19 आनन्दाद्यधिकरणम्

विश्वास-प्रस्तुतिः - 14
  1. नानाशब्दादिभेदादिति खलु भिदुरां वक्ष्यति ब्रह्मविद्यां
    रूपं विद्यान्तरस्य प्रकरणपठितं नान्यदन्यत्र योज्यम् ।
    तस्मात् सत्यत्वपूर्वास्तदितरगुणवत् स्युर्व्यवस्थापनीयाः
    मैवं ब्रह्मस्वरूपावगतिरिह यतस्तद्धि सर्वास्वपेक्ष्यम् ॥
३४-तमाहोबिल-यतिः - 14
  1. नानाशब्दादीत्यादि । नानाशब्दादिभेदादिति ब्रह्मविद्यां भिदुरां वक्ष्यति खलु - उत्तरत्र हि सूत्रकारः ‘नानाशब्दादिभेदात्’ इत्येतत्सूत्रेण ब्रह्मविद्यां गुणभेदाद्भिन्नां वक्ष्यति किल । अन्यत् विद्यान्तरस्य प्रकरणपठितं रूपं अन्यत्र न योज्यम् - तेन स्वप्रकरणपठिताद्रूपादन्यत् विद्यान्तरसम्बन्धि तत्प्रकरणपठितं रूपं गुणजातं विद्यान्तरे न योज्यं हीत्यर्थः । तस्मात् - एवं न्यायमर्यादानिर्णीतत्वात् । सत्यत्वपूर्वास्तदितरगुणवत् व्यवस्थापनीयास्स्युः - सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वरूपा गुणा अपि ऐश्वर्यादिगुणान्तरवत् यत्रयत्र येये पठितास्तत्रतत्रैव तेते स्थापनीयाः । यद्विद्याप्रकरणे ये पठितास्तस्यामेव तेऽनुसन्धेया इति । मैवम् - एवं मा शङ्किष्ठाः । इह - शास्त्रे । ब्रह्मस्वरूपावगतिर्यतः - ब्रह्मस्वरूपनिश्चयो यस्माद्गुणजाताद्भवति । तत् - गुणजातम् । सर्वास्वपेक्ष्यं हि - सर्वविद्यास्वनुसन्धेयमेव । अयमाशयः - लोके हि वस्तूनां गुणा द्विविधाः, तत्र स्वरूपनिरूपकाः केचित्, निरूपितस्वरूपविशेषकाश्चापरे, यत् स्वरूपनिरूपकं तत् वस्तुस्वरूपप्रसङ्गे सर्वत्रान्वेति, यथा घटप्रसङ्गेषु घटत्वम्, निरूपितस्वरूपविशेषकं तु रक्तत्वकृष्णत्वादिकं तत्रतत्र व्यवतिष्ठते, एवं स्वरूपनिरूपकत्वात् आनन्दादीनि सर्वत्रानुवर्तन्ते, परे पुनस्तत्रतत्र व्यवतिष्ठन्ते अतस्सर्वविद्यासाधारण्यमेवानन्दादीनामिति । अत्र चिन्तामणिः - ब्रह्मस्वरूपेति - ब्रह्मस्वरूपावगतिर्यस्माद्भवति तत् स्वरूपवत् सर्वासु विद्यास्वपेक्षणीयमिति । अयमन्वारोहः । स्वरूपनिरूपकधर्मत्वात् स्वरूपप्रतिपत्त्यर्थमेवेति तत्वम्, इति । वस्तुतस्तु सत्यत्वादीनामपि तत्तद्विद्यानुसन्धेयगुणवत् व्यवस्थापनीयत्वे शङ्किते तेषां ब्रह्मस्वरूपप्रतिपत्त्यर्थं सर्वविद्यानिष्ठानामप्यपेक्षणीयत्वमेव, अतो न तेषां व्यवस्थावकाशः । अनुसन्धेयगुणानां हि व्यवस्था, इमे तु सर्वविद्यानिष्ठैरपि इतरव्यावृत्ततया ब्रह्मस्वरूपनिष्कर्षवेलायामेवानुसन्धेया इति समाहितमिति प्रतीयते । अत्र तत्वं तत्वविद एव विदाङ्कुर्वन्तु ॥
कुमार-वरदः - 14
