विश्वास-प्रस्तुतिः - 41
- सूत्रस्वारस्यलाभात् प्रथममसुभृतः पूर्वपक्षे निवेशः
सिद्धान्ते ब्रह्मणश्चेत्यधिकरणगतिस्तोकशङ्कापनुत्त्यै ।
साक्षाद्ब्रह्मेति वाक्यद्वयमवमृशतामन्यशङ्कैव न स्या-
दित्यालोच्याथ भाष्ये परविषयतया पूर्वपक्षोऽप्युपात्तः ॥
३४-तमाहोबिल-यतिः - 41
- सूत्रस्वारस्येत्यादि । सूत्रस्वारस्यलाभात् प्रथमं पूर्वपक्षे असुभृतो निवेशः - कृत इति शेषः । ‘भूतग्रामवत्स्वात्मनः’ इति जीववाचकपदस्य सूत्रे दर्शनात् तत्परत्वेन पूर्वपक्षे सूत्रस्वारस्यं लभ्येतेति मन्यमानैर्भाष्यकारैः प्रथमयोजनायां पूर्वपक्षे जीवस्य निवेशः कृतः । जीवपरतया पूर्वपक्षोपन्यासः कृत इत्यर्थः । सिद्धान्ते च ब्रह्मणो निवेशः - तद्योजनायामेव सिद्धान्ते च ब्रह्मणो निवेशः । ब्रह्मपरतया सिद्धान्तः कृत इति भावः । इत्यधिकरणगतिः - एवमधिकरणकल्पना । तोकशङ्कापनुत्त्यै - बालशङ्कापनुत्त्यै भवति । पूर्वपक्षस्य दुर्बलत्वादिति भावः । साक्षाद्ब्रह्मेति वाक्यद्वयमवमृशतामन्यशङ्कैव न स्यादित्यालोच्याथ भाष्ये परविषयतयापि पूर्वपक्ष उपात्तः - ‘यत्साक्षादपरोक्षाद्ब्रह्म’ इत्युषस्तप्रश्नः ‘यदेव साक्षादपरोक्षाद्ब्रह्म’ इति कहोलप्रश्नः, एवं प्रश्नद्वयगतं परमात्मासाधारणसविशेषणब्रह्मपदघटितं वाक्यद्वयं पर्यालोचयतां विदुषां वाक्यस्य जीवपरत्वशङ्कैव न स्यादित्यालोच्यातृप्तेर्भाष्यकारैः पश्चाद्भाष्ये परमात्मविषयकमेव प्रश्नद्वयमङ्गीकृत्य रूपभेदेन विद्याभेदपूर्वपक्ष उपन्यस्त इत्यर्थः ॥३६१॥
कुमार-वरदः - 41
- हेयप्रत्यनीकत्वं ब्रह्मणोऽसाधारणं चेत् अशनायाद्यतीतत्वविशिष्टं ब्रह्म स्यात्, प्राणितृत्वादिविशिष्टस्तु जीवस्स्यादिति शङ्कया सङ्गतिः । तदर्थविचारस्तु - ‘यत् साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व’, ‘यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व’ इति प्रश्नः उषस्तकहोलयोः । प्रतिवचनमपि ‘यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः’ इत्येकत्र ‘योऽशनायापिपासे शोकं मोहम्’ इत्याद्यन्यत्र । किमुभयत्र विद्यैक्यमुत विद्याभेद इति । किं पूर्वत्र जीव उपास्यः, परत्र परः, उतोभयत्र पर एवेति । किं तत्र ‘यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः’ इत्यादिप्रतिवचनपर्यालोचनया जीवस्य उपास्यत्वं प्रतीयते नेति । किं सर्वान्तरत्वप्राणनकर्तृत्वे देहाद्यपेक्षया जाग्रदवस्थापेक्षया च औपाधिके, उत निरुपाधिके इति । किं ‘न दृष्टेर्द्रष्टारं पश्येः, न मतेर्मन्तारं मन्वीथाः’ इति पुनः - प्रश्नप्रतिवचनपर्यालोचनया ‘यः आत्मनोऽन्तरः’, ‘को ह्येवान्यात्’ इति प्रतिपन्ने ब्रह्मणो निरुपाधिकसर्वान्तरत्वप्राणनकर्तृत्वे