विश्वास-प्रस्तुतिः - 9
- प्राग्वच्छाखाविभेदेऽप्युपशमितभिदा तादृगुद्गीथविद्या
स्यादेका चोदनाद्यैस्तदसदुभयथा रूपभेदोपलब्धेः ।
गाता गेयञ्च गेये सकलमसकल़ञ्चेति वैषम्यसिद्धौ
शेषाभेदोऽप्यभेदं न गमयति भिदा त्वेकभेदेऽपि सिध्येत् ॥
३४-तमाहोबिल-यतिः - 9
- प्राग्वदित्यादि । प्राग्वत् - वैश्वानरविद्यावत् । शाखाविभेदेऽपि - वेदभेदे सत्यपि । चोदनाद्यैः - चोदनासंयोगाख्याभिः । तादृक् - शाखान्तरस्थोद्गीथतुल्या । एकाकारचोदनासंयोगाख्यायुक्ततया भिन्नशाखाम्नातापि परस्परतुल्यतया भासमानेत्यर्थः । उपशमितभिदा - अत एव अनवधार्यमाणपरस्परभेदा । उद्गीथविद्या एका स्यात् । तदसत् । उभयथा रूपभेदोपलब्धेः - एकधा रूपभेदोपलब्धावपि विद्याभेदस्स्यात्, किमुतोभयथा रूपभेदोपलब्धाविति भावः । कथमित्यत्र तामेव दर्शयति - गातेत्यादिना । गाता गेयञ्च - एकस्यां शाखायां गाता उद्गाता अध्यस्तप्राणभाव उपास्यः, अपरस्यां तु शाखायां उद्गीथाख्यं गेयमध्यस्तप्राणभावम् उपास्यम्, अयमेको भेद इति दर्शयितुञ्चकारः । गेये सकलम् - एकस्यां गेये उद्गीथे सकलं सर्वांशजातमुपास्यकोट्यन्तर्भूतम्, वाजसनेयके कृत्स्नोद्गीथोद्गानकर्तर्युद्गातर्यध्यस्तप्राणभावेनोपासनोपासनविधानेन कृत्स्नोऽप्युद्गीथांश उपास्यकोट्यथन्तर्भूत इत्यर्थः । गेये असकलञ्च - अन्यस्यां गेये उद्गीथे असकलं असम्पूर्णं एकांशात्मकं गेयमुपास्यम् । छान्दोग्ये ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्युद्गीथावयवभूतप्रणवोपासनप्रक्रमपूर्वकमुपर्युपरि तस्यैवोपासनभेदविधानात् तन्मध्यप्रविष्टैतदुपासनेऽपि उद्गीथावयवभूतप्रणवस्यैवोपास्यत्वमित्यर्थः । अयं द्वितीयो भेद इति दर्शयितुं द्वितीयश्चकारः । इति वैषम्यसिद्वौ - एवं रूपभेदद्वयेन विद्याभेदसिद्वौ सत्याम् । शेषाभेदोऽप्यभेदं न गमयति - अवशिष्टानां चोदनादीनां त्रयाणामभेदोऽपि अभेदावगतिहेतुर्न भवति । तत् कुत इत्यत्राह - भिदा त्वित्यादि । एकभेदेऽपि भिदा तु सिध्येत् - संयोगरूपचोदनाख्यासु प्रधानस्य रूपस्यैकस्य भेदेऽपि भेदस्सिध्येदेवेत्यर्थः । इत्थं खलु तान्त्रिकव्यवस्था - संयोगरूपचोदनाख्यानाम् एकभेदेऽपि कर्मभेदः सिध्यतीति । तद्वदत्रापि प्रधानभूतस्य रूपस्यैकस्यापि भेदे सिद्वे विद्याभेदोऽङ्गीकर्तव्य एव । अत्र पुनः प्रधानस्य रूपस्य भेद उभयथा दृश्यते । तेन सुतरामपि विद्याभेदस्सिद्ध इति भावः ॥