  1. पूर्वं त्रिभिरधिकरणैर्विद्यानां भेदाभेदचिन्ता कृता, तत्र च वैश्वानरविद्यायां ‘वायुः प्राणः’ इति वायुः परमपुरुषप्राणत्वेन ध्येयतया परिकल्पितः । उद्गीथविद्यायां पुनरुद्गीथादिषु प्राणदृष्टिरूपत्वेन प्राणप्रसङ्गः कृतः । इतः पूर्वस्मिन्नधिकरणे साक्षात् प्राण एव निरूपितः । अतोऽपि च पूर्वेषामधिकरणानां परस्परसाङ्गत्यम् । ज्यैष्ठ्यादिगुणोपपादनान्तर्भावेन वसिष्ठत्वादीनामप्यनुसन्धेयत्वमुक्तम् । तत्प्रसङ्गात् ब्रह्मणस्सर्वविद्यावेद्यत्वात् तत्स्वरूपनिरूपकधर्माणामानन्दादीनां तत्स्वरूपनिरूपणान्तर्भावेनानुसन्धेयत्वमुच्यते इति सङ्गतिः । भाष्ये च सङ्गतिस्स्पष्टा द्दश्यते ‘अत्र ब्रह्मस्वरूपगुणानां सर्वासु परविद्यासूपसंहारोऽस्ति नेति विचार्यते’ इति । तदर्थविचारस्तु - किमानन्दादयो गुणास्सर्वासु विद्यासूपसंहार्याः, उत यत्र श्रूयन्ते तत्रैवेति । किमानन्दादीनामैश्वर्यादिवत् गुण्यपृथक्त्वमात्रमेव, उत ब्रह्मस्वरूपवत् स्वरूपप्रतीत्यनुबन्धित्वमस्तीति । पूर्वपक्षाभिप्रायेण सङ्गतिं प्रदर्शयन् पूर्वपक्षं तावदाह - नानाशब्देति । अयमर्थः - पूर्वं गुणभेदाद्विद्याभेद इति भवतैवोक्तम्, तेन तत्रतत्र श्रुतानामन्येषां गुणानां व्यवस्थितिस्सिद्धा, तद्वदेव सत्यत्वादीनामपि धर्माणां ब्रह्मस्वरूपव्यतिरिक्तानां विद्याभेदेन व्यवस्थितिरिति पूर्वपक्षिणोऽभिप्रायः । उत्तरत्र सूत्रकारो ‘नाना शब्दादिभेदात्’ इति गुणभेदाद् भिदुरां ब्रह्मविद्यां वक्ष्यति । तेन स्वप्रकरणपठितात् रूपादन्यत् विद्यान्तरस्य रूपम् अन्यत्र विद्यान्तरे न योज्यम् । उभयत्रापि पठितं चेत् उभयत्रापि योज्यमस्तु नाम । इयमेव हि नीतिविदां मर्यादा । तस्मात् एवं न्यायमर्यादानिर्णीतत्वात् सत्यत्वपूर्वा गुणा अपि सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वान्यपि तदितरगुणवत् व्यवस्थापनीयास्स्युरिति पूर्वः पक्षः । तदिदमपाकरोति - मैवमिति । अपाकरणप्रकारमेव विवृणोति - ब्रह्मेति । अयमर्थः - लोके हि वस्तूनां गुणा द्विविधाः, तत्र स्वरूपनिरूपकाः केचित्, निरूपितस्वरूपविशेषकाश्चापरे, यत् स्वरूपनिरूपकं तत् वस्तुस्वरूपप्रसङ्गे सर्वत्रान्वेति यथा घटप्रसङ्गे घटत्वम् । निरूपितस्वरूपविशेषकं तु रक्तत्वकृष्णत्वादिकं तत्रतत्र व्यवतिष्ठते । एवं स्वरूपनिरूपकत्वादानन्दादीनि सर्वत्रानुवर्तन्ते । परे पुनः प्रियशिरस्त्वादयस्तत्रतत्र व्यवतिष्ठन्त इति सर्वविद्यासाधारण्यमेवानन्दादीनाम् । ब्रह्मस्वरूपेति - ब्रह्मस्वरूपावगतिर्यस्माद्भवति तत् स्वरूपवत् सर्वासु विद्यास्वपेक्षणीयमिति । अयमन्वारोहः । स्वरूपनिरूपकधर्मत्वात् स्वरूपप्रतिपत्त्यर्थमेवेति तत्त्वम् ॥
मूलम् - 14
  1. नानाशब्दादिभेदादिति खलु भिदुरां वक्ष्यति ब्रह्मविद्यां
    रूपं विद्यान्तरस्य प्रकरणपठितं नान्यदन्यत्र योज्यम् ।