प्रतीयेते नेति । किं ‘न दृष्टेर्द्रष्टारम्’ इति दृष्टेर्ज्ञानहेतुना द्रष्टारं ब्रह्म न मन्वीथा इति वाक्यार्थः, आहोस्वित् दृष्टेरनुभूतेर्द्रष्टारं न मन्वीथा इति वा । अत्र भाष्ये द्वौ पक्षावभिहितौ । एकत्र पक्षे क्वचिज्जीवपरत्वमाशङ्क्य सर्वत्र परमात्मपरत्वनिर्णयः । अन्यत्र, उभयत्र परमात्मपरत्वे सत्यपि पूर्वत्र गुणभेदाङ्गीकारेण रूपान्तरविशिष्टब्रह्मपरत्वम्, उत्तरत्र परमात्मासाधारणाशनायाद्यतीतत्वादिगुणानुबन्धाद्रूपान्तरविशिष्टपरमात्मपरत्वमित्याशङ्क्योभयत्रापि रूपाभेदादेकरूपपरमात्मपरत्वमिति निर्णीयत इति ।
अत्र द्वयोरपि पक्षपरिकल्पनयोः कारणं वैषम्यञ्च दर्शयति - सूत्रेति । पूर्वस्यां कल्पनायां सूत्रस्वारस्यलाभः कारणं ‘भूतग्रामवत्’ इति जीवस्य दर्शनात् । उत्तरस्यां तु श्रुतिस्वारस्यलाभो हेतुः, द्वयोरपि प्रश्नयोः ‘साक्षादपरोक्षाद्ब्रह्म’ इति ब्रह्मस्वरूपप्रश्नदर्शनात् । अयमत्र शब्दान्वयः - सूत्रस्वारस्यलाभात् प्रथममसुभृतः जीवस्य पूर्वपक्षे निवेशः । सिद्धान्ते तु ब्रह्मणो निवेशः । अयं तोकशङ्कापनुत्त्यै - बालिशशङ्कापनोदनायेत्यर्थः । अथ तोकशङ्कापनुत्त्यै उत्तरामपि कल्पनामनुवदति - साक्षादिति । ‘यत्साक्षादपरोक्षाद्ब्रह्म’ इति ब्रह्मशब्दानुविद्धं प्रश्नद्वयवाक्यं परामृशतां विदुषाम् अन्यशङ्कैव न स्यादिति विचार्य पूर्वत्रापरितोषात् अथानन्तरं भाष्ये परमात्मविषयतया पूर्वपक्षोऽपि परिकल्पित इति ॥
मूलम् - 41
- सूत्रस्वारस्यलाभात् प्रथममसुभृतः पूर्वपक्षे निवेशः
सिद्धान्ते ब्रह्मणश्चेत्यधिकरणगतिस्तोकशङ्कापनुत्त्यै ।
साक्षाद्ब्रह्मेति वाक्यद्वयमवमृशतामन्यशङ्कैव न स्या-
दित्यालोच्याथ भाष्ये परविषयतया पूर्वपक्षोऽप्युपात्तः ॥
विश्वास-प्रस्तुतिः - 42
- यत्साक्षादित्यमुष्मिञ्छ्रुतिशिरसि परं ब्रह्म वेद्यं यदेवे-
त्येतस्मिंश्चास्त्वथापि प्रतिवचनभिदा तत्र रूपं भिनत्ति ।
विद्याभित् प्रष्टृभेदोऽप्ययमिति यदि नानूद्य भूयोऽनुयोगात्
पश्चादुक्तश्च दोषात्यय इह न भिदां सौति साधारणत्वात् ॥
३४-तमाहोबिल-यतिः - 42
- यत्साक्षादित्यादि । यत्साक्षादित्यमुष्मिन् यदेवेत्येतस्मिंश्च श्रुतिशिरसि परं ब्रह्म वेद्यमस्तु अथापि प्रतिवचनभिदा तत्र रूपं भिनत्ति - ‘यत्साक्षात्’ इत्यस्मिन् वाक्ये ‘यदेव साक्षादि’त्यस्मिंश्च वाक्ये परं ब्रह्मैव वेद्यमस्तु, अथापि प्रतिवचनभेदो विद्याद्वये रूपं भिनत्त्येव, रूपभेदात् विद्याभेदश्च सिद्धः । अयं प्रष्टृभेदोऽपि विद्याभित् - पूर्वत्रोषस्तः प्रष्टा, अपरत्र कहोलः प्रष्टा, अतः प्रष्टृभेदोऽपि विद्याभेदकः । इति यदि - एवं शङ्क्यते यदि । न - नैतद्युक्तम् । अनूद्य भूयोऽनुयोगात् - यदेव