20 कार्याख्यानाधिकरणम्

विश्वास-प्रस्तुतिः - 19
  1. आचामेदित्यपूर्वाचमनमिह विधेः प्राणविद्यावतस्स्यात्
    मैवं स्मृत्यादिसिद्धेः परमनुविहिता प्राणवासस्त्वदृष्टिः ।
    भुञ्जीतेत्यादिनीत्या विधिरपि घटते प्राप्तधात्वर्थनिष्ठः
    प्रागुक्ता प्राणविद्या तदिदमवसरे चिन्तितं त्वङ्गमस्याः ॥
३४-तमाहोबिल-यतिः - 19
  1. आचामेदित्यादि । इह प्राणविद्यावत आचामेदिति विधेरपूर्वाचमनं स्यात् - प्राणविद्याप्रकरणे तद्धिद्यानिष्ठस्य अशिष्यन्नाचामेत् इति विधेस्स्मृत्याचारादिप्राप्ताचमनादन्यदेवापूर्वमाचमनं भवेत् । स्मृत्याचारप्राप्तस्याचमनस्यैवात्र विधाने विधेरप्राप्तार्थत्वं न स्यादिति भावः । मैवम् - एवं मा शङ्किष्ठाः । स्मृत्यादिसिद्धेः - भोजनाङ्गस्याचमनस्य स्मृत्यादिसिद्धत्वात् तस्य विधानायोगात् आचमनान्तरस्य विधाने गौरवात् । प्राणवासस्त्वदृष्टिः परमनुविहिता - आचमनीयास्वप्सु प्राण्वासस्त्वासन्धानमपूर्वमेव विधीयते । भुञ्जीतेत्यादिनीत्या प्राप्तधात्वर्थनिष्ठोऽपि विधिर्घटते - स्नात्वा भुञ्जीतेत्यादाविव प्राप्तधात्वर्थनिष्ठतया प्रतीयमानोऽपि विधिरप्राप्तस्नानादिपरतानयनेनेवोक्तप्राणवासस्त्वानुसन्धानपरतानयनेन युज्यते । प्राणविद्या प्रागुक्ता - प्राणविद्या ‘सर्वाभेदादन्यत्रेमे’ (ब्र.सू. 3-3-10) इत्यधिकरणे भेदाभेदादिनिर्णयाय प्रतिपादितैव । अस्यास्तदिदमङ्गं त्ववसरे चिन्तितम् - अस्याः प्राणविद्यायाः उक्तरीत्या प्रतिपादितमाचमनीयास्वष्सु प्राणवासस्त्वानुसन्धानरूपमङ्गमस्मिन्नवसरे विचारितम् । तेनाधिकरणभेदोपपत्तिरिति भावः ॥
कुमार-वरदः - 19
  1. पूर्वप्रस्तुतावशिष्टतया सङ्गतिर्भाष्ये । तदर्थविचारस्तु - छान्दोग्यवाजसनेयकवाक्ययोः प्राणवासोदृष्टिपरत्वमाचमनीयास्वप्सु प्रतीयते नेति । अत्र पूर्वपक्षमाह - आचामेदिति । भाष्ये वाक्यार्थस्य विस्तृतत्वात् शब्दान्वयमात्रप्रदर्शनमत्र क्रियते । अत्राचामेदिति विधिश्रवणात् विधेश्च ‘अप्राप्ते शास्त्रमर्थवत्’ इति न्यायेनापूर्वार्थे तात्पर्यात् स्मृत्याचारप्राप्ताचमनव्यतिरिक्तमाचमनान्तरं विधीयत इति । तमिमं पक्षं प्रतिक्षिपति - मैवमिति । प्रतिक्षेपप्रकारमाह - स्मृत्यादीति । भोजनाङ्गस्याचमनस्य स्मृत्यादिसिद्धत्वात् प्राणवासस्त्वानुसन्धानमपूर्वमेवात्र विधीयते । तेनापूर्वार्थविशेषविधानादस्मिन्पक्षे न विधिभङ्गः । तर्ह्यपूर्वाचमनविधानाभावे पूर्वस्य तस्याचमनस्य सिद्धत्वात् आचामेदिति कथं विधिश्रवणमित्याशङ्क्याह - भुज्जीतेति । यथा ‘स्नात्वा भुज्जीत’ इत्यत्र प्राप्ते भोजने विधिश्श्रूयते, अथापि विधिरप्राप्तस्नानविधानपर एव, एवमत्राप्याचामेदिति पूर्वप्राप्ताचमने विधिश्श्रूयतां नाम, अथाप्यप्राप्तप्राणवासस्त्वानुसन्धान एव विधिर्भवेत् । अतो न शब्दान्वयविरोधः । अन्यत्र स्थितस्य विधिश्रवणस्य उपक्रमोपसंहारादितात्पर्यलिङ्गपरामर्शेनान्यत्रान्वयेन निर्वाहस्तान्त्रिकाणां सम्मत एवेति तथैवात्र स्यात् । प्राप्तधात्वर्थनिष्ठ इति पूर्वप्राप्ताचमनमुच्यते । श्रवणं तत्रास्तु तथापि तात्पर्यमन्यत्रेत्यर्थः । अत्राप्युपक्रमोपसंहारादिपरामर्शेन वाक्यस्य प्राणवासस्त्वानुसन्धानविधानपरत्वं भाष्य एव विवृतमिति विस्तरभयादुपरम्यते । ननु प्राणविद्या पूर्वमप्युक्ता किमर्थमिदानीमप्युच्यत इति बालिशचोद्ये परिहारमाह - प्रागिति । पूर्वं प्राणविद्यायां भेदाभेदादिचिन्ता कृता, इदानीं प्राणविद्यायामाचमनीयानामपां प्राणवासस्त्वानुसन्धानरूपमङ्गं चिन्त्यत इत्यधिकरणभेदोपपत्तिः ॥