    तस्मात् सत्यत्वपूर्वास्तदितरगुणवत् स्युर्व्यवस्थापनीयाः
    मैवं ब्रह्मस्वरूपावगतिरिह यतस्तद्धि सर्वास्वपेक्ष्यम् ॥
विश्वास-प्रस्तुतिः - 15
  1. सत्यत्वं विश्वहेतौ बहुविधचिदचिद्विक्रियाजालहानेः
    ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च ।
    त्रिद्व्येकाभिस्तु सर्वं प्रमितमिह परिच्छित्तिभिर्ब्रह्मणोऽन्यत्
    तस्यानन्त्यं वियोगात् तिसृभिरपि सदा निर्मलानन्दधाम्नः ॥
३४-तमाहोबिल-यतिः - 15
  1. सत्यत्वमित्यादि । विश्वहेतौ - जगत्कारणभूते ब्रह्मणि । सत्यत्वम् । बहुविधचिदचिद्विक्रियाजालहानेः - बहुविधस्य चिदचित्सम्बन्धितया दृष्टस्य विक्रियाजालस्य स्वरूपस्वभावविकारवर्गस्य हानेर्निवृत्त्या भवति । ज्ञानत्वं ज्ञातृभावात् - ‘कृत्यल्युटो बहुलम्’, (पा.सू. 3.3.113) इति कर्तरि ल्युट् प्रत्ययेन व्युत्पत्तौ वा, ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ (पा.सू. 3.1.134) इति सूत्रेण नन्द्यादित्वाश्रयणेन कर्तरि ल्यु प्रत्ययेन व्युत्पत्तौ वा, ‘तद्गुणसारत्वात्तु तद्व्यपदेशः’ (ब्र.सू. 2.3.29) इति न्यायाश्रणेन व्युत्पत्तौ वा ज्ञानाश्रयत्वात् । स्वप्रकाशत्वतः - ज्ञानशब्दप्रवृत्तिनिमित्तभूतस्वप्रकाशत्वस्य ब्रह्मस्वरूपे विद्यमानत्वात् । स्वरबहुलतया च - अर्थभेदकल्पनानुगुणप्रत्ययभेदकल्पनया स्वरभेदे कल्पनीये बहुलञ्छन्दसि इति स्वरादीनां बहुलत्वेन सङ्कटाभावाच्च भवतीत्यर्थः । इह ब्रह्मणोऽन्यत्सर्वं तु त्रिद्व्येकाभिः परिच्छित्तिभिः प्रमितम् - इह लोके ब्रह्मभिन्नं सर्वमपि वस्तु यथायोगं तिसृभिः परिच्छित्तिभिर्द्वाभ्यां परिच्छित्तिभ्यामेकया वा परिच्छित्त्या प्रमितं परिच्छिन्नम् । तिसृभिः परिच्छिन्ना घटादयो देशतः कालतो वस्तुतश्च परिच्छिन्नत्वात् । द्वाभ्यां परिच्छिन्नः परमाणुरूपो जीवः, अणुत्वेन सर्ववस्त्वनन्तर्यामित्वेन च । एकया परिच्छिन्नः कालो विभुत्वे नित्यत्वे च सति केवलमनन्तर्यामित्वेन वस्तुपरिच्छिन्नत्वात् । सदा निर्मलानन्दधाम्नस्तस्य - सर्वस्मिन्नपि काले दुःखसंवलनसातिशयत्वादिरूपमलरहितापरिच्छिन्नानन्दाश्रयस्य ब्रह्मणः । तिसृभिरपि वियोगात् - सर्वदेशसम्बन्धित्वात् सर्वकालसम्बन्धित्वात् सर्ववस्त्वन्तर्यामित्वाच्च तिसृभिरपि देशकालवस्तुरूपाभिः परिच्छित्तिभिर्वियोगात्परिच्छेदनरूपसम्बन्धाभावात् । आनन्त्यम् - सिध्यतीति शेषः । निर्मलानन्दधाम्नः इतिवचनं ब्रह्मगुणेषु प्राधान्यख्यापनार्थम् ।
कुमार-वरदः - 15
