31 कामाद्यधिकरणम्

विश्वास-प्रस्तुतिः - 44
  1. आकाशं ताण्डिनस्तच्छयितमधिजगुर्वाजिनस्तेन विद्या
    भिद्येतात्रेति चेन्न द्विविध इह यतो ब्रह्मनिर्देश एषः ।
    सर्वाधारत्वपूर्वैः परतरविषयस्सामगाकाशशब्दो
    विश्वेशाधारतोक्त्या सुषिरविषयतान्यत्र रूपं तु नान्यत् ॥
३४-तमाहोबिल-यतिः - 44
  1. आकाशमित्यादि । ताण्डिन आकाशमधिजगुः - ताण्डिनश्छन्दोगाः । ‘हानौ तूपायन’ इत्यधिकरणे शङ्करभाष्ये “अस्ति ताण्डिनां श्रुतिः ‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि” इत्युदाहृतम् । अस्मिन्नेवाधिकरणश्रीभाष्ये “छन्दोगा आमनन्ति ‘अश्व इव रोमाणि’” इत्युदाहुतम् । इयञ्च श्रुतिश्छान्दोग्ये अष्टमाध्याये दृश्यते । अन्यत्र च पुरुषविद्यायाम् इत्यस्मिन्नधिकरणे शङ्करभाष्ये अस्ति ताण्डिनां पैङ्गिनाञ्च रहस्यब्राह्मणे पुरुषविद्यायाम् इत्यादि । एवं बहुस्थलेषु च्छन्दोगानां ताण्डिन इति व्यवहारात् छन्दोगा एव ताण्डिनः । ते ‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः’ इति आकाशं ध्येयमधीयते स्म । वाजिनस्तच्छयितमधिजगुः - वाजसनेयिनस्तु ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिच्छेते सर्वस्य वशी सर्वस्येशानः इत्यादिवाक्ये तच्छयितमाकाशे शयितं पुरुषं ध्येयमधीयते स्म । तेन - रूपभेदेन । अत्र - उक्तशाखाद्वये । विद्या भिद्येतेति चेन्न । यतः इह द्विविध एष ब्रह्मनिर्देशः - यतः इह वाक्यद्वये आकाशत्वेन तच्छयितत्वेन च द्विविधोऽपि एष निर्देशो ब्रह्मनिर्देश इति निर्णीतः । अतः पूर्वादाहृतवाक्यद्वये विद्या न भिद्येतेत्यर्थः । तदेव विवृणोत्युत्तरार्धेन सामगाकाशब्दस्सर्वाधारत्वपूर्वैः परतरविषयः - सामगैः पूर्वोदाहृतदहरविद्यावाक्यपठित आकाशशब्दः ‘उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते’ इत्यादिप्रकरणवाक्यसिद्धैस्सर्वाधारत्वादिगुणैः परमात्मपरः । अन्यत्र विश्वेशाधारतोक्त्या सुषिरविषयता - अन्यत्र वाजसनेयके तु आकाशशब्दस्य विश्वेशस्य परमात्मन आधारत्वाभिधानात् ‘तस्यान्ते सुषिरं सूक्ष्मम्’ इत्युक्तसूक्ष्मसुषिरविषयत्वम् । रूपं तु अन्यत् न - ध्येयतद्गुणादिकं त्वेकरूपमिति न विद्याभेद इत्यर्थः ।
    अत्र चिन्तामणौ ‘छान्दोग्यवाजसनेयकवाक्ययोर्विद्याभेदाभेदचिन्ता भाष्ये व्यक्तमुक्ता, नपुनस्ताण्डिनां वाक्यमुपात्तम्, अथापि तद्वाक्यस्यापि न्यायसिद्धं ब्रह्मविषयत्वमनूद्य भाष्योक्तामपि प्रक्रियां छान्दोग्यवाजसनेयकयोरेकविद्यात्वप्रकटनीं निश्शेषशङ्कानिराकरणेन प्रकटयति - आकाशमिति । अयमत्र वाक्यार्थः - आकाशं ताण्डिनो ध्येयमधीयते । वाजिनस्त्वाकाशशयितं पुरुषम् । तेन ताण्डिवाक्ये वाजसनेयकवाक्ये च विद्या भिद्येतेति कस्यचिच्चोद्यम् । तत्प्रतिक्षिपति - नेति । तत्र हेतुमाह द्विविध इति । द्विविधोऽपि निर्देशो ब्रह्मविर्देश इति निर्णीतो यतः, अतस्ताण्डिवाजसनेयकवाक्ययोर्न विद्याभेद इति सिद्धम् । अतः परं तु भाष्यानुक्रमेण छान्दोग्यवाजसनेयकवाक्ययोः भेदचिन्ता सन्तन्यते’ इत्यादि पङ्क्तिः दृश्यते ।
