विश्वास-प्रस्तुतिः - 38
- यस्यामस्थूलतादि प्रपठितमुचितं चिन्तनं तस्य तस्यां
नान्यस्यां मानहानेर्न यदि नियमनं कस्य कुत्रेति चेन्न ।
हेतुत्वोन्नेयदोषव्यपनयनमिह ब्रह्मविद्यासु सर्वा-
स्वानन्दाधिक्रियोक्तक्रमनियमितमित्यस्य सार्वत्रिकत्वात् ॥
३४-तमाहोबिल-यतिः - 38
- यस्यामित्यादि । यस्यामस्थूलतादि प्रपठितं तस्य चिन्तनं तस्यामुचितम् - गार्गीब्राह्मणादिश्रुतौ यस्यां विद्यायां ‘अस्थूलमनण्वह्रस्वम्’ इत्यादिना अस्थूलत्वादिगुणजातं प्रपठितं तस्य गुणजातस्य तस्यां विद्यायां चिन्तनमुचितम् । नान्यस्याम् - तच्चिन्तमुचितमिति पदद्वयस्यानुषङ्गः । अन्यस्यां विद्यायां तच्चिन्तनं नोचितम् । कुत इति चेत्, मानहानेः - प्रमाणाभावात् । यद्विद्याप्रकरणे यद्गुणजातमाम्नातं तस्यामेव तच्चिन्तनीयमित्यत्र तत्प्रकरणं प्रमाणम्, अन्यस्यां तदनुसन्धाने किं प्रमाणमस्ति । न यदि, कस्य कुत्र नियमनम् - एवं प्रकरणादिना व्यवस्थानङ्गीकारे सर्वस्यापि गुणजातस्य सर्वविद्यास्वनुसन्धेयत्वापत्तौ कस्य गुणस्य कुत्र व्यवस्था सिध्येदित्यर्थः । इति चेन्न - इत्याशङ्क्यते चेत्तन्न युक्तम् । इह - ब्रह्मणि । हेतुत्वोन्नेयदोषव्यपनयनम् - हेतुत्वेन निमित्तोपादानत्वरूपेण उन्नेया आरोप्यमाणा ये स्थूलत्वाणुत्वादयो दोषास्तेषां निषेधनम् । सर्वासु ब्रह्मविद्यासु आनन्दाधिक्रियोक्तक्रमनियमितमिति - सर्वासु ब्रह्मविद्यासु ‘आनन्दादयः प्रधानस्य’ इत्यधिकरणोक्तेन क्रमेणेतरव्यावृत्तब्रह्मस्वरूपावगतिहेतुत्वरूपनियामकेन नियमितं व्यवस्थापितमिति हेतोः । अस्य - अस्थूलत्वादिगुणजातस्य । सार्वत्रिकत्वात् - सर्वविद्यानुवृत्तत्वात् । इति चेन्नेत्यन्वयः ।
अत्र चिन्तामणौ पङ्क्तिर्दृश्यते ‘अयमत्र शब्दार्थः - कारणत्वेन वस्त्वन्तरनिष्ठदोषा आशङ्क्यन्ते । तेषां व्यपनयनं सत्यज्ञानानन्तानन्दामलपदैः क्रियते । तेन क्रमाद्दोषव्यपायप्रतिपत्तिः । प्रतिपत्तिसौकर्यार्थमनुक्रमादर्थविशेषप्रतिपत्तौ दृष्टान्तमाह - आनन्देति । आनन्दमयाधिकरणे अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया उत्तरोत्तरं क्रमादेवाधिकत्वेन प्रतिपाद्यन्ते । एवमत्राप्यनुक्रमेण सर्वाधिकत्वेन भगवान् प्रतिपाद्यते । तेन प्रथमत एवामलत्वेन भगवतस्सर्वाधिकत्वप्रतिपत्तौ किमेभिस्सत्यत्वादिभिर्विशेषणैरिति चोद्यं परिहृतमेवेति । अस्य सार्वत्रिकत्वात् - एतस्यानुक्रमबोधनन्यायस्य सर्वलोकप्रसिद्धत्वादित्यर्थः’ इति । अस्मिन्व्याख्याने विशेषाः पण्डितैश्चिन्तनीयाः । श्लोकाननुरूपत्वादिभिः प्रक्षिप्त एवायं ग्रन्थ इति मन्ये ॥
कुमार-वरदः - 38
