विश्वास-प्रस्तुतिः - 25
- सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावतस्सर्वविद्या-
स्वन्वीयेतेति चेन्न क्वचिदगतिकतो लिङ्गतस्स्थापितत्वात् ।
अल्पस्थानासु विद्यास्वघटितवपुषस्स्वोचितस्थानवृत्तेः
द्युव्याप्तेरेकमन्त्रे सहपठनवशात् तत्समस्थानिनोऽन्ये ॥
३४-तमाहोबिल-यतिः - 25
- सम्भृत्यादिरित्यादि । सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावतस्सर्वविद्यास्वन्वीयेत - तैत्तिरीयके राणायनीयानां खिलेषु च ‘ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान । ऋतस्य ब्रह्म प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥’ इत्यादिवाक्येषु पठितो ज्येष्ठवीर्यसम्भृत्यादिको गुणवर्ग एकविद्याप्रकरणपाठरूपव्यवस्थापकाभावात् सर्वास्वपि विद्यास्वनुसन्धेयस्स्यात् । इति चेन्न - इत्युच्यते चेन्नैतत्साधु । अगतिकतो लिङ्गतः क्वचित् स्थापितत्वात् - लिङ्गस्यागतिकत्वमनन्यथासिद्धत्वम्, तदेव हि प्राबल्यहेतुः तादृशाल्लिङ्गात् क्वचिद्विद्याविशेषे स्थापितत्वात् न सर्वविद्यान्वयित्वमित्यर्थः । एतद्विवरणमेवोपरि, अल्पस्थानासु विद्यास्वघटितवपुषस्स्वोचितस्थानवृत्तेर्द्युव्याप्तेः एकमन्त्रे सहपठनवशात् - हृदयाद्यल्पस्थानकासु विद्यासु असंयोज्यस्वरूपत्वात् स्वोचितविपुलस्थानकविद्यान्विताया द्युव्याप्तेर्दिवमाततानेत्युक्तस्वर्गलोकादिसकलजगद्व्याप्तिरूपगुणस्य एकमन्त्रे सहपाठरूपहेतोः । अन्ये - ज्येष्ठवीर्यसम्भृत्यादयोऽपि गुणाः । तत्समस्थानिनः - तया सहैकस्थानिनस्स्युः । सा यस्मिन्स्थानेऽनुसन्धीयते तत्रैवान्येऽपि गुणा इत्यर्थः ॥345॥
कुमार-वरदः - 25
- पूर्वाधिकरणे नाम्नोस्स्थानभेदात् व्यवस्था कृता, इह पुनरनारभ्याधीतस्य सम्भृत्यादिकस्यापि तेनैव स्थानभेदेन व्यवस्थोच्यत इति सङ्गतिः । तदर्थविचारस्तु - राणायनीयानां खिलेषु ‘ब्रह्म ज्येष्ठा वीर्या सम्भृतानि’ इत्यादिवाक्यानि श्रूयन्ते ।तत्र सम्भृतिद्युव्याप्त्यादिकं कथ्यते । तत्किं सर्वविद्यासूपसंहार्यमुत कासुचिदेवेति । तदर्थं विचार्यते - किमनारभ्याधीतानां सर्वासु विनियोगः, उत कासुचिदेवेति । किं सामर्थ्यं सर्वासु विद्यासु विनियुङ्क्ते, उत कासुचिदेव विनियुङ्क्त इति । अत्र पूर्वपक्षमाह - सम्भृत्यादिरिति । ‘ब्रह्म ज्येष्ठा’ इत्यादिवाक्योक्तः सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावात् सर्वास्वपि विद्यास्वन्वीयेतेति । सिद्धान्तमाह - नेति । तत्र हेतुमाह - क्वचिदिति । अयमर्थः - न सर्वत्रान्वेति, अपितु क्वचिदेव, अगतिकात् लिङ्गात् क्वचिदेवेति स्थापितत्वात् । लिङ्गस्यागतिकत्वमनन्यथासिद्धत्वम् । तदेव हि प्राबल्यहेतुः । अन्यथासिद्धानां हेतूनां दुर्बलत्वात् । अनन्यथासिद्धत्वमेव विशदं प्रकाशयति - अल्पेति । अयमर्थः - ‘ब्रह्म ज्येष्ठा’ मन्त्रे ‘ब्रह्माग्रे ज्येष्ठं दिवमाततान’ इति ब्रह्मणो विश्वव्यापित्वमुक्तम् । तच्च विश्वव्यापित्वमल्पस्थानासु विद्यासु न घटते, अपितु व्याप्त्या ब्रह्मोपासनेष्वेव घटते । तेनैतन्मन्त्रस्थविश्वव्याप्त्यादेः स्वोचितस्थानवृत्तेरवश्यम्भावादेकस्मिन् मन्त्रे द्युव्याप्त्या सह पठिता इतरे सम्भृत्यादिधर्मास्तत्समस्थानिनः द्युव्याप्तिर्यत्र वर्तते तत्रैव सह वर्तन्त इति तत्समस्थानिन इति ॥
मूलम् - 25
- सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावतस्सर्वविद्या-
स्वन्वीयेतेति चेन्न क्वचिदगतिकतो लिङ्गतस्स्थापितत्वात् ।
अल्पस्थानासु विद्यास्वघटितवपुषस्स्वोचितस्थानवृत्तेः
द्युव्याप्तेरेकमन्त्रे सहपठनवशात् तत्समस्थानिनोऽन्ये ॥