विश्वास-प्रस्तुतिः - 27
- आराध्यः कर्मकाण्डस्थितनयनिवहस्थापितानां क्रियाणां
अध्यक्षो देवतानामनुपधिमहिमा मध्यकाण्डोदितानाम् ।
अत्राप्येतावतोक्तो भवभयचकितप्राप्त्युपास्त्येकलक्ष्यं
तत्तच्छास्त्रार्थयोग्यं दिशति फलमिति स्थाप्यतेऽथात्युदारः ॥
३४-तमाहोबिल-यतिः - 27
- आराध्य इत्यादि । कर्मकाण्डस्थितनयनिवहस्थापितानाम् - अथातो धर्मजिज्ञासेत्यादिद्वादशलक्षण्यात्मककर्मकाण्डघटका ये नयनिवहा अधिकरणगणास्तैस्स्थापितानां पूर्वपक्षनिरसनेन सिद्धान्तितानाम् । क्रियाणाम् - अग्निहोत्रादिकर्मणाम् । आराध्यः - अग्नीन्द्रादिदेवतान्तर्यामित्वेनाराध्यः । अनुपधिमहिमा - कर्माद्युपाध्यमूलकनिरतिशयस्वरूपगुणविभूतिवैभवः । अत एव, मध्यकाण्डोदितानां देवतानामध्यक्षः - मध्यकाण्डो देवताकाण्डः, तेन विचारितानामग्नीन्द्रादीनां स्वाराधनलब्धतत्तत्पदानां स्वशरीरभूतानां देवतानां स्वरूपस्वभावविभूतिनिर्वाहकः । अत्रापि - अस्मिन्ब्रह्मकाण्डेऽपि । एतावता - दशपादात्मकेन शास्त्रभागेन । भवभयचकितप्राप्त्युपास्त्येकलक्ष्यम् उक्तः - भवभयेन चकितानामार्तानां प्राप्तेरुपास्तेश्च मुख्यविषयभूतः प्राप्यप्रापकभूत इति प्रतिपादितः परमात्मा । अथ - उपरितनेन ‘फलमत उपपत्तेः’ इत्यधिकरणेन । तत्तच्छास्त्रार्थयोग्यं फलं दिशतीति - तत्तच्छास्त्रार्थानां नित्यनैमित्तिककाम्यरूपाणां प्रवृत्तिनिष्ठधर्माणां कर्मयोगज्ञानयोगभक्तियोगादिरूपाणां निवृत्तिनिष्ठधर्माणाञ्चानुगुणं फलं ददातीति । अत्युदारः स्थाप्यते - विद्यारम्भसिद्ध्यर्थं तस्यौदार्यं विशदमुपपाद्यते । नहि प्रयोजनमन्तरेण प्राणिनां प्रवृत्तिस्सम्भवति, न च प्रयोजनं प्रदातारमन्तरेणेति प्रदातृत्वं तस्य प्रतिपाद्यत इति भावः ॥ ३१५ ॥
कुमार-वरदः - 27
- अत्र पूर्वोत्तराधिकरणयोस्सङ्गतिमाह - आराध्य इति । यत्र हि परत्वमौदार्यञ्च स एव हि सेव्य इति लोकप्रसिद्धम् । परत्वे सत्यपि कदर्यस्यासेव्यत्वात् । तथौदार्ये सत्यपि निर्धनस्यासेव्यत्वात् । तेनोत्तरपादप्रतिपाद्योपास्यत्वसिद्ध्यर्थं भगवतः परत्वमुक्तं पूर्वाधिकरणे । इह पुनः फलप्रदत्वकथनात् औदार्यमुच्यत इति पूर्वोत्तराधिकरणसङ्गतिः । तदिदं परत्वं भगवतस्त्रिकाण्ड्यां सर्वत्रोक्तमनूद्य तदन्वितमौदार्यमधुना प्रख्याप्यते । अन्वयार्थस्तु - ‘सर्वे वेदा यत्रैकं भवन्ति’, ‘सर्वे होतारो यत्रैकं