21 समानाधिकरणम्

विश्वास-प्रस्तुतिः - 21
  1. शाखैक्येऽध्येतृभेदो न भवति न गुणः कश्चिदन्यो विधेयः
    तस्मादुक्ताविशेषश्रवणमिह पुनः किं न विद्यां विभिन्द्यात् ।
    मैवं यद्यप्यनूक्तिर्नतु गुणविधये कल्पतेऽस्यास्तथापि
    व्यक्त्यै सौकर्यतश्च व्यसनसमसनन्यायतस्त्वैक्यसिद्धेः ॥
३४-तमाहोबिल-यतिः - 21
  1. शाखैक्य इत्यादि । शाखैक्येऽध्येतृभेदो न भवति - वाजसनेयकेऽग्निरहस्ये बृहदारण्यके च शाण्डिल्यविद्या आम्नाता, तत्र ‘समिधो यजति’ इत्यादाविव अविशेषपुनश्श्रवणात् विद्याभेदस्स्यात्, नचाध्येतृभेदादविशेषपुनश्श्रवणमिति न तेन भेदस्स्यादिति वाच्यं, शाखैक्ये सिद्धे सत्यध्येतृभदोऽस्तीति न वक्तुं शक्यते । कश्चिदन्यो गुणो न विधेयः - तेन गुणविधानार्थं पुनरभिधानमिति च न वक्तुं युज्यत इति भावः । तस्मात् - भेदकस्याविशेषपुनश्श्रवणस्यान्यपर्यासम्भवात् । इह - प्रकरणे । पुनः उक्ताविशेषश्रवणं विद्यां किं न विभिन्द्यात् - एकत्रोक्तेऽपि पुनश्चोक्तादविशेणश्रवणं विद्याभेदकं कुतो न स्यात् । मैवम् - एवं मा शङ्किष्ठाः । यद्यप्यस्या अनूक्तिस्तु गुणविधये न कल्पते - अत्र गुणविधिर्नास्तीति भवतोक्तं तत्तथैव, विधेयस्य गुणान्तरस्यादर्शनात्, अतोऽस्या विद्याया अनुवादो न गुणविध्यर्थः कल्पते । तथापि व्यसनसमसनन्यायतस्तु व्यक्त्यै सौकर्यतश्च - अनूक्तिः कल्पत इत्यनुषङ्गः । तथापि समसनेन सङ्ग्रहेणोक्तस्यार्थस्य व्यसनेन विस्तरेण कथनन्यायेन विद्याया अनूक्तिर्विविच्याभिधानेनोक्तार्थाभिव्यक्त्यै शिष्याणां सौकर्याय कल्पत एव । अतः ऐक्यसिद्धेः - तस्मात् द्वयोर्विद्ययोरैक्यसिद्धेः । मैवमिति सम्बन्धः ॥
कुमार-वरदः - 21
  1. अत्र पूर्वाधिकरणं प्राणविद्याशेषत्वेन प्रसङ्गसङ्गत्योक्तम्, तत्पूर्वाधिकरणे पुनस्स्वरूपनिरूपकधर्माणां स्वरूपप्रतीत्यन्तर्भावेनोपसंहार्यत्वमुक्तम् । अधुना पुनस्सत्यसङ्कल्पत्वान्तर्भूतानां वशित्वादिगुणानामुपसंहार उच्यत इति सङ्गतिः । तदर्थविचारस्तु - वाजसनेयकेऽग्निरहस्ये बृहदारण्यके च शाण्डिल्यविद्या आम्नाता, किमत्र विद्या भिद्यते नेति । किमुभयत्र रूपभेदोऽस्ति नेति । किमग्निरहस्ये वशित्वादिप्राप्तिरस्ति नेति । किं मनोमयत्वसत्यसङ्कल्पत्वाम्नानमेव गुणिप्रत्यभिज्ञाया वशित्वादिप्राप्तिं गमयति नेति ।
    अत्र पूर्वपक्षी मन्यते - ‘समिधो यजति’ इत्यादिवत् अविशेषपुनश्श्रवणात् विद्याभेदोऽवर्जनीयः । नचाध्येतृभेदादविशेषपुनश्श्रवणमिति न तेन भेद इति वाच्यम्; शाखैक्ये सति अध्येतृभेदासम्भवात् । एकस्यां शाखायामध्येतृभेदो न सम्भवतीति साधारणोऽयं न्यायः । अतोऽत्र विद्याभेदस्स्यादिति । नचात्र गुणविधिः कश्चित् दृश्यते येन विद्यैक्यमाश्रीयेत । यदि गुणाभिधानमत्र स्यात्, तदा खलु पूर्वस्यामेव विद्यायां गुणविधानार्थं पुनश्श्रवणमिति वक्तुं शक्येत । तस्मात् विद्याभेदः स्वीकर्तव्य इति । तदिदमाह - शाखैक्य इति । अयमत्र शब्दार्थः - शाखैक्ये सिद्धे सति अध्येतृभेदोऽस्तीति वक्तुं न शक्यते । अत्र कश्चिदपि गुणो न विधेयः, तेन गुणविधानार्थं पुनरभिधानमिति न वाच्यम् । तस्मादुक्ताविशेषश्रवणमिह विद्यां कथं न भिन्द्यादिति । उक्तं पक्षं प्रतिक्षिपति - मैवमिति ।
