24 पुरुषविद्याधिकरणम्

विश्वास-प्रस्तुतिः - 26
  1. आख्याद्यैक्यादभेदः पुरुषविषययोर्विद्ययोरित्ययुक्तं
    यज्ञाद्याकारकॢप्तेरिह विषमतया रूपभेदप्रसिद्धेः ।
    तादर्थ्यात् तैत्तिरीये परभजनफलं मुक्तिरत्राप्यनूक्ता
    छान्दोग्ये पूर्णमायुः फलमिति तु तयोर्भाति संयोगभेदः ॥
३४-तमाहोबिल-यतिः - 26
  1. आख्याद्यैक्यादित्यादि । पुरुषविषययोः - उपासकपुरुषशरीरात्मगुणादिविषययोः । विद्ययोः - तैत्तिरीयके ‘तस्यैवं विदुषो यज्ञस्यात्मा यजमानः’ इत्यारभ्यः ‘महिमानमित्युपनिषत्’ इत्यन्तेन छान्दोग्ये ‘पुरुषो वाव यज्ञः’ इत्यारभ्यः ‘ज्योतिरुत्तमम्’ इत्यन्तेन चाम्नातयोः पुरुषविद्याभिधानयोर्द्वयोर्विद्ययोः । आख्याद्यैक्यादभेदः - पुरुषविद्येति द्वयोर्विद्ययोर्नामैक्यात्, यज्ञाङ्गकल्पनारूपस्य रूपस्य चैक्यात्, तैत्तिरीयके फलस्याश्रवणात्, छान्दोग्ये ‘प्र ह षोडशं वर्षशतं जीवति’ इत्युक्त्या षोडशोत्तरशतवर्षजीवित्वरूपायुष एव स्थलद्वयेऽपि फलत्वेन कल्पनीयत्वात् फलसंयोगस्य चैक्यात् द्वयोरपि विद्ययोरैक्यं स्यात् इत्ययुक्तम् । इह यज्ञाद्याकारकॢप्तेर्विषमतया रूपभेदप्रसिद्धेः - स्थलद्वयेऽपि यज्ञाद्याकारभूतानां प्राप्तस्सवनादीनां या कॢप्तिस्तस्या वैषम्येण रूपभेदस्य प्रकर्षेण सिद्धत्वात् । ‘यत्सायं प्रातर्मध्यन्दिनञ्च तानि सवनानि’ इति सायंप्रातर्मध्यन्दिनानां सवनत्रयत्वेन कल्पनं तैत्तिरीयके कृतम् । त्रेधा विभक्तं पुरुषायुषं छान्दोग्ये श्रुतानामशिशिषादीनां दीक्षादित्वकल्पनं तैत्तिरीयके न कृतम् । यजमानपत्न्यादिकल्पनञ्चान्यथा । अतो यज्ञाद्याकारकॢप्तेर्भिन्नभिन्नतया रूपभेदादित्यर्थः । तैत्तिरीये तादर्थ्यात् परभजनफलं मुक्तिरत्राप्यनूक्ता - तैत्तिरीयशाखायां ‘तस्यैवं विदुषः’ इत्यनुवाकाम्नातपुरुषविद्यायाः पूर्वानुवाके ‘ओमित्यात्मानं युञ्जीत’ इति प्रतिपादितब्रह्मविद्याशेषत्वात् पूर्वानुवाकोक्तपरमात्मभक्तिफलभूता मुक्तिरस्यामप्यङ्गविद्यायामनूद्यते ।अङ्गिफलमेवाङ्गस्यापि फलमित्यर्थः । छान्दोग्ये तु पूर्णमायुः फलम् - ‘प्र ह षोडशं वर्षशतं जीवति’ इति प्रतिपादितं पूर्णमायुश्छान्दोग्ये पुरुषविद्यायाः फलम् । इति तयोस्संयोगभेदो भाति - एवमुक्तक्रमेण तयोर्द्वयोः पुरुषविद्ययोर्ब्रह्मविद्याङ्गत्वेन ब्रह्मप्राप्तिफलकत्वपूर्णायुःप्राप्तिफलकत्वाभ्यां फलसम्बन्धभेदः प्रतीयत इति ॥346॥
कुमार-वरदः - 26