भवन्ति’ । ‘वर्णाश्रमाचारवता’ इत्यादिभिः प्रमाणैः प्रथमकाण्डे विष्णुरेव सर्वकर्मसमाराध्यतया निर्णीतः । मध्यमकाण्डेपि ‘अग्निरवमो देवतानां विष्णुः परमः’ इति स एव सर्वदेवतान्तर्यामित्वेन तदध्यक्षतया प्रतिपादितः । अस्मिन्नपि ब्रह्मकाण्डे पुनरेतावता दशभिरपि पादैर्भाषितो भवभयचकितप्राप्त्युपास्त्येकलक्ष्यमिति प्रागेवास्मिन्पादे विशदतरमुपपादितम् । अथोभयलिङ्गपादान्ते विद्याप्रतिपादनारम्भे तत्तच्छास्त्रार्थयोग्यं नित्यनैमित्तिककाम्यरूपाणां प्रवृत्तिनिष्ठधर्माणां कर्मयोगज्ञानयोगभक्तियोगादिरूपाणां निवृत्तिनिष्ठधर्माणा़ञ्चानुगुणं फलं दिशतीति विद्यारम्भसिद्ध्यर्थं विशदमुपपाद्यते । नहि प्रयोजनमन्तरेण प्राणिनां प्रवृत्तिस्सम्भवति । नच प्रयोजनं प्रदातारमन्तरेण । न च प्रदातृत्वं परत्वौदार्याभ्यां विना । नापि चैतौ गुणौ पुरुषोत्तमादुभयविभूतिविशिष्टस्वात्मप्रदानमहावदान्याद् भगवतो नारायणादन्यत्र सम्भवत इति भावः ॥
मूलम् - 27
- आराध्यः कर्मकाण्डस्थितनयनिवहस्थापितानां क्रियाणां
अध्यक्षो देवतानामनुपधिमहिमा मध्यकाण्डोदितानाम् ।
अत्राप्येतावतोक्तो भवभयचकितप्राप्त्युपास्त्येकलक्ष्यं
तत्तच्छास्त्रार्थयोग्यं दिशति फलमिति स्थाप्यतेऽथात्युदारः ॥
विश्वास-प्रस्तुतिः - 28
- कृष्यादेर्मर्दनादेरपि भवति फलं द्वारतो वान्यथा वा
धर्माणां साधनत्वं श्रुतिभिरवगतं दोषबाधोज्झिताभिः ।
तस्मादीशप्रसादात्फलमिति तु वचस्तत्प्रशंसेति चेन्न
श्रौताराध्यप्रसादत्यजनकदनतोऽपूर्वकॢप्तेरयोगात् ॥
३४-तमाहोबिल-यतिः - 28
- कृष्यादेरित्यादि । कृष्यादेर्मर्दनादेरपि द्वारतो वा अन्यथा वा फलं भवति - कृष्यादिव्यापारस्य मर्दनादिव्यापारस्य च किञ्चिददृष्टद्वारा वा साक्षादेव वा तत्तत्फलं भवति । इदं लोकसिद्धमेव हीति भावः । दोषबाधोज्झिताभिश्श्रुतिभिर्धर्माणां साधनत्वमवगतम् - अपौरुषेयतया विप्रलिप्सादिकारणदोषशून्याभिः प्रमाणान्तरानधिगतस्वार्थकतया स्वतःप्रत्यक्षादिवत् प्रमाणतया च प्रमाणान्तरबाधशून्याभिः ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिभिश्श्रुतिभिर्ज्योतिष्टोमादिरूपाणां धर्माणां स्वर्गादितत्तत्फलसाधनत्वमवगतम् । तस्मात् - श्रुतिप्रमाणेन ज्योतिष्टोमादिधर्माणामेव तत्तत्फलसाधनत्वावगमात् । ईशप्रसादात्फलम् - ईश्वरप्रसादात् तदाराधनभूतकर्मानुष्ठानजनितात् ऐहिकामुष्मिकसर्वफलम् । इति