साक्षादपरोक्षाद्ब्रह्म इत्युषस्तपृष्टमेव सावधारणमनूद्य पुनरपि कहोलेनानुयोगात् । नेति पूर्वेणान्वयः । पश्चादुक्तो दोषात्ययश्च साधारणत्वात् इह न भिदां सौति - पश्चादुक्तं ह्यशनायाद्यतीतत्वं पूर्वाधिकरणोक्तामलत्वान्तर्गतमेव, तच्चामलत्वं सर्वविद्यासाधारणत्वान्न विद्याभेदकमित्यर्थः । अथवा द्वयोरपि प्रष्ट्रोः साधारणत्वात् सब्रह्मचर्येण सन्निहितयोस्साधारणत्वादित्युक्तं भवति । एवं विद्यैक्ये सिद्धे विशदप्रतीत्यर्थः प्रष्टृभेदो न विद्यां भिनत्तीति भावः ॥
कुमार-वरदः - 42
- अत्र स्वाभिमतामुत्तरपक्षकल्पनां शिष्याणां सुखप्रतिपत्त्यर्थं पूर्वपक्षसिद्धान्तविभागेन विशदं प्रकाशयति - यत्साक्षादिति । अयमत्र शब्दान्वयः - ‘यत्साक्षात्’ इत्यमुष्मिन् वाक्ये ‘यदेव साक्षात्’ इत्येतस्मिंश्च वाक्ये परं ब्रह्मैव वेद्यमस्तु, अथापि प्रतिवचनभेदो रूपं भिनत्त्येव, रूपभेदात् विद्याभेदश्च सिध्यति । न केवलं रूपभेदात्, प्रष्टृभेदादपि विद्याभेदस्सिध्यतीत्याह - विद्याभिदिति । प्रष्टृभेदोऽपि विद्यां भिनत्तीत्यर्थः । क्वचिदुषस्तः प्रष्टा, अपरत्र कहोलः । यदीति पूर्वपक्षानुवादं द्योतयति । तदिदं प्रतिक्षिपति - नेति । तत्र हेतुमाह - अनूद्येति । ‘यदेव साक्षादपरोक्षाद्ब्रह्म’ इति सावधारणमनूद्योषस्तेन श्रुतस्य पूर्वस्यैव ब्रह्मणः पुनरनुयोगादित्यर्थः । तर्हि पश्चादुक्तमशनायाद्यतीतत्वं विद्यां भिनत्तीत्याशङ्क्य तदपि न भिनत्तीत्याह - पश्चादुक्त इति । अयमर्थः - पश्चादुक्तं ह्यशनायाद्यतीतत्वं पूर्वाधिकरणोक्तामलत्वान्तर्गतमेव । तच्चामलत्वं सर्वविद्यासाधारणत्वात् न विद्यां भिनत्तीति । अथवा द्वयोरपि प्रष्ट्रोस्साधारणत्वात् - सब्रह्मचर्येण सन्निहितयोस्साधारणत्वादित्यर्थः । एवं विद्यैक्ये सिद्धे विशदप्रतिपत्त्यर्थः प्रष्टृभेदो न विद्यां भिनत्तीति भावः ॥
मूलम् - 42
- यत्साक्षादित्यमुष्मिञ्छ्रुतिशिरसि परं ब्रह्म वेद्यं यदेवे-
त्येतस्मिंश्चास्त्वथापि प्रतिवचनभिदा तत्र रूपं भिनत्ति ।
विद्याभित् प्रष्टृभेदोऽप्ययमिति यदि नानूद्य भूयोऽनुयोगात्
पश्चादुक्तश्च दोषात्यय इह न भिदां सौति साधारणत्वात् ॥
विश्वास-प्रस्तुतिः - 43
- सद्विद्यायां यथा हि प्रतिवचनभिदा प्रश्नभेदानुसारात्
विद्यैकत्वे विशेष्यं प्रकटयति परां देवतामेवमत्र ।
तेनोषस्तः कहोलश्रुतमपि स च तत्संश्रुतं सङ्कलय्य
ध्यायेतां ब्रह्म सर्वान्तरमिति फलवत्तत्र सब्रह्मचर्यम् ॥
३४-तमाहोबिल-यतिः - 43