कुमार-वरदः - 9
- अत्र सङ्गतिर्भाष्ये ‘एवं चोदनाद्यविशेषात् विद्यैकत्वम्, एकत्वे च गुणोपसंहारः कर्तव्य इत्युक्तम् । अतःपरं काश्चन विद्या अधिकृत्य प्रत्यभिज्ञाहेतुभूतचोदनाद्यविशेषोऽस्ति नेति निरूप्य निर्णीयते’ इति । तदर्थविचारस्तु - अस्त्युद्गीथविद्या वाजिनां छन्दोगानाञ्च, किमुभयत्र विद्यैकत्वमुत विद्याभेद इति । तदर्थं विचार्यते - किमुभयत्र विद्याप्रत्यभिज्ञानमस्ति नेति । किमुभयत्रोद्गीथस्यैवोपासनकर्मत्वमुत च्छन्दोगानामुद्गीथावयवप्रणवस्येति । किमुभयत्रोद्गीथशब्दः उद्गीथपरः उत च्छन्दोगानामुद्गीथावयवभूतप्रणवपर इति । किं ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इति प्रणवपरोद्गीथशब्दस्योपक्रमस्थत्वं ‘उद्गीथमुपासाञ्चक्रिरे’ इत्युद्गीथशब्दस्य प्रणवपरतामवगमयति नेति । पूर्वं वैश्वानरविद्यायां संयोगरूपचोदनाख्याविशेषात् विद्यैक्यमुक्तम्, एवं तर्हि विद्यान्तरेष्वपि तेनैवाविशेषेण विद्यैक्यं ग्राह्यम् । तत्रोदाहरणत्वेन तावदुद्गीथविद्योच्यते । तदिदमाह - प्राग्वदिति । वैश्वानरविद्यावत् शाखाभेदेऽप्युपशमितभिदा स्यादेकैवोद्गीथविद्या । इत्थमाशङ्क्य तदेतन्निराकरोति - तदसदिति । तत्र हेतुमाह - उभयथेति । रूपभेदो हि सर्वेष्वपि भेदकेषु प्रधानः, स च रूपभेदोऽत्र नैकविध्येनोपलभ्यते, अपि तूभयथा । तेन भेदकप्रमाणभूयस्त्वात् भेद एवाङ्गीकार्यः । उक्तमेव भेदकप्रमाणद्वैविध्यं दर्शयति - गातेति । क्वचिदुद्गीथविद्यायामुद्गाता ध्येयतयोच्यते, अपरत्र तु गेयम्, अयमेको रूपभेदः । रूपभेदान्तरमप्याह - गेय इति । क्वचित् सकलगेयानुध्यानम्, अन्यत्रासकलगेयानुध्यानमिति विभागः । एवं रूपवैषम्यसिद्धौ संयोगरूपचोदनाख्यासु रूपव्यतिरिक्तानां संयोगादीनामभेदोऽपि विद्याया अभेदं न गमयत्येव । तदेव विवृणोति - भिदेति । इयं खलु मीमांसकानां मर्यादा संयोगरूपचोदनाख्यानामेकभेदेऽपि कर्मभेदस्सिध्येदेव । तद्वदत्रापि प्रधानभूतस्यैकस्यापि रूपस्य भेदे सिद्धे विद्याभेदोऽङ्गीकर्तव्य एव । अत्र पुनः प्रधानस्य रूपस्य भेद उभयथा दृश्यते । तेन सुतरामपि विद्याभेदस्सिद्ध इति भावः ॥
मूलम् - 9
- प्राग्वच्छाखाविभेदेऽप्युपशमितभिदा तादृगुद्गीथविद्या
स्यादेका चोदनाद्यैस्तदसदुभयथा रूपभेदोपलब्धेः ।
गाता गेयञ्च गेये सकलमसकल़ञ्चेति वैषम्यसिद्धौ