  1. प्रसक्तं सत्यत्वादिकं स्वरूपेण विभज्य दर्शयति - सत्यत्वमिति । सत्यत्वं विश्वहेतौ परस्मिन्ब्रह्मणि बहुविधचिदचिद्विक्रियाजालहानेर्भवति, ज्ञानत्वं ज्ञातृभावात् भवति । ज्ञानशब्दः कर्तर्यपि प्रयुज्यते ‘कृत्यल्युटो बहुलम्’ इति कर्तर्यपि ल्युट्प्रयोगसम्भवात् । ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इति कर्तर्येव ल्युप्रयोगमाश्रित्य निर्वोढुं शक्यत्वात् । ‘तद्गुणसारत्वात्तु तद्व्यपदेशः’ इति ज्ञानगुणसारे ज्ञानशब्दस्य प्रयोक्तुमपि शक्यत्वात् । स्वरूपस्य स्वप्रकाशत्वेन स्वप्रकाशस्वरूपवाचिनो ज्ञानशब्दस्य तत्रैव समन्वयाच्च । नन्वत्र कर्तृत्वेन भावत्वेन प्रत्ययभेदेनापि बहुधा निर्वाहे सति अर्थभेदात् स्वरभेदः स्यादित्याशङ्क्य तत्राप्युत्तरमाह - स्वरबहुलतयेति । स्वरस्य वैकल्पिकत्वादित्यर्थः । यत्र स्वरानुपपत्तिर्न विद्यते तत्र तथैव स्वीकार्यम् । यत्र पुनस्स्वरभेदोऽङ्गीकार्यः, तत्र ‘बहुलं छन्दसि’ इति स्वरादीनां बहुलत्वेन न सङ्कटं किञ्चित् । अन्यथा कथं ‘उणादयो बहुलम्’ इत्यादिव्यपदेशो भगवतः पाणिनेरपि । त्रिविधपरिच्छेदाभावरूपं ब्रह्मणोऽनन्तत्वं वक्तुं परिच्छेदप्रकारमाह - त्रिद्व्येकाभिरिति । त्रिपरिच्छिन्ना घटादयः देशतः कालतो वस्तुतश्च परिच्छिन्नत्वात् । द्विपरिच्छिन्नः परमाणुः अणुत्वादनन्तर्यामित्वाच्च । एकपरिच्छिन्नः पुनः कालः विभुत्वे नित्यत्वे च सति केवलमनन्तर्यामित्वेन वस्तुपरिच्छिन्नत्वात् । ब्रह्मण आनन्त्यमप्याह - तस्येति । तिसृभिः परिच्छित्तिभिरयोगात् परब्रह्मण आनन्त्यमिति । सदा निर्मलानन्दधाम्न इति वचनमानन्दस्य ब्रह्मगुणेषु प्राधान्यप्रख्यापनार्थम् ॥
मूलम् - 15
  1. सत्यत्वं विश्वहेतौ बहुविधचिदचिद्विक्रियाजालहानेः
    ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च ।
    त्रिद्व्येकाभिस्तु सर्वं प्रमितमिह परिच्छित्तिभिर्ब्रह्मणोऽन्यत्
    तस्यानन्त्यं वियोगात् तिसृभिरपि सदा निर्मलानन्दधाम्नः ॥
विश्वास-प्रस्तुतिः - 16
  1. उक्तं जन्मादिसूत्रे ननु निखिलजगद्धेतुता ब्रह्मलक्ष्म
    स्यात्तेनैव स्वरूपावगतिरिह मुधा सत्यतादीति चेन्न ।
    हेतोरीशस्य हेत्वन्तरगतविविधावद्यवर्गप्रसङ्गे
    शङ्कारूढे क्रमेणेतरविभजनतस्तस्य साफल्यसिद्धेः ॥
३४-तमाहोबिल-यतिः - 16
  1. उक्तमित्यादि । ननु - किञ्चिच्चोद्यत इत्यर्थः । जन्मादिसूत्रे - ‘जन्माद्यस्य यतः’ इति सूत्रे । निखिलजगद्धेतुता - निखिलजगत्कारणत्वरूपम् । ब्रह्मलक्ष्म - ब्रह्मण इतरव्यावर्तकमसाधारणधर्मरूपं लक्षणम् । उक्तम् - उक्तं खलु । तेनैव
