विश्वास-प्रस्तुतिः - 33
- कर्मोद्धूतिर्मुमुक्षोः क्वचिदुपनिषदि श्रूयते साम्पराये
मार्गेऽन्यस्यां द्विधैवं शकलश इह तच्चिन्तनञ्चास्तु मा भूत् ।
नह्युक्तं कर्मसाध्यं पथि फलमथ गत्यर्थदेहानुवृत्तिं
मुक्त्यै विद्यैव कुर्यादघहतिवचने पाठतोऽर्थो बलीयान् ॥
३४-तमाहोबिल-यतिः - 33
- कर्मोद्वूतिरित्यादि । क्वचिदुपनिषदि - क्वचिदुपनिषदि च्छान्दोग्ये ‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरिरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि ॥’ (छा.उ. 8.13.1) इति वाक्ये । मुमुक्षोः कर्मोद्वूतिस्साम्पराये श्रूयते - मुमुक्षोर्ब्रह्मविदः कर्मनिवृत्तिर्देहवियोगकाले श्रूयते । अन्यस्यां मार्गे - कर्मोद्वूतिश्श्रूयते इति पदद्वयस्यानुषङ्गः । अन्यस्यां कौषीतकिशाखायां ‘स आगच्छति विरजां नदीं तां मनसात्येति तत्सुकृतदुष्कृते धूनुते’ (कौ.उ. 1.37) इत्यादिवाक्ये ब्रह्मलोकमार्गे कर्मोद्वूतिश्श्रूयते । इह तच्चिन्तनञ्च शकलशो द्विधैवमस्तु - तेन कर्तव्यं तच्चिन्तनमपि केषांचित् कर्मणां देहवियोगकाले अपरेषां मार्गे इत्यंशतो द्विधैवमस्तु । मा भूत् - इदं शङ्कनं न स्यात् । पथि कर्मसाध्यं फलं नोक्तं हि - ब्रह्मलोकमार्गे कर्मसाध्यं किमपि सुखरूपं दुःखरूपं वा फलं ब्रह्मविदोऽनुभाव्यतया श्रुत्या नोक्तं हि । तथोक्ते तत्फलार्थं कर्मावशेषोऽस्तीत्युच्येत । अतो मार्गेऽनुभाव्यफलाभावात् निश्शेषं कर्म देहवियोगकाल एव नश्यतीत्यर्थः । कर्मनाशे तन्मूलको देहः कथं तिष्ठेत् मार्गगमनाय देहेन भाव्यं हीत्यत्राह - अथेत्यादिना । अथ मुक्त्यै गत्यर्थदेहानुवृत्तिं विद्यैव कुर्यात् - अथ देहवियोगकाल एव निश्शेषकर्मनाशे सति पश्चात्स्वसाध्यमुक्तिरूपफललाभाय मार्गगत्यपेक्षितसूक्ष्मदेहानुवृतिं विद्यैव सम्पादयेत् । अतो न तदर्थं कर्मणा भाव्यमिति भावः । तर्हि कौषीतकिश्रुतौ वाक्यं विरुध्येतेत्यत्रोच्यते - अघहतिवचने पाठतोऽर्थो बलीयानिति । कौषीतकिश्रुतौ तत्सुकृतदुष्कृते धूनुते इति कर्मनिवृत्तिवाक्ये पाठक्रमादर्थक्रमो बलीयान् हि । अतः ‘स एनं देवयानं पन्थानमापद्य’ इत्यतः प्राक् तत्सुकृतदुष्कृते धूनुते इति पठनीयम् । एवं पठिते अश्व इव इत्यादिश्रुत्यन्तरोक्तक्रमेण देहवियोगकाले निश्शेषकर्मक्षये सति पश्चाद्गत्यर्थं देवयानमार्गं प्राप्नोतीत्यर्थो निष्पद्यते इति भावः ॥
कुमार-वरदः - 33
- सङ्गतिर्भाष्ये ‘सुकृतदुष्कृतयोर्हानमुपायनञ्च सर्वासु विद्यासु चिन्तनीयमित्युक्तम् । तद्धानं किं देहवियोगकाले देहादुत्क्रान्तस्याध्वनि च, उत देहवियोगकाल एवेति विशये’ इति । तदर्थविचारस्तु - किं सुकृतदुष्कृतहानं देहवियोगकालेऽध्वनि च, उत देहवियोगकाल एवेति । किमुभयत्र हानिश्रवणं उत देहवियोगकाल एवेति । किं ‘स एतं देवयानं पन्थानमापद्याग्निलोकं गच्छति’ इत्युपक्रम्य ‘स आगच्छति विरजां नदीं तां मनसाऽत्येति तत्सुकृतदुष्कृते धूनुते’ इति चरमश्रुतस्य ‘तत्सुकृतदुष्कृते धूनुते’ इति वाक्यावयवस्य ‘स एतं देवयानम्’ इत्येतस्मात् प्रागन्वयः, उत यथापाठमन्वय इति । किं ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इत्यशरीरस्य सुखदुःखाननुभवश्रवणानुरोधेन प्रागन्वयवर्णनं न्याय्यम्, उत देवयानगमनश्रवणानुरोधेन सूक्ष्मशरीरस्थित्यर्थं यथापाठमन्वयवर्णनं न्याय्यमिति ।