- सद्विद्यायामित्यादि । विद्यैकत्वे यथा सद्विद्यायां प्रश्नभेदानुसारात् प्रतिवचनभिदा परां देवतां विशेष्यं प्रकटयति हि - उपक्रमोपसंहारादिपरामर्शेन विद्यैकत्वे प्रतिपन्ने सति यथा सद्विद्यायां प्रश्नभेदानुसारात् प्रतिवचनभेदः परामेव देवतां विशेष्यतया प्रकटयति हि । एवमत्र - एवमत्रापि सर्वान्तरं ब्रह्मैव प्रतिपत्तव्यम् । तेनोषस्तः कहोलश्रुतमपि, स च तत्संश्रुतं सङ्कलय्य ब्रह्म सर्वान्तरमिति ध्यायेताम् - तेन उक्तोपपादनेनोषस्तः कहोलश्रुतं स च कहोलश्च तत्संश्रुतं उषस्तश्रुतं सङ्कलय्य मिश्रीकृत्य सर्वान्तरत्वगुणविशिष्टमिति ब्रह्म ध्यायेताम् । तत्र सब्रह्मचर्यं फलवत् - ‘एकब्रह्मव्रताचारा मिथस्सब्रह्मचारिणः’ (अमरकोशे 2.7.11) इत्युक्तरीत्या प्रतिवचनद्वयेऽपि व्यावर्तकधर्मैः प्राणेन प्राणितृत्वाशनायाद्यतीतत्वादिभिर्ब्रह्म सकलेतरविलक्षणतया अनुसन्धाय सर्वान्तरत्वगुणविशिष्टब्रह्मध्यानरूपैकविद्यानुष्ठाने द्वाभ्यां कृते सब्रह्मचर्यं फलवद्भवेदित्यर्थः ॥
कुमार-वरदः - 43
- ननु भाष्ये सद्विद्यादृष्टान्तेन साधारण्यमुपपादितम्, तत्र प्रष्ट्रैक्यमङ्गीकुर्महे तेन सर्वेषामप्युत्तराणां साधारण्यमस्तु नाम, इह तु प्रष्टृभेदात् कथमुत्तरसाधारण्यमित्यजानानस्य कस्यचिच्चोदकस्योक्तमेवार्थं विशदं प्रकाशयति - सद्विद्यायामिति । अयमत्र भावः - अस्तु नाम सद्विद्यायां प्रष्ट्रैक्यम्, अस्तु चात्र प्रष्टृभेदः, अथाप्युत्तरसाधारण्यमङ्गीकर्तव्यमेव, लोके ह्येकमेवाचार्यमुद्दिश्य द्वयोः शिष्ययोरागतयोरेकार्थं पृष्टवतोरुपदेशवेलायामेकैकाभिमुख्येनोक्तमर्थद्वयं द्वयोरपि प्रतिपन्नमुपादेयमनुसन्धेयञ्च भवति । एवमत्राप्युभयत्राप्युक्तमुत्तरमुभयोरपि साधारणमेव । किं कारणमत्रेति चेत् तयोस्सब्रह्मचर्यमेव । उभौ खलु सहैवागत्य पृष्टवन्तौ उभयमप्युत्तरं लब्धवन्ताविति लोकदृष्टानुकूलमेतत् । अयमत्र शब्दान्वयः - उपक्रमोपसंहारादिपरामर्शेन विद्यैकत्वे प्रतिपन्ने सति सद्विद्यायां यथा प्रतिवचनभेदः प्रश्नभेदानुसारात् परामेव देवतां विशेष्यं प्रकटयति, तेनैव न्यायेन उषस्तः कहोलश्रुतमपि कहोलश्चोषस्तश्रुतमपि सङ्कलय्य प्रतिपद्य ध्यायेतां सर्वान्तरमेव ब्रह्म । ननूक्तस्सद्विद्यायामेकः प्रष्टेति विशेषः तेन तत्र विद्यैक्यमस्तु एवं तर्ह्यत्रापि विशेषोऽस्ति यत् पुनस्सब्रह्मचर्यमित्याह - फलवदिति । यथा लोके शृण्वतां बहूनां सब्रह्मचारिणां शास्त्रश्रवणवेलायां प्रत्येकचोद्यप्रशमनार्थः पृथगुपदेशस्सर्वसाधारणः, तथोषस्तः कहोलश्रुतं सङ्कलय्य स च कहोल उषस्तश्रुतं सङ्कलय्य द्वावपि सर्वान्तरं ब्रह्म ध्यायेतामित्युक्तं भवति ॥
मूलम् - 43
- सद्विद्यायां यथा हि प्रतिवचनभिदा प्रश्नभेदानुसारात्
विद्यैकत्वे विशेष्यं प्रकटयति परां देवतामेवमत्र ।
तेनोषस्तः कहोलश्रुतमपि स च तत्संश्रुतं सङ्कलय्य
ध्यायेतां ब्रह्म सर्वान्तरमिति फलवत्तत्र सब्रह्मचर्यम् ॥