    एवं व्याख्याने ताण्डिशब्दार्थान्यथाप्रतिपत्तिरेव मूलम् । व्याख्यानञ्च श्लोकाननुरूपम् । अत इदमपि श्लोकव्याख्यानं प्रक्षिप्तमेव । सम्भाव्यते च जीर्णकोशनष्टपङ्क्तीनामल्पज्ञाधुनिककल्पनेऽन्यथाभानादिकम् । अत्र तत्वं द्रष्टुं तत्त्ववेदिन एव प्रमाणम् ॥
कुमार-वरदः - 44
  1. प्राणितृत्वादीनामशनायाद्यतीत्वानाञ्चैकधर्मिनिष्ठत्वात् विद्यैक्यं प्रतिपादितम्, अत्र त्वपहतपाप्मत्वादिगुणाष्टकस्य च वशित्वादेश्च धर्मिभेदाशङ्कया पूर्वपक्षोत्थानमिति सङ्गतिः । तदर्थविचारस्तु - ‘अथ यदिदमस्मिन्’ इति दहरविद्यायां छान्दोग्ये अपहतपाप्मत्वादिविशिष्टमुपास्यं ब्रह्म, वाजसनेयके वशित्वादिविशिष्टमुतोभयत्रापहतपाप्मत्वादिविशिष्टमिति । तदर्थं विचार्यते - किं वाजसनेयके हृदयायतनत्वसत्यसङ्कल्पत्वावान्तरविशेषवशित्वादिमुखेन सत्यसङ्कल्पत्वसहचरापहतपाप्मत्वादीनां प्रतिपत्तिरस्ति नेति । अत्र च्छान्दोग्यवाजसनेयकवाक्ययोर्विद्याभेदाभेदचिन्ता भाष्ये व्यक्तमुक्ता, न पुनस्ताण्डिनां वाक्यमुपात्तम्, अथापि तद्वाक्यस्यापि न्यायसिद्धं ब्रह्मविषयत्वमनूद्य भाष्योक्तामपि प्रक्रियां छान्दोग्यवाजसनेयकोयोरेकविद्यात्वप्रकटनीं निश्शेषशङ्कानिराकरणेन प्रकटयति - आकाशमिति । अयमत्र वाक्यार्थः - आकाशं ताण्डिनो ध्येयमधीयते, वाजिनस्त्वाकाशशयितं पुरुषम् । तेन ताण्डिवाक्ये वाजसनेयकवाक्ये च विद्या भिद्येतेति कस्यचिच्चोद्यम् । तत् प्रतिक्षिपति - नेति । तत्र हेतुमाह - द्विविध इति । द्विविधोऽपि निर्देशो ब्रह्मनिर्देश इति निर्णीतो यतः, अतस्ताण्डिवाजसनेयवाक्ययोर्न विद्याभेद इति सिद्धम् । अतः परं तु भाष्यानुक्रमेण च्छान्दोग्यवाजसनेयकवाक्ययोर्भेदचिन्ता सन्तन्यते - सर्वाधारत्वपूर्वैर्भगवदसाधारणैर्गुणैस्सामगाकाशशब्दः ‘दहरोऽस्मिन्नन्तर आकाशः’ इति च्छान्दोग्यस्थाकाशशब्दः परमात्मविषयः । वाजसनेयके तु ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः’ इति वशित्वादिगुणोपेतस्य भगवत आकाशे शयानत्ववचनात् आकाशशब्दः परमात्माधारभूतसुषिरवाचकः । अत्र द्वयोरपि विद्ययो रूपभेदमाशङ्क्य परिहरति - रूपं तु नान्यदिति । छान्दोग्ये वाजसनेयके चोभयत्राप्यपहतपाप्मत्वादिगुणविशिष्टः परमपुरुष एवानुसन्धेयतयोच्यत इति रूपभेदो नास्तीति न विद्याभेद इति भाष्ये एव विस्तृतम् ॥
मूलम् - 44
  1. आकाशं ताण्डिनस्तच्छयितमधिजगुर्वाजिनस्तेन विद्या
    भिद्येतात्रेति चेन्न द्विविध इह यतो ब्रह्मनिर्देश एषः ।