अत्र पूर्वपक्षी मन्यते - ताण्डिनो हि देहवियोगकाले सुकृतदुष्कृतविधूननमधीयते ‘अश्व इव रोमाणि विधूय’ इत्यादिना । कौषीतकिनस्तु ‘स आगच्छति विरजां नदीं तां मनसात्येति तत् सुकृतदुष्कृते धूनुते’ इति विरजातरणानन्तरं सुकृतदुष्कृतविधूननम् आमनन्ति । तेन उभयवाक्यप्रामाण्यात् उभयत्रांशेन सुकृतदुष्कृतविधूननं, तच्चिन्तनमपि ब्रह्मविदा कर्तव्यं तथैवांशेनास्त्विति । तदिदमाह - कर्मोद्धूतिरिति । शब्दान्वयस्तु - क्वचिदुपनिषदि कर्मविधूननं मुमुक्षोः देहवियोगकाले श्रूयते, अन्यस्यामुपनिषदि मार्गे, तेन द्वयमपि प्रमाणम् । शकलशो द्विधैवमस्तु, केषाञ्चित् कर्मणां देहवियोगकालेऽपरेषां मार्ग इति चिन्तनमपि शकलशोऽस्त्विति । तदिदं प्रतिक्षिपति - मा भूदिति । तदेव विवृणोति - न हीति । यदि मार्गे किमपि फलमुक्तं स्यात् तदा तत्फलार्थं कर्मावशेषोऽस्तीति वक्तुं शक्येत, मार्गानुभाव्यफलाभावात् सफलं कर्म सर्वमपि साम्पराये नश्यतीत्यर्थः । ननु यदि सर्वं कर्म देहावसाने नश्येत्, तर्हि अर्चिरादिमार्गेण गमनमेव न स्यात्, तथाच निरर्थक एवाध्यात्मविदां प्रयास इत्याशङ्क्य परिहरति - अथेति । मुक्त्यै गत्यर्थदेहानुवृत्तिं ब्रह्मविद्यैव कुर्यात् । तर्हि द्वयोः प्रमाणयोस्तुल्यबलत्वात् कथं देहावसान एवेति नियम इत्याशङ्क्य पाठक्रमादर्थक्रमस्य बलीयस्त्वेन देहावसाने कर्मक्षयस्यार्थक्रमप्राप्तत्वात् पाठक्रमप्राप्तं मार्गे कर्मक्षयं बाधित्वा अर्थो वर्ण्यत इति न कश्चिद्विरोधः ॥
मूलम् - 33
- कर्मोद्धूतिर्मुमुक्षोः क्वचिदुपनिषदि श्रूयते साम्पराये
मार्गेऽन्यस्यां द्विधैवं शकलश इह तच्चिन्तनञ्चास्तु मा भूत् ।
नह्युक्तं कर्मसाध्यं पथि फलमथ गत्यर्थदेहानुवृत्तिं
मुक्त्यै विद्यैव कुर्यादघहतिवचने पाठतोऽर्थो बलीयान् ॥
विश्वास-प्रस्तुतिः - 34
- निश्शेषं कर्म नश्येदिह यदि विदुषस्स्थूलदेहान्तमात्रे
विश्राम्येत् तस्य तावच्चिरमिति हि वचो नार्थवत्त्वं गतेस्स्यात् ।
गत्वा सम्पद्य चाविर्भवनमिति न संबोभवीतीत्ययुक्तं
स्याद्धीसङ्कोचमात्रस्थितिकृदनुगतस्सूक्ष्मसंस्कारयोगः ॥
३४-तमाहोबिल-यतिः - 34
