28 अनियमाधिकरणम्

विश्वास-प्रस्तुतिः - 35
  1. पन्थास्स्यादर्चिरादिः फलमिह सकलब्रह्मविद्यासु मा वा
    प्रारभ्याधीतियोगात् प्रकरणनियता तस्य चिन्तेति चेन्न ।
    सर्वासां तद्य इत्थं विदुरिति वचसात्राथ ये चेति चोक्त्या
    मार्गे साधारणेऽस्मिंन्स्तदनुसरणतस्तद्वदेवास्य चिन्ता ॥
३४-तमाहोबिल-यतिः - 35
  1. पन्थास्स्यादित्यादि । फलम् अर्चिरादिः पन्था इह सकलब्रह्मविद्यासु स्यात् मा वा - फलभूतोऽर्चिरादिमार्गो वेदान्ते प्रतिपन्नासु सर्वब्रह्मविद्यासु तन्निष्ठपुरुषगन्तव्यतया सम्बध्यते वा उत यत्रयत्राधीतस्तद्विद्यास्वेव सम्बध्यते वा इत्ययं संशयः । प्रारभ्येत्यादि पूर्वपक्षः । प्रारभ्याधीतियोगात् प्रकरणनियता तस्य चिन्ता - प्रकरणनियतपदं पुल्लिङ्गान्ततया प्रथमं विपरिणाम्यम् । अर्चिरादिः पन्था इत्यनुषङ्गः । प्रारभ्याधीतियोगात् अर्चिरादिः पन्थाः प्रकरणनियतः, तत एव हेतोस्तच्चिन्ता च प्रकरणनियता । अर्चिरादिमार्ग उपकोसलादिविद्याविशेषं प्रारभ्याधीतत्वात् तद्विद्याप्रकरण एव नियतस्स्यात् । अन्यथा अनारभ्याधीतस्स्यात् । तद्वदेव तच्चिन्ता च तत्प्रकरणस्था विद्यानिष्ठनियतैव स्यात् । इति चेन्न - इति शङ्क्यते चेन्नैतद्युक्तम् । तद्य इत्थं विदुरिति वचसा अत्र अथ ये चेत्युक्त्या च अस्मिन्मार्गे सर्वासां साधारणे तदनुसरणतोऽस्य चिन्ता तद्वदेव - छान्दोग्ये पञ्चाग्निविद्यायां ‘तद्य इत्थं विदुः’ इति पञ्चाग्निविद्यानिष्ठपरामर्शकवचनेन तत्रैवोपरि ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ इति श्रद्वापूर्वकतपश्शब्दितब्रह्मोपासननिष्ठान् पञ्चाग्निविद्यानिष्ठभिन्नान् सर्वान् परामृशता च वाक्येनास्मिन्नर्चिरादिमार्गे सर्वविद्यासाधारणतयाङ्गीकरणीये सति तदनुसारेणार्चिरादिमार्गचिन्तनमपि तद्वदेव सर्वविद्यानिष्ठसाधारणं भवेदिति ॥
कुमार-वरदः - 35
  1. पूर्वाधिकरणे स्थूलदेहावसान एवार्चिरादिमार्गोपक्रमे स्थूलसर्वकर्मक्षयः, सूक्ष्मसंस्कारशेषेण परं ज्योतिरुपसम्पन्नस्यैव स्वेन रूपेणाभिनिष्पत्तिरित्युपक्षिप्तम् । तत्र प्रस्तुतोऽयमर्चिरादिमार्गो यस्यां विद्यायामधीतस्तद्विद्यानिष्ठस्यैव स्यात् किं वा सर्वविद्यानिष्ठस्येति चिन्त्यत इति सङ्गतिः । तदर्थविचारस्तु - किमर्चिरादिगतिः पञ्चाग्निविद्यानिष्ठानामेव उत सर्वविद्यानिष्ठानामिति । तदर्थं विचार्यते - किं पञ्चाग्निविद्यायां ‘य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति’ ‘तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति’ इतीतरानपि