    सर्वाधारत्वपूर्वैः परतरविषयस्सामगाकाशशब्दो
    विश्वेशाधारतोक्त्या सुषिरविषयतान्यत्र रूपं तु नान्यत् ॥
विश्वास-प्रस्तुतिः - 45
  1. छन्दोगानामुपास्यं प्रथितमिह गुणैरष्टभिर्ब्रह्म जुष्टं
    तच्चान्येषां वशित्वप्रभृतिघटितमित्यस्तु रूपे तु भेदः ।
    मैवं यत्तद्वशित्वाद्यपि तदिह भिदा सत्यसङ्कल्पतायाः
    इत्यैकार्थ्यं निरूढं परमपि दहरोपासनं तद्वदूह्यम् ॥
३४-तमाहोबिल-यतिः - 45
  1. छन्दोगानामित्यादि । इह अष्टभिर्गुणैर्जुष्टं ब्रह्म च्छन्दोगानामुपास्यं प्रथितम् - इह दहरविद्यायामपहतपाप्मत्वादिभिरष्टभिर्गुणैर्युक्तं ब्रह्म च्छन्दोगानामुपास्यं प्रसिद्धम् । अन्येषाम् - वाजसनेयिनां तु । तच्च - ब्रह्म । वशित्वप्रभृतिघटितम् - वशित्वप्रभृतिगुणयुक्तमुपास्यम् । इति रूपे तु भेदो़ऽस्तु - इत्येवमुपास्यरूपभेदोऽस्तु । मैवम् - एवं न शङ्क्यम् । यत्तद्वशित्वादि तदपि इह सत्यसङ्कल्पताया भिदा - ‘यत्तत्कृत्यं श्रुतीनाम्’ इत्यादिष्विव यत्तच्छब्दौ द्वावपि यच्छब्दार्थे । वाजसनेयपठितं यद्वशित्वादि अधिकतया प्रतीयमानं तदपि इह च्छान्दोग्यप्रतिपन्नायास्सत्यसङ्कल्पताया भिदा प्रकारभेद एव । वशित्वं हि नाम स्ववशे वर्तमानत्वं स्ववशीकृतस्वेतरकत्वं वा तत् सत्यसङ्कल्पत्वप्रकारभेद एवेति भावः । इत्यैकार्थ्यं निरूढम् - एवं छान्दोग्यवाजसनेयकवाक्ययोरेकगुणप्रतिपादकत्वं स्थापितम् । परं दहरोपासनमपि तद्वदूह्यम् - तैत्तिरीयके ‘दह्रं विपाप्मम्’ इत्यादिश्रुतं दहरोपासनमपि च्छान्दोग्यवाजसनेयकवाक्यनिर्वाहक्रमेण एकविद्यात्वेनोह्यमित्यर्थः ॥
कुमार-वरदः - 45
  1. अत्र च्छान्दोग्यवाजसनेकवाक्ययोरविरोधोपपादनप्रकारमुक्त्वा तेनैव प्रकारेण ताण्डिवाजसनेयकवाक्ययोरविरोधं सिद्धं कृत्वा तैत्तिरीयकोक्तदहरवाक्यमप्यनेनैव प्रकारेणोपपाद्यमित्याचष्टे – छन्दोगानामिति । अयमर्थः - छन्दोगानामुपास्यं ब्रह्म अपहतपाप्मेत्याद्युक्तगुणाष्टकजुष्टं प्रथितमेव । तच्च ब्रह्म अन्येषां वाजसनेयिनां वाक्ये वशित्वादिगुणघटितमिति रूपभेदोऽस्तु । अतो विद्याभेदोऽस्त्विति पूर्वः पक्षः ।इमं निराकरोति - मैवमिति । निराकरणप्रकारमाह - यत्तदिति । यत्तद्वशित्वादि गुणजातं तत् सत्यसङ्कल्पताया भेद एव । वशित्वं हि स्ववशे वर्तमानत्वम् अथवा इतरान् स्ववशे वर्तयतीति निरुच्यते । तत् सत्यसङ्कल्पत्वमेव प्रकारान्तरेणोच्यते ।तदिदमाह - तदिह भिदेति । इत्यैकार्थ्यं निरूढम् - छान्दोग्यवाजसनेयकवाक्ययोरैकार्थ्यं निरूढमित्यर्थः । एवं ताण्डिवाजसनेयकवाक्यद्वयं निर्णीतम् । एवं तैत्तिरीयकस्थमपि दहरवाक्यं तद्वदेव छान्दोग्यवाजसनेयकवाक्यवत् विचारणीयमित्यर्थः ॥
मूलम् - 45
  1. छन्दोगानामुपास्यं प्रथितमिह गुणैरष्टभिर्ब्रह्म जुष्टं