- निश्शेषमित्यादि । विदुषः कर्म इह निश्शेषं नश्येद्यदि तस्य तावच्चिरमिति वचः स्थूलदेहान्तमात्रे हि विश्राम्येत् - ब्रह्मविदः पुण्यपापात्मकं कर्म स्थूलदेहवियोगकाल एव निश्शेषं नश्येद्यदि तस्य तावदेव चिरं यावन्न विमोक्ष्ये इति च्छान्दोग्यस्थं मोक्षविलम्बप्रतिपादकं वचनं स्थूलदेहावसान एव पर्यवस्येत् । स्थूलदेहावसान एव निश्शेषकर्मक्षयस्योक्तत्वात् तावत्पर्यन्तमेव विलम्ब इत्येवमर्थे पर्यवस्येत्, नतु ब्रह्मलोकमार्गगमनादिविलम्बं सहेतेत्यर्थः । अस्त्वेवमिति चेत्तत्राह - नार्थवत्त्वमित्यादि । गतेरर्थवत्त्वं न स्यात् - एवं विलम्बाभावेऽङ्गीकृतेऽर्चिरादिगमनस्य प्रयोजनवत्त्वं न स्यात् । मार्गगमनात्पूर्वमेव मुक्तिलाभे मार्गगमनं निरर्थकं स्यात् किलेति भावः । एवमप्यस्तु किं प्रमाणं विरुध्यत इत्यत्राह - गत्वा सम्पद्य चार्विभवनमिति न संबोभवतीति - अर्चिरादिना गत्वा परं ज्योतिः प्राप्यावस्थितस्यैव स्वाभाविकज्ञानाविर्भावरूपो मोक्ष इत्येवमर्थकं श्रुतिवाक्यं न सङ्गच्छते, विरुणद्धीत्यर्थः । इत्ययुक्तम् । धीसङ्कोचमात्रस्थितिकृत् सूक्ष्मसंस्कारयोगोऽनुगतस्स्यात् - ज्ञानसङ्कोचमात्रहेतुसूक्ष्मकर्मशेषोऽनुवर्तत इत्यर्थः । कथमेवमेतदिति चेत् ‘परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति श्रुतिसामर्थ्यात्, न हि स्वाभाविकज्ञानवतः पुरुषस्याकारणक एव तावन्तं कालं ज्ञानसङ्कोच इति वक्तुं शक्यते; न च तस्य भगवन्निग्रहमन्तरेण कारणान्तरमस्ति, तेन भगवन्तं प्राप्तस्यैवासङ्कुचितब्रह्मानुभवरूपमोक्षसिद्धेस्साक्षादेव श्रुतत्वादनुक्रमेणैव भगवन्निग्रहनिवृत्तिरिति सिद्धम् ॥
कुमार-वरदः - 34
- स्यादेतत् निश्शेषं कर्म विदुषो यदीहैव नश्येत् तदा ‘तस्य तावदेव चिरम्’ इति वाक्यं स्थूलदेहान्तमात्रे विश्राम्येत् । तथा च तदानीमेवासौ मुक्तस्स्यात् । एवञ्च सति अर्चिरादिगमनस्य प्रयोजनवत्त्वं न स्यात् । नचार्चिरादिगमनं नास्तीति वक्तुं शक्यम्; ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इत्यर्चिरादिमार्गेण गत्वा परमपुरुषप्राप्त्यनन्तरमेव मोक्षस्याम्नातत्वात् । तत् कथं स्थूलदेहावसाने निश्शेषकर्मविलोप इति कस्यचित् शङ्का । तदिदमनुवदति - निश्शेषमिति । उक्तशङ्कां निराकरोति - अयुक्तमिति । अयुक्तत्वमेवोपपादयति - स्यादिति । अयमर्थः - सुखदुःखादिफलप्राप्तिहेतुः कर्मकलापो देहावसाने यद्यपि विश्रान्तः, तथापि परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पत्तिपर्यन्तं ज्ञानसङ्कोचमात्रहेतुसूक्ष्मकर्मशेषोऽनुवर्तते । कथमेतदिति चेत् ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति श्रुतिसामर्थ्यात् । नहि स्वाभाविकज्ञानवतः पुरुषस्याकारणक एव तावन्तं कालं ज्ञानसङ्कोच इति वक्तुं शक्यते । न च तस्य भगवन्निग्रहशेषमन्तरेण कारणान्तरमस्तीति । तेन भगवन्तं प्राप्तस्यैवासङ्कुचितब्रह्मानुभवरूपमोक्षसिद्धेस्साक्षादेव श्रुतत्वादनुक्रमेणैव भगवन्निग्रहनिवृत्तिरिति सिद्धम् ॥
मूलम् - 34
- निश्शेषं कर्म नश्येदिह यदि विदुषस्स्थूलदेहान्तमात्रे
विश्राम्येत् तस्य तावच्चिरमिति हि वचो नार्थवत्त्वं गतेस्स्यात् ।
गत्वा सम्पद्य चाविर्भवनमिति न संबोभवीतीत्ययुक्तं
स्याद्धीसङ्कोचमात्रस्थितिकृदनुगतस्सूक्ष्मसंस्कारयोगः ॥