चोद्दिश्यार्चिरादिगतिविधिश्श्रूयते उत पञ्चाग्निविद्यानिष्ठानेवोद्दिश्येति । किं श्रद्धासत्यतपश्शब्दैरुपास्यब्रह्मोपस्थापनमुखेनात्रोपासनान्तरप्रतिपत्तिरस्ति नेति । किमुपकोसलविद्यायां ‘आचार्यस्तु ते गतिं वक्ता’ इति गत्यनुवाद उपासनान्तरप्रतिपत्तिमुपोद्बलयति नेति । तत्र शङ्कापूर्वकं पूर्वपक्षमुपन्यस्य सिद्धान्तमपि प्रकटयति - पन्था इति । भाष्योक्तं संशयस्वरूपं प्रथमं दर्शयति । इदं हि भाष्यवाक्यं ‘उपकोसलादिषु येषूपासनेष्वर्चिरादिगतिश्श्रूयते किं तन्निष्ठानामेव तया ब्रह्मप्राप्तिः उत सर्वेषां ब्रह्मोपासननिष्ठानाम्’ इति । अत्र प्रारभ्येत्यादिना पूर्वपक्षं दर्शयति । अयमर्थः - उपकोसलादिविद्याविशेषं प्रारभ्य यत्रयत्रार्चिराद्याम्नानं तत्रतत्रैव स्यादर्चिरादिगतिः, तदनुसारात् तच्चिन्तनमपि तथा, नान्यत्रेति । तदिदं प्रतिक्षिपति - नेति । तदेव विवृणोति - सर्वासामिति । अयमर्थः - पञ्चाग्निविद्यायां ‘तद्य इत्थं विदुः’ इति पञ्चाग्निविद्यानिष्ठाननूद्य ‘ये चेमेऽरण्ये’ इति विद्यान्तरनिष्ठांश्चानूद्यार्चिरादिमार्गो विधीयते, तेन सर्वासामपि विद्यानामर्चिरादिमार्गः फलतया साधारण एव, तेन ब्रह्मविद्यानिष्ठानां फलचिन्तनस्यावश्यम्भावित्वात् अर्चिरादिमार्गचिन्तनमपि तद्वदेव - मार्गवदेव, साधारणं स्यादिति । नहि फलानुसन्धानमन्तरेणोपायनिष्ठानामुपासनं सम्भवति । अत एव ‘ब्रह्मलोकमभिसम्भवानि’ इति चिन्तनमवश्यकर्तव्यत्वेन प्रतिपादितमिति पूर्वमपप्युक्तमस्माभिः ॥
मूलम् - 35
  1. पन्थास्स्यादर्चिरादिः फलमिह सकलब्रह्मविद्यासु मा वा
    प्रारभ्याधीतियोगात् प्रकरणनियता तस्य चिन्तेति चेन्न ।
    सर्वासां तद्य इत्थं विदुरिति वचसात्राथ ये चेति चोक्त्या
    मार्गे साधारणेऽस्मिंन्स्तदनुसरणतस्तद्वदेवास्य चिन्ता ॥
विश्वास-प्रस्तुतिः - 36
  1. हेयोपादेयमार्गद्वितयमुपदिशन् मुक्तिदाता मुमुक्षोः
    योगी यः कश्चनैतत्सरणियुगलविन्मुह्यते नेत्यगायत् ।
    तस्मादस्मादृशाधीत्यविशदविशदीकर्तृवाक्यावमर्शात्
    ब्रह्मप्राप्त्यर्हकृत्स्नप्रणिहितविहितं मार्गचिन्ताविधानम् ॥
३४-तमाहोबिल-यतिः - 36
  1. हेयोपादेयेत्यादि । मुक्तिदाता - ‘अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि’ ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति स्वकण्ठोक्त्या ‘मोक्षमिच्छेज्जनार्दनात्’ इत्यादिसर्वप्रमाणैश्च सर्वेषामप्याश्रितानां मोक्षं दातुमुद्युक्तः पार्थसारथिः । मुमुक्षोः - मुक्तिकामस्य ब्रह्मविदः । हेयोपादेयमार्गद्वितयमुपदिशन् - त्याज्यं