- पूर्वमर्चिरादिगतेस्सर्वविद्यासाधारण्येन श्रुतत्वात् तच्चिन्तनस्यापि न्यायप्राप्तं सर्वविद्यासाधारण्यं प्रतिपादितम्, अधुना पुनरक्षरधियां सर्वविद्यासाधारण्यं न वेति चिन्त्यत इति सङ्गतिः । पूर्वाधिकरणे प्रकरणं पूर्वपक्षहेतुः, अत्रापि तथेति वा सङ्गतिः । तदर्थविचारस्तु - बृहदारण्यके गार्गिब्राह्मणे ‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वम्’ इत्याद्यस्थूलत्वादिकं तत्रैवोपसंहार्यमुत सर्वासु विद्यास्विति । तदर्थं विचार्यते - किं निषेधरूपाणामस्थूलत्वादीनामेव ब्रह्मासाधारणाकारतया ब्रह्मस्वरूपनिरूपकत्वमुत केवलज्ञानानन्दादीनामिति । किमस्थूलत्वादिकं विना शङ्कितकृत्स्नदोषव्यावृत्तिप्रतीतिरस्ति नेति । अत्र पूर्वपक्षी मन्यते - ननु गार्गिब्राह्मणादिषु क्वचिदेवाक्षरत्वादिकमाम्नातम्, यस्यां तु विद्यायां यावद्गुणजातमाम्नातं तावदेव तत्रोपसंहार्यं तत्प्रकरणपठितत्वात्; अन्यथा सर्वं सर्वत्रोपसंहार्यमिति सद्विद्यादीनां गुणसङ्करस्स्यात्, ब्रह्मस्वरूपप्रतिपत्तिस्त्वानन्दादिभिरेवेति प्रागेवोक्तम्, तेन किमनेनाजागलस्तनायमानेन ब्रह्मस्वरूपप्रतिपत्तावक्षरत्वादिना गुणेनेति । तदिदमनुवदति - यस्यामिति । अन्यत्रानुपसंहार्यत्वमाह - नान्यस्यामिति । तत्र हेतुमाह - मानहानेरिति । सर्वस्यापि गुणस्य सर्वत्रोपसंहारस्स्यादित्यर्थः । एवं पूर्वपक्षमनूद्य दूषयति - नेति । पूर्वपक्षप्रतिक्षेपप्रकारं विशदमेव दर्शयति - हेतुत्वेति । अयमत्राभिप्रायः - न केवलं ब्रह्मगुणमात्रमत्रोच्यते, अपि तु कारणत्वाशङ्कितदोषपरिहारेण स्वरूपप्रतिपत्तिहेतुर्गुणविशेषः । स पुनरमलत्वम्, तेन सहितास्सत्यत्वादयोऽपि । तथाहि सत्यत्वं सविकारमचिद्वस्तु व्यावर्तयति । ज्ञानत्वं विलुप्तबुद्धिकं तत्संसृष्टं जीवम् । अनन्तत्वं पूर्वावधिमन्तं मुक्तम् । आनन्दत्वमपि परवादिपरिकल्पितं निरानन्दमीश्वरम् । तेनामलत्वेन नित्यो व्यावर्त्यते । यद्यप्यनन्तपदेनैवाणुस्वरूपो नित्योऽपि व्यावर्त्यते, तथापि धर्मभूतज्ञानतो देशकालाभ्यामानन्त्यस्य तस्मिन् विद्यमानत्वात् कथञ्चिदानन्त्यं वक्तुं शक्यते । अमलत्वं तु सर्वेषां व्यावर्तकमेव । नित्योऽपि परतन्त्रचेतनत्वात् संसारे स्वरूपयोग्यतावान् केवलं भगवदपचाररूपसहकारियोग्यताभावात् नित्यमेवासंसारी वर्तते । ईश्वरस्तु स्वतन्त्रचेतनत्वात् संसारे स्वरूपयोग्यतारहितः । तेनेदमेवामलत्वमीश्वरस्यासाधारणमेव । किञ्चेतरसंसरणनिवर्तकत्वमीश्वरस्यासाधारणम्, तच्चामलत्वमेव । तेन स्वयं मलरहितत्वात् इतरमलप्रतिभटत्वाच्च ईश्वर एवामल इत्युच्यते । तर्ह्यमलत्वमेवास्तु