16 सर्ववेदान्तप्रत्ययाधिकरणम्

विश्वास-प्रस्तुतिः - 6
  1. भेदश्शब्दान्तराद्यैर्विधिषु नियमितः कर्मकाण्डे द्वितीये
    संयोगाद्यैक्यतोऽन्यस्समुदितनियतात् सैव विद्यासु नीतिः ।
    आदौ तेनैव शाखान्तरनयमुदितं चोदनादेरभेदात्
    श्रुत्यैवाक्षिप्य भूयः प्रतिसमधित तं भेदकान्यार्थतोक्त्या ॥
३४-तमाहोबिल-यतिः - 6
  1. भेद इत्यादि । कर्मकाण्डे द्वितीये - कर्मकाण्डे द्वितीयाध्याये । शब्दान्तराद्यैः - शब्दान्तराभ्याससङ्ख्यागुणप्रक्रियानामधेयैः । भेदः, विधिषु - कर्मचोदनासु । नियमितः - प्रतिपादितः । तत्र अपर्यायश्शब्दश्शब्दान्तरं यजति जुहोति ददातीत्यादि । अभ्यासः ‘समिधो यजति’ ‘तनूनपातं यजति’ इत्यादिषु यजतियजतीति पुनः पाठः । ‘तिस्र आहुतीर्जुहोति’ इत्यादिषु त्रित्वादिरूपा सङ्ख्या । ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्’ इत्यादिषु श्रुतो वाजिनादिर्गुणः । ‘उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति’ इत्यादिषु प्रकरणान्तरम् । ‘अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिः’ इत्यादौ नामधेयम् । एतैः कर्मभेदकैः कर्मभेदः प्रतिपादित इत्यर्थः । समुदयनियतात् - समुच्चितात् । संयोगाद्यैक्यतः - ‘एकं वा संयोगरूपचोदनाख्याविशेषात्’ इति सूत्रोक्तात् संयोगादीनामैक्यात् । अन्यः - कर्मणामभेदोऽपि । नियमित इत्यनुषङ्गः । संयोगो नाम फलसम्बन्धः ।
    रूपं च द्रव्यदेवते । द्रव्यदेवते हि कर्मणो रूपमिति तान्त्रिकाः । चोदना लिङ्लोट्तव्यप्रत्ययादिशिरस्कः क्रियावाचिशब्दः । आख्या ज्योतिष्टोमादिनामधेयम् । तेषामविशेषे कर्मैक्यमिति सूत्रार्थः । विद्यासु सैव नीतिः - कर्मब्रह्मकाण्डयोरैकशास्त्र्यात् न्यायप्रवृत्तेरपि तुल्यत्वात् विद्यास्वपि या कर्मसु नीतिस्सैव नीतिः । चोदनादेरभेदात् तेनैव आदावुदितं शाखान्तरनयं श्रुत्यैवाक्षिप्य - पूर्वोक्ताच्चोदनादेः चोदनासंयोगरूपाख्यानामभेदात् अविशेषात् कर्मकाण्डेनैव द्वितीयाध्याये उक्तं शाखान्तरनयं सर्वशाखाप्रत्ययन्यायं श्रुत्यन्तर्गतभेदकप्रमाणेनैवाक्षिप्य । भेदकान्यार्थतोक्त्या - भेदकानां भेदकत्वेनोपन्यस्तानामविशेषपुनश्श्रवण प्रकरणान्तरव्रतविशेषयुक्तपुरुषोपदेशनियमरूपाणाम् अन्यार्थतोक्त्या प्रतिपत्त्रन्तरप्रतिपत्त्यर्थत्व-वेदविद्याङ्गत्वमूलकतदुपदेशविषयत्वरूपार्थान्तरार्थत्वप्रतिपादनेन । तम् - शाखान्तरनयम् । भूयः प्रतिसमधित - पुनस्समाधिना स्थापयामास सूत्रकार इत्यर्थः ॥
कुमार-वरदः - 6
