18 सर्वाभेदाधिकरणम्

विश्वास-प्रस्तुतिः - 13
  1. ज्यैष्ठ्यश्रैष्ठ्यादिसाम्ये क्वचन समधिकं भाति वासिष्ठ्यपूर्वं
    तेनेत्थं रूपभेदाद्बहुनिगमगता भिद्यतां प्राणविद्या ।
    मैवं वागादितत्तद्गुणपरवशतावर्णनस्याविशेषात्
    वागाद्यैस्स्वस्वधर्मोपचरणमकृतं तावता स्यान्न भेदः ॥
३४-तमाहोबिल-यतिः - 13
  1. ज्यैष्ठ्यश्रैष्ठ्यादिसाम्य इत्यादि । ज्यैष्ठ्यश्रैष्ठ्यादिसाम्ये - छान्दोग्यवाजसनेयककौषीतकिब्राह्मणेषु ज्यैष्ठ्यश्रैष्ठ्यादिगुणानामुपास्यप्राणसम्बन्धितया श्रवणस्य साम्येऽपि । क्वचन - छान्दोग्यवाजसनेकयोः । वासिष्ठ्यपूर्वं समधिकं भाति - वसिष्ठत्वादिगुणजातमधिकं प्राणसम्बन्धितया प्रतीयते । तेन - कारणेन । इत्थंरूपभेदात् - एकत्र ज्यैष्ठ्यश्रैष्ठ्यवासिष्ठ्यादिगुणयुक्तः प्राण उपास्यः, अपरत्र ज्यैष्ठ्यश्रैष्ठ्यमात्रगुणकः प्राण उपास्य इत्युपास्यरूपभेदात् । बहुनिगमगता - अनेकशाखास्वाम्नाता । प्रकरणादिभेदोऽपि सिद्ध इति भावः । प्राणविद्या भिद्यताम् - भिन्ना भवतु । मैवम् - एवं मा शङ्कस्वेत्यर्थः । वागादितत्तद्गुणपरवशतावर्णनस्याविशेषात् - वागादीनां वाक्चक्षुश्श्रोत्रमनसां ते ते गुणा वसिष्ठत्वप्रतिष्ठात्वसम्पत्त्वायतनत्वरूपास्तेषां परवशतायाः प्राणाधीनताया वर्णनस्य प्रतिपादनस्य अविशेषात् तुल्यत्वात् । वागाद्यैस्स्वस्वधर्मोपचरणम् - वाक्चक्षुश्श्रोत्रमनोभिस्स्वस्वधर्माणां वसिष्ठत्वप्रतिष्ठात्वसम्पत्त्वायतनत्वरूपाणां उपचरणं छान्दोग्यवाजसनेयकयोः यदहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि, यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासि, यदहं सम्पदस्मि त्वं तत्सम्पदसि, यदहमायतनमस्मि त्वं तदायतनमसि इत्यादिरूपेणैव प्राणसम्बन्धितया समर्पणम् । अकृतम् - न कृतम् । कौषीतकिशाखायामिति शेषः । तावता - वागादिभिरुपचारमात्राकरणेन । भेदो न स्यात् - रूपभेदो विद्याभेदस्तत्कृतोऽपि न स्यात् । स्वस्वगुणानां प्राणाधीनत्वोपपादनतुल्यतया तेषां गुणानां प्राणसम्बन्धित्वं तादधीन्यरूपं सिद्धमिति भावः ॥
कुमार-वरदः - 13
  1. पूर्वस्मिन्नधिकरणे रूपभेदाद्विद्याभेद इत्युक्तम्, ततः पूर्वं वैश्वानराधिकरणे रूपैक्याद्विद्यैक्यमिति, अधुना पूर्वाधिकरणवत् रूपभेदाद्विद्याभेदमाशङ्क्य तत्प्रतिक्षेपेण वैश्वानराधिकरणवत् रूपैक्यात् विद्यैक्यमेव पुनः प्रतिष्ठाप्यत इति सङ्गतिः । तदर्थविचारस्तु - छन्दोगानां कौषीतकीनाञ्च प्राणविद्या आम्नाता, किमुभयत्र विद्यैक्यमुत भेद इति । किमुभयत्र वसिष्ठत्वादिगुणकमुपासनमुत कौषीतकीनां तद्विधुरमिति । किं कौषीतकीनां प्राणविद्यायामपि वसिष्ठत्वादिप्राप्तिरस्ति नेति । किं कौषीतकीनां ‘यदहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि’ इत्यनुवादाभावेऽप्युपक्रमे प्राणायत्तस्थितिकार्यकरत्वाभिधानात् वागादीनां तथारूपवसिष्ठत्वादिप्राप्तिः प्राणविद्यायां गम्यते नेति । तत्र पूर्वपक्षमाह - छान्दोग्यवाजसनेयककौषीतकि ब्राह्मणेषु ज्यैष्ठ्यश्रैष्ठ्यादीन्यधीतानि प्राणे, कौषीतकिविद्यायामस्य सर्वस्यापि गुणजातस्य साम्येऽपि केवलं वागादिवसिष्ठत्वादिकम्, मद्वसिष्ठत्वादिकं त्वद्वसिष्ठत्वाधीनमिति वागादिभिः प्राणमुद्दिश्य नानूदितम् । तत्रेत्थंरूपभेदाद्बह्वीषु शाखासु प्रतिपन्ना प्राणविद्या भिद्यतामिति । इमं पूर्वपक्षमनुवदति - ज्यैष्ठ्येति । तत्प्रतिक्षिपति - मैवमिति । वागादीनां तत्तज्ज्यैष्ठ्यश्रैष्ठ्यवासिष्ठ्यादिगुणानां प्राणपरवशतावर्णनस्याविशेषात् वागाद्यैः प्राणे स्वस्वधर्मोपचरणमात्रं न कृतम्, तावता न रूपभेदः । वागादीनां वसिष्ठत्वादेः प्राणाधीनत्वोपपादनादेव वागादिवसिष्ठत्वं प्राणवसिष्ठत्वमित्यर्थादुक्तं भवतीति न पृथग्वक्तव्यमवशिष्यते । तेन न रूपभेदाद्विद्याभेदावकाश इति । तदेतत्सर्वं भाष्य एव सुव्यक्तं विवृतमिति नाचार्यैर्विवरणीयमवशिष्टं किञ्चिदस्तीत्युपरम्यते ॥
मूलम् - 13
  1. ज्यैष्ठ्यश्रैष्ठ्यादिसाम्ये क्वचन समधिकं भाति वासिष्ठ्यपूर्वं
    तेनेत्थं रूपभेदाद्बहुनिगमगता भिद्यतां प्राणविद्या ।
    मैवं वागादितत्तद्गुणपरवशतावर्णनस्याविशेषात्
    वागाद्यैस्स्वस्वधर्मोपचरणमकृतं तावता स्यान्न भेदः ॥