    तच्चान्येषां वशित्वप्रभृतिघटितमित्यस्तु रूपे तु भेदः ।
    मैवं यत्तद्वशित्वाद्यपि तदिह भिदा सत्यसङ्कल्पतायाः
    इत्यैकार्थ्यं निरूढं परमपि दहरोपासनं तद्वदूह्यम् ॥
विश्वास-प्रस्तुतिः - 46
  1. नन्वाकाशो गुणाद्यैः पर इति दहराधिक्रियायां पुरोक्तं
    तस्मान्नान्यार्थशङ्केत्यधिकरणमिदं नोज्जिहीतेति चेन्न ।
    व्योमातीतं निमित्तं दहरमिदमुपादानमित्युद्गृणन्तः
    पूर्वं क्षिप्ताः प्रसङ्गात् पुनरपि गमिताश्छिन्नमूलत्वमत्र ॥
३४-तमाहोबिल-यतिः - 46
  1. नन्वाकाश इत्यादि । नन्विति प्रश्ने । पुरा - प्रथमाध्याये तृतीयपादे । दहराधिक्रियायाम् - दहराधिकरणे । गुणाद्यैराकाशः पर इत्युक्तम् - परमात्मासाधारणगुणादिभिर्दहराकाशः परमात्मेति निर्णीतं खलु । तस्मात् - कारणात् । अन्यार्थशङ्का नेतीदमधिकरणं नोज्जिहीतेति चेन्न - परमात्मव्यतिरिक्तार्थपरत्वशङ्का न विद्यत इति इदमधिकरणं नोत्तिष्ठेदिति चेन्नैतद्युक्तम् । दहरमिदमुपादानं निमित्तं व्योमातीतमित्युद्गृणन्तः पूर्वं क्षिप्ताः - दहराकाशशब्दवाच्यः परमपुरुष उपादानं, निमित्तकारणं तु दहराकाशशब्दिताद्व्योम्नोऽप्यतीतमुपरि वर्तमानं किञ्चिद्वस्त्वस्तीति वदन्तो व्योमातीतवादिनः पूर्व दहराधिकरणे प्रतिक्षिप्ताः । पुनरपि अत्र प्रसङ्गात् छिन्नमूलत्वं गमिताः - इदं पुनरधिकरणं विद्याभेदाभेदचिन्ताप्रधानम् । अतः प्रयोजनभेदान्न पौनरुक्त्यम् । अत्र च प्रसङ्गात् पूर्वं प्रतिक्षिप्ता अपि व्योमातीतवादिनः पुनश्छिन्नमूलत्वं गमिता इत्यर्थः ॥
कुमार-वरदः - 46
  1. ननु दहराधिगहणे प्रागेव दहरवाक्यं निरूपितम्, तत् किमत्र प्रस्तूयत इत्याशङ्क्य प्रयोजनविशेषात् न पौनरुक्त्यमिति परिहरति - नन्विति । दहराकाशः परमात्मासाधारणगुणाद्यैः परमपुरुष एवेति दहराधिकरणे प्रागेवोक्तम्, अतः परमात्मव्यतिरिक्तार्थशङ्का नास्ति, तस्मादिदमधिकरणं नोज्जिहीत इति कश्चिदाचष्टे । तत्प्रतिक्षिपति - नेति । पौनरुक्त्याभावमुपपादयति - व्योमातीतमिति । अयमर्थः - व्योमातीतवादिनिराकरणार्थं पूर्वं दहराधिकरणं प्रवृत्तं, दहराकाशः परमपुरुषः उपादानं तत उपरि किञ्चित् निमित्तं वस्त्वस्तीति वदन्तो व्योमातीतवादिनः पूर्वं प्रतिक्षिप्ताः, तेन तत्प्रतिक्षेपप्रधानं दहराधिकरणम्, इदं पुनरधिकरणं विद्याभेदाभेदचिन्ताप्रधानम्, अतः प्रयोजनभेदान्न पौनरुक्त्यम् । पूर्वं प्रतिक्षिप्ता अपि व्योमातीतवादिनोऽत्र प्रसङ्गात् छिन्नमूलत्वं गमिता इति ॥
मूलम् - 46
  1. नन्वाकाशो गुणाद्यैः पर इति दहराधिक्रियायां पुरोक्तं
    तस्मान्नान्यार्थशङ्केत्यधिकरणमिदं नोज्जिहीतेति चेन्न ।
    व्योमातीतं निमित्तं दहरमिदमुपादानमित्युद्गृणन्तः
    पूर्वं क्षिप्ताः प्रसङ्गात् पुनरपि गमिताश्छिन्नमूलत्वमत्र ॥