शेषाभेदोऽप्यभेदं न गमयति भिदा त्वेकभेदेऽपि सिध्येत् ॥
विश्वास-प्रस्तुतिः - 10
- छन्दोगोद्गीथशब्दस्तदवयवपरः प्रक्रमादिप्रसिद्धेः
कृत्स्नोद्गीथाभिधायी प्रकरणनियमाभावतो वाजिनां स्यात् ।
उद्गीथोक्तिश्च नैषामुपचरितवती गातरि प्रक्रमस्था
तत्कर्त्रा साधनीये द्विषदुपशमने तत्फलत्वोक्त्यबाधात् ॥
३४-तमाहोबिल-यतिः - 10
- छन्दोगोद्गीथशब्द इत्यादि । छन्दोगोद्गीथशब्दः - छन्दोगानां ‘तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिहनिष्यामः’ इति च्छान्दोग्योद्गीथप्राणविद्याप्रकरणपठित उद्गीथशब्दः । प्रक्रमादिप्रसिद्धेस्तदवयवपरः - उपक्रमप्रभृतिषु प्रदेशेषूद्गीथशब्दस्य तदवयवभूतप्रणवपरत्वप्रसिद्धेः उद्गीथावयवभूतप्रणवपरः । ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्युक्रमे प्रणवपरतयोद्गीथशब्दप्रयोगात् तदुपर्यष्येवं द्रष्टव्यम् । उपरितनवाक्ये उद्गीथशब्दस्य समस्तैकदेशस्यानुषङ्गः । वाजिनाम् - वाजसनेयिनां तु । प्रकरणनियमाभावतः - प्रकरणात्मकव्यवस्थापकाभावात् । उद्गीथशब्दः कृत्स्नोद्गीथामिधायी स्यात् - उद्गीथशब्दस्य प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनाख्यसामभक्तिपञ्चकैकतमांशवाचित्वेन तमंशं सकलमभिदधातीत्यर्थः । तत्कर्त्रा - उद्गीथस्य कर्त्रा उद्गात्रा । साधनीये - सम्पादनीये । द्विषदुपशमने - शत्रुपराभवे । तत्फलत्वोक्त्यबाधात् - दण्डिना जितमिति विषये दण्डेन जितमित्युक्तौ तृतीयया दण्डस्य जयसाधनत्वावगतिवत् ‘उद्गीथेनात्ययाम’ इत्यत्रोद्गीथकर्त्रुद्गातृसाध्येऽपि शत्रुपराभवे नागृहीतविशेषणेतिन्यायेन उद्गीथस्य साधनत्वावगमात् शत्रुपराभवे तत्फलत्वोक्तेर्बाधाभावादित्यर्थः । एषाम् - वाजीनाम् । प्रक्रमस्था - ‘हन्तासुरान् यज्ञ उद्गीथेनात्ययाम’ इत्युपक्रमपठिता । उद्गीथोक्तिश्च । गातरि - उद्गातरि । उपचरितवती न - औपचारिकप्रवृतिमती न भवति । उद्गीथशब्दस्य उद्गीथाख्यसामभक्तिरूपशक्यार्थपरत्वेनैव वाक्यार्थोपपत्तिवर्णनादुद्गातृलक्षणा नाङ्गीकार्येति भावः ॥
कुमार-वरदः - 10
