विश्वास-प्रस्तुतिः - 29
- युज्येरन् ब्रह्मविद्यापरिसरपठिताश्शन्न इत्यादिमन्त्राः
तादर्थ्यात् सर्वविद्यास्विति न तदुदिताधीतिशेषत्वलिङ्गात् ।
नो चेदन्येऽपि तद्वत् सविधपठनतस्सन्तु शुक्रं प्रविध्ये-
त्येवम्प्रायास्तदर्था न च घटत इदं लिङ्गतो दुर्बलत्वात् ॥
३४-तमाहोबिल-यतिः - 29
- युज्येरन्नित्यादि । ब्रह्मविद्यापरिसरपठिताश्शन्न इत्यादिमन्त्रास्तादर्थ्यात् सर्वविद्यासु युज्येरन् - ब्रह्मविदाष्नोति परम् इत्यादिब्रह्मविद्यासन्निधिपठिताश्शन्नो मित्र इत्यादिमन्त्रास्सन्निधिबलेन ब्रह्मविद्याशेषत्वलाभात् तत्सामान्यभूतासु सर्वासु ब्रह्मविद्यास्वनुसन्धेयतया सम्बध्येरन् । इति न - इति शङ्कनं न युक्तम् । तदुदिताधीतिशेषत्वलिङ्गात् उक्तमन्त्रेषु ‘तेजस्वि नावधीतमस्तु’ इत्यधीतस्य तेजस्वित्वप्रार्थनरूपस्य ‘नमो ब्रह्मणे’ इति वेदनमस्करणरूपस्य चाध्ययनशेषत्वलिङ्गस्योपलम्भात् । नो चेत् शुक्रं प्रविध्येत्येवम्प्राया अन्येऽपि तद्वत् सविधपठनतस्तदर्थास्सन्तु - एवमध्ययनशेषत्वानङ्गीकारे विद्याशेषत्वाङ्गीकारे ‘शुक्रं प्रविध्य’ इत्येवमादिरूपा अन्ये मन्त्राः ‘शन्नो मित्रः’ इत्यादिपूर्वाक्तमन्त्रवत् ब्रह्मविद्यासमीपपठनमात्राद्धेतोर्विद्याशेषभूता भवन्तु सन्निधिरूपस्य हेतोस्तुल्यत्वादित्यर्थः । इदं न घटते च - ‘शुक्रं प्रविध्य’ इत्यादिमन्त्राणां ब्रह्मविद्याङ्गत्वकल्पनं न युज्यते च । शत्रोः शुक्रधातुं वेधय, शत्रोर्हृदयं वेधय इत्येवं परपीडाप्रार्थनारूपस्य कर्मणः ब्रह्मविद्याविरोधित्वेन तन्तुवायस्य मर्कटशिशुपोषणन्यायापत्तेः । लिङ्गतो दुर्बलत्वात् - सन्निधिसमाम्नानस्य लिङ्गापेक्षया दुर्बलत्वाच्च । इदं न घटत इत्यन्वयः ॥
कुमार-वरदः - 29
- ब्रह्मविद्यासन्निधिसमाम्नानात् ब्रह्मविद्याङ्गत्वं पुरुषविद्याया उक्तम्, इदानीं पुनर्ब्रह्मविद्यासन्निधिसमाम्नातानां ‘शन्नो मित्रः’ इत्यादिमन्त्राणां ब्रह्मविद्याङ्गत्वं स्यादिति शङ्कया सङ्गतिः । तदर्थविचारस्तु - किमुपनिषदारम्भेष्वधीताः ‘शुक्रं प्रविध्य’ ‘शन्नो मित्रः’ इत्यादयो मन्त्राः, प्रवर्ग्यादीनि च कर्माणि विद्याङ्गमुत नेति । किमेषां श्रुतिलिङ्गवाक्यैः कर्मस्वेव विनियोगः, उत ब्रह्मविद्यायां प्रकरणाद्विनियोगः । किमेषां प्रकरणपाठोऽङ्गत्वाय उत दिवाकीर्त्यारण्यानुवाक्यतायै । अत्र पूर्वपक्षमाह - युज्येरन्निति । ‘शन्नः’ इत्यादिमन्त्रा ब्रह्मविद्यापरिसरपठितत्वात् तेषां विद्याशेषत्वाविशेषाच्च सर्वविद्यास्वपि शेषत्वेन युज्येरन्निति । तदेतत्प्रतिक्षिपति - नेति । तत्र हेतुमाह - तदुदितेति । अयमर्थः - लिङ्गात् तत्तत्कर्मशेषत्वं प्रतीयते, सन्निधेर्ब्रह्मविद्याशेषत्वम्, तत्र लिङ्गसन्निध्योर्लिङ्गस्यात्यन्तबलीयस्त्वं सर्वेषामपि सम्मतम् । तत्र ‘शन्नो मित्रः’ इत्यादिमन्त्रस्य ‘नमो ब्रह्मणे’ इत्यादिना लिङ्गेनाध्ययनशेषत्वस्य स्पष्टदृष्टत्वादत्यन्तकनीयसा सन्निधिना कल्पनीयं ब्रह्मविद्याशेषत्वं बाध्यत एव । एवमनङ्गीकारे विपक्षे बाधकमाह - नो चेदिति ।
शन्नो मित्रः इत्यादिमन्त्रस्य ब्रह्मविद्याशेषत्वे ‘शुक्रं प्रविध्य’ इत्यादिमन्त्रस्यापि ब्रह्मविद्यासन्निधिसमाम्नातस्य ब्रह्मविद्याशेषत्वं स्यात् । तत्तु विरुद्धमेव ‘शुक्रं प्रविध्य हृदयं प्रविध्य’ इति परपीडाप्रार्थनात्मकस्य कर्मणो ब्रह्मविद्याविरोधित्वेन तदङ्गत्वकल्पनायोगात्, लिङ्गतो दुर्बलत्वाच्च सन्निधिसमाम्नानस्य । तेन न ब्रह्मविद्याशेषत्वमिति कथं सर्वविद्याङ्गत्वकल्पनं योयुज्येत ॥
मूलम् - 29
- युज्येरन् ब्रह्मविद्यापरिसरपठिताश्शन्न इत्यादिमन्त्राः
तादर्थ्यात् सर्वविद्यास्विति न तदुदिताधीतिशेषत्वलिङ्गात् ।
नो चेदन्येऽपि तद्वत् सविधपठनतस्सन्तु शुक्रं प्रविध्ये-
त्येवम्प्रायास्तदर्था न च घटत इदं लिङ्गतो दुर्बलत्वात् ॥