26 हान्यधिकरणम्

विश्वास-प्रस्तुतिः - 30
  1. शाखे द्वे मुक्तिभाजः क्वचन कथयतः पुण्यपापप्रहाणं
    ब्रूतेऽन्या तत्प्रवेशं प्रियतदितरयोर्दायसंक्रान्तिकाले ।
    हानञ्चोपायनञ्च क्वचिदिति पृथगाम्नातसंपर्कसिद्धिः
    वाक्यं शाखान्तरस्थं भवति हि विहिताकाङ्क्षया वाक्यशेषम् ॥
३४-तमाहोबिल-यतिः - 30
  1. शाखे द्वे इत्यादि । द्वे शाखे - ‘अश्व इव रोमाणि विधूय पापम्’ ‘तदा विद्वान् पुण्यपापे विधूय’ इति द्वे सामाथर्वणशखे । मुक्तिभाजः - मुक्तिं प्राप्नुवतः पुरुषस्य । क्वचन - स्थलविशेषनिर्देशं विना क्वापि स्थले । पुण्यापप्रहाणं कथयतः - पुण्यपापयोः प्रहाणं त्यागं प्रतिपादयतः । अन्या दायसंक्रान्तिकाले प्रियतदितरयोः तत्प्रवेशं ब्रूते - ‘तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्तः
    पापकृत्याम्’ इत्यन्या शाट्यायनीनां श्रुतिः पुत्रेषु दायसङ्क्रमणकाले प्रियतदितरयोः
    मित्रामित्रयोः तयोः सुकृतदुष्कृतयोः प्रवेशं प्रतिपादयति । क्वचित् हानं चोपायनञ्चेति पृथगाम्नातसम्पर्कसिद्धिः - ‘तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्त्यप्रिया दुष्कृतम्’ इति कौषीतकिशाखायां सुकृतदुष्कृतप्रहाणं प्रियाप्रिययोरुपायनञ्च समुच्चित्य कथितमित्यन्यत्र पृथगाम्नातयोर्न्यायानुगृहीतप्रमाणविषयस्सम्पर्कस्सिध्यतीत्यर्थः । शाखान्तरस्थं वाक्यं विहिताकाङ्क्षया वाक्यशेषं भवति हि - शाखान्तरस्थं वाक्यं शाखान्तरस्थवाक्यविहितार्थाकाङ्क्षावशेन तदपेक्षितार्थं समर्पयत् तद्वाक्यशेषत्वं भजत इति प्रसिद्धं हि पूर्वकाण्डे ।
    यथा सामस्तोत्रसंख्यानार्थशङ्कुविशेषरूपकुशाविषये ‘वानस्पत्याः कुशाः’ इति विहितवनस्पतिमयत्वरूपसामान्याकारार्थश्रवणजनितविशेषाकाङ्क्षावशेन तदपेक्षितवनस्पतिविशेषमयत्वसमर्पकं ‘औदुम्बर्यः कुशाः’ इति शाखान्तरस्थं वाक्यं तद्वाक्यशेषं दृष्टम् ।
    एवं ‘देवासुराणां छन्दोभिः’ इति वाक्यं छन्दोभिः कार्ये करणीये पौर्वापर्यनियामकं यावदपेक्षते तावदेव ‘देवच्छन्दांसि पूर्वम्’ इति वाक्यं तदपेक्षितपौर्वापर्यसमर्पणात् तच्छेषत्वं प्राप्तम् ।
    ‘षोडशिनः स्तोत्रमुपाकरोति’ इति वाक्ये कदेत्यपेक्षमाणे ‘समयाविषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति’ इत्यर्धास्तमितसूर्यककालविशेषं तस्मै समर्प्य तच्छेषभावमिदं वाक्यमाटीकते ।