    प्रतिक्षेपप्रकारमाह - यद्यपीति । अत्र गुणविधिर्नास्तीति भवतोक्तं तत्तथैव, विधेयस्य गुणान्तरस्यात्रादर्शनात् । तथापि पूर्वोक्तस्यैवात्रानूक्तिर्व्यक्त्यै विविच्याभिधानेनोक्तार्थाभिव्यक्त्यै, सौकर्यतश्च - शिष्याणां सौकर्यार्थञ्च । तत्र दृष्टान्तमाह - व्यसनेति । लोके हि समासेनोक्तमर्थं विग्रहवाक्येन व्यासेनापि वदन्ति, तद्वदत्रापि सत्यसङ्कल्पत्वशब्देनोक्तमेव तदन्तर्गतं वशित्वादिकं वशित्वादिशब्देनापि विव्रियते, तेन विवरणार्थमेव पुनरनुवाद इति न कश्चिद्दोष इति ॥
मूलम् - 21
  1. शाखैक्येऽध्येतृभेदो न भवति न गुणः कश्चिदन्यो विधेयः
    तस्मादुक्ताविशेषश्रवणमिह पुनः किं न विद्यां विभिन्द्यात् ।
    मैवं यद्यप्यनूक्तिर्नतु गुणविधये कल्पतेऽस्यास्तथापि
    व्यक्त्यै सौकर्यतश्च व्यसनसमसनन्यायतस्त्वैक्यसिद्धेः ॥
विश्वास-प्रस्तुतिः - 22
  1. छन्दोगैर्वाजिभिश्च स्फुटमनुपठिता भाति शाण्डिल्यविद्या
    भेदाभेदावमर्शस्त्विह किमिति न सन्दर्शितो भाष्यकारैः ।
    तद्ब्रूमो यत्रयत्राधिकपरिपठनं तत्रतत्राधिकानां
    अन्तर्भावादियुक्तावधिकमनधिकं वेति साधारणोक्तेः ॥
३४-तमाहोबिल-यतिः - 22
  1. छन्दोगैरित्यादि । छन्दोगैः, वाजिभिश्च - वाजसनेयिभिश्च । शाण्डिल्यविद्या स्फुटमनुपठिता भाति । इह - विषये । भाष्यकारैः, भेदाभेदावमर्शस्तु - विद्याभेदाभेदविचारः । किमिति न सन्दर्शितः । तत् - तत्र भेदाभेदविचाराकरणनिमित्तम् । ब्रूमः । यत्रयत्राधिकपरिपठनं तत्रतत्राधिकानामन्तर्भावादियुक्तौ - वाजसनेयके वा छान्दोग्ये वा यत्रयत्र वशित्वाद्यधिकपरिपठनं दृश्यते तत्रतत्राधिकानां गुणानां सत्यसङ्कल्पत्वादिगुणान्तर्भावादियुक्तौ सत्याम् । अधिकमनधिकं वेति साधारणोक्तेः - अधिकं वा अनधिकं वेति साधारणोक्तेर्युक्तत्वादित्यर्थः । एकत्र निर्णीतन्यायसिद्धार्थस्य पुनरभिधानापेक्षाभावादित्यर्थः ॥
कुमार-वरदः - 22
  1. अत्र कश्चिच्चोदयति - ननु वाजसनेयकवाक्ये स्थलद्वयपठिता शाण्डिल्यविद्या भाष्यकारैरुपात्ता, न पुनश्छान्दोग्यवाजसनेयकयोः पठिता शाण्डिल्यविद्या भिन्ना अभिन्ना वेति विचारिता, तत् किमर्थमित्याशङ्क्य एकत्र निर्णीतस्य न्यायस्येतरत्रापि स्वयमेव योज्यत्वात् स्वयमेव शिष्या विदाङ्कुर्वन्त्विति भाष्यकाराभिप्राय इति परिहरति - छन्दोगैरिति । अयमत्र शब्दार्थः - छन्दोगैस्तथा वाजिभिश्च स्फुटमेवानुपठिता शाण्डिल्यविद्या भाति इहोदाहरणे भेदाभेदावमर्शो भाष्यकारैः किमिति न सन्दर्शित इति । इमामाशङ्कां परिहरति - तद्ब्रूम इति । तदेव विवृणोति - यत्रयत्रेति । वाजसनेयके वा छान्दोग्ये वा यत्रयत्र वशित्वाद्यधिकपठनं दृश्यते तत्रतत्राधिकानां गुणानां सत्यसङ्कल्पत्वादिगुणान्तर्भावादियुक्तौ सत्यामधिकमनधिकं वेति साधारणोक्तेर्युक्तत्वादित्यर्थः । एकत्र निर्णीतन्यायसिद्धार्थस्य पुनरभिधानापेक्षाभावादित्यर्थः ॥
