22 सम्बन्धाधिकरणम्

विश्वास-प्रस्तुतिः - 24

24 अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदात्
एकं स्यात् तेन नाम्नोरनियतिरिति न स्थानतो रूपभेदात् ।
स्थानं तत्स्थत्वबुद्ध्यै ह्युपदिशति न चेत् स्यान्न रूपातिदेशः
तस्मादर्काक्षियोगादहरहमिति तन्नामनी स्थापनीये ॥

३४-तमाहोबिल-यतिः - 24
  1. अक्ष्यादित्येत्यादि । अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदात् एकं स्यात् - बृहदारण्यके ‘तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्’ इत्युपक्रम्य ‘तस्योपनिषदहरित्यधिदैवतम्’ ‘तस्योपनिषदहमित्यध्यात्मम्’ इत्यादिवाक्यस्थले अक्षण्यादित्ये चोपास्ये भगवति परमपुरुषे विहितमुपासनं चोदनादेरविशेषादेकविद्यात्मकं स्यात् । तेन नाम्नोरनियतिरिति - एवमेकविद्यात्वेन तत्राम्नातयोरहरहमितिनाम्नोर्द्वयोरपि स्थानद्वयेऽष्यनुसन्धानं न त्वेकत्रैवेति व्यवस्थेति । न - न साध्वेतत् । स्थानतो रूपभेदात् - एकत्राक्षिरूपस्य अपरत्रादित्यरूपस्य च स्थानस्य भेदेन रूपभेदस्य विद्यमानत्वात् । तत्स्थत्वबुद्ध्यै हि स्थानमुपदिशति - भगवतस्तत्तस्थानावस्थितत्वेन उपासनार्थं हि अक्षिरूपमादित्यरूपञ्चेति स्थानमुपदिशति । न चेत् - स्थानस्योपास्त्यर्थत्वाभावे केवलं निरर्थकोपदेशश्चेत् । रूपातिदेशो न स्यात् तर्हि तत्स्वरूपमपि तादृशमेव निरर्थकमेव स्यात् । योजनान्तरं भाति; न चेत् - एवमुपासनाभेदो नाङ्गीक्रियत इति चेत् । रूपातिदेशो न स्यात् - ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपम्’ इत्यादिना रूपातिदेशो न स्यात् । स्वतो ह्यप्राप्तावतिदेशेन प्राप्त्यपेक्षा, अतोऽनेनैव रूपातिदेशेनानयोर्विद्ययोर्गुणोपसंहारो नास्तीति स्पष्टमवगम्यते । एतदधिकरणे ‘दर्शयति च’ इति गुणसूत्रभाषित एवायमर्थः । तस्मादर्काक्षियोगादहरहमिति तन्नामनी स्थापनीये - आदित्याक्षिरूपस्थानभेदयोगात् आदित्यमण्डलान्तर्वर्तिभगवदुपासने अहरितिनाम अक्ष्यन्तर्वर्तिभगवदुपासने अहमितिनाम, एवं तन्नामनी व्यवस्थया अनुसन्धेये इति ॥
कुमार-वरदः - 24
  1. पूर्वं शाण्डिल्यविद्यायां रूपभेदाभावात् विद्यैक्यमुक्तम्, तर्हि बृहदारण्यकोक्तादित्यमण्डलाक्ष्यन्तर्वर्तिपुरुषविषयविद्यायामपि रूपभेदाभावात् विद्यैक्यमित्याशङ्क्य स्थानभेदाद्रूपभेदोऽस्तीत्यभिधीयत इतीह सङ्गतिः । तदर्थविचारस्तु - आदित्याक्ष्यन्तर्वर्तिनोराम्नाते किमेते नामनी यथाश्रुतमेकैकव्यवस्थिते, उतोभयत्राप्यव्यवस्थयोपसंहार्ये इति । किमत्र विद्यैक्यमुत नेति । किं व्याहृतिशरीरस्योपास्यत्वमुभयत्र विद्यैक्यं गमयति नेति । किमुपास्यगुणैक्यमात्रमभेदहेतुः, उत स्थानैक्यमपीति । स्थानं किमुपास्यान्तर्गतमुत नेति । अत्राक्ष्यादित्यान्तर्वर्तिनोः पुरुषयोरुपासने रूपैक्याद्विद्यैक्यमाशङ्क्य उभयत्रापि स्थानभेदेन रूपभेदात् विद्याभेद इति दर्शयति - अक्षीति । शब्दार्थस्तु - अक्ष्यादित्योपलक्ष्ये भगवति भजनं संयोगरूपचोदनाद्यैक्यादेकमेव स्यात् । तेन द्वयोरपि नाम्नोरुभयस्थानस्थे परस्मिन् ब्रह्मणि अनियतिरेव स्यादिति । तमिमं पक्षं प्रतिक्षिपति - नेति । तत्र हेतुमाह - स्थानत इति । स्थानभेदेन रूपभेदस्य विद्यमानत्वात् । तमेव रूपभेदमुपपादयति - स्थानमिति । स्थानं हि भगवतस्तत्स्थानावस्थितत्वप्रतिपत्त्यै ह्युपदिश्यते । अत्र प्रतिबन्दीमाह - न चेदिति । यदि स्थानं नैरर्थक्येनोपदिश्यते तर्हि तत् रूपमपि तादृग्विधमेव स्यादित्यर्थः । उक्तमर्थं सहेतुक्तं निगमयति - तस्मादिति । अनयोर्नाम्नोर्व्यवस्थयैवोपसंहार इत्यर्थः ॥
मूलम् - 24

24 अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदात्
एकं स्यात् तेन नाम्नोरनियतिरिति न स्थानतो रूपभेदात् ।
स्थानं तत्स्थत्वबुद्ध्यै ह्युपदिशति न चेत् स्यान्न रूपातिदेशः
तस्मादर्काक्षियोगादहरहमिति तन्नामनी स्थापनीये ॥