मूलम् - 19
  1. आचामेदित्यपूर्वाचमनमिह विधेः प्राणविद्यावतस्स्यात्
    मैवं स्मृत्यादिसिद्धेः परमनुविहिता प्राणवासस्त्वदृष्टिः ।
    भुञ्जीतेत्यादिनीत्या विधिरपि घटते प्राप्तधात्वर्थनिष्ठः
    प्रागुक्ता प्राणविद्या तदिदमवसरे चिन्तितं त्वङ्गमस्याः ॥
विश्वास-प्रस्तुतिः - 20
  1. आदावन्ते च वासःपरिधिरभिहितो मन्यतिश्चात्र दृष्ट्यै
    सा चाराध्यप्रियार्था स्तुतिरिह न भवेद्गत्यलाभाभिनन्द्या ।
    युक्तश्चापूर्वभावात् परिदधतिगिरा तद्विधानाभिसन्धिः
    प्राणश्चाराधनीयः परिहितवसनो युज्यते सद्भिरद्भिः ॥
३४-तमाहोबिल-यतिः - 20
  1. आदावन्ते चेत्यादि । अत्रादावन्ते चाभिहितो वासःपरिधिर्मन्यतिश्च दृष्ट्यै - प्राणविद्याङ्गप्रकरणे ‘किं मे वासो भविष्यतीत्याप इति होचुः’ इत्युपक्रमे ‘तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति’ इत्युपसम्हारे चोक्तो वासःपरिधिर्वासःपरिधानम्, मन्यतिश्च ‘एतमेव तदनमनग्नम् कुर्वन्तो मन्यन्ते’ इति मनधातुश्च दृष्ट्यै दृष्टिविध्यर्थ एव । सा च - आचमनीयास्वप्सु प्राणवासस्त्वदृष्टिश्च । आराध्यप्रियार्था - आचमनस्य यथा आराध्यप्रीत्यर्थत्वमेवमियमप्याराध्यप्राणदेवताप्रीत्यर्थैव । गत्यलाभाभिनन्द्या स्तुतिरिह न भवेत् - गत्यन्तरालाभस्थले ग्राह्या स्तुतिः अप्राप्तार्थसम्भवयुक्तेऽस्मिन् प्रकरणे न भवेदेव । परिदधतिगिरा - ‘अद्भिः परिदधति’ इति वचनेन । अपूर्वभावात् - अपूर्वस्य अप्सु वासस्त्वानुसन्धानरूपस्यार्थस्य भावात् विद्यमानत्वात् । तद्विधानाभिसन्धिश्च युक्तः - अप्सु प्राणवासस्त्वानुसन्धानविधानाभिप्रायः प्रकरणसुगमतया युक्त एव । सद्भिराराधनीयः प्राणश्च - विद्यानिष्ठैः पूजनीयः प्राणश्च । अद्भिः परिहितवसनो युज्यते - अद्भिर्लब्धवासा एवाराधितुं युज्यते । आराधनीयदेवताया वस्त्रप्रदानं हि प्रधानाङ्गमिति भावः ॥340॥
कुमार-वरदः - 20
  1. एवमुक्तेऽप्यधिकरणार्थे शिष्याणां वैशद्याय उक्ताननुक्तांश्च हेतुविशेषान् संगृह्य कथयति - आदाविति । उपक्रमोपसंहारयोर्वासःपरिधानाभिधानमित्येको हेतुः । अपरमपि हेतुमाह - मन्यतिरिति । ‘मन्यन्ते’ इति मन्यतिशब्दप्रयोगे दृष्टिविध्यर्थ एव । ननु प्राणवासस्त्वमस्तु, अनेन किं प्रयोजनमित्याशङ्क्य प्रयोजनमाह - आराध्यप्रियार्थेति । अयमर्थः - विहितायाः क्रियाया योग्यमेव प्रयोजनं कल्प्यम्, यथा विहिताया आचमनक्रियायाः प्रयोजनमाराध्यप्रीतिः, एवं प्राणवासस्त्वानुसन्धानस्यापि प्रयोजनमाराध्यप्रीतिरेव । सा च मन्यतिराराध्यप्रियार्थेत्यन्वयः । ननु प्राणवासस्त्वानुसन्धानवचनं स्तोत्रमेव किं न स्यादित्याशङ्क्य प्रतिक्षिपति - स्तुतिरिति । गत्यभावे हि स्तुतिरभिनन्द्या, अत्रापूर्वार्थविधानेन गतिसम्भवे सति स्तुतिर्न कल्प्येत्यर्थः । अत्र च ‘अद्भिः परिदधति’ इति परिधानरूपापूर्वार्थस्य विशेषतः प्रतिपादनात् प्राणवासस्त्वानुसन्धानविधिर्युक्त एव । किञ्च प्राणोऽत्राराधनीयत्वेन प्रतिपाद्यते आराधनीयस्य च देवताविशेषस्याद्भिः परिधानवचनमाराधनाङ्गत्वात् युज्यत एव । यथा लोके वस्रप्रदानं देवताराधनाङ्गं तद्वदिहापीति भाव्यम् ॥
मूलम् - 20
  1. आदावन्ते च वासःपरिधिरभिहितो मन्यतिश्चात्र दृष्ट्यै
    सा चाराध्यप्रियार्था स्तुतिरिह न भवेद्गत्यलाभाभिनन्द्या ।
    युक्तश्चापूर्वभावात् परिदधतिगिरा तद्विधानाभिसन्धिः
    प्राणश्चाराधनीयः परिहितवसनो युज्यते सद्भिरद्भिः ॥