धूमादिमार्गमुपादेयमर्चिरादिमार्गञ्च ‘अग्निर्ज्योतिरहश्शुक्लष्षण्मासा उत्तरायणम्’ इत्यादिना ‘धूमो रात्रिस्तथा कृष्णष्षण्मासा दक्षिणायनम्’ इत्यादिना च वाक्येन उपदिशन् सन् । यः कश्चन योगी एतत्सरणियुगलवित् न मुह्यत इत्यगायत् - ‘नैते सृती पार्थ जानन् योगी मुह्यति कश्चन’ इति वचनेन यः कश्चिद्योगी एतन्मार्गद्वयमनुदिनं चिन्तयति स न मुह्यतीति गीतायामाह । तस्मात् अस्मादृशाधीत्यविशदविशदीकर्तृवाक्यावमर्शात् मार्गचिन्ताविधानं ब्रह्मप्राष्त्यर्हकृत्स्नप्रणिहितविहितम् - अत्र प्रणिहितशब्दो भावार्थनिष्ठान्तः । तस्मादस्मादृशाध्ययनाविशदार्थविशदीकर्तुर्भगवतो यत् पूर्वोदाहृतं ‘नैते सृती’ इत्यादिवाक्यं तदर्थपरामर्शाद्धेतोरर्चिरादिमार्गस्यानुदिनं चिन्तनविधानं ब्रह्मप्राप्त्युपयुक्तकृत्स्नार्थचिन्तनार्थं विहितम् । न केवलमत्र मार्गचिन्तनविधानम् अपितु ब्रह्मप्राप्त्युपयुक्तं यद्यत् प्रामाणिकमुपलम्यते तत्सर्वमपि चिन्तनीयमिति, तथा च देहावसाने सर्वकर्मक्षयः, क्षीणयोः पुण्यपापयोः प्रियाप्रिययोस्संक्रान्तिः, अर्चिरादिमार्गः, विरजातरणादिश्चेत्यादिकं सर्वमपि फलत्वादुपायदशायां चिन्तनीयमिति भावः ॥
कुमार-वरदः - 36
  1. गतिचिन्तनादेरवश्यकर्तव्यत्वं भगवद्वाक्यपरामर्शेनाप्युपपादयति - हेयोपादेयेति । अयमर्थः - हेयमार्गो धूमादिमार्गः । उपादेयमार्गः पुनरर्चिरादिमार्गः । उभयमपि मार्गमुपदिशन् मुक्तिदाता भगवान् ‘नैते सृती पार्थ जानन् योगी मुह्यति कश्चन’ इति गतिचिन्तनस्यावश्यकर्तव्यत्वमगायत् । तस्मादस्मादृशाध्ययनाविशदार्थविशदीकर्तुर्भगवतो वाक्यावमर्शात् ब्रह्मप्राप्त्युपयुक्तकृत्स्नार्थप्रणिहितविहितम् । प्रणिहितं प्रणिधानं भावे निष्ठा । अयमत्र निर्णयः - न केवलमत्र मार्गचिन्ताविधानमुच्यते, अपि तु ब्रह्मप्राप्त्युपयुक्तं यद्यदत्र प्रामाणिकमुपलभ्यते तत्सर्वमपि चिन्तनीयं देहावसानसर्वकर्मक्षयप्रियाप्रियसंक्रान्त्यर्चिरादिमार्गविरजातरणादिकं सर्वमपि फलत्वादुपायदशायां चिन्तनीयमिति ॥
मूलम् - 36
  1. हेयोपादेयमार्गद्वितयमुपदिशन् मुक्तिदाता मुमुक्षोः
    योगी यः कश्चनैतत्सरणियुगलविन्मुह्यते नेत्यगायत् ।
    तस्मादस्मादृशाधीत्यविशदविशदीकर्तृवाक्यावमर्शात्
    ब्रह्मप्राप्त्यर्हकृत्स्नप्रणिहितविहितं मार्गचिन्ताविधानम् ॥
विश्वास-प्रस्तुतिः - 37
  1. हानादेरर्चिरादेरपि किमभिहितं चिन्तनं सूत्रकारैः
    विद्याङ्गत्वादिसिद्ध्यै यदि भवतु तदानन्तरे पाद एतत् ।
    मैवं विद्याङ्गतायामपि भजनमिवेदञ्च धीत्वाविशेषात्