किं सत्यत्वादिभिरिति चोद्यमवशिष्यते, तच्चात्र नास्तीत्याह - हेतुत्वेति । द्वेधा हि लक्षणमभिधीयते, एकेनैव विशेषणेन कृत्स्नालक्ष्यव्यावृत्तिरित्येकः पक्षः, अपरस्तु नानाविशेषणैर्बुद्ध्यवतरणक्रमेणालक्ष्यव्यावृत्त्या लक्ष्यस्वरूपनिरूपणं क्रियते तदिदमिति भाष्यकाराभिप्रायः । अयमत्र शब्दार्थः - कारणत्वेन वस्त्वन्तरनिष्ठदोषा आशङ्क्यन्ते । तेषां व्यपनयनं सत्यज्ञानानन्तानन्दामलपदैः क्रियते । तेन क्रमाद्दोषव्यपायप्रतिपत्तिः । प्रतिपत्तिसौकर्यार्थमनुक्रमादर्थविशेषप्रतिपत्तौ दृष्टान्तमाह - आनन्देति । आनन्दमयाधिकरणेऽन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया उत्तरोत्तरं क्रमादेवाधिकत्वेन प्रतिपाद्यन्ते । एवमत्राप्यनुक्रमेण सर्वाधिकत्वेन भगवान् प्रतिपाद्यते । तेन प्रथमत एवममलत्वेन भगवतस्सर्वाधिकत्वप्रतिपत्तौ किमेभिस्सत्यत्वादिभिर्विशेषणैरिति चोद्यं परिहृतमेवेति । अस्य सार्वत्रिकत्वात् - एतस्यानुक्रमबोधनन्यायस्य सर्वलोकप्रसिद्धत्वादित्यर्थः ॥
मूलम् - 38
- यस्यामस्थूलतादि प्रपठितमुचितं चिन्तनं तस्य तस्यां
नान्यस्यां मानहानेर्न यदि नियमनं कस्य कुत्रेति चेन्न ।
हेतुत्वोन्नेयदोषव्यपनयनमिह ब्रह्मविद्यासु सर्वा-
स्वानन्दाधिक्रियोक्तक्रमनियमितमित्यस्य सार्वत्रिकत्वात् ॥
विश्वास-प्रस्तुतिः - 39
- सत्यत्वाद्यैस्स्वरूपावगतिरभिहिता सर्वविद्यानुवृत्त्या
भूयस्तत्तुल्यधर्मेष्वधिकरणमिदं स्याद् वृथैवेति चेन्न ।
कैश्चिज्ज्ञातस्वरूपे क्वचिदितरगतं किञ्चिदन्यन्निषेध्यं
व्यावृत्त्या न स्वरूपावगतिरत इति प्रेक्षणस्यापि रोधात् ॥
३४-तमाहोबिल-यतिः - 39
- सत्यत्वाद्यैरित्यादि । सर्वविद्यानुवृत्त्या सत्यत्वाद्यैस्स्वरूपावगतिरभिहिता - सर्वविद्यानुवृत्तत्वेन सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वैः ब्रह्मस्वरूपावगतिः ‘आनन्दादयः’ इत्यधिकरणे अभिहिता । भूयस्तत्तुल्यधर्मेषु इदमधिकरणं वृथैव स्यात् - तेन पुनरपि तत्तुल्यधर्मेषु अस्थूलत्वादिषु प्रवृत्तमिदमधिकरणं वृथैव स्यात् । इति चेन्न - इति शङ्क्यते चेत् तन्न सम्भवति । कैश्चित् ज्ञातस्वरूपे क्वचित् इतरगतमन्यत् किञ्चिन्निषेध्यम् - कैश्चिद्विशेषणैर्ज्ञातस्वरूपे हि क्वचिद्धर्मिणि वस्त्वन्तरगतमन्यत् किञ्चिन्निषेध्यम् । अतो व्यावृत्त्या न स्वरूपावगतिरिति प्रेक्षणस्य रोधादपि - तस्मादितरव्यावृत्त्या स्वरूपावगतिर्नास्तीति कस्यचिन्मन्दबुद्धेरुत्प्रेक्षणस्य निरोधनेन साफल्याच्च । इति चेन्नेत्यन्वयः । अत्र चिन्तामणिः ‘अयमत्र भावः’ लोके कर्मव्यतिरिक्तत्वे सति जातिमात्राश्रयो