत्र कश्चिच्चोदयति - उद्गीथे प्राणदृष्टौ क्रतुफलादन्यदेव फलं वीर्यवत्तरत्वादिकं परामृश्यैव पूर्वम् ‘अन्यथात्वं शब्दात्’ इत्यस्मिन्नधिकरणे विद्याभेदाभेदचिन्ता कृता । तेन पुनः फलान्तरार्थतया पूर्वपक्षोत्थानं विहतमेवेति । तदेतदनुवदति - उद्गीथ इति । तदेतत् प्रतिक्षिपति - मैवमिति । तदेव विवृणोति - अत्रत्य इति । अयमर्थः - उद्गीथविषये द्वावर्थावुपपाद्यौ । अत्र पुनः फलान्तरार्थतया कर्मानङ्गत्वनिर्णयः । तत्र त्वनागतावेक्षणन्यायेन एतदधिकरणनिर्णीतमर्थमुपजीव्य विद्याभेदाभेदचिन्ता । ततो न पौनरुक्त्यम् । अयमत्र शब्दान्वयः - अत्रत्येऽनङ्गभावे स्थिरनिहितधियः श्रोतुरधिकारिणस्तत्र विद्यैक्यशङ्का सा च परिहृतेत्येकोऽयं समाधिः । समाधानान्तरमप्याह - त्यक्त्वेति । अस्याङ्गानङ्गभावौ परित्यज्य विद्याद्वयं पृथगपृथगिति पूर्वत्र चिन्ता, तत्र विद्याद्वयस्य पृथक्त्वे निर्णीते विद्यायाः पृथक्फलत्वेनाश्रयिकर्मत्वमत्र केवलं समर्थ्यते ॥
मूलम् - 48
  1. उद्गीथे प्राणदृष्टौ क्रतुघटितफलादन्यदुक्तं फलं तत्
    स्वीकृत्य प्राग्विचारः स्थित इति विहतः पूर्वपक्षोऽत्र मैवम् ।
    अत्रत्येऽनङ्गभावे स्थिरनिहितधियस्तत्र विद्यैक्यशङ्का
    त्यक्त्वाङ्गानङ्गभावौ पृथगपृथगिति स्याच्च पूर्वत्र चिन्ता ॥