    कर्मादिभ्यो विभक्तं कथयितुमिह तत्सूत्रणं स्थानपाति ॥
३४-तमाहोबिल-यतिः - 37
  1. हानादेरित्यादि । सूत्रकारैर्हानादेरर्चिरादेरपि चिन्तनं किमभिहितम् - सूत्रकारैर्देहावसानसम्भविकर्मप्रहाणतदुपायनयोरर्चिरादिमार्गस्य च चिन्तनं कार्यमित्यस्मिन्पादे कुतोऽभिहितम् । विद्याङ्गत्वादिसिद्ध्यै यदि तदा अनन्तरे पादे एतद्भवतु - हानादिचिन्तनस्य विद्याङ्गत्वादिसिद्ध्यर्थमत्राभिधानमिति चेत् तर्हि विद्याङ्गविचारार्थे एतदध्यायचतुर्थपादे एतदभिधानमस्तु । नत्वस्मिन् विद्यास्वरूपविशोधके पादे इति भावः । तथाचाङ्गपादे कथनीयस्यात्र कथनमसङ्गतमिति । मैवम् - एवं न शङ्क्यम् । विद्याङ्गतायामपि भजनमिव इदञ्च धीत्वाविशेषात् कर्मादिभ्यो विभक्तं कथयितुमिह तत्सूत्रणं स्थानपाति - हानादिचिन्तनस्य विद्याङ्गत्वेऽपि उपासनमिव हानादिचिन्तनमपीदं ज्ञानरूपत्वेन विद्यातोऽविशेषात् कर्मादिम्यो विशेषाच्च कर्मादिभ्यो विलक्षणमिति दर्शयितुमस्मिन्पादे हानादिचिन्तनसूत्रप्रणयनम्, अत इदमुचितस्थान एव विन्यस्तमिति नासाङ्गत्यशङ्कावकाश इत्यर्थः ॥
कुमार-वरदः - 37
  1. अत्र सूत्रकारैर्हानोपायनाभिधानस्य पादासङ्गतिमाशङ्क्य परिहरति - हानादेरिति । अयमत्र पूर्वपक्षिणो भावः - हानोपायनादिचिन्तनं विद्याङ्गमेव, अङ्गं च निरूपणीयमुत्तरत्र विद्याङ्गपादे, अयञ्च पादो विद्यास्वरूपोपदेशपरः, तस्मादत्र कथं सङ्गतिरिति । हानादेरर्चिरादेरपि सूत्रकारैश्चिन्तनं किमर्थमिहाभिहितम्? विद्याङ्गत्वसिद्ध्यै चेत्, तदा अनन्तरे विद्याङ्गपादे भवतु नात्रेति । इमामाशङ्कां प्रतिक्षिपति - मैवमिति । अत्रैव गतिचिन्तनादिसूत्रस्य स्थानपातित्वमस्त्येव । कुत इत्यत्राह - विद्याङ्गतायामिति । गतिचिन्तनादेर्विद्याङ्गत्वे सत्यपि भजनमिव - साधनभूतमुपासनमिव, उपासनाङ्गभूतमिदञ्च गतिचिन्तनादिकमपि कर्मादिभ्यो विभक्तम् इति कथयितुमिह तत्सूत्रणं स्थानपातीत्यन्वयः । अयमत्र भावः - विद्याङ्गानि कानिचित् ज्ञानरूपाणि, कानिचित् क्रियारूपाणि, ज्ञानरूपाणां गतिचिन्तनादीनां प्रधानभूतविद्यातुल्यत्वप्रदर्शनार्थमिह तच्चिन्तनम्, इतरेषां कर्मरूपाणां प्राचुर्येण विद्याङ्गपादे चिन्तनमिति विभागः । तेन गतिचिन्तनादेस्स्थान एवाभिधानमिति नास्थानपातित्वशङ्कावकाशः ॥
मूलम् - 37
  1. हानादेरर्चिरादेरपि किमभिहितं चिन्तनं सूत्रकारैः
    विद्याङ्गत्वादिसिद्ध्यै यदि भवतु तदानन्तरे पाद एतत् ।
    मैवं विद्याङ्गतायामपि भजनमिवेदञ्च धीत्वाविशेषात्
    कर्मादिभ्यो विभक्तं कथयितुमिह तत्सूत्रणं स्थानपाति ॥