    एवं ‘ऋत्विज उपगायन्ति’ इत्यृत्विजामविशेषेणोपगानं विदधद्वाक्यं यावदपवादं प्रतीक्षते तावदेव ‘नाध्वर्युरुपगायेत्’ इत्युपगानादध्वर्युं निवर्तयद्वाक्यं तच्छेषत्वं प्राप, एवमिहापीति भावः ॥
कुमार-वरदः - 30
  1. अत्र ब्रह्मविद्यासन्निधिसमाम्नातानां ‘शुक्रं प्रविध्य’ इत्यादीनां ब्रह्मविद्यानङ्गत्वमुक्तम् । तथा सन्निधिसमाम्नातहानोपायनचिन्ता अनन्तरं प्राप्तेति सङ्गतिः । अथवा ‘शुक्रं प्रविध्य’ इत्यादिमन्त्राणां लिङ्गात् तत्तत्कर्मशेषत्वमुक्तम्, इह पुनरुपायनस्य प्रहाणविषयत्वरूपार्थसामर्थ्यलिङ्गात् उभयोरन्योन्यान्वयनियमेनोभयोरुभयत्रानुसन्धेयत्वमुच्यत इति सङ्गतिः । तदर्थविचारस्तु - ‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्’ ‘तथा विद्वान्पुण्यपापे विधूय’ इति क्वचित् सुकृतदुष्कृतयोर्हानिचिन्तनमाम्नातम्, ‘सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्याम्’ इत्युपायनचिन्तनं क्वचिदाम्नातम्, क्वचिदुभचिन्तनम् ‘तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम्’ इति । तत्र किं हानिचिन्तनोपायनचिन्तनोभयचिन्तनानि समुच्चीयेरन् उत विकल्पेरन्निति । किमुपायनं हानिशेषतया विद्याङ्गमुत स्वतन्त्रतयेति । किमुपायनवाक्यं शाखान्तराधीतमपि हानिवाक्यशेषभूतं उत स्वतन्त्रम् । किं कौषीतकीनामुभयाम्नानमुपायनवाक्यस्य हानिवाक्यशेषताविरोधि नेति । अत्र विषयं विशोध्य उद्ग्रन्थमेव पूर्वपक्षं निराकुर्वन् सैद्धान्तिकमर्थं सम्यगेव प्रमाणन्यायाभ्यामुपपादयति - शाखे द्वे इति । अयमत्र शब्दान्वयः - द्वे शाखे मुक्तिभाजः पुरुषस्य पुण्यपापप्रहाणं क्वचित् कथयतः । अन्या पुनः शाखा प्रियतदितरयोर्दायसंक्रान्तिकाले पुण्यपापप्रवेशं ब्रूते । प्रियाप्रिययोः पुण्यपापसङ्क्रान्तिमाचष्ट इत्यर्थः । क्वचित् शाखायां हानञ्चोपायनञ्च समुच्चित्य कथितमिति अन्यत्र पृथगाम्नातयोस्तयोस्सम्पर्क एव न्यायानुगृहीतप्रमाणविषयत्वेन सिध्यति । असन्निहितानां शाखान्तरस्थानां वाक्यानामन्योन्यान्वयसिद्धिः कथं स्यादित्याशङ्क्य सर्वशाखाप्रत्ययन्यायमेव प्रागुक्तमिह प्रत्यभिज्ञापयति - वाक्यमिति ॥
मूलम् - 30
  1. शाखे द्वे मुक्तिभाजः क्वचन कथयतः पुण्यपापप्रहाणं
    ब्रूतेऽन्या तत्प्रवेशं प्रियतदितरयोर्दायसंक्रान्तिकाले ।
    हानञ्चोपायनञ्च क्वचिदिति पृथगाम्नातसंपर्कसिद्धिः
    वाक्यं शाखान्तरस्थं भवति हि विहिताकाङ्क्षया वाक्यशेषम् ॥
विश्वास-प्रस्तुतिः - 31
  1. इत्थं ब्रह्मज्ञकर्मत्यजनमितरसंक्रान्तिसम्पृक्तमस्तु
    स्याच्चिन्तायां व्यवस्था पृथगनुपठनादित्यसत् कॢप्तिदौस्स्थ्यात् ।
    सर्वेषां मुक्तिभाजां द्वितयमपि यथोपास्ति साध्यं समानं
    तच्चिन्तासौ तथा तन्महिमविद इति स्थापनीयोभयत्र ॥
३४-तमाहोबिल-यतिः - 31
  1. इत्थमित्यादि । इत्थं ब्रह्मज्ञकर्मत्यजनमितरसंक्रान्तिसम्पृक्तमस्तु - पूर्वाक्तन्यायेन ब्रह्मज्ञानां सुकृतदुष्कृतरूपकर्मप्रहाणमितरयोस्सुहृद्द्विषतोस्सङ्क्रमणेन सम्पृक्तं सम्बद्धं भवतु । पृथगनुपठनात् चिन्तायां व्यवस्था स्यात् - क्वचिद्धानस्य क्वचिदुपायनस्य क्वचिदुभयस्य च अनुपठनात् हानोपायनचिन्तने व्यवस्था विकल्पस्स्यात् । इत्यसत् - इति शङ्कनमसाधु । कुतः? कॢप्तिदौस्स्थ्यात् - सर्वत्रैकरूप्ये सम्भाव्यमानेऽपि वैरूप्येण कल्पनाया अन्याय्यत्वादित्यर्थः । अस्यैवोपरि विवरणम् - मुक्तिभाजां सर्वेषां यथोपास्ति द्वितयमपि साध्यं समानम् - सर्वेषामपि मुमुक्षूणां यथाक्रतुन्यायेन यथोपासनं हानमुपायनञ्चेत्युभयमपि फलं तुल्यम् । तन्महिमविदस्तच्चिन्ता असौ तथेत्युभयत्र स्थापनीया - ब्रह्मविन्माहात्म्यविद उपासकस्याधिकारिणो हानोपायनचिन्ताप्यसौ तथा तुल्येति हेतोरुभयत्र एकैकाम्नानस्थलद्वयेऽपि स्थापनीया कार्यतया योजनीयेत्यर्थः । इयं चिन्तामणियोजना ।
    योजनान्तरं स्फुरति - यथेति भिन्नं पदम् । मुक्तिभाजां सर्वेषामपि उपास्तिसाध्यं द्वितयमपि यथा समानम्, तन्महिमविदस्तञ्चिन्ता चासौ तथा समानेत्युभयत्र स्थापनीयेति ॥
कुमार-वरदः - 31
  1. पूर्वं हानोपानयोर्वैकल्पिकत्वं पूर्वपक्षिणोक्तं प्रमाणतर्काभ्यां परिहृतम्, तर्हि मा भूत् तयोर्वैल्पिकत्वम्, तथापि तच्चिन्तने वैकल्पिकत्वं स्यादित्याशङ्क्य तदपि नेत्याह - इत्थमिति । अयमत्र शब्दार्थः - इत्थं ब्रह्मज्ञानां कर्मत्यजनं कर्मप्रहाणं प्रियाप्रिययोस्सङ्क्रान्तिसम्पृक्तमस्तु नाम । चिन्तायां पुनर्व्यवस्था विकल्प एव भवतु । कुत इत्यत्राह - पृथगनुपठनादिति । तत्प्रतिक्षिपति - असदिति । सर्वत्रैकरूप्येण कल्पने सम्भाव्यभाने सत्यपि वैरूप्येण कल्पनाया अन्याय्यत्वादित्यर्थः । तदिदमाह - कॢप्तिदौस्स्थ्यादिति । वैरूप्यकल्पनाया अन्याय्यत्वमेव विशदं प्रकाशयति - सर्वेषामिति । सर्वेषामपि मुक्तिभाजां द्वितयमपि हानमुपायनमुभयमपि यथोपासनं साध्यं समानमेव । एवं हानमुपायनञ्च पुण्यपापयोरस्तीत्युक्तम् । तद्वत् हानोपायनचिन्ता च ब्रह्मविन्माहात्म्यविद उपासकस्याधिकारिणः कर्तव्येत्युभयत्र हानोपायनयोरपि चिन्ता स्वीकार्या । यथोपासनं फलप्राप्तिरिति नियमेन हानोपायनचिन्ताऽभावे हानोपायनरूपफलप्राप्तेरयोगात् । लोके खलु इष्टानिष्टचिन्तयोरिष्टानिष्टफलप्राप्तिस्स्वफलमेवेति हि सर्वे मन्यन्ते । अतो हानोपायनयोर्ब्रह्मविद्याफलत्वात् उपासनदशायां फलचिन्तनं कर्तव्यमेवेति निर्णयः । श्रूयते हि उपासनदशायां फलचिन्तनम्, ‘ब्रह्मलोकमभिसम्भवानि’ ‘एतमितः प्रेत्याभिसम्भवितास्मि’ इत्यादि । ‘विष्णुर्जयतु नासुरः’ इति ब्रह्मविदां विष्णुभक्तिविरोधिनिराकरणं प्रार्थनीयतया फलमेवेति सुप्रसिद्धमेव ॥
मूलम् - 31
  1. इत्थं ब्रह्मज्ञकर्मत्यजनमितरसंक्रान्तिसम्पृक्तमस्तु
    स्याच्चिन्तायां व्यवस्था पृथगनुपठनादित्यसत् कॢप्तिदौस्स्थ्यात् ।
    सर्वेषां मुक्तिभाजां द्वितयमपि यथोपास्ति साध्यं समानं
    तच्चिन्तासौ तथा तन्महिमविद इति स्थापनीयोभयत्र ॥
विश्वास-प्रस्तुतिः - 32
  1. कर्त्रा तेनैव भोग्यं शुभमितरदपि स्थापितं कर्मकाण्डे
    तस्माद् ब्रह्मज्ञकर्म द्विषति सुहृदि वा नापतेदित्ययुक्तम् ।
    विद्यामाहात्म्यतो यद्विगलति विदुषः कर्म तत्साध्यतुल्यं
    विद्वत्प्रद्वेषभक्त्योः फलमिति कथने वाक्यतात्पर्यसिद्धेः ॥
३४-तमाहोबिल-यतिः - 32
  1. कर्त्रा तेनैवेत्यादि । कर्मकाण्डे शुभमितरदपि तेनैव कर्त्रा भोग्यं स्थापितम् - द्वादशलक्षण्यां शास्त्रफलं प्रयोक्तरि इत्यादौ पुण्यं पापमपि यः कर्ता तेनैव तदनुभाव्यमिति सिद्धान्तितम् । तस्मात् - अन्यकृतकर्मणोऽन्याननुभाव्यत्वात् । ब्रह्मज्ञकर्म द्विषति सुहृदि वा नापतेत् - ब्रह्मविदः पापं पुण्यञ्च तद्द्वेषिणि तन्मित्रे वा न प्रसजति । इत्ययुक्तम् - इति चिन्तनमयुक्तम् । विदुषो विद्यामाहात्म्यतो यत्कर्म विगलति तत्साध्यतुल्यं विद्वत्प्रद्वेषभक्त्योः फलमिति कथने वाक्यतात्पर्यसिद्धेः - ब्रह्मविद उपासनसामर्थ्यात् यत् पापपुण्यरूपं कर्म प्रहीयते तत्साध्यफलतुल्यं विद्वद्विद्वेषतद्भक्तिरूपपापपुण्यकर्मणोः फलमिति प्रतिपादने तद्वाक्यतात्पर्यसिद्धेः। तथाच नानेन वाक्येनान्यकर्मणोऽन्यकर्मफलस्य वा अन्यस्मिन्संक्रमणमुच्यते किं तु ब्रह्मविदो यत् पापं विद्यामाहात्म्याद्गलति तस्य कर्मणो यावद्दुखं फलं तावद्दुःखं ब्रह्मविद्विद्धेषरूपपापस्य फलं भगवान् ददाति, एवं ब्रह्मविदो यत्पुण्यं विद्यासामर्थ्याद्गलति तस्य सर्वस्य यावत् सुखं फलं तावत् सुखं ब्रह्मविद्भक्तिरूपपुण्यकर्मण इत्येतदेवास्य तात्पर्यमिति ॥
कुमार-वरदः - 32
  1. नन्वत्र प्रियाप्रिययोस्सुकृतदुष्कृतसङ्क्रान्तिरुपदिष्टा सेयं विरुद्धैव, नह्यन्येन कृतं कर्मान्यत्र सङ्क्रामति, न ह्यन्यकर्मफलमन्यत्रोत्पद्यते, अकृताभ्यागमकृतविप्रणाशप्रसङ्गात्, तेन विरूद्धमेतद्भवदुक्तमित्याशङ्कते - कर्त्रेति । अयमत्र शब्दान्वयः - यः करोति कर्म तेनैव कर्त्रा तत्फलं भोग्यमिति कर्मकाण्डे स्थापितम् । दृश्यते हि ‘शास्त्रफलं प्रयोक्तरि’ इति । तस्मात् ब्रह्मज्ञकर्म शत्रौ मित्रे वा सङ्क्रामतीति न घटते । तदिदं प्रतिक्षिपति - अयुक्तमिति । विद्यामाहात्म्यत इति - अयमर्थः - न ह्यस्माभिर्ब्रह्मविन्निष्ठपुण्यपापयोः प्रियाप्रिययोस्सङ्क्रान्तिरुच्यते, नापि प्रियाप्रियफलयोस्सुहृदि दुर्हृदि वा जननम्, अपि तु स्वकर्मफलमेव सुहृदां दुर्हृदामप्युच्यते । यो हि ब्रह्मविद्विषये प्रीणाति यश्च तस्मै द्रुह्यति तयोरुभयोरपि स्वाचरितस्य सुकृतस्य दुष्कृतस्य च निष्फलत्वायोगात् स्वकीयकर्मफलमेवोच्यते । तर्हि स्वकर्मफलभोगे कर्मफलसंक्रान्तिवचनं कथं स्यात् ? तदिदमवहितमनाश्शृणु, अन्यकर्मणोऽन्यत्र संक्रान्तेरयोगात् अन्यकर्मफलस्यान्यत्र जननायोगाच्च न कर्मसंक्रान्त्यतिदेशो नापि फलजननातिदेशः, अपि तु तत्तत्कर्मफलपरिमाणमेवोच्यते । परमकारुणिकेन भगवता यावत्पुण्यफलमध्यात्मवित्सु न दत्तं तावत्पुण्यफलमध्यात्मविदनुकूलेषु स्वकृतानुकूल्यफलतया दीयते । यावत्पापफलमध्यात्मवित्सु न दत्तं तावत्पापफलमध्यात्मवित्प्रतिकूलेषु स्वकृतप्रातिकूल्यफलतया दीयत इति । तेनाध्यात्मविदनुकूलप्रतिकूलयोर्दीयमानफलपरिमाणप्रदर्शनमात्रमत्रोच्यते न पुनरन्यकर्मणामन्यत्र संक्रान्तिरिति सर्वं समाहितम् ॥
मूलम् - 32
  1. कर्त्रा तेनैव भोग्यं शुभमितरदपि स्थापितं कर्मकाण्डे
    तस्माद् ब्रह्मज्ञकर्म द्विषति सुहृदि वा नापतेदित्ययुक्तम् ।
    विद्यामाहात्म्यतो यद्विगलति विदुषः कर्म तत्साध्यतुल्यं
    विद्वत्प्रद्वेषभक्त्योः फलमिति कथने वाक्यतात्पर्यसिद्धेः ॥