  1. अत्र पादसङ्गतिर्भाष्ये ‘उक्तं ब्रह्मोपासिसिषोपजननाय वक्तव्यं ब्रह्मणः फलदायितापर्यन्तम् । इदानीं ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते’ इति । अधिकरणावतारमप्याह ‘प्रथमं तावत्’ इत्यादिना । ‘फलमत उपपत्तेः’ इत्यत्र उपास्यस्य ब्रह्मणस्सर्वफलप्रदाने प्राधान्यमुक्तम्, अधुना पुनर्मूर्धादिपादपर्यन्तपरिकॢप्त्या सविग्रहब्रह्मोपासनरूपाया वैश्वानरविद्यायाः परविद्यान्तरात् प्राधान्येन सैव प्रथमं विचार्यते । अत एव भगवता पराशरेण ब्रह्मविद्याप्रसङ्गे सविग्रहमेव ब्रह्म प्रथमं चिन्तनीयं शुभाश्रयत्वात्, ब्रह्मस्वरूपं तु न योगयुजा चिन्त्यम्, आरूढयोगेनैव चिन्त्यमित्युक्तम् । अस्याञ्च विद्यायां पूर्वकाण्डशाखान्तराधिकरणोक्तसकलन्यायसमुच्चयस्य विद्यमानत्वात् एतद्विचारपूर्वकमेव विद्यान्तरविचारौचित्यादेषैव विद्या पूर्वं विचार्यत इत्यभिप्रायः । एतदेव ‘प्रथमं तावत्’ इति द्वाभ्यामपि पदाभ्यां द्योत्यते । तदर्थविचारस्तु - नानाशाखास्वधीताया वैश्वानरादिकाया विद्यायाः किं प्रतिशाखं भेदः, उतैक्यमिति । किं शाखान्तरे प्रत्यभिज्ञास्ति नेति । किं ‘तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्’ इति शिरोव्रतवतामाथर्वणिकानां विद्योपदेशनियमो भेदोपपादकतया प्रत्यभिज्ञाविरोधी नेति । किं शिरोव्रतं विद्याङ्गम्, उताध्ययनाङ्गमिति । अत्र कर्मकाण्डशाखान्तराधिकरणोक्ताभेदकन्यायैरभेदमुक्त्वा पुनर्भेदकन्यायैराक्षिप्य भेदकानां तेषामन्यार्थत्वप्रदर्शनेनाभेदमेव पुनः प्रतिष्ठापयामास सूत्रकार इत्याह - भेद इत्यादिना । अयमर्थः - कर्मकाण्डे हि संयोगरूपचोदनाख्याविशेषात् कर्मणामैक्यमुक्तम् । संयोगो नाम फलसंयोगः । रूपञ्च द्रव्यदेवते । द्रव्यदेवते हि कर्मणो रूपमिति तान्त्रिकाः । चोदना लिङ्लोट्तव्यप्रत्ययादिशिरस्कः क्रियावाचिशब्दः । आख्या ज्योतिष्टोमादिनामधेयम् । तेषामविशेषात् कर्मैक्यमिति ‘संयोगरूपचोदनाख्याविशेषात्’ इति सूत्रार्थः । भेदकप्रमाणानि तु शब्दान्तरादीनि । अपर्यायशब्दश्शब्दान्तरं यजति जुहोति ददातीत्यादि । अभ्यासस्तु ‘समिधो यजति’ ‘तनूनपातं यजति’ इत्यादिरूपः पुनः पुनः पाठः । सङ्ख्या ‘तिस्र आहुतीर्जुहोति’ इत्यादिषु दृष्टा त्रित्वादिः । गुणस्तु ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्यादिषु श्रुतो वाजिनादिः । ‘उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति’ इत्यादिषु प्रकरणान्तरमुपलभ्यते । नामधेयमपि भेदकं दृश्यते ‘अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिः’ इत्यादौ । तेन पूर्वकाण्डोक्तन्यायकलापैर्भेदकैरभेदकैश्चेदमधिकरणं व्यारचितम् । तत्र शब्दान्वयस्तु - कर्मकाण्डे द्वितीयाध्याये शब्दान्तराद्यैर्भेदो विधिषु नियमितः प्रतिपादितः । समुदयनियतात् समुच्चितात् संयोगाद्यैक्यतः संयोगरूपचोदनाख्याविशेषात् अन्यः कर्मणामभेदोऽपि स्थापितः । कर्मब्रह्मकाण्डयोरैकशास्त्र्यात् न्यायप्रवृत्तेरपि तुल्यत्वात् विद्यायामपि कर्मनीतिरेव नीतिः । इत्थं सामान्येनार्थतत्त्वमभिधाय एतस्याधिकरणस्य सिद्धान्तारम्भपूर्वकत्वात् प्रथमं सिद्धान्तमभिधाय पूर्वपक्षाभिप्रायेणाक्षिप्य पुनस्तमेव सिद्धान्तं स्थापयामास सूत्रकार इति दर्शयति - आदाविति । शब्दान्वयस्तु - तेनैव कर्मकाण्डेनैव चोदनादरभेदादादावुदितमुक्तं शाखान्तरनयं श्रुत्यैवाक्षिप्य श्रुत्यन्तर्गतात् भेदकप्रमाणादाक्षिप्य तं पूर्वोक्तमेवार्थं प्रतिसमधित - स्थापयामास । तत्र हेतुमाह - भेदकान्यार्थतोक्त्येति । भेदकस्य प्रमाणस्य अर्थान्तरे तात्पर्यादित्यर्थः ॥
मूलम् - 6
  1. भेदश्शब्दान्तराद्यैर्विधिषु नियमितः कर्मकाण्डे द्वितीये
    संयोगाद्यैक्यतोऽन्यस्समुदितनियतात् सैव विद्यासु नीतिः ।
    आदौ तेनैव शाखान्तरनयमुदितं चोदनादेरभेदात्
    श्रुत्यैवाक्षिप्य भूयः प्रतिसमधित तं भेदकान्यार्थतोक्त्या ॥
विश्वास-प्रस्तुतिः - 7
  1. शाखासु प्रक्रियान्या श्रवणमपि पुनर्दृष्टमत्राविशेषं
    विद्याभेदस्ततस्स्यादिति न तदुभयं युक्तमध्येतृभेदात् ।
    तेषामेवेति वाक्यात् क्वचिदुपजनिता भेदशङ्का त्वयुक्ता
    स्वाध्याये ब्रह्मविद्यापदमिह हि भवेत्तद्व्रतेनान्वयोक्तेः ॥
३४-तमाहोबिल-यतिः - 7
  1. शाखास्वित्यादि । शाखासु प्रक्रिया अन्या - ब्रह्मविद्यावादिनीषु तासुतासु शाखासु प्रकरणमन्यत् । अत्र अविशेषं पुनश्श्रवणमपि दृष्टम् - यत् प्रकरणान्तरमविशेषपुनश्श्रवणञ्च कर्मभेदकत्वेन कर्मकाण्डोपन्यस्तम्, तदत्र दृश्यत इत्यर्थः । ततः - भेदकप्रमाणसद्भावात् । विद्याभेदः स्यादिति । न - न
    युक्तमिदम् । तदुभयम् - प्रकरणान्तर,अविशेषपुनःश्रवणद्वयम् । अध्येतृभेदात् युक्तम् - प्रतिपत्तृभेदादुपपन्नम् । न तु विद्याभेदकम् । यत्र प्रतिपत्त्रन्तराभावस्तत्रैवाविशेषपुनश्श्रणं प्रकरणान्तरञ्च भेदकम्, यत्र प्रतिपत्त्रन्तरं दृश्यते तत्र तयोस्तादर्थ्यमेवेति भावः । तेषामेवेति क्वचिद्वाक्यादुपजनिता भेदशङ्का तु अयुक्ता - तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्, इति शाखाभेदे श्रुतात् वाक्यात् शिरोव्रतवतामाथर्वणिकानामेव विद्योपदेशप्रतिपादकात् जनिता विद्याभेदशङ्का तु न साध्वी । तद्व्रतेन - स्वाध्यायाङ्गव्रतभूतेन शिरोव्रतेन सह । अन्वयोक्तेः - ब्रह्मविद्यापदार्थस्यान्वयाभिधानात्, तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् इति वाक्ये स्वाध्यायाङ्गभूताशिरोव्रतेन सहाङ्गाङ्गिभावेन सम्बन्धाभिधानात् । इह - अस्मिन्वाक्ये । ब्रह्मविद्यापदं, स्वाध्याये हि भवेत् - ब्रह्मविद्यापदं ‘वेदस्तत्वं तपो ब्रह्म’ इति निघण्टुपाठात् आथर्वणवेदात्मिकां विद्यामित्यर्थगत्या स्वाध्यायप्रतिपादकमित्यर्थः । शिरोव्रतस्य स्वाध्यायङ्गत्वं तु ‘इदमपि वेदव्रतेन व्याख्यातम्’ इति समाचाराख्यग्रन्थवाक्ये शिरोव्रतस्य वेदव्रतत्वाभिधानादवगम्यते । ‘इदं’ व्रतान्तरं ‘वेदव्रतेन’ साङ्गोपाङ्गं प्रतिपादितेन वेदव्रतशब्दितेन शिरोव्रतेन ‘व्याख्यातम्’ - तद्वदिदमनुष्ठेयमिति अतिदेशवाक्यं हीदम् । किञ्च नैतदचीर्णव्रतोऽधीयीत इति व्यतिरेकविधया व्रतशब्दितस्य शिरोव्रतस्याध्ययनकर्मभूतवेदसम्बन्धावगमाच्च । चिन्तामणिकारास्तु - अत्र ब्रह्मविद्यापदं स्वाध्यायवाचकमेव नपुनर्विद्यावाचकम्, नैतदचीर्णव्रतोऽधीयीतेति वेदव्रतेन वेदाध्ययनस्यान्वयोक्तेरित्यर्थः इत्यभ्यधुः ॥
कुमार-वरदः - 7
  1. अत्रोक्तार्थापवादरूपं विद्याभेदहेतुमनूद्य तत्परिहारमपि भाष्योक्तमेव विशदं प्रकाशयति - शखास्विति । अयमर्थः - अविशेषपुनश्श्रवणात् प्रकरणान्तराच्च विद्याभेद एवात्र समुचितः । ‘समिधो यजति’ ‘तनूनपातं यजति’ इत्यादौ यजति यजतीत्यविशेषपुनश्श्रवणात् ‘उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति’ इत्यत्र प्रकरणान्तराच्च कर्मभेदो दृष्टः । एवमत्रापि ताभ्यामेव हेतुभ्यां विद्याभेदोऽङ्गीकार्य एव । अयमत्रान्वयः - ब्रह्मविद्यावादिनीषु शाखासु तत्रतत्र प्रक्रिया अन्या दृष्टा अत्र च अविशेषमपि पुनश्श्रवणं दृष्टं ततो विद्याभेदस्स्यादिति । तदेतत् प्रतिक्षिपति - नेति । तदुभयं अविशेषपुनश्श्रवणं प्रकरणान्तरञ्च अध्येतृभेदाद्युक्तमेव । अयमर्थः - इत्थं किल मीमांसकानां मर्यादा । अविशेषपुनश्श्रवणं प्रकरणान्तरञ्च विधेयभेदावहमेव यद्यध्येतृभेदो न स्यात् । प्रतिपत्तृभेदे सति अविशेषपुनश्श्रवणं प्रकरणान्तरञ्च न भेदकमेव । तेनात्र प्रतिपत्तृभेदस्य विद्यमानत्वात् न विद्याभेदप्रसङ्गः । ननु ‘तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्’ इति शिरोव्रतवतामेव ब्रह्मविद्योपदेशनियमात् विद्याभेदोऽस्त्विति मयोक्तं तत्र कोऽयं परिहार इति पूर्वपक्षिणोऽभिप्रायमाशङ्क्य तत्रापि परिहारमाह - अयुक्तेति । कथमयुक्तत्वमित्यत्राह - स्वाध्याय इति । अत्र ब्रह्मविद्यापदं स्वाध्यायवाचकमेव न पुनर्विद्यावाचकं ‘नैतदचीर्णव्रतोऽधीयीत’ इति वेदव्रतेन वेदाध्ययनस्यान्वयोक्तेरित्यर्थः ॥
मूलम् - 7
  1. शाखासु प्रक्रियान्या श्रवणमपि पुनर्दृष्टमत्राविशेषं
    विद्याभेदस्ततस्स्यादिति न तदुभयं युक्तमध्येतृभेदात् ।
    तेषामेवेति वाक्यात् क्वचिदुपजनिता भेदशङ्का त्वयुक्ता
    स्वाध्याये ब्रह्मविद्यापदमिह हि भवेत्तद्व्रतेनान्वयोक्तेः ॥
विश्वास-प्रस्तुतिः - 8
  1. रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यमन्यो गुणश्चेत्
    भेदो न स्याद्विकल्पं तदिह किमफला तेन चिन्तेति चेन्न ।
    वेद्याकारैक्यमैक्यं दिशति तदधिकं किञ्चिदाकृष्यतेऽङ्गं
    कर्मण्यप्येवमेव ह्युपहृतिविषयो भेदकांशातिरिक्तः ॥
३४-तमाहोबिल-यतिः - 8
  1. रूपैक्यादित्यादि । रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यम् - रूपैक्यात् विद्यैक्ये सिद्धे सति किमन्यदुपसंहार्यम् । रूपैक्यस्यैवोपसंहार्यत्वे रूपैक्यात् विद्यैक्यं विद्यैक्याद्रूपैक्यमितीतरेतराश्रयत्वं, रूपैक्यात् विद्यैक्यं विद्यैक्यात् वेद्याकाररूपगुणोपसंहारो गुणोपसंहारातद्रूपैक्यमिति चक्रकं वा आपतेत् । अन्यो गुणश्चेत् - वेद्याकारादन्यो गुण उपसंहार्य इति चेत् । भेदो न स्यात् - तस्याविरुद्धत्वे वेद्याकारादन्यत्वासिद्ध्या विरुद्धगुणत्वस्याङ्गीकार्यत्वात् तत्तद्विद्यासु व्यवस्थितानां परस्परभेदकानां गुणानां परस्परमुपसंहारे विद्यानां भेदो न स्यादित्यर्थः । विकल्प्यम् - विकल्पशब्दो भेदपरः, हितार्थयत्प्रत्ययस्साधकवचनः । भेदसाधकमित्यर्थः । तत् - विद्यान्तरस्यासाधारणं रूपम् । इह - अस्मिन् विद्याविशेषे । किम् - अत्र किमिति प्रतिक्षेपे । न भवत्येव । विद्यान्तरस्यासाधारणं रूपं विद्यान्तरे न भवति हीति भावः । तेन - एवमुपपादनेन । चिन्ता - भेदाभेदचिन्ता । अफला - गुणोपसंहारानुपसमहारार्था न भवतीति निष्फलैव । इति चेन्न । वेद्याकारैक्यम्, ऐक्यं दिशति - विद्यैक्यमापादयति । वेद्याकारैक्यमनुपसंहार्यमेव प्रागेव सिद्धत्वात्, तेन न चक्रकान्योन्याश्रयाविति भावः । तदधिकं किञ्चित् अङ्गमाकृष्यते - तथा च विद्याया ऐक्ये सिद्धे तदधिकं विद्याया ऐक्यापादकाकारादन्यदेव किञ्चिदङ्गमाकृष्यते उपसंह्रियते । तच्चापि तत्तच्छाखासु सर्वत्र श्रुतं चेदनुपसंहार्यमेव, श्रुतत्वात् । क्वचिदेव श्रुतं चेत् विद्यैक्यात् शाखान्तरेऽप्युपसंहर्तव्यमिति भावः । कर्मण्यप्येवमेव भेदकांशातिरिक्तो हि उपहृतिविषयः - कर्मकाण्डेऽप्येवम्प्रकारेणैव भेदकगुणातिरिक्त एवोपसंहारविषयो गुणस्स्वीकृत इत्यर्थः । अयमाशयः - कर्मस्वपि परस्परविरुद्धो धर्मो नोपसंहार्यः । रूपाद्यैक्यादैक्ये सिद्धेऽपि तदैक्यापादकञ्च रूपं पूर्वमेव सिद्धत्वान्नोपसंहार्यम् । तद्व्यतिरिक्तञ्च रूपमेकत्रैव प्रतिपन्नञ्चेत् इतरत्रोपसंहार्यम् । तच्चोभयत्रापि प्रतिपन्नं चेत् नैवोपसंहार्यमिति न्यायवित्सम्मतो मार्गः । स एव विद्यास्वप्यनुसर्तव्य इति न कापि हानिरिति ॥
कुमार-वरदः - 8
  1. अत्र कश्चिच्चोदयति रूपैक्यात् विद्यैक्ये सिद्धे सति किमितरदुपसंहार्यम् ? तदेव रूपैक्यमिति चेन्न इतरेतराश्रयादिप्रसङ्गात् रूपैक्यात् विद्यैक्यं विद्यैक्यात् रूपैक्यमिति । अथवा चक्रकमेव रूपैक्यात् विद्यैक्यं विद्यैक्यात् वेद्याकाररूपगुणोपसंहारो गुणोपसंहारात् रूपैक्यमिति । तर्हि वेद्याकारादन्यो गुण उपसंहार्य इति चेत् स चान्यो विरुद्धो वा किं वा अविरुद्धः । विरुद्धश्चेत् तर्हि विरुद्धधर्मयोरेकत्रोपसंहाराङ्गीकारे सति लोके सर्वत्र भेद एव न स्यात् । उष्णत्वशीतत्वयोरेकत्रोपसंहारसम्भवे कोऽन्यो भेदकः? तेन कर्मणां विद्यानां वा तत्तदसाधारणभेदकधर्मोपसंहारे यागदानहोमादीनां सद्विद्यादहरविद्याभूमविद्यादीनां भेद एव न स्यात् । ननु विकल्पेनोपसंहारस्स्यात् कदाचित् स्वधर्मान्वयः अन्यदा तद्विरुद्धान्यधर्मान्वय इति, तदपि न; विकल्पस्याष्टदोषदुष्टत्वात् । किञ्च विकल्प एवात्र न सम्भवति स्वधर्मस्य श्रुत्यैवोपदिष्टत्वात् अन्यस्य विरुद्धधर्मस्य श्रुत्या अनुपदिष्टत्वात् । तुल्ययोर्हि विकल्पो न पुनरतुल्ययोः । तेनोपसंहार्यो धर्मः कोऽयमिति । तस्मात् भेदाभेदचिन्ता गुणोपसंहारानुरसंहारार्थेति व्यर्थाभिधानमिति । तदेतदनुवदति - रूपैक्यादिति । शब्दान्वयस्तु - रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यम् ? अन्यो गुणश्चेत् विद्यान्तरादिव्यवस्थितो गुणश्चेत् कर्मणां विद्यानां वा क्वचिदपि रूपभेदव्यवस्थितो भेदो न स्यात् । विकल्प्यं तदिह किमिति । अत्र किमिति प्रतिक्षेपे । विकल्प्यं तद्रूपमिह न भवत्येव विद्यान्तरासाधारणत्वात् । तेन एवमुपपादनेन भेदाभेदचिन्ता न गुणोपसंहारार्था भवतीति निष्फलेति । अत्रोत्तरम् - नेति । उपसंहार्यानुपसंहार्यविभागं व्यक्तमेव दर्शयति - वेद्याकारेति । वेद्याकारैक्यं विद्यैक्यं दिशति । तत्तु वेद्याकारैक्यमनुपसंहार्यमेव प्रागेव सिद्धत्वात् । तेन न चक्रकम्, नाप्यन्योन्याश्रयः । तथा च विद्याया ऐक्ये सिद्धे तदधिकं विद्याया ऐक्यापादकाकारादधिकमन्यदेव किञ्चिदङ्गमाकृष्यते तच्चापि तत्तच्छाखासु सर्वत्र श्रुतं चेत् अनुपसंहार्यमेव श्रुतत्वात् । क्वचिदेव श्रुतं चेत् तदानीं विद्यैक्यात् शाखान्तरेऽप्युपसंहर्तव्यमिति न्यायमार्गः । इयं किल मर्यादा किं भवतैव परिकॢप्तेत्याशङ्क्य कर्मकाण्डविदामपीयमेव मर्यादेति स्वोक्तमर्थं सर्वविद्वज्जनसम्मत्या द्रढयति - कर्मण्यपीति । अस्मदुक्तानङ्गीकारे सर्वशास्त्रव्याकोपस्स्यादित्यर्थः । अयमत्र शब्दान्वयः - कर्मण्यपि कर्मकाण्डेऽपि एवमेव एवम्प्रकारेणैवोपसंहारविषयो गुणो भेदकगुणातिरिक्त एव स्वीकृतः । अत्र हि यागदानहोमादीनां भिन्नानां कर्मणां तत्तदसाधारणधर्माद्भेदकादतिरिक्तः कश्चित् धर्मस्संयोगरूपचोदनाख्याविशेषात् कर्मैक्ये सिद्धे तस्मादेवैक्यात् सर्वत्रोपसंह्रियत इति । अयमर्थः - कर्मसु परस्परविरुद्धो धर्मो नोपसंहार्यः, रूपाद्यैक्यादैक्ये सिद्धेऽपि ऐक्यापादकं रूपमपि नोपसंहार्यम्, तद्व्यतिरिक्तमपि रूपमेकत्रैव प्रतिपन्नं चेत् इतरत्रोपसंहार्यम् । तच्चोभयत्रापि प्रतिपन्नं चेत् अनुपसंहार्यमेवेति तान्त्रिकगोष्ठीनिष्ठानां निर्णयः ॥
मूलम् - 8
  1. रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यमन्यो गुणश्चेत्
    भेदो न स्याद्विकल्पं तदिह किमफला तेन चिन्तेति चेन्न ।
    वेद्याकारैक्यमैक्यं दिशति तदधिकं किञ्चिदाकृष्यतेऽङ्गं
    कर्मण्यप्येवमेव ह्युपहृतिविषयो भेदकांशातिरिक्तः ॥