  1. द्युव्याप्तिसन्निधिसमाम्नातस्य सम्भृत्यादेस्तत्समानस्थानानुप्रवेशात् एकविद्यान्वय उक्तः, इदानीं ब्रह्मविद्यासन्निधिसमाम्नातपुरुषविद्याया ब्रह्मविद्याशेषत्वमुच्यत इति सङ्गतिः । तदर्थविचारस्तु - तैत्तिरीयके ‘तस्यैवं विदुषो यज्ञस्य’ इत्यादिना पुरुषविद्या आम्नाता, तथा छान्दोग्येऽपि ‘पुरुषो वाव यज्ञः’ इत्यादिना पुरुषविद्या आम्नाता, किमुभयत्र विद्यैक्यमुत विद्याभेद इति । तदर्थं विचार्यते - किमुभयत्र रूपफलसंयोगभेदोऽस्ति न वेति । किं ‘प्र ह षोडशं वर्षशतं जीवति’ इति च्छान्दोग्योक्तायुःप्राप्तिरेवोभयत्र फलमुत तैत्तिरीयपुरुषविद्यायां ब्रह्मप्राप्तिः फलमिति । किं तैत्तिरीयपुरुषविद्या ‘ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत’ इति प्रकृतब्रह्मविद्याङ्गमुत नेति । किं ‘तस्यैवं विदुषः’ इति निर्देशो ब्रह्मविद्याङ्गत्वमवगमयति नेति ।
    अत्र पूर्वपक्षमुपन्यस्य प्रतिक्षिपति - आख्याद्यैक्यादिति । संयोगरूपचोदनाख्यानामैक्यात् पुरुषविषययोर्विद्ययोरभेद इति । तमिमं प्रतिक्षिपति - अयुक्तमिति । संयोगरूपचोदनाख्याविशेषात् पुरुषविद्ययोरैक्यमित्ययुक्तम् । अयुक्तत्वमेव दर्शयति - यज्ञाद्याकारकॢप्तेरिति । तैत्तिरीयके यथा यज्ञाद्याकारकॢप्तिः, न तथा छान्दोग्ये । उभयत्रापि वैषम्यस्य दर्शनात् । तेन रूपभेदात् विद्याभेदः ।
    किञ्च तैत्तिरीयके पुरुषविद्यायाः ब्रह्मविद्याशेषत्वात् पूर्वोक्तब्रह्मविद्याफलमेव अत्र फलतया निर्दिश्यते । छान्दोग्ये तु आयुःप्राप्तिः फलत्वेनोच्यते । तेनोभयत्रापि फलभेदोऽस्तीति न संयोगाद्यविशेष इति विद्यैक्यम् ॥
मूलम् - 26
  1. आख्याद्यैक्यादभेदः पुरुषविषययोर्विद्ययोरित्ययुक्तं
    यज्ञाद्याकारकॢप्तेरिह विषमतया रूपभेदप्रसिद्धेः ।
    तादर्थ्यात् तैत्तिरीये परभजनफलं मुक्तिरत्राप्यनूक्ता
    छान्दोग्ये पूर्णमायुः फलमिति तु तयोर्भाति संयोगभेदः ॥
विश्वास-प्रस्तुतिः - 27
  1. स्पष्टे रूपादिभेदे हठसमुपनतो नामसाम्यादिमात्रात्
    पुंविद्यापूर्वपक्षो मृदुरिति विफलाऽधिक्रियैषेति चेन्न ।
    अन्यैव न्यासविद्याप्रकरणपठिता तद्विधानप्रधाने-
    त्यस्वातन्त्र्यादिसिद्ध्यै विभजनमनयोरित्यतीवार्थवत्त्वात् ॥
३४-तमाहोबिल-यतिः - 27
  1. स्पष्ट इत्यादि । रूपादिभेदे स्पष्टे - पूर्वश्लोकदर्शितक्रमेण यज्ञाङ्गकल्पनादिरूपरूपभेदे स्पष्टे सति । नामसाम्यादिमात्रात् हठसमुपनतः - पुरुषविद्येति द्वयोरपि विद्ययोर्नामसाम्यमात्रात् बलात्कारवशेन कल्पितः । पुंविद्यापूर्वपक्षो मृदुरित्येषा अधिक्रिया विफला - द्वयोरपि पुरुषविद्ययोर्भेदादिनिष्कर्षाय कृतोऽभेदपूर्वपक्षो दृढतरहेत्ववलम्बाभावात् मन्दः, अत इदमधिकरणं विफलम् । इति चेन्न - इति शङ्क्यते चेत्तन्न युक्तम् । न्यासविद्या अन्यैव प्रकरणपठिता तद्विधानप्रधाना अन्यैवेत्यस्वातन्त्र्यादिसिद्ध्यै अनयोर्विभजनमित्यतीवार्थवत्त्वात् - अत्र खलु द्वे विद्ये ‘ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत’ इति पूर्वं विहिता न्यासविद्याऽन्या, इयं तु ‘तस्यैवं विदुषः’ इति तद्विद्याप्रकरणपठिता पुरुषविद्या तद्विधानप्रधाना तच्छेषभूता अन्यैवेति तैत्तिरीयकपुरुषविद्याया अस्वातन्त्र्यमङ्गित्वाभावः, अङ्गिद्वारा ब्रह्मप्राप्तिहेतुत्वमादिशब्दार्थः, तत्सिद्ध्यै अनयोर्विद्ययोर्भेदसाधनम्, एवम्प्रकारेणाधिकरणस्यात्यन्तं साफल्यात् । इति चेन्नेति पूर्वेणान्वयः । छान्दोग्यपुरुषविद्या तु आयुःप्राप्त्यर्थत्वेन विधानात् न ब्रह्मविद्याङ्गभूतया अनया पुरुषविद्यया सह तादात्म्यमर्हतीति ॥347॥
कुमार-वरदः - 27
  1. अत्र कश्चित् पुरुषविद्याप्रसङ्ग एव न कर्तव्यः प्रस्फुटपूर्वपक्षहेत्वभावादित्याशङ्कते, तामाशङ्कां प्रतिक्षेप्तुमनुवदति - स्पष्ट इति । द्वयोरपि पुरुषविद्ययोः रूपादिभेदे स्पष्टे सति नामसाम्यादिमात्रात् हठेनैव समुपनतः पुरुषविद्यापूर्वपक्षः अत्यन्तमृदुत्वादवाच्य इति एतदधिकरणं विफलमेवेति । इमामाशङ्कां निराकरोति - नेति । निराकरणे कारणमाह - अन्येति । अत्र खलु द्वे विद्ये ‘ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत’ इति पूर्वं विहिता न्यासविद्या अन्या । इयं तु ‘तस्यैवं विदुषः’ इत्याम्नाता पुरुषविद्या तच्छेषभूता अन्या, तेन न्यासविद्याप्राधान्यकथनार्थं तच्छेषभूता पुरुषविद्या पुनरत्र विशोध्यते । छान्दोग्यस्था पुरुषविद्या पुनरायुःप्राप्त्यर्थत्वेन विधानात् न ब्रह्मविद्याङ्गभूतया त्वनया पुरुषविद्यया तादात्म्यं भजत इति न पुरुषविद्ययोरैक्यप्रसङ्ग इति । वक्तव्यमशेषं न्यासविंशत्यादिषु प्रबन्धान्तरेषु व्यक्तमुक्तमिति नेह प्रतन्यते ॥
मूलम् - 27
  1. स्पष्टे रूपादिभेदे हठसमुपनतो नामसाम्यादिमात्रात्
    पुंविद्यापूर्वपक्षो मृदुरिति विफलाऽधिक्रियैषेति चेन्न ।
    अन्यैव न्यासविद्याप्रकरणपठिता तद्विधानप्रधाने-
    त्यस्वातन्त्र्यादिसिद्ध्यै विभजनमनयोरित्यतीवार्थवत्त्वात् ॥
विश्वास-प्रस्तुतिः - 28
  1. यद्येवं यज्ञदृष्टिः परविदि पुरुषे चोद्यते सानुबन्धे
    यज्ञस्यानङ्गभूतं कथमिह विविधं कल्प्यते तत्रतत्र ।
    तस्मात् प्रक्रान्तविद्यास्तुतिरियमुचितेत्याहुरेकेऽन्यथाऽन्ये
    तिष्ठत्वेतद् द्विधापि प्रकृतसुघटिता सम्प्रदायस्तु चिन्त्यः ॥
३४-तमाहोबिल-यतिः - 28
  1. यद्येवमित्यादि । सानुबन्धे परविदि पुरुषे एवं यज्ञदृष्टिश्चोद्यते यदि - श्रद्वाशरीरोरःप्रभृत्यात्मशरीरतदनुबन्धिवर्गयुक्ते न्यासविद्यानिष्ठे पुरुषे तदनुवाकोक्तरीत्या यज्ञदृष्टिः कर्तव्यतया विधीयत इति यद्यङ्गीक्रियते । इह तत्रतत्र यज्ञस्यानङ्गभूतं विविधं कथं कल्प्यते - तथा सत्यस्मिन्ननुवाके ‘ये अर्धमासाश्च मासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽहर्गणाः’ इत्यादौ तत्तद्वाक्ये यज्ञस्यानङ्गभूतं चातुर्मास्यपशुबन्धाहीनयागादिरूपं नानाविधं वस्तु कथं कल्प्यते । तस्मात् - यज्ञानङ्गानामपि कल्पनात् । इयं प्रक्रान्तविद्यास्तुतिरुचितेत्येके आहुः - इयं विद्यावत् भासमाना श्रुतिः पूर्वानुवाकान्ते उपक्रान्तायाः न्यासविद्यायास्तन्निष्ठपुरुषसाध्याङ्गनैरपेक्ष्यसूचनद्वारा अङ्गसापेक्षविद्यान्तरापेक्षयोत्कर्षप्रकटनरूपा स्तुतिरित्येवोचितेति केचिन्मेधाविनः प्राहुः । अन्येऽन्यथा - अन्ये केचित् श्रुतेरपर्यनुयोज्यस्वभावत्वात् तथाविधं यज्ञान्तरमस्तीत्येव प्रत्याय्यम्*, तथा चेयं न्यासविद्याङ्गविद्यैवेत्यूचुः । ‘युक्तियुक्तत्वात् प्राक्तन एव पक्षः परिग्राह्यः’ इति चिन्तामणिः । एतत् तिष्ठतु द्विधापि प्रकृतसुघटता - उक्तपक्षद्वयबलाबलचिन्तनादिकमत्र मा भूत् निक्षेपरक्षादिष्वस्तु । प्रकृते पक्षद्वयेऽपि भाष्यकारपरिकल्पिताधिकरणप्रकारस्य सुघटतैव विद्यते । प्रथमपक्षे न्यासविद्यास्तुतिरूपत्वेन विद्यात्वाभावात् द्वयोरैक्यासिद्धिः, पक्षान्तरे तु रूपादिभेदादैक्यासिद्धिरिति । तर्हि कः परमार्थ इति चेत् यथासम्प्रदायमस्तु असाम्प्रदायिकः पक्षो न ग्राह्य इति तात्पर्येणाह - सम्प्रदायस्तु चिन्त्य इति ॥
कुमार-वरदः - 28
  1. अत्र पुरुषविद्याविषयपक्षद्वयं तत्तदेकदेशिप्रोक्तमनूद्य उभयथापि भाष्यकारपरिकल्पिताधिकरणचिन्ता सङ्घटत इति सन्दर्शयति - यद्येवमिति । अयमत्र केषा़ञ्चित् पक्षः - इह यज्ञदृष्टिर्न कल्प्यते, अपितु पूर्वोक्तन्यासविद्यानिष्ठस्य माहात्म्यप्रदर्शनार्थं सकलमपि कर्मजातं तस्य शरीर एव वर्तत इति यज्ञकॢप्त्या प्रशंसामात्रमुच्यते, यज्ञानङ्गभूतचातुर्मास्यादेर्मध्ये परिकल्पनात् । अपरे पुनरेवं मन्यन्ते - अपर्यनुयोज्यस्वभावा खलु श्रुतिः । अतस्तत्प्रामाण्यवशात् तादृग्विधं यज्ञान्तरमस्तीति तत्कल्पनरूपा पुरुषविद्यापि काचित् विद्यत इति पुरुषविद्ययोर्भेदोऽपि प्रतिपाद्यत इत्यैक्यासिद्धिः । तेन क्वचित्पक्षे पुरुषविद्ययोरभावादैक्यासिद्धिः, पक्षान्तरे तु तयो रूपादिभेदादैक्यासिद्धिरित्यैक्यनिराकरणार्थमिदमधिकरणं सङ्गच्छते । तदिदं सर्वमभिप्रेत्याह - तिष्ठत्विति । द्वयोरपि पक्षयोर्भाष्यकारकल्पिताधिकरणप्रकारस्य सुघटतैव वर्तते । तर्हि कोऽयं परमार्थ इत्याशङ्क्य यथासम्प्रदायमभिधीयताम्, असाम्प्रदायिकपक्षो न संग्राह्य इति सामान्यतः प्राह - सम्प्रदाय इति । युक्तियुक्तत्वात् प्राक्तन एव परिग्राह्य इत्यर्थः ॥
मूलम् - 28
  1. यद्येवं यज्ञदृष्टिः परविदि पुरुषे चोद्यते सानुबन्धे
    यज्ञस्यानङ्गभूतं कथमिह विविधं कल्प्यते तत्रतत्र ।
    तस्मात् प्रक्रान्तविद्यास्तुतिरियमुचितेत्याहुरेकेऽन्यथाऽन्ये
    तिष्ठत्वेतद् द्विधापि प्रकृतसुघटिता सम्प्रदायस्तु चिन्त्यः ॥