    स्वरूपावगतिस्स्यात् - तेनैव ब्रह्मस्वरूपस्येतरव्यावृत्ततया अवगतिस्स्यात् । अतः इह सत्यतादि मुधा इति चेन्न - अत्र सत्यत्वादिकं निरर्थकमेवेति शङ्क्यते चेत् तन्न युक्तम् । हेतोरीशस्य हेत्वन्तरगतविविधावद्यवर्गप्रसङ्गे शङ्कारूढे - जगत्कारणभूतस्य परमात्मनो लोकसिद्धकारणान्तरगतो यो विविधावद्यवर्गः अचिति दृष्टः स्वरूपविकारादिः, तत्संसृष्टचेतने दृष्टः स्वभावविकारादिः, मुक्ते कादाचित्कज्ञानसङ्कोचादिः, नित्ये सातिशयस्वरूपगुणादिः, तस्य प्रसङ्गे - ब्रह्मण्यपि स्यादित्यापादने, शङ्कारूढे - शङ्कया प्राप्ते सति । क्रमेण - सत्यज्ञानानन्तपदैरुदाहृततत्तद्दोषविरोधितत्तदाकारसमर्पणक्रमेण । इतरविभजनतः - इतरेभ्यः अचित्तत्संसृष्टबद्धचेतनमुक्तनित्येभ्यो विभजनतो ब्रह्मणो व्यावर्तनात् । तस्य - सत्यत्वादेः । साफल्यसिद्धेः - साफल्यसिद्ध्या उक्तशङ्का न कार्येति पूर्वेणान्वयः । अत्रायं सत्यादिपदानामर्थतो व्यावर्तनक्रमः - सत्यपदं निरुपाधिकसत्तायोगि ब्रह्माभिदधाति । तेन विकारास्पदादचेतनात् तत्संसृष्टात् बद्धचेतनाच्च ब्रह्म व्यावर्तितम् । नामान्तरभजनार्हावस्थान्तरयोगेन तयोर्निरुपाधिकसत्तायोगरहितत्वात् । ज्ञानपदं नित्यासङ्कुचितज्ञानस्वरूपं नित्यासङ्कुचितज्ञानगुणकञ्च ब्रह्माह, तेन कदाचित्सङ्कुचितज्ञानेभ्यो मुक्तेभ्यो ब्रह्म व्यावर्तितम् । अनन्तपदं देशकालवस्तुपरिच्छेदरहितस्वरूपं ब्रह्माभिदधाति, तत्र सगुणत्वात् स्वरूपस्य स्वरूपेण गुणैश्चानन्त्यम् । तेन पूर्वपदद्वयव्यावृत्तकोटिद्वय विलक्षणेभ्यस्सातिशयस्वरूपगुणेभ्यो नित्येभ्यो ब्रह्म व्यावर्तितमिति ॥
कुमार-वरदः - 16
  1. ननु जन्मादिसूत्र एव ब्रह्मणो लक्षणमुक्तम् । तच्च लक्षणं लक्षणत्वादेव समानासमानजातीयव्यावर्तकम्, अतस्तेनैव लक्षणेनालम्, किमर्थमिदं स्वरूपलक्षणमिति सत्यत्वादिकमुच्यत इत्याशङ्क्य प्रयोजनविशेषाभिधानेन परिहरति - उक्तमिति । अयमत्र शब्दान्वयः - जन्मादिसूत्र एव निखिलजगद्धेतुता ब्रह्मलक्ष्मेत्युक्तम् । नन्विति चोद्यं द्योतयति । तेनैव स्वरूपावगतिः स्यात् । सत्यत्वादिकमत्र निरर्थकमेव । सत्यादिशब्देन तदेव ब्रह्मोच्यते चेत् पौनरुक्त्यम् । अन्यच्चेत् तर्हि ब्रह्म न स्यात् । नहि ब्रह्मद्वितयमस्ति । लक्षणान्तरं चेत् कृतकरत्वादेव नैरर्थक्यम् । प्रयोजनविशेषोऽस्ति चेत्, तत् किमिति विशदं प्रकाशयेति पराभिप्रायः । परिहरति - नेति । तदेव विवृणोति - हेतोरिति । ईश्वरस्य जगत्कारणत्वे प्रतिपन्ने कारणत्वाशङ्कितदोषपरिहारार्थं सत्यत्वादिकमभिधीयत इति भाष्यकारैरेव प्रागेवोक्तम् । अचित्संसृष्टजीवमुक्तनित्यानामनुक्रमेण व्यवच्छेदात् । तेन सर्वविलक्षणत्वेन प्रतिपन्नब्रह्मस्वरूपपरिशोधनार्थं सत्यादिवाक्यमपीति न नैरर्थक्यप्रसङ्गः । किञ्चास्मत्पक्षे ब्रह्मणि नानागुणोपादानमुपासनार्थम्, अथवा फलदशायामनुसन्धानार्थमिति सर्वसाफल्यसिद्धिः ॥
    (अयमन्वारोहः । स्वरूपनिरूपकधर्मत्वात् स्वरूपप्रतिपत्त्यर्थमेवेति तत्त्वम् ॥)