वचस्तु - ‘यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥’ इत्यादिरूपं वचनं तु । तत्प्रशंसा - ईश्वरस्तुतिरेव । इति चेन्न - इति शङ्क्यते चेत्तन्न सत् । श्रौताराध्यप्रसादत्यजनकदनतः - श्रौतस्य ‘वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति’ इत्यादिश्रुतिवचनैस्तत्तत्फलसाधनतया कण्ठोक्तस्य आराध्यप्रसादस्य आराध्यदेवताप्रसादस्य त्यजनं हानं तदेव कदनं दोषस्तस्मात् । अपूर्वकॢप्तेरयोगात् - अपूर्वशब्दितस्याश्रुतस्य द्वारस्य कल्पनासम्भवात् । अयमाशयः - कर्मैव कालान्तरभाविफलं ददातीत्येकः पक्षः । कर्मव्यतिरिक्तमपूर्वाख्यमित्यपरः । कर्मरूपाराधनप्रीतो देवताविशेष इत्यन्यः । प्रथमपक्षे कर्मणश्चिरप्रध्वस्तत्वात् फलहेतुत्वमेव न सम्भवति, द्वितीये तु पक्षे श्रुतहानाश्रुतकल्पनाभ्यां द्वौ दोषौ स्तः । तेन तृतीय एव पक्षश्श्रौतत्वात् अर्थविरोधाभावाच्च स्वीकर्तव्य इति देवताया एव फलप्रदत्वं सिद्धम् । तत्र च ‘इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः’, ‘चतुर्होतारो यत्र सम्पदं गच्छन्ति देवैः’, ‘अन्तःप्रविष्टश्शास्ता जनानां सर्वात्मा’, ‘स आत्मा । अङ्गान्यन्या देवताः’, ‘योऽग्नौ तिष्ठन्, यो वायौ तिष्ठन्, य आदित्ये तिष्ठन्’, ‘यस्सर्वेषु देवेषु सर्वेषु भूतेषु’ इत्यादिभिः ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ इत्याद्युपबृंहितैर्वाय्वादिदेवतान्तर्यामिणो भगवत एव तत्तत्कर्मसमाराध्यत्वफलप्रदत्वावगमात् तत्तद्देवताशरीरकभगवत्प्रसादादेव सर्वफललाभः, निवृत्तिधर्माणां त्वव्यवधानेन भगवदाराधनरूपत्वात् तत्प्रसादादेव परमपुरुषार्थलाभ इति भगवत एव सर्वफलप्रदत्वरूपं परमौदार्यं विद्यारम्भप्रवृत्त्यर्थमनेनाधिकरणेनोक्तमिति ॥ ३१६ ॥
कुमार-वरदः - 28
- सङ्गतिरुक्ता । तदर्थविचारस्तु - किं सापूर्वात्कर्मोपासनात् स्वर्गापवर्गफलोत्पत्तिः उत कर्मोपासनप्रीतात् वाय्वाद्यवस्थात् केवलाच्च परस्माद् ब्रह्मण इति । किं ‘स एवैनं भूतिं गमयति’ ‘यमेवैष वृणुते तेन लभ्यः’ इत्यदिवाक्यशेषो वाय्वाद्यवस्थस्य केवलस्य च फलप्रदातृत्वमवगमयति नेति । किमयं वाक्यशेषो यथाप्रतीयमानार्थः, उतान्यपर इति । अत्र पूर्वपक्षवादी मन्यते - कृष्यादेरिति । लोके कृष्यादेर्मर्दनादेरपि फलमस्तीत्यविवादमेतत् । अन्यथा