- पूर्वमुद्गीथविद्ययोर्भेदसिद्ध्यर्थं वेद्याकारभिदा प्रतिज्ञाता तामेव वेद्याकारभिदां विशदमुपपादयति - छन्दोगेति । छान्दोग्यवाक्ये तावदुद्गीथशब्दस्तदवयवभूतप्रणवपर एव । तत्र हेतुमाह - प्रक्रमादिप्रसिद्धेरिति । छान्दोग्यवाक्योपक्रमे उद्गीथशब्दस्य प्रणवपरत्वेनाभिधानात्, वाजसनेयके तु नियामकप्रकरणाद्यभावात् उद्गीथशब्दः कृत्स्नोद्गीथाभिधायी । तेन क्वचिदुद्गीथाभिधायी अन्यत्रोद्गीथावयवभूतप्रणवाभिधायीति रूपभेदस्सिध्यति । उद्गीथो नाम सामावयवो भक्तिविशेषः, तदवयवः प्रणव इति तयोर्भेदः प्रसिद्धः । एवं तर्हि वाजिनामुद्गीथशब्द उपक्रमस्थ औपचारिकस्स्यात् उद्गातर्युद्गीथशब्दप्रयोगात् तेनोपचार एव दोष इति चेत्, नात्रोपचारदोष इत्याह - तदिति । अयमर्थः - उद्गाता नाम उद्गीथस्य कर्ता, तत्कर्त्रा साधनीये कार्ये तस्याप्युद्गीथस्य नागृहीतविशेषणेतिन्यायेन साधनत्वमस्त्येव, तेन ‘उद्गीथेनात्ययाम’ इत्युद्गीथस्यैव साधनत्वोपदेशे सति नोपचारप्रसङ्ग इति शब्दार्थः । द्विषदुपशमने - शत्रुपराजये । तत्फलत्वोक्त्यबाधात् - उद्गीथफलत्वोक्तेरबाधादिति ॥
मूलम् - 10
- छन्दोगोद्गीथशब्दस्तदवयवपरः प्रक्रमादिप्रसिद्धेः
कृत्स्नोद्गीथाभिधायी प्रकरणनियमाभावतो वाजिनां स्यात् ।
उद्गीथोक्तिश्च नैषामुपचरितवती गातरि प्रक्रमस्था
तत्कर्त्रा साधनीये द्विषदुपशमने तत्फलत्वोक्त्यबाधात् ॥
विश्वास-प्रस्तुतिः - 11
- यद्यप्यब्रह्मविद्या परपरिभवनाद्यैहिकार्थप्रयुक्ता
न ग्राह्या मोक्षशास्त्रे तदपि समतया तत्परीक्षेति केचित् ।
काम्या विद्याप्यनिष्टव्यपनयनमुखैर्ब्रह्मविद्योपयुक्तैः
तत्तत्साध्यप्रभेदैर्भवति समुचितालोचनेत्याहुरन्ये ॥
३४-तमाहोबिल-यतिः - 11
- यद्यपीत्यादि । मोक्षशास्त्रे - मोक्षतत्साधनतदुपयुक्तार्थप्रतिपादकेऽस्मिन् शारीरकशास्त्रे तत्र च ब्रह्मोपासनविचारप्रकरणे । परपरिभवनाद्यैहिकार्थप्रयुक्ता - शत्रुपराभवादिरूपैहिकफले साधनत्वेन श्रुत्या विहिता । अत एव अब्रह्मविद्या - ब्रह्मविद्याभिन्ना उद्गीथविद्या । यद्यपि, न ग्राह्या - न विचारणीया । तदपि - तथापि । समतया - संयोगरूपचोदानाख्याविशेषादिति न्यायेन तुल्यतया । तत्परीक्षेति - उद्गीथविद्याविचारः क्रियत इति । केचित् - एकदेशिन ऊचुः । अन्ये तु । विद्या - उद्गीथविद्या । काम्यापि - फलान्तरार्थापि । अनिष्टव्यपनयनमुखैः - विद्यानुष्ठानविरोधिवादप्रवर्तकपुरुषपरिभवप्रमुखैः । ब्रह्मविद्योपयुक्तैः - अत एव विरोधिनिवृत्तिद्वारा ब्रह्मविद्यासहकारिभिः । तत्तत्साध्यप्रभेदैः - तत्तत्फलविशेषैः । समुचितालोचना भवतीत्याहुः - उपयुक्तार्थविषयतयोचितविचारैवेत्याहुः ॥
कुमार-वरदः - 11
- गुणोपसंहारपादे ब्रह्मविद्यैव सञ्चिन्तनीया, अध्यात्मशास्त्रत्वात् तथा सैव सर्वत्र सञ्चिन्त्यते च, अथापि किमत्र स्वयमब्रह्मविद्या शत्रुपराजयादिक्षुद्रफलान्तरार्था चोद्गीथविद्या सञ्चिन्त्यते इत्याशङ्क्य द्वेधा समाधानमाह - यद्यपीति । तत्रैकदेशिभिरुक्तः परिहारस्तावदुच्यते - यद्यपि इयमब्रह्मविद्यैव, क्षुद्रफलार्था च, तेनात्र न ग्राह्या च मोक्षशास्त्रे, तथापि संयोगरूपचोदनाख्याविशेषादितिन्यायेन सञ्चिन्तनीयत्वाविशेषादत्र सञ्चिन्त्यत इत्येकदेशिनामयं पक्षः । अपरेषां तु इयं विद्या काम्यापि ब्रह्मविद्यानुष्ठानोपयुक्तस्य तद्विरोधिनिराकरणस्य साधनत्वेनोपदिष्टत्वात् उपयोगविशेषस्य विद्यमानत्वेन ब्रह्मविद्यान्तर्गतत्वात् तत्र विशेषतस्सञ्चिन्तनीयेति । शत्रवो हि विद्यानुष्ठानप्रतिपक्षा वादादयः तत्प्रवर्तकाश्च पुरुषा इति । तेषां परिभवश्च विद्यासाद्गुण्यमेवापादयतीत्युद्गीथादिविद्याचिन्तनमत्रैव विशेषेण सङ्गच्छत इति ॥
मूलम् - 11
- यद्यप्यब्रह्मविद्या परपरिभवनाद्यैहिकार्थप्रयुक्ता
न ग्राह्या मोक्षशास्त्रे तदपि समतया तत्परीक्षेति केचित् ।
काम्या विद्याप्यनिष्टव्यपनयनमुखैर्ब्रह्मविद्योपयुक्तैः
तत्तत्साध्यप्रभेदैर्भवति समुचितालोचनेत्याहुरन्ये ॥
विश्वास-प्रस्तुतिः - 12
- अज्ञातब्रह्मतत्त्वः कथमिव विमृशेत् कुत्रचिद् ब्रह्मदृष्टिं
तस्मात्तत्तादृशीनां समुचितमगतेरत्र मीमांसनं स्यात् ।
आदध्युः कर्मणाञ्च स्वफलवितरणे वीर्यवत्त्वातिरेकं
ब्रह्मध्यानार्थकर्मातिशयजननतः प्रस्तुतापेक्षितं तत् ॥
३४-तमाहोबिल-यतिः - 12
- अज्ञातब्रह्मतत्व इत्यादि । अज्ञातब्रह्मतत्वः - अज्ञातब्रह्मस्वरूपयाथात्म्यः पुरुषः । कुत्रचित् ब्रह्मदृष्टिं कथमिव विमृशेत् - उद्गीथादिषु ब्रह्मत्वेनोपासनं कथमिवावलम्बेत । तस्मात् - उद्गीथादिषु ब्रह्मदृष्टेर्ब्रह्मज्ञानसापेक्षात् । तत्तादृशीनाम् - ब्रह्मदृष्टिरूपाणामुद्गीथादिविद्यानाम् । अगतेः - अगत्या । अत्र मीमांसनं समुचितं स्यात् - अस्मिन्ब्रह्मकाण्डे विचारणमुचितं भवेत् । अयमेकस्समाधिः । समाध्यन्तरमाह - आदध्युरित्यादिना । कर्मणां स्वफलवितरणे वीर्यवत्त्वातिरेकमादध्युश्च - विद्याङ्गकर्मणां स्वफलभूतब्रह्मविद्याविरोधिमनोमालिन्यनिवर्तनादौ अप्रतिबद्धफलत्वरूपवीर्यवत्त्वातिशयं उद्गीथादिविद्याः विदध्युः खलु । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति श्रुत्या ‘पृथग्घ्यप्रतिबन्धः फलम्’ इति सूत्रेण च तादृशफलनिर्णयादिति भावः । तत् - तस्मात् । ब्रह्मध्यानार्थकर्मातिशयजननतः प्रस्तुतापेक्षितम् - उक्तरीत्या ब्रह्मविद्याङ्गकर्मसु प्रबलकर्मान्तरप्रतिबन्धाभावेनाविलम्बेन स्वफलवितरणरूपातिशयजननेन प्रकृतब्रह्मविद्योपयुक्तमेवोद्गीथादिविद्याविचारणमिति ॥
कुमार-वरदः - 12
- अत्रैवोद्गीथविद्यायाश्चिन्तनीयत्वे प्रकारान्तरेणापि हेतुद्वयमाह - अज्ञातेति । इदं किल हेतुद्वयम् उद्गीथाद्युपासनानि ब्रह्मदृष्टिरूपाणि तानि च द्रष्टव्यब्रह्मपरिज्ञानाभावे कर्तुमेव न शक्यन्ते । तेनोद्गीथाद्युपासनचिन्तनस्यात्रैव सङ्गतिः । अत एव पूर्वं द्रष्टव्यब्रह्मविषयवैश्वानरविद्यादिकमस्मिन् पादे प्रथममेव चिन्तितम् । इदानीं ब्रह्मदृष्टिरूपोद्गीथादिविद्या चिन्त्यत इति । अयमत्र शब्दान्वयः - अज्ञातब्रह्मस्वरूपयाथात्म्यः कथमिव कुत्रचिदुद्गीथादिषु ब्रह्मदृष्टिं विमृशेत् । तस्मात् ब्रह्मज्ञानमन्तरेण उद्गीथादिदृष्टिविधीनामशक्यचिन्तनत्वात् अगत्या अत्रैव ब्रह्मकाण्ड एव चिन्तनीयता स्यात्, न पुनः कर्मकाण्डे ईदृशसङ्गत्यभावात् । अयमेको हेतुरुद्गीथाद्युपासनचिन्तनानामत्रैव कर्तव्यत्व उक्तः । हेत्वन्तरमप्युपयोगविशेषरूपं दर्शयति - आदध्युरिति । ‘यदेव विद्यया करोति, तदेव वीर्यवत्तरम्’ इति विद्याङ्गकर्मणां वीर्यवत्तरत्वापादकत्वेनोद्गीथविद्या विशेषेणात्रैव कर्तव्या, वीर्यवत्तरत्वं नाम विद्याङ्गकर्मणामप्रतिबद्धफलत्वम् । प्रतिबन्धकाभावे हि विद्याङ्गकर्माणि ब्रह्मविद्यां सहसैव साधयितुं शक्नुवन्ति । तेन ब्रह्मविद्योत्पत्तिप्रतिबन्धकनिराकरणार्थत्वात् स्वयं ब्रह्मदृष्टिरूपत्वाच्च उभयथाप्युद्गीथादिविद्यानामत्रैव चिन्तनं समुचितमित्यर्थः । अयमत्र निर्णयः - विद्याङ्गकर्मणां स्वफलवितरणे वीर्यवत्त्वातिरेकमुद्गीथादिविद्याः खल्वादध्युः । तस्मात् ब्रह्मध्यानार्थकर्मणामतिशयजननेनोद्गीथाद्युपासनचिन्तनं प्रस्तुतापेक्षितमेवेति ॥
मूलम् - 12
- अज्ञातब्रह्मतत्त्वः कथमिव विमृशेत् कुत्रचिद् ब्रह्मदृष्टिं
तस्मात्तत्तादृशीनां समुचितमगतेरत्र मीमांसनं स्यात् ।
आदध्युः कर्मणाञ्च स्वफलवितरणे वीर्यवत्त्वातिरेकं
ब्रह्मध्यानार्थकर्मातिशयजननतः प्रस्तुतापेक्षितं तत् ॥