मूलम् - 16
  1. उक्तं जन्मादिसूत्रे ननु निखिलजगद्धेतुता ब्रह्मलक्ष्म
    स्यात्तेनैव स्वरूपावगतिरिह मुधा सत्यतादीति चेन्न ।
    हेतोरीशस्य हेत्वन्तरगतविविधावद्यवर्गप्रसङ्गे
    शङ्कारूढे क्रमेणेतरविभजनतस्तस्य साफल्यसिद्धेः ॥
विश्वास-प्रस्तुतिः - 17
  1. नन्वाध्यानं प्रियाद्यैरपि भवति शिरःपक्षपुच्छादिरूपैः
    बाढं तत्र प्रियाद्यैस्तदवगतिरतस्ते तु सर्वानुवृत्ताः ।
    पुच्छाद्यंशो निरंशे न भवति न च तद्दृष्टिरुत्कृष्टतत्त्वे
    तस्माच्चित्याग्निरूपक्रमवदिह कृतं रूपणं ब्रह्मणि स्यात् ॥
३४-तमाहोबिल-यतिः - 17
  1. नन्वाध्यानमित्यादि । ननु - प्रश्ने । शिरःपक्षपुच्छादिरूपैः - शिरःपक्षपुच्छात्मप्रतिष्ठात्वेन प्रतिपादितैः । प्रियाद्यैरपि - प्रियमोदप्रमोदानन्दब्रह्मभिरपि । आध्यानम् - ब्रह्मानुध्यानम् । भवति खलु । अतः प्रियशिरस्वादीनामपि ब्रह्मणि नियतमनुसन्धानं स्यादिति शङ्का । बाढमित्यर्धाङ्गीकारे । तत्राङ्गीकृतांशमाह - तत्रेत्यादिना । तत्र - भवदुक्तप्रियशिरस्त्वादिविषये । प्रियाद्यैः - प्रियमोदप्रमोदानन्दब्रह्मभिः । तदवगतिः – सत्यत्वादिभिरिव ब्रह्मस्वरूपावगतिर्भवति । अतः - कारणात् । ते तु - त एव । सर्वानुवृत्ताः - सर्वविद्यास्वपि स्वरूपावगतिहेतुत्वेनानुगता भवन्तु । पुच्छाद्यंशो निरंशे न भवति - पुच्छशिरःपक्षात्मप्रतिष्ठारूपोऽंशः अंशभेदरहिते ब्रह्मणि न भवितुमर्हति हि । उत्कृष्टत्वे तद्दृष्टिश्च न - सर्वोत्कृष्टब्रह्मस्वरूपे शिरःप्रभृतित्वेनारोपितानुसन्धानमपि न युक्तम् । ब्रह्मदृष्टिरुत्कर्षात्, इति न्यायेनोकृष्टे ब्रह्मण्यपकृष्टशिरआदिदृष्टेरयोगादिति भावः । तस्मात् - शिरःप्रभृतीनां स्वरूपासङ्गतत्वदृष्टिविशेषणतायोग्यत्वरूपात् कारणात् । चित्याग्निरूपक्रमवत् - पूर्वविकल्पः प्रकरणात्स्यात् इत्याद्युपरितनाधिकरणविषयवाक्यविषयभूतमनश्चिन्नामकचित्याग्नेर्यो रूपक्रमः मनसाधीयन्त मनसाचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त इत्यादिना क्रियमाणः उपयुक्ताग्न्याधानचयनग्रहग्रहणस्तोत्रशस्त्रादिकल्पनाक्रमः, तत्तुल्यम् । इह - तैतिरीयकानन्दमयविद्याप्रकरणेऽपि । ब्रह्मणि - ब्रह्मविदाप्नोति परम् इत्यादिना विविच्य ज्ञापनीयत्वेन प्रक्रियमाणे परमात्मनि । रूपणं कृतं स्यात् - बुद्ध्यारोहाय शिरआदित्वेन कल्पनं कृतं भवेदित्यर्थः ॥
कुमार-वरदः - 17