प्रवृत्त्ययोगात् । तच्च फलं दृष्टद्वारेणैव जायते न पुनरदृष्टद्वारा कल्पनागौरवप्रसङ्गात् । अव्यवहितफलोत्पत्तौ दृष्टमपि द्वारं नापेक्षते । धर्माणां पुनः साधनत्वं श्रुत्यवगतत्वादपरित्याज्यमेव । न च ‘आदित्यो यूपः’ इत्यादिवत् श्रुतिरत्र बाधवती । तेन बाधदोषोज्ज्ञिताभिश्श्रुतिभिरवगतत्वादस्त्येव धर्माणां साधनत्वम् । इत्थं धर्माणां साक्षात् साधनत्वे श्रूयमाणेऽपीश्वरप्रसादात् फलमिति वचनमीश्वरप्रशंसार्थमेवेति कल्पयितुं युक्तम् । आशङ्कितमर्थं प्रतिक्षिपति - नेति । तत्र हेतुमाह - श्रौतेति । अत्रायं विभागः - कर्मैव कालान्तरभाविफलं ददातीत्येकः पक्षः । कर्मव्यतिरिक्तमपूर्वाभिधानमित्यपरः । कर्मरूपाराधनप्रीतो देवताविशेष इति तृतीयः । प्रथमपक्षे कर्मणश्चिरप्रध्वस्तत्वात् फलहेतुत्वमेव न सम्भवति । द्वितीये तु पक्षे श्रुतहानाश्रुतकल्पनाभ्यां द्वौ दोषौ स्तः । श्रूयते हि ‘स एनं प्रीतः प्रीणाति’ इत्यादिना देवताया एव फलप्रदत्वम् । तेन तृतीयः पक्षः श्रौदत्वादर्थविरोधाभावाच्च स्वीकर्तव्य इति देवताया एव फलप्रदत्वं सिद्धम् । इदं तु सामान्यं ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ इति सर्वकर्मसमाराध्यत्वं सर्वकर्मफलप्रदत्वं चोच्यते । अप्रदानशीलस्य हि प्रभुत्वं गगनकुसुमकूर्मरोमनरविषाणादिष्वन्यतमायते । तेन प्रभुत्वमिति फलप्रदत्वमेवोच्यत इति भाष्यकारा निरणैषुः । तस्यैव वाक्ये वक्तुं योग्यत्वादाकाङ्क्षितत्वाच्चेति ॥
मूलम् - 28
- कृष्यादेर्मर्दनादेरपि भवति फलं द्वारतो वान्यथा वा
धर्माणां साधनत्वं श्रुतिभिरवगतं दोषबाधोज्झिताभिः ।
तस्मादीशप्रसादात्फलमिति तु वचस्तत्प्रशंसेति चेन्न
श्रौताराध्यप्रसादत्यजनकदनतोऽपूर्वकॢप्तेरयोगात् ॥
विश्वास-प्रस्तुतिः - 29
- यद्यप्याराध्यमूलं फलमपि फलितं देवताधिक्रियायां
कर्मापेक्षा तथोक्ता फलजननपरप्रेरणादौ तथापि ।
साक्षित्वानादरत्वप्रभृतिपरगुणान् प्रेक्ष्य तत्प्रीणनादौ
शङ्कातङ्कैर्निरुद्धांस्त्वरयितुमधुना तादृशोदारतोक्तिः ॥
३४-तमाहोबिल-यतिः - 29