गुण इत्यादौ व्यावृत्तिप्रतिपत्तिरपि गुणादिस्वरूपप्रतिपत्तावुपयुज्यते । तद्वदत्रापि ब्रह्मस्वरूपप्रतिपत्तौ व्यावृत्तेः प्रतिपत्तिरुपयुज्यते । तर्हि लब्धरूपे क्वचित् किञ्चित् तादृगन्यत् निषिध्यते इत्यस्य कोऽर्थः? केनापि प्रकारेण सिद्धे वस्तुनीतरव्यावृत्तिरूपंप्रकारान्तरमपि प्रतीयत इति न कश्चिद्दोषः । अयमर्थः - विधिनिषेधयोः पूर्वं विधिरूपेण केनापि प्रकारेण प्रतिपन्ने वस्तुनि पश्चान्निषेधप्रवृत्तिः, न पुनरत्यन्ताप्रतिपन्ने इति । तथाचेतरव्यावृत्तस्वरूपावगतौ अस्थूलत्वादिकमप्युपयुज्यत इति न लब्धरूपे इत्यादिन्यायावलम्बनेन निषेधरूपाणामस्थूलत्वादीनां स्वरूपावगतिहेतुत्वाभाव इति भावः ॥
कुमार-वरदः - 39
- अत्र कश्चिच्चोदयति - सत्यत्वाद्यैर्गुणैस्स्वरूपावगतिरभिहिता सर्वविद्यानुवृत्ततया । तेन भूयोऽपि तत्तुल्यधर्मेष्वक्षरत्वादिष्विदमधिकरणं वृथैव स्यादिति । तदिदमनुवदति - सत्यत्वाद्यैरिति । अनूदितमर्थं निराकरोति - नेति । निराकरणप्रकारमेव विवृणोति - कैश्चिदिति । ‘लब्धरूपे क्वचित् किञ्चित् तादृगन्यन्निषिध्यते’ इति न्यायेन वस्तुस्वरूपप्रतिपत्तौ विशेषणान्तरैस्सिद्धायां पश्चादेव व्यावृत्तिप्रतिपत्तिः, तथा च वस्तुस्वरूपप्रतिपत्तौ व्यावृत्तिप्रतिपत्तिर्नोपकरोतीत्यनध्यक्षितन्यायः कश्चिन्मन्यते तत्प्रेक्षणस्यात्रोपरोधार्थमिदमधिकरणं सफलमेवेत्यर्थः ।
अयमत्र भावः - लोके कर्मव्यतिरिक्तत्वे सति जातिमात्राश्रयो गुण इत्यादौ व्यावृत्तिप्रतिपत्तिरपि गुणादिस्वरूपविशेषप्रतिपत्तावुपयुज्यते । तद्वदत्रापि ब्रह्मस्वरूपप्रतिपत्तौ व्यावृत्तेः प्रतिपत्तिरुपयुज्यते । तर्हि ‘लब्धरूपे क्वचित्किञ्चित्तादृगन्यन्निषिध्यते’ इत्यस्य कोऽर्थः? केनापि प्रकारेण सिद्धे वस्तुनि इतरव्यावृत्तिरूपं प्रकारान्तरमपि प्रतीयत इति न कश्चिद्दोषः ।
अयमर्थः - विधिनिषेधयोः पूर्वं विधिरूपेण केनापि प्रकारेण प्रतिपन्ने वस्तुनि पश्चात् निषेधप्रवृत्तिः, न पुनरत्यन्ताप्रतिपन्ने इति ॥
मूलम् - 39
- सत्यत्वाद्यैस्स्वरूपावगतिरभिहिता सर्वविद्यानुवृत्त्या
भूयस्तत्तुल्यधर्मेष्वधिकरणमिदं स्याद् वृथैवेति चेन्न ।
कैश्चिज्ज्ञातस्वरूपे क्वचिदितरगतं किञ्चिदन्यन्निषेध्यं
व्यावृत्त्या न स्वरूपावगतिरत इति प्रेक्षणस्यापि रोधात् ॥
विश्वास-प्रस्तुतिः - 40
- व्यावर्त्यानन्त्यतस्तद्व्युदसनमपि हि स्यादनन्तं ततस्त-
च्चिन्ता किञ्चिज्ज्ञसाध्या जलधितरणवन्नोपदिश्येत मैवम् ।
तत्तत्सामान्यधर्मानुगतिकबलिताशेषभेदोपदेशे
तादृक्चिन्तोपपत्तेरनवममिति वा गृह्यतां संगृहीतिः ॥
३४-तमाहोबिल-यतिः - 40