  1. ननु ब्रह्मध्यानार्थं सत्यत्वाद्यनुसन्धेयमित्युक्तं भवता, तर्हि ब्रह्मानुध्यानं प्रियशिरस्त्वाद्यनुसन्धानेनापि सिध्यतीत्याशङ्क्य वैषम्यं दर्शयति - नन्विति । अयमत्र शब्दार्थः - ब्रह्मानुध्यानं ‘तस्य प्रियमेव शिरः’ इत्यादिभिरपि सिध्यतीति । प्रियशिरस्त्वादीनामपि ब्रह्मणि नियमेनानुसन्धानं स्यादित्याशङ्क्य तत्रार्धाङ्गीकारमाह - बाढमिति । अयमर्थः - त्वदुक्ते किञ्चिदङ्गीक्रियते किञ्चिच्च न, प्रियादीनां परमानन्दरूपब्रह्मान्तर्भावादङ्गीकारः पक्षादीनां परिकल्पनामात्रत्वादनङ्गीकारश्च । तेन प्रियादीनामपि ब्रह्मस्वरूपावगतिहेतुत्वात् ते प्रियादयो गुणाः सर्वानुवृत्ताः । प्रियाद्यैस्तदवगतिः - प्रियमोदप्रमोदादिभिर्ब्रह्मस्वरूपावगतिरित्यर्थः । तर्हि पुच्छत्वादिकमपि ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यादिभिरधीतमनुसन्धेयं स्यादित्याशङ्क्यासम्भवान्नेत्याह - पुच्छाद्यंश इति । असम्भवमेवाह - निरंशे ब्रह्मणि पुच्छाद्यंशो न भवतीत्यन्वयः । तर्हि ब्रह्मणि पुच्छत्वदृष्टिस्स्यात्, दृष्टिविधौ ह्यविद्यमानस्य दर्शनं भूषणमेव स्यादित्याशङ्क्य परिहरति - न चेति । अपकृष्टे ह्युत्कृष्टदृष्टिविधानं दृष्टिविधिः । यथा ‘मनो ब्रह्मेत्युपासीत’ इत्यादौ । इह पुनर्ब्रह्मणि पुच्छत्वादिदृष्टिश्चेत् विपरीतमेव स्यात् । उत्कृष्टब्रह्मणि अपकृष्टपुच्छत्वादिदृष्टिविधेरयोगात् । तर्हि ‘तस्य प्रियमेव शिरः’ इत्यादेः कथमिह परिकल्पनमित्याशङ्कायां तत्परिकल्पने निर्वाहमाह - तस्मादिति । एवं प्रियशिरस्त्वादीनां बुद्ध्यारोहार्थत्वोपपादनात् उत्तरत्राभिधीयमानचित्याग्निरूपक्रमवदिह परस्मिन् ब्रह्मणि शिरःप्रभृतिपरिकल्पनं समुचितमेव ॥
मूलम् - 17
  1. नन्वाध्यानं प्रियाद्यैरपि भवति शिरःपक्षपुच्छादिरूपैः
    बाढं तत्र प्रियाद्यैस्तदवगतिरतस्ते तु सर्वानुवृत्ताः ।
    पुच्छाद्यंशो निरंशे न भवति न च तद्दृष्टिरुत्कृष्टतत्त्वे
    तस्माच्चित्याग्निरूपक्रमवदिह कृतं रूपणं ब्रह्मणि स्यात् ॥
विश्वास-प्रस्तुतिः - 18
  1. आनन्दत्वप्रधानं कतिचिदिह विदुस्सौत्रमानन्दशब्दं
    धर्मानन्दाभिधानं तदुभयवचनं वेति पश्यन्ति केचित् ।
    ज्ञानोक्तौ चैतदेवं तदितरसमता यावता स्यान्न शङ्क्या
    तावद्धर्मानुवृत्तिर्बहुभजनपदे ब्रह्मणि स्थाप्यतेऽत्र ॥
३४-तमाहोबिल-यतिः - 18
  1. आनन्दत्वप्रधानमित्यादि । कतिचित् - केचित् । इह - अस्मिन् प्रकरणे । सौत्रमानन्दशब्दम् - आनन्दादयः प्रधानस्य इति सूत्रस्थमानन्दशब्दम् । आनन्दत्वप्रधानम् - भावप्रधानं स्वरूपगतानन्दरूपत्वपरमित्यर्थः । विदुः - उपलब्धवन्तः । केचित्, धर्मानन्दाभिधानम् - तद्गुणसारत्वात् इति न्यायेनानन्दित्वमेवानन्दशब्दार्थ इति धर्मानन्दाभिधायकम् । तदुभयवचनं वा इति पश्यन्ति - यद्वा आनन्दत्वानन्दित्वोभयपरमिति योजयन्ति । द्वितीयपक्षे विकल्पेनाकारद्वयम् । केचिच्छब्दस्यावृत्त्या धर्मानन्दाभिधानमपि केषाञ्चित्पक्षतया कल्पयितुं शक्यते तथा सति पक्षत्रयम् । ज्ञानोक्तौ च - ज्ञानशब्देऽपि । एतत् - ज्ञानत्वपरत्वज्ञानित्वपरत्वतदुभयपरत्वपक्षद्वयपक्षत्रयपरिकल्पनम् । एवम् - पूर्वाक्तरीत्या । योजनीयमिति शेषः । एवं पक्षभेदानुक्त्वा एतदधिकरणे भाष्यकाराभिमतं वैशद्याय दर्शयति - तदितरसमतेत्यादिना । तदितरसमता यावता न शङ्क्या स्यात् तावद्धर्मानुवृत्तिर्बहुभजनपदे ब्रह्मणि अत्र स्थाप्यते - ब्रह्मस्वरूपप्रतिपत्तिवेलायां ब्रह्मव्यतिरिक्तार्थसाम्यशङ्का यावता विशेषणेन न स्यात् तावद्धर्मानुवृत्तिस्सर्वब्रह्मविद्यावेद्ये ब्रह्मण्यनुसन्धेयेत्यस्मिन्नधिकरणे स्थाप्यते । तथानुसन्धेयाश्चैते धर्मास्सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वरूपाः पञ्चैव, तथा भाष्य एवाभिधानात् । ज्ञानानन्दशब्दयोर्ज्ञानित्वानन्दित्वानन्दत्वोभयपरत्वमेवाचार्यसम्मतमिति भाति, ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च इति व्यवहितपूर्वश्लोकेऽनुगृहीतत्वादिति ॥
कुमार-वरदः - 18
  1. अत्रानन्दादिशब्दानामर्थभेदं पक्षभेदेनोक्त्वा भाष्यकाराभिमतप्रकारेण स्वीयमर्थं निगमयति - आनन्दत्वेति । केचिदत्र सौत्रमानन्दशब्दं स्वरूपस्य आनन्दरूपत्वप्रधानं वर्णयन्ति । अपरे पुनः धर्मानन्दाभिधानमाहुः । तद्गुणसारत्वादिति न्यायेनानन्दित्वमेवानन्दशब्दः प्राहेति । तथा तृतीयं पक्षमाह - तदुभयवचनमिति । आनन्दित्वमानन्दत्वञ्चोभयमपि आनन्दशब्दः कथयतीति । अत्र पक्षद्वयमपि विकल्पेनैककोटित्वेनोपात्तम् । अयमर्थः - आनन्दत्वमेवोच्यत इत्येके । अपरे आनन्दित्वमेव यद्वोभयमपीत्याहुः । यद्वा केचिच्छब्दावृत्त्या पक्षत्रयमपि त्रयाणां पक्ष इति पृथक्पृथक् पक्षत्वेन वाच्यम् । अत्रानन्दशब्दोक्तमर्यादां ज्ञानशब्देऽप्यतिदिशति - ज्ञानोक्ताविति । ज्ञानत्वं ज्ञानित्वं तदुभयं वा ज्ञानशब्देनोच्यत इति । एवं पक्षभेदानुक्त्वा भाष्यकाराभिप्रेतं पक्षं वैशद्याय दर्शयति - तदितरसमतेति । अयमर्थः - ब्रह्मस्वरूपप्रतिपत्तिवेलायां ब्रह्मव्यतिरिक्तार्थसाम्यशङ्का यावता विशेषणेन न स्यात् तावद्धर्मानुवृत्तिः तावद्विशेषणानि बहुभजनपदे सर्वब्रह्मविद्यावेद्ये परस्मिन् ब्रह्मणि अनुसन्धेयानीत्यत्र स्थाप्यते । तानि च सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वान्यनुक्रमेणोपयुक्ततया भाष्य एव स्थापितानीति तत्रैव विस्तरेण द्रष्टव्यम् ॥
मूलम् - 18
  1. आनन्दत्वप्रधानं कतिचिदिह विदुस्सौत्रमानन्दशब्दं
    धर्मानन्दाभिधानं तदुभयवचनं वेति पश्यन्ति केचित् ।
    ज्ञानोक्तौ चैतदेवं तदितरसमता यावता स्यान्न शङ्क्या
    तावद्धर्मानुवृत्तिर्बहुभजनपदे ब्रह्मणि स्थाप्यतेऽत्र ॥