मूलम् - 22
  1. छन्दोगैर्वाजिभिश्च स्फुटमनुपठिता भाति शाण्डिल्यविद्या
    भेदाभेदावमर्शस्त्विह किमिति न सन्दर्शितो भाष्यकारैः ।
    तद्ब्रूमो यत्रयत्राधिकपरिपठनं तत्रतत्राधिकानां
    अन्तर्भावादियुक्तावधिकमनधिकं वेति साधारणोक्तेः ॥
विश्वास-प्रस्तुतिः - 23
  1. स्थानद्वन्द्वे वशित्वप्रभृतिविरहिता वाजिभिस्तद्युता चा-
    धीता शाण्डिल्यविद्या तदिह भिदुरता कल्पनीयेति चेन्न ।
    आरण्योक्तं वशित्वाद्यपि खलु विततिस्सत्यसङ्कल्पतायाः
    साऽधीताग्ने रहस्येऽप्यधिकविरहतो नात्र विद्यैक्यबाधः ॥
३४-तमाहोबिल-यतिः - 23
  1. स्थानद्वन्द्व इत्यादि । वाजिभिः स्थानद्वन्द्वे वशित्वप्रभृतिविरहिता तद्युता च शाण्डिल्यविद्या अधीता - वाजसनेयिभिरग्निरहस्यबृहदारण्यकरूपस्थानद्वये क्रमेण वशित्वादिगुणविरहिता वशित्वादिगुणयुक्ता च शाण्डिल्यविद्या आम्नाता । तत् - तस्मात् एकत्र वशित्वादिगुणविरहिततया अपरत्र तद्गुणयुक्ततया चाम्नानेन गुणाधिक्येन रूपभेदात् । इह - विद्याद्वये । भिदुरता कल्पनीया - परस्परभिन्नविद्यात्वं कल्पनीयम् । इति चेन्न - एवमुच्यते चेन्नैतद्युक्तम् । आरण्योक्तं वशित्वाद्यपि सत्यसङ्कल्पताया विततिः खलु - बृहदारण्यकोक्तं वशित्वादिगुणजातं सत्यसङ्कल्पत्वरूपगुणविवरणमिति भवतापि सम्मन्तव्यमेव किल । किं तत इति चेत्, सा अग्नेः रहस्ये अधीता - वशित्वादिकं बृहदारण्यकोक्तं गुणजातं यद्विवरणरूपं सा सत्यसङ्कल्पता अग्निरहस्ये समाम्नाता । अधिकविरहतोऽपि - अतः उक्तरीत्या रूपाधिक्याभावात् विवरणविवरणिरूपत्वादिहेत्वन्ताराच्च । अत्र विद्यैक्यबाधो न - आरण्यकाग्निरहस्ययोर्विद्यैक्यबाधकं नास्ति प्रत्युत साधकमेवास्तीति भावः ॥
कुमार-वरदः - 23
  1. पुनरुक्तस्यार्थस्यात्यन्तवैशद्यार्थं वाजसनेयकोक्तस्थानद्वन्द्वशाण्डिल्यविद्यायाः प्रकारभेदं दर्शयन् अत्र विद्यैक्यसिद्ध्यर्थं रूपभेदाभावमप्याह - स्थानद्वन्द्व इति । वाजसनेयके ह्यग्निरहस्ये वशित्वादिविरहिता सत्यसङ्कल्पत्वाद्युक्तिमती शाण्डिल्यविद्या समाम्नाता । बृहदारण्यके वशित्वाद्यविरहिता सैवाम्नाता । तेनात्र वेद्यभेदेन रूपभेदात् शाण्डिल्यविद्याया भिदुरता कल्पनीयेति चेत् । तदिदं प्रतिक्षिपति - नेति । तदेव विवृणोति - आरण्येति । बृहदारण्यकोक्तं वशित्वादिकमग्निरहस्योक्तसत्यसङ्कल्पताया भिन्नं चेत् तदा रूपभेदात् विद्याभेद इति वक्तुं शक्यते, नचैतद्भिन्नं सत्यसङ्कल्पत्वविवरणरूपत्वात् वशित्वादेः, तेन रूपभेदाभावात् न विद्याभेदः । तदेवोपपादयति - सेति । सा सत्यसङ्कल्पता अग्नेः रहस्ये अधीता । सत्यसङ्कल्पताया विवरणरूपत्वात् वशित्वादिकमपि तत्रैवाधीतमेव भवति । तेन रूपभेदाभावात् न विद्याभेद इत्याह - अधिकविरहत इति ॥
मूलम् - 23
  1. स्थानद्वन्द्वे वशित्वप्रभृतिविरहिता वाजिभिस्तद्युता चा-
    धीता शाण्डिल्यविद्या तदिह भिदुरता कल्पनीयेति चेन्न ।
    आरण्योक्तं वशित्वाद्यपि खलु विततिस्सत्यसङ्कल्पतायाः
    साऽधीताग्ने रहस्येऽप्यधिकविरहतो नात्र विद्यैक्यबाधः ॥