- व्यावर्त्यानन्त्यत इत्यादि । व्यावर्त्यानन्त्यतस्तद्व्युदसनमपि अनन्तं स्यात् हि - व्यावर्त्यानामनन्तत्वात् व्यावृत्तिरप्यनन्ता स्याद्धि । ततस्तच्चिन्ता जलधितरणवत् किञ्चिज्ज्ञसाध्या नोपदिश्येत - तस्मात् कारणात् तादृशव्यावृत्तिचिन्ता जलधितरणवत् किञ्चिज्ज्ञसाध्यतया नोपदिश्येत । मैवम् - एवं मा शङ्किष्ठाः । तत्तत्सामान्यधर्मानुगतिकबलिताशेषभेदोपदेशे तादृक्चिन्तोपपत्तेः - द्रव्यत्वगुणत्वकर्मत्वादिसामान्यधर्मोपादनेनानन्तानामपि व्यक्तीनां यथा लोके निरासः, एवमत्रापि तत्तत्सामान्यधर्माणामनुगत्या यावद्व्यक्तिव्याष्त्या कबलितास्संगृहीता येऽशेषभेदास्तेषामुपदेशे कृते सति द्रव्यत्वाश्रयव्यक्तीनां गुणात्वाश्रयव्यक्तीनां कर्मत्वाश्रयव्यक्तीनाञ्चानन्त्येऽपि तावद्व्यक्तिव्यावृत्तिसौकर्याय द्रव्यभिन्नं गुणभिन्नं कर्मभिन्नं सामान्यमित्यनन्तव्यक्तिभेदानां द्रव्यत्वादिधर्मत्रयानुगत्या ग्रहणवत् सामान्यधर्मानुगत्या निखिलभेदानां कतिपयरूपत्वेन चिन्तनोपपत्तेः । अनवममिति वा संगृहीतिर्गृह्यताम् - अवमानि दोषाश्रितानि यावन्ति वस्तूनि तद्भिन्नमित्येकविशेषणरूपेण वा सङ्गृहीतिस्सर्वभेदसंग्रहः परिगृह्यताम् । एतदर्थमेव हेयप्रतिभटमित्युच्यत इति भावः ॥
कुमार-वरदः - 40
- अत्र कश्चिदाह - व्यावर्त्यानामनन्तत्वात् व्यावृत्तिरप्यनन्ता । तस्याः पुनरानन्त्ये तद्व्यावर्तकमप्यनन्तमेव वाच्यम् । तथा च कर्तुमेव न शक्यते । न ह्यशक्यं सागरतरणं कैश्चिदुपदिश्यते । अशक्यविधाने वाक्यस्याननुष्ठानलक्षणाप्रामाण्यप्रसङ्गादिति । तदिदमनुवदति - व्यावर्त्येति । अयमत्र शब्दान्वयः - व्यावर्त्यानन्त्यात् व्यावर्तनमप्यनन्तं स्यात्, तेन तच्चिन्ता व्यावृत्तिचिन्ता किञ्चिज्ज्ञसाध्यतया नोपदिश्येत । तत्राशक्योपदेशे दृष्टान्तमाह - जलधितरणवदिति । तदिदं प्रतिक्षिपति - मैवमिति । प्रतिक्षेपप्रकारमेव दर्शयति - तत्तदिति । द्रव्यत्वगुणत्वकर्मत्वादिसामान्यधर्मोपादानेनानन्तानामपि व्यक्तीनां यथा लोके निरासः (क्रियते), एवमत्रापि प्रतिक्षेप्याणां धर्माणां सामान्यधर्मोपादानेन निरासस्स्यात् । अथवा एकेनैव विशेषणेन सर्वधर्मव्यावृत्तिस्सेत्स्यतीत्याह - अनवममिति । ‘अनवमं ब्रह्म’ इत्येकेन विशेषणेनापरेषां प्रतिक्षेप्याणामवमानां संगृहीतिर्गृह्यतां संग्रहेणोपादानं स्वीक्रियतामित्यर्थः ॥
मूलम् - 40
- व्यावर्त्यानन्त्यतस्तद्व्युदसनमपि हि स्यादनन्तं ततस्त-
च्चिन्ता किञ्चिज्ज्ञसाध्या जलधितरणवन्नोपदिश्येत मैवम् ।
तत्तत्सामान्यधर्मानुगतिकबलिताशेषभेदोपदेशे
तादृक्चिन्तोपपत्तेरनवममिति वा गृह्यतां संगृहीतिः ॥