- यद्यपीत्यादि । देवताधिक्रियायाम् - ‘तदुपर्यपि….’ इत्यादिरूपे देवताधिकरणे । फलमपि आराध्यमूलं यद्यपि फलितम् - तत्तत्कर्मफलमप्याराध्यभूतदेवताप्रसादमूलकमिति यद्यपि फलितम्, उक्तप्रायमेव । तथा फलजननपरप्रेरणादौ कर्मापेक्षा च उक्ता - तद्वदेव ‘कृतप्रयत्नापेक्षस्तु….’ इत्यादिसूत्रे तत्तत्फलप्रदाने पुण्यपापयोर्जीवप्रवर्तने च ईश्वरस्य जीवकर्मसापेक्षत्वमप्युक्तम् । तेन कर्मफलमीश्वराधीनमित्युक्तमेव । तथापि - उक्तं तथ्यमेव तथापि । साक्षित्वानादरत्वप्रभृतिपरगुणान् प्रेक्ष्य - ‘साक्षी चेता केवलो निर्गुणश्च’, ‘अवाक्यनादरः’ इत्यादिश्रुतिप्रतिपन्नान् साक्षित्वानादरत्वप्रभृतीन् ईश्वरगुणानालोच्य । कथं तटस्थस्तथानादरश्च भगवानास्माकीनक्षुद्रव्यापारस्य फलं ददातीत्यालोच्येति भावः । तत्प्रीणनादौ शङ्कातङ्कैर्निरुद्धान् - तत्प्रसादजनकविद्यानुष्ठानादौ पूर्वोक्तगुणावगतिमूलकशङ्कापीडनैर्विघ्नितप्रवृत्तिकान् चेतनान् । त्वरयितुम् - साक्षित्वानादरत्वादिकमन्यविषयकमन्यार्थकञ्च, भगवान् व्याजमात्रापेक्षया सर्वफलं ददाति, अतस्सर्वैरपि यथारुचि तत्तत्फललाभाय यथाधिकारं स्वव्यापारैः प्रीणनीय इति प्रतिपादनेन विद्यारम्भे पुनः प्रवर्तयितुमित्यर्थः । अधुना - एतदधिकरणे । तादृशोदारतोक्तिः - तादृश्याः इयत्ताशून्यायाः उदारतायाः अतिस्वल्पव्याजेनाखिलफलप्रदातृत्वरूपायाः उक्तिः प्रतिपादनमिति ॥ ३१७ ॥
कुमार-वरदः - 29
- अत्र फलप्रदत्वकथने तत्रतत्र पूर्वोक्तार्थविशेषेण पौनरुक्त्यमाशङ्क्य प्रतिक्षिपति - यद्यपीति । पूर्वं हि देवताधिकरणे ‘प्रीतिः फलप्रदानञ्च देवतानां न विद्यते’ इति वदतां प्रतिक्षेपात् फलप्रदत्वमुक्तमेव । समनन्तरं तु ‘कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः’ इत्यस्मिन्नपि सूत्रे पूर्वकर्मानुरूपं पुण्यपापयोरीश्वरः प्रवर्तयतीति कर्मफलमीश्वराधीनमित्युक्तम् । तत् किमर्थं फलप्रदत्वमत्राप्युच्यते ? तदेतदङ्गीकृत्यैव प्रतिक्षिपति - तथापीति । ‘साक्षी चेता’, ‘अवाक्यनादरः’ इत्यादौ तत्रतत्रवेदान्तवाक्ये साक्षित्वानादरत्ववचनात् तच्छ्रवणमात्रेण बिभ्यत उपासकस्योपासनप्रवृत्तिरेवोत्सीदेत् । तेनेश्वरस्योपेक्षकत्वादिशङ्कातङ्कपङ्किलबुद्धेरुपासकस्य भयनिवारणार्थं परमोदारस्य भगवतश्श्रियः पत्युः शरणागतरक्षणैकतानचित्तस्यौदार्यमेव प्रधानगुणमस्मिन्नधिकरणे प्रतिष्ठापयति सूत्रकार इति साफल्यान्न पौनरुक्त्यगन्धावकाशः ॥
मूलम् - 29
- यद्यप्याराध्यमूलं फलमपि फलितं देवताधिक्रियायां
कर्मापेक्षा तथोक्ता फलजननपरप्रेरणादौ तथापि ।
साक्षित्वानादरत्वप्रभृतिपरगुणान् प्रेक्ष्य तत्प्रीणनादौ
शङ्कातङ्कैर्निरुद्धांस्त्वरयितुमधुना तादृशोदारतोक्तिः ॥
विश्वास-प्रस्तुतिः - 30
- सम्राजस्सानुकम्पात्पितुरुचितविदस्साम्यभाजो वदान्यात्
स्थाने विन्दन्ति पुत्रा नियतरुचिभिदायन्त्रितास्तं तमर्थम् ।
तत्र प्राप्यं स्वतो यद्विहतिरिह यतस्तत्प्रशान्तिश्च यस्माद्
देयं यच्चाविशेषाद्दमनमपि यथालोकमत्रापि तत्स्यात् ॥
३४-तमाहोबिल-यतिः - 30
- सम्राज इत्यादि । सम्राजः - राजसूयकर्ता बहुराजनियन्ता मण्डलाधिपतिस्सम्राट् तथाविधात् । सानुकम्पात् - दयालोः । स्वार्थनैरपेक्ष्येण परदुःखासहिष्णोरित्यर्थः । उचितविदः - कर्तव्याकर्तव्ययोरुचितमर्थं विजानानात् । साम्यभाजः - सर्वेष्वपि पुत्रेषु साम्यं भजमानात् । वदान्यात् - महोदारात् । पितुः - स्वपितुस्सकाशात् । पुत्राः, नियतरुचिभिदायन्त्रिताः - स्वस्वहृदयव्यवस्थितरुचिभेदनियतास्सन्तः । तं तमर्थम् - स्वस्वापेक्षितं धनाभरणादिकम् । विन्दन्ति - लभन्ते । इदं स्थाने - युक्तम् । एवं परमपुरुषादप्येतद्गुणजातोपेतात् पुत्रकल्पास्सर्वेऽपि तत्सेवकाः पुरुषास्स्वाभीष्टं लभन्त इति शेषः । तत्र - दृष्टान्तस्थले । स्वतः प्राप्यं यत् - स्वतः प्राप्यं गृहक्षेत्रादिकं दायरूपं यत् । यतः - पित्राज्ञोल्लङ्घनादिरूपात्प्रतिबन्धकात् । इह - पूर्वोक्तप्राप्यविषये । विहतिः - विघ्नो भवति । तत्प्रशान्तिश्च - दायप्राप्तिविघ्नस्य निवृत्तिश्च । यस्मात् - पुनरागत्य तत्पादप्रणामादेर्यस्मात् । अविशेषाद्देयं यच्च - अविशेषेण तुल्यतया सर्वेभ्योऽपि प्रदेयञ्च यद्भवति । दमनमपि - अपराधक्षमापणाभावे शिक्षणमपि यत् । तत् - तत्सर्वम् । यथालोकम् - लोकमनतिक्रम्य, लोकतुल्यमेवेत्यर्थः । अत्रापि स्यात् - ईश्वरविषयेऽप्यनुसन्धेयं भवतीत्यर्थः । राजभृत्यस्य तु राजाज्ञोल्लङ्घने पादच्छेदादि दमनं तत्पुत्रस्य तु जीविकासङ्कोचादिकम्, एवमभागवतानां पापफलं शास्त्रोक्तं नरकप्रायणादिकम्, भागवतानां तु बुद्धिपूर्वापराधप्रसङ्गे ‘न खलु भागवता यमविषयं गच्छन्ति इहैवैषां केचिदुपप्लवा भवन्ति’ इति वचनरीत्या कञ्जत्वकाणत्वादिकमेव दमनम् । तेन ‘लघुर्दण्डः प्रपन्नस्य राजपुत्रापराधवत्’ इत्युक्तप्रकारेण प्रपन्नानामपराधाननुरूपमेव दण्डनमत्यल्पमेव स्यादिति सकलफलप्रदे भगवति परमकारुणिके विश्वासेन विद्यानुष्ठानं सहसैव कर्तव्यमितीदमधिकरणमुपासनारम्भमेव सन्धुक्षयति ॥ ३१८ ॥ इति फलाधिकरणम् ॥ ८२ ॥
कुमार-वरदः - 30
- ईश्वरस्य फलप्रदानप्रकारं राजतत्पुत्रन्यायेन लोकदृष्टप्रक्रियया प्रतिष्ठापयति - सम्राज इति । लोके हि केषाञ्चित् पुत्राणां कश्चिदपि पिता सम्राडेव भवति, स च सानुकम्पः, कर्तव्याकर्तव्ययोरुचितमप्यर्थं जानाति, सर्वेषु च पुत्रेषु साम्यमेव भजते, वदान्यश्च भवति । सर्वष्वपि पुत्रेषु औदार्यमपि साधारणमेवेत्यर्थः । एवम्भूतात् पितुः पुत्रा नियतरुचिभिदायन्त्रितास्स्वस्वेच्छानुरूप्येण स्वाभीष्टं तंतमर्थं विन्दन्ति लभन्ते । एवं परमपुरुषादप्येतद्गुणजातोपेतात् पुत्रकल्पास्सर्वे तत्सेवकाः पुरुषाः स्वाभीष्टमर्थं लभन्त इति शेषः । तत्र प्राप्यप्रापकतद्विरोधितदुपशमनादिकं सकलमपि पितापुत्रन्यायेनेश्वरेऽपि स्यादिति विशदं प्रकाशयति - तत्रेति । स्वतः प्राप्यं गृहक्षेत्रादिकं दायरूपं यत्, यतः पित्राज्ञोल्लङ्घनादिहेतोस्तस्य विहतिर्भवति । तत्प्रशान्तिश्च यस्मात् - पुनरागत्य तत्पादप्रणामादेः । यच्च देयं धनाभरणपट्टवस्त्रच्छत्रचामरादिकम् । अविशेषादपराधक्षमापणाभावे दमनमपि शिक्षणमपि यथालोकं तत्सर्वमत्रापि स्यात् । राजभृत्यस्य तु राजाज्ञोल्लङ्घने पादच्छेदादि दमनम्, तत्पुत्रस्य तु जीविकासङ्कोचादिकम् । एवमभागवतानां पापफलं शास्त्रोक्तं नरकप्रायणादिकम् । भागवतानां तु बुद्धिपूर्वकापराधप्रसङ्गे ‘न खलु भागवता यमविषयं गच्छन्ति । इहैवैषां केचिदुपप्लवा भवन्ति’ इति काणत्वखञ्जत्वादिकमेव दमनम् । तेन ‘लघुर्दण्डः प्रपन्नस्य राजपुत्रापराधवत्’ इत्युक्तप्रकारेण प्रपन्नानामपराधाननुरूपदण्डनमत्यल्पमेव स्यादिति सकलफलप्रदे भगवति परमकारुणिके विश्वासेन ब्रह्मविद्यानुष्ठानं सहसैव कर्तव्यमितीदमधिकरणमुपासनारम्भमेव सन्धुक्षयति ॥
मूलम् - 30
- सम्राजस्सानुकम्पात्पितुरुचितविदस्साम्यभाजो वदान्यात्
स्थाने विन्दन्ति पुत्रा नियतरुचिभिदायन्त्रितास्तं तमर्थम् ।
तत्र प्राप्यं स्वतो यद्विहतिरिह यतस्तत्प्रशान्तिश्च यस्माद्
देयं यच्चाविशेषाद्दमनमपि यथालोकमत्रापि तत्स्यात् ॥
विश्वास-प्रस्तुतिः - 31
- शुद्धानन्दे तदित्थं शुभगुणजलधौ सत्यनित्यस्वदेहे
देवीभूषायुधाद्यैरतिशयिनि कनद्भोगलीलाविभूतौ ।
शेषित्वाधारभावप्रभृतिबहुविधस्थास्नुसम्बन्धदीप्ते
दृष्टिस्स्वर्गापवर्गप्रसवितरि हरौ निर्निमेषा श्रुतिर्नः ॥
३४-तमाहोबिल-यतिः - 31
- (भगवