15 उपोद्घातम्

विश्वास-प्रस्तुतिः - 1
  1. तत्त्वज्ञानानुविद्धं हिततममनघं मोक्ष्यमाणस्य वक्तुं
    तत्त्वे निर्धूय तर्कज्वरजनितमहासन्निपातप्रलापान् ।
    निष्पन्ने तत्त्वबोधे न किमपि विदुषा साध्यमित्युद्गृणद्भ्यो
    यावज्जीवानुवर्त्यं मुररिपुभजनं मुक्तिलाभाय वक्ति ॥
३४-तमाहोबिल-यतिः - 1
  1. तत्त्वज्ञानानुविद्धमित्यादि । मोक्ष्यमाणस्य - ‘तेनैव मोचनीयास्ते’ इति प्रमाणानुसारेण प्रसदनव्यापारशान्तहृदयकालुष्येण भगवता भवपाशात् मोक्ष्यमाणस्य पुरुषस्य । अनघम् - उपनिषत्प्रमाणप्रतिपन्नतया फलव्यभिचारादिदोषशून्यम् । तत्त्वज्ञानानुविद्धम् - तत्त्वज्ञानेन पूर्ववर्तिना नित्यसम्बद्धम् । तत्त्वज्ञाने सिद्धे ह्यनन्तरमुपासनानुष्ठानम् । हिततमम् - अनाद्याज्ञातिलङ्घनजनितस्य दायवत् स्वतःप्राप्तनिरन्तरभगवदनुभवादिरूप परमपुरुषार्थप्रत्यूहभूतस्य भगवद्धृदयकालुष्यस्य शमनद्वारा पुरुषार्थसाधकमुपासनम् । वक्तुम् - तृतीयपादे सम्यगुपपादयितुम् । तत्त्वे - तदुपोद्धाततया प्रथममवश्यज्ञातव्यचिदचिदीश्वराख्यप्रामाणिकार्थजातविषये । तर्कज्वरजनितमहासन्निपातप्रलापान् - तर्काः व्याप्तिशून्यत्वादिदोषाविचारेण प्रवर्त्यमाना व्याप्याभासारोपेण व्यापकाभासारोपरूपास्त एव ज्वराः, तज्जनितो महान् - अप्रतिचिकित्स्यः सन्निपातो महामोहो येषां तेषां प्रलापान् पूर्वोत्तरविरुद्धवचनानि । निर्धूय - निराकृत्य । दशपादात्मकेन शास्त्रभागेनेति शेषः । तत्त्वबोधे निष्पन्ने विदुषा किमपि न साध्यमित्युद्गृणभ्यः - अधुना तृतीयपादेन तत्त्वज्ञाने सम्पादिते ततःपरं विदुषः कर्तव्यमुपासनादिकं वान्यद्वा नित्यनैमित्तिकादिकर्म किमपि नास्ति - ‘दग्धाखिलाधिकारत्वात् ब्रह्मज्ञानाग्निना मुनिः । वर्तमानश्श्रुतेर्मूर्ध्नि नैव स्याद्वेदकिङ्करः ॥’ इति हि प्राचीनजरन्मायिजनानुष्टुबित्युद्धोषयद्भ्यो मायावादिभ्यः । चतुर्थ्यन्तं पदम् । अन्धकाराय दीप इत्यत्रान्धकारं निवर्तयितुमितिवत् तान्निवर्तयितुमित्यर्थः । ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः’ (पा.सू. 2. 3.14) इति सूत्रेण चतुर्थी । ‘क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात्, फलेभ्यो याति फलान्याहर्तुं याती’(सि.कौ)त्यर्थ इति सूत्रार्थवर्णनमुदाहरणञ्च । मुक्तिलाभाय मुररिपुभजनं यावज्जीवानुवर्त्यं वक्ति - तत्त्वज्ञानेनावगतपरशेषतैकरसस्वरूपस्य चेतनस्यात्माभिमानानुगुणपुरुषार्थव्यवस्थया परमपुरुषार्थलिप्सोरभिलषितस्य मोक्षाख्यस्य पुरुषार्थस्य लाभाय आश्रितविरोधिनिवर्तनैकस्वभावभगवद्भक्तिं ‘स खल्वेवं वर्तयन्यावदायुषम्’ इति श्रुतेर्यावज्जीवमनुवर्तनीयां प्रतिपादयतीत्यर्थः ॥
कुमार-वरदः - 1
  1. एवं पूर्वोक्तैर्दशभिः पादैर्मोक्षोपायोपयुक्तं तत्त्वज्ञानं प्रतिष्ठापितम् । उत्तरत्र षड्भिः पादैः परब्रह्मप्राप्तिरूपफलसंवलितं तद्धेतुभूतमुपासनं विशदमेव प्रकाश्यत इति पूर्वोत्तरयोरन्वयमाह - तत्त्वज्ञानेति । मोक्ष्यमाणस्य पुरुषस्य तत्त्वज्ञानानुविद्धं हिततममुपासनमुत्तरत्र वक्तुं तत्त्वे विषये तर्कज्वरजनितमहासन्निपातप्रलापान् परवादान् निर्धूयाधुना तत्त्वबोधे निष्पन्ने सति तत्त्वज्ञानस्य सञ्जातत्वात् ‘दग्धाखिलाधिकारत्वात् ब्रह्मज्ञानाग्निना मुनिः । वर्तमानश्श्रुतेर्मूर्ध्नि नैव स्याद्वेदकिङ्करः ॥’ इति वेदकिङ्करत्वमपलपद्भ्यो मृषावादिभ्यः ‘स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते’ इति श्रुतिसिद्धं यावज्जीवानुवर्त्यं मुररिपुभजनं मुक्तिसिद्धये वक्तीत्यन्वयः । इत्थं किल मृषावादी मन्यते - य एव ह्यहङ्कारादियुक्तः स एव वेदकिङ्करः; कर्तृत्वभोक्तृत्वयोरनात्मधर्मत्वात् । काम्यकर्तृत्वं तावत् संसारहेतुत्वान्निरस्तमेव ज्ञानिनः । ब्रह्मोपासनकर्तृत्वमपि तथैव निरस्तं तस्यापि सांसारिकधर्मान्तर्भावात् । ब्रह्म तु न ज्ञेयं नोपास्यं न प्राप्यमपि । नच वेदैरयमर्थो ज्ञाप्यते । नित्यस्वयम्प्रकाशत्वात् स्वयम्प्रकाशत्वमपि न निरुच्यते । तदनिर्वचने कथं ब्रह्मसिद्धिरिति चेत् मा भूत् ब्रह्मसिद्धिः । अत एव ह्यध्यात्मविदः प्रवदन्ति ‘अवचनेनैव प्रोवाच’ इति । एवमसम्बद्धवादिनो मिथ्यावादिनस्सद्विद्यामपि स्वसमयसारभूततया परिगृहीतां परित्यजन्ति, किमुत दहरविद्यादिकान् विद्याभेदान् विविधगुणपरिष्कारयुक्तान् । अतस्तत्प्रतिक्षेपायारभ्यत इति ॥
मूलम् - 1
  1. तत्त्वज्ञानानुविद्धं हिततममनघं मोक्ष्यमाणस्य वक्तुं
    तत्त्वे निर्धूय तर्कज्वरजनितमहासन्निपातप्रलापान् ।
    निष्पन्ने तत्त्वबोधे न किमपि विदुषा साध्यमित्युद्गृणद्भ्यो
    यावज्जीवानुवर्त्यं मुररिपुभजनं मुक्तिलाभाय वक्ति ॥
विश्वास-प्रस्तुतिः - 2
  1. भीमाभ्यो यातनाभ्यः पितृपथगमनावर्तनादेश्च बिभ्यत्
    तृष्णां कृष्णामृताब्धौ परिणयति परां यावता तावदुक्तम् ।
    इत्थं लब्धाधिकारः परमधिकुरुते साधने यत्र साङ्गे
    पादद्वन्द्वे परस्मिंस्तदिह बहुभिदाबर्बरं निर्ब्रवीति ॥
३४-तमाहोबिल-यतिः - 2
  1. भीमाभ्य इत्यादि । चेतनः इति शेषः । भीमाभ्यः - श्रवणमात्रेण महाभयहेतुभ्यः । यातनाभ्यः - नरकयातनाभ्यः । पितृपथगमनावर्तनादेश्च - पितृपथस्य धूमादिमार्गस्य गमनात्, आवर्तनात् योनिप्राप्तिपर्यन्तात् ।आदिशब्दार्थभूतात् व्रीह्यादिभावकष्टाच्च । बिभ्यत् - भीतस्सन् । कृष्णामृताब्धौ - श्रीकृष्ण एवामृताकूपारस्तस्मिन् । परां तृष्णाम् - भक्तिनिश्श्रेणीपर्वभेदभूतां विषयलाभाभावे स्वरूपशैथिल्यमपि कर्तुं प्रवृत्तां वाञ्छाम् । यावता परिणयति - यावता ज्ञातेनार्थजातेन प्रापयति । तावदुक्तम् - अस्मिन् पादद्वन्द्वे इति शेषः । वैराग्योभयलिङ्गपादद्वये तावदर्थजातं प्रतिपादितम् । तच्चार्थजातमिदमेव इहामुत्र च सञ्चरतः पुनःपुनर्नानायोनिषु प्रविशतस्स्वपतस्सुषुप्तस्य मूर्च्छतश्च जीवस्य यानि कष्टानि तानि सर्वेष्वपि वस्तुष्वन्तर्यामित्वेन अवस्थितस्यापि तद्गतदोषैरसंस्पृष्टस्य भगवतो निखिलहेयप्रत्यनीकत्वसमस्तकल्याणगुणास्पदत्वनिरतिशयपारम्य निखिलफलप्रदत्वादिरूपं यच्च वैभवं तच्चेति । अस्मिन् ह्यर्थजातेऽवगते चेतनस्सांसारिकभोगेभ्यो विरज्येत तृष्णाञ्च परमां परमानन्दस्वरूपे भगवति परिणयेत् । इह परस्मिन्पादद्वन्द्वे - अस्मिंस्तृतीयाध्याये तृतीयचतुर्थात्मके उपरितनपादद्वये तु । इत्थम् - उक्तप्रकारेण वैराग्योभयलिङ्गपादार्थ जातावगतिरूपहेतुना । लब्धाधिकारः - प्रतिष्ठितसंसारवैराग्यसंवलितभगवत्तृष्णात्मकब्रह्मविद्याधिकारश्चेतनः । साङ्गे यत्र साधने परमधिकुरुते - वर्णाश्रमधर्मशमदमादिगुणाद्यङ्गके यस्मिन् भगवद्भजनात्मके मोक्षोपाये विशेषेणानुष्ठानायोद्युङ्क्ते । तत् - साधनमुपासनात्मकम् । बहुभिदाबर्बरम् - बहुभेदेन बर्बरं विषमितं विकल्पितम् । निर्ब्रवीति - सूत्रकार इति शेषः । अयमर्थः । ब्रह्मविद्याविशेषाः खलु ‘नानाशब्दादि’ इति सप्रमाणकं भिन्नतयोपदिष्टाः ‘विकल्पोऽविशिष्टफलत्वात्’ इत्येकफलसाधनत्वेन त एव विकल्पिताः, एवमुभयाकारयुक्तं साधनजातमुपपादयतीति ॥
कुमार-वरदः - 2
  1. अत्र तृतीयाध्याये चतुर्णामपि पादानामर्थभेदं द्विकद्वयस्याप्यर्थभेदान्मिथो भेदं पौर्वापर्यनियमञ्च दर्शयति - भीमाभ्य इति । अत्र पूर्वपादद्वयेऽधिकारसम्पत्तिहेतुरधिकारश्च संसारविरक्तिसंवलितो भगवति तृष्णायोगः उभावेतावुभाभ्यां पादाभ्यामभिधीयेते इति विशदं प्रकाश्यते । तत्र भीमाभ्य इत्यादिना वैराग्यपादार्थमाह तृष्णामित्यादिनोभयलिङ्गपादार्थम् । अयमत्र शब्दान्वयः - यावता कृष्णामृताब्धौ तृष्णां परिणयति तावदुक्तमिति ।उत्तरपादद्वयार्थमाह - इत्थमिति । अयमत्र शब्दान्वयः - उभाभ्यां पादाभ्यां लब्धाधिकारो यत्र साङ्गे साधने प्रवर्तते तत् साङ्गं साधनं परस्मिन् पादद्वन्द्वे बहुभिदाबर्बरं निर्ब्रवीति - बहुभेदेन विषमितं विकल्पितं निर्ब्रवीति सूत्रकारः । अयमर्थः - ब्रह्मविद्याविशेषाः खलु ‘नाना शब्दादि’ इति सप्रमाणकं भिन्नतयोपदिष्टाः । ‘विकल्पोऽविशिष्टफलत्वात्’ इत्येकफलसाधनत्वेन त एव विकल्पिताः । एवमुभयाकारयुक्तसाधनजातमुपदिश्यत इति । अयमत्रानुक्रमः - वैराग्यपूर्वं हि प्राप्यतृष्णा जायते प्राप्यविषयप्रेप्सायां जातायामुपायाधिकारः उपाये प्रवृत्तस्याधिकारिणः पुरस्तादुपाये निर्णीते उपरिष्टात् करणस्थानीयसर्वब्रह्मविद्याङ्गकर्मोपादित्सा जायत इति विद्याङ्गपादस्य पश्चाद्भाव इति ॥
मूलम् - 2
  1. भीमाभ्यो यातनाभ्यः पितृपथगमनावर्तनादेश्च बिभ्यत्
    तृष्णां कृष्णामृताब्धौ परिणयति परां यावता तावदुक्तम् ।
    इत्थं लब्धाधिकारः परमधिकुरुते साधने यत्र साङ्गे
    पादद्वन्द्वे परस्मिंस्तदिह बहुभिदाबर्बरं निर्ब्रवीति ॥
विश्वास-प्रस्तुतिः - 3
  1. एकस्मिन्नेव पादे निपुणनयकृता न द्वयोस्तर्कणं स्यात्
    भेदोऽभेदश्च नैको विषय इह भवेदन्यहानप्रसङ्गात् ।
    तस्मादस्मिन्प्रकीर्णा नयविततिरिति प्रेक्षितग्रन्थचोद्ये
    वेद्यावच्छिन्नविद्यानियमकृदयमित्यैदमर्थ्यं समर्थ्यम् ॥
३४-तमाहोबिल-यतिः - 3
  1. एकस्मिन्नित्यादि । एकस्मिन् पाद एव निपुणनयकृता पुरुषेण द्वयोरर्थयोस्तर्कणं विचारो न स्यात् । अर्थद्वयस्य विचारे सति पादार्थैक्यासिद्धेरेकस्मिन्पादे एक एवार्थो विचार्य इति भावः । भेदोऽभेदश्च इह एको विषयो न भवेत् - भेदोऽभेदश्च परस्परविरुद्धौ द्वावर्थौ तावस्मिन्पादे कथमेकविषयो भवेताम्, अपि तु द्वावेव विषयौ भवेताम् । भवतु, तथापि पादार्थैक्यलाभाय तयोरन्यतरो विषयोऽस्त्विति चेत्, अन्यहानप्रसङ्गात् - द्वयोरेकस्य विचार्यत्वेऽन्यस्य त्यागस्स्यात् । एवं वा अन्यहानप्रसङ्गः - परस्परविरुद्धयोर्भेदाभेदयोः कथञ्चिदेकविषयत्वस्वीकारेऽपि तस्यैव चिन्तनमस्मिन्पादे स्यात्, न पुनरन्यस्य गुणोपसंहारानुपसंहारादेश्चिन्तनम्, तच्च गुणोपसंहारपादसंज्ञाबललब्धम्, तस्य हानं प्रसज्येत । तस्मात् - एवं विकल्पदुष्टत्वात् । अस्मिन् - पादे । नयविततिः प्रकीर्णा - अधिकरणगणेऽननुगतप्रधानार्थः स्यात् । इति प्रेक्षितग्रन्थचोद्ये - प्रेक्षितगुणोपसंहारपादावतारभाष्यग्रन्थस्य कस्यचित् जिज्ञासोश्चोदने सति । वेद्यावच्छिन्नविद्यानियमकृदयमिति ऐदमर्थ्यम् - वेद्यैर्ब्रह्मगुणैरवच्छिन्नानां विसदृशीभ्यो विद्याभ्यो व्यावर्तितानां सुसदृशीभिरैक्यमवगमितानाञ्च विद्यानां वैश्वानरदहरशाण्डिल्योपकोसलादिविद्यानां नियमो नियमनं, यथायोगं वेद्यरूपं भिन्नं चेत् विद्ययोर्भेदः, वेद्यरूपमभिन्नं चेत् विद्ययोरभेदः इति व्यवस्थापनं, तत्करोतीति तथा अयं पाद इति, ऐदमर्थ्यं - ग्रन्थतात्पर्यं, समर्थ्यम् - समर्थनीयम् । तदिदं प्रेक्षितग्रन्थेत्यस्य विवक्षितं भाष्यम्, इदानीं ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते इति । अयमाशयः - नात्र भेदो नाप्यभेदो वा प्रधानतया चिन्त्यते, भेदाभेदौ गुणोपसंहारानुपसंहारार्थावेव, तेन गुणोपसंहारपादप्रसिद्धिरपि युज्यते । तर्ह्युपसंहारोऽनुपसंहारो वा पादार्थ इति पुनश्चोद्यमुन्मज्जतीति चेत् यथायोग्यमुपसंहारानुपसंहारान्यतरनिर्णयः पादार्थ इत्यैकार्थ्यसिद्धिः । वेद्यावच्छिन्नेत्यादिपदेन चायमर्थो लभ्यते - वेद्यं भिन्नं चेद्विद्या भिन्ना, तदभेदे सा चाभिन्नेति वेद्यानुरूपविद्यानियमनमिति पादार्थैक्यसिद्धिरिति ॥
कुमार-वरदः - 3
  1. ननु पादार्थाभिधाने भगवता भाष्यकारेण ‘इदानीं ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते’ इत्युक्तम्, अत्र कोऽयं पादार्थः ? किं भेदचिन्ता उताभेदचिन्ता अथवा क्वचिद्भेदचिन्ता क्वचिदभेदचिन्ता यद्वा भेदाभेदचिन्तेति । नाद्यः; सार्वत्रिकत्वाभावात् । अत एव न द्वितीयः । न च तृतीयः; अनुवृत्तार्थासिद्धेः । न चतुर्थः; भेदाभेदात्मकस्य चिन्तनीयस्य व्याहतत्वेन तद्विषयचिन्ताया अयोगात् । चिन्ताशब्देन संशयात्मकं विचारमभिधाय पक्षद्वयाभिधानेऽपि एतस्मिन्पादे गुणोपसंहारानुपसंहारचिन्ता हीयेत । सैव हि चिन्ता पादेऽस्मिन् प्रधाना; गुणोपसंहारपाद इति समाख्यायोगात् । तदिदं सर्वमभिप्रेत्याह - एकस्मिन्निति । अयमत्र शब्दार्थः - एकस्मिन् पादे एक एवार्थस्स्वीकार्यो निपुणनयकृता पुरुषेण । द्वयोस्तर्कणं विचारो न स्यात् । भेदाभेद इत्येकोऽर्थो नास्त्येव, शब्दप्रयोगमात्रेण शशविषाणादिवदस्तित्वेऽपि तस्यैव चिन्तनमस्मिन् पादे स्यात् न पुनरन्यस्य गुणोपसंहारानुपसंहारादेश्चिन्तनम् । तदिदमाह - अन्यहानप्रसङ्गादिति । उक्तमर्थं सङ्कलय्य निगमयति - तस्मादिति । एवं विकल्पदुष्टत्वादस्मिन् पादे प्रकीर्णा नयविततिर्न्यायविस्तरः प्रशिथिल इति प्रेक्षितग्रन्थचोद्ये - विद्याभेदाभेदचिन्ता क्रियत इति दृष्टभाष्यग्रन्थस्य कस्यचित् पुरुषस्य चोद्ये सति, वेद्यावच्छिन्नविद्यानियमकृदयं पाद इत्यैदमर्थ्यं तात्पर्यं समर्थ्यम् । अयमर्थः - नात्र भेदो नाप्यभेदः प्रधानतया चिन्त्यते, भेदाभेदौ गुणोपसंहारानुपसंहारार्थावेव । तेन गुणोपसंहारपादप्रसिद्धिरपि युज्यते । तर्ह्युपसंहारोऽनुपसंहारो वा पादार्थ इति पुनश्चोद्यमुन्मज्जतीति चेत्, यथायोग्यमुपसंहारानुपसंहारान्यतरनिर्णयः पादार्थ इत्यैकार्थ्यसिद्धिः । वेद्यावच्छिन्नविद्यानियमकृदयमिति वेद्यं भिन्नं चेत् विद्या च भिन्ना, अभिन्नं चेत् सा चाभिन्ना, तेन वेद्यानुरूपं विद्यानियमनमिति पादार्थैक्यसिद्धिः । अत्र वेद्यभेदस्तु गुणभेदात् न पुनर्ब्रह्मभेदात् । तेन गुणोपसंहारपादप्रसिद्धिस्सुतरां सङ्घटत इति ॥
मूलम् - 3
  1. एकस्मिन्नेव पादे निपुणनयकृता न द्वयोस्तर्कणं स्यात्
    भेदोऽभेदश्च नैको विषय इह भवेदन्यहानप्रसङ्गात् ।
    तस्मादस्मिन्प्रकीर्णा नयविततिरिति प्रेक्षितग्रन्थचोद्ये
    वेद्यावच्छिन्नविद्यानियमकृदयमित्यैदमर्थ्यं समर्थ्यम् ॥
विश्वास-प्रस्तुतिः - 4
  1. आख्यावन्तं गुणानां निजगदुरुपसंहारतः पादमेतं
    विद्यैक्यार्थे तदस्मिन्नपवदनतया भेदचिन्ता प्रसक्ता ।
    इत्थं शुश्रूषुशङ्कामिह शिथिलयितुं भाषितं भाष्यकारैः
    तद्भेदाभेदमीमांसनमिह विषयस्त्वत्र चोक्तोऽनुवृत्तः ॥
३४-तमाहोबिल-यतिः - 4
  1. आख्यावन्तमित्यादि । एतं पादं गुणानामुपसंहारतः आख्यावन्तं निजगदुः - गुणोपसंहारपाद इत्याख्यावन्तं वदन्तीत्यर्थः । तत् - तस्मात् कारणात् आख्यासामर्थ्यात् । विद्यैक्यार्थे - विद्यैक्यप्रतिपादके । अस्मिन् - पादे । भेदचिन्ता तु अपवदनतया प्रसक्ता - अपवादत्वेनैव प्रसक्ता, न पुनः पादार्थता । इत्थम् - एवंरूपाम् । इह - एतत्पादचिन्त्यविषये । शुश्रुषुशङ्काम् - कस्यचित् शुश्रूषोश्शङ्काम् । शिथिलयितुम् - परिहर्तुम् ।भाष्यकारैः । इह - पादावतारिकादानप्रकरणे । अस्मिन्पादे इति वा अर्थः । तद्भेदाभेदामीमांसनं भाषितम् - विद्याभेदाभेदविचारणं भाषितम् । द्वयोरपि चिन्तनमुक्तमित्यर्थः । कः पुनरनुवृत्तः पादार्थ इति चेत्तत्राह - विषयस्त्वित्यादि । अत्र त्वनुवृत्तो विषयश्चोक्तः - अस्मिन्पादे तु अनुगतो विषयश्च वेद्यावच्छिन्नविद्यानियमकृदित्यनेन पूर्वमेवोक्तः ॥
कुमार-वरदः - 4
  1. पूर्वस्मिन् श्लोके वेद्यावच्छिन्नविद्यानियमकृदयमिति पादस्यैकार्थ्यं समर्थितम् । अत्र कश्चिदाह - अस्त्वैकार्थ्यम्, अथापि विद्यैक्यप्रतिपादकेऽस्मिन्पादे अभेद एवैकः पादार्थः । न पुनर्विद्याभेदः, तर्हि ‘विद्याभेदाभेदचिन्ता’ इति कथं भाष्यकारैरुच्यते ? इति चेत् अस्त्वपवादप्रदर्शनम् । विद्यैक्यमेव पादार्थः । ऐक्यासम्भवे क्वचिद्भेदोऽपि स्यादित्यपवाद एव प्रदर्श्यते नपुनर्भेदः पादार्थभूत इति । इमामाशङ्कामनुवदति - आख्यावन्तमिति । अयमत्र शब्दार्थः - गुणानामुपसंहारतो गुणोपसंहारपाद इत्याख्यावन्तमेतं पादं निजगदुः । तत् - तस्मात्कारणादाख्यासामर्थ्यात् विद्यैक्यप्रतिपादकेऽस्मिन्पादे भेदचिन्ता त्वपवादत्वेनैव प्रसक्ता न पुनः पादार्थतया । इमामाशङ्कां परिहर्तुमेव भाष्यकारैरुक्तं ‘विद्याभेदाभेदचिन्ता’ इति । तदाह - इत्थमिति । कः पुनस्सर्वानुवृत्तः पादार्थ इति चेत्तत्राह - विषय इति ॥
मूलम् - 4
  1. आख्यावन्तं गुणानां निजगदुरुपसंहारतः पादमेतं
    विद्यैक्यार्थे तदस्मिन्नपवदनतया भेदचिन्ता प्रसक्ता ।
    इत्थं शुश्रूषुशङ्कामिह शिथिलयितुं भाषितं भाष्यकारैः
    तद्भेदाभेदमीमांसनमिह विषयस्त्वत्र चोक्तोऽनुवृत्तः ॥
विश्वास-प्रस्तुतिः - 5
  1. निस्सीमानन्दनाडिन्धमनिरुपधिकानन्तसम्पद्गुणौघे
    विद्याभेदैर्विभज्य प्रणिधिरिह यदि प्राप्तिरप्यंशतस्स्यात् ।
    मैवं, तैरेव धर्मैस्तदितरसहितैः पूर्णकामस्य पूर्णं
    प्राप्यं ब्रह्मैव नान्यत्किमपि फलमतस्तत्क्रतुन्यायसिद्धिः ॥
३४-तमाहोबिल-यतिः - 5
  1. निस्सीमेत्यादि । निस्सीमानन्दनाडिन्धमनिरुपधिकानन्तसम्पद्गुणौघे - निस्सीमानन्दस्य नाडिन्धमा वर्णोत्कर्षहेतुभूता निरुपधिका उपाधिशून्या अनन्ता इयत्ताशून्या सम्पत् अतिशयो येषां ते गुणौघा यस्य तस्मिन् । इह - ब्रह्मणि । विद्याभेदैः । वेद्यगुणभेदप्रयुक्तभेदवद्विद्याभेदैः । विभज्य प्रणिधिर्यदि - एकदेशमवलम्ब्य उपासनं यदि क्रियेत तर्हि । प्राप्तिरप्यंशतस्स्यात् - प्राप्तिरपि ब्रह्मण्येकदेशेन स्यात् । यावानुपासनविषय आकारस्तावानेव प्राप्याकारस्स्यात् तथा च न परिपूर्णब्रह्मानुभवः फलमित्यापतेत् । यथाक्रतुश्रुत्या यथोपासनमेव फलप्राप्तिकथनादिति भावः । मैवम् - एवं न शङ्क्यम् । तैरेव धर्मैः - उपास्यैरेव भगवद्गुणैः । तदितरसहितैः - अनुपास्यगुणैरपि सहितैः । पूर्णं ब्रह्मैव । पूर्णकामस्य मुक्तस्य प्राप्यम् । अन्यत् किमपि फलम् - तदतिरिक्तं किमपि फलम् । न - नास्ति । अतः - उपासितगुणादेः कृत्स्नस्य प्राप्तावबहिष्कारात् । तत्क्रतुन्यायसिद्धिः - यथाक्रतुः इत्यादिश्रुतिप्रतिपन्नस्य तत्क्रतुन्यायस्य सिद्धिः । भवतीति शेषः । अयं भावः - यथाक्रतुरस्मिंल्लोके पुरुषः, इत्यत्रोपास्याकारस्यान्यूनभावेन प्राप्तिरुच्यते । तथैव भवतीति कृत्स्नस्याप्युपास्याकारस्य प्राप्त्यभिधानात् । न्यूनत्वे पुनरुपास्याकारस्य कृत्स्नत्वमेव भज्येत । अधिकाकारसम्बन्धस्त्वत्र न विधीयते नापि निषिध्यते । ‘विशेषविधौ शेषनिषेध’न्यायात् निषिध्यत इति चेत्, अयमपि भ्रान्तिमूल एवोपन्यासः । विधायकप्रमाणान्तराभावे ह्यार्थो निषेधः परिगृह्येत । अत्र विधायकमस्ति ‘निरञ्जनः परमं साम्यमुपैति’ इति परमसाम्याभिधानात् । इदञ्च परमसाम्यं ‘भोगमात्रसाम्यलिङ्गाच्च’ इति स्थापयिष्यते । तेन ‘नहि वचनविरोधे न्यायः प्रभवती’ति न्यायेनाधिकनिषेधो दुर्न्यायवेदिनामेव निर्णय इति ॥
कुमार-वरदः - 5
  1. अत्र कश्चिच्चोदयति - गुणभेदात् विद्याभेद इति भवद्भिरुक्तम् । तर्हि फलभेदोऽपि स्यात् । ‘यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति’ इति हि श्रूयते ‘तं यथायथोपासते तथैव भवति’ इति च । तेन यद्गुणविशिष्टं भगवन्तमुपास्ते तद्गुणविशिष्टमेव प्राप्नोतीति श्रुत्यर्थः । विशेषविधौ शेषनिषेधस्य न्याय्यत्वात् उपास्यगुणव्यतिरिक्तगुणविशिष्टभगवत्प्राप्तिरर्थान्निषिध्यत इति परिपूर्णब्रह्मानुभवो मोक्ष इति वादमात्रमेव स्यात् । तदिदमनुवदति - निस्सीमेति । निस्सीमानन्दपर्वोत्कर्षहेतुभूतनिरुपधिकानन्तसम्पद्गुणौघे परमात्मनि वेद्याकारभेदप्रयुक्तभेदवद्विद्याभेदैर्विभज्य प्रणिधिर्यदि स्यात्, तर्हि प्राप्तिरपि ब्रह्मणि अंशत एकदेशेन स्यात् । यावानुपासनविषय आकारस्तावानेव प्राप्याकारस्स्यात् । तथा च न परिपूर्णब्रह्मानुभवः फलमित्यापतेत् । एतच्चोद्यमपाकरोति - मैवमिति । अपाकरणमेव विवृणोति - तैरेवेति । अयमर्थः - ‘यथाक्रतुरस्मिंल्लोके पुरुषो भवति’ इत्यत्रोपास्याकारस्यान्यूनभावेव प्राप्तिरुच्यते । ‘तथैव भवति’ इति कृत्स्नस्याप्युपास्याकारस्य प्राप्त्यभिधानात् । न्यूनत्वे पुनरुपास्याकारस्य कृत्स्नत्वमेव भज्येत । अधिकाकारसम्बन्धस्त्वत्र न विधीयते नापि निषिध्यते । विशेषविधौ शेषनिषेधन्यायात् निषिध्यत इति चेत्, अयमपि भ्रान्तिमूल एवोपन्यासः । विधायकप्रमाणान्तराभावे हि आर्थो निषेधः परिगृह्येत । अत्र तु विधायकमस्ति ‘निरञ्जनः परमं साम्यमुपैति’ इति श्रुत्यैव परमसाम्याभिधानात् । इदञ्च परमसाम्यं भोगमात्र एवेति सूत्रकारैरेव स्थापयिष्यते ‘भोगमात्रसाम्यलिङ्गाच्च’ इति । तेन नहि वचनविरोधे न्यायः प्रभवतीति न्यायेनाधिकनिषेधो दुर्न्यायवेदिनामेव निर्णयः । तर्हीश्वरसाम्याङ्गीकारे जीवस्यापीश्वरत्वं प्रसज्यत इति चेन्न; सूत्रकारैरेव मात्रशब्दं प्रयुञ्जानैर्निरस्तत्वात् । शब्दार्थस्तु - तैरेव धर्मैरुपास्यैरेव भगवद्गुणैस्तदितरसहितैरनुपास्यैर्गुणैरपि सहितैः पूर्णं ब्रह्मैव पूर्णकामस्य मुक्तस्य प्राप्यमिति नान्यदत्र फलमस्ति । स्वर्गादिसाधनेषु तूपास्यमन्यत् फलमन्यदिति प्रसिद्धमेतत् । तेनात्र तत्क्रतुन्यायेनोपास्यानुपास्यसकलगुणविशिष्टं तदेव ब्रह्म प्राप्यमिति तत्क्रतुन्यायस्सिध्यति । तेन न क्वचिदपि विद्यासु फलवैषम्यप्रसङ्गः ॥
मूलम् - 5
  1. निस्सीमानन्दनाडिन्धमनिरुपधिकानन्तसम्पद्गुणौघे
    विद्याभेदैर्विभज्य प्रणिधिरिह यदि प्राप्तिरप्यंशतस्स्यात् ।
    मैवं, तैरेव धर्मैस्तदितरसहितैः पूर्णकामस्य पूर्णं
    प्राप्यं ब्रह्मैव नान्यत्किमपि फलमतस्तत्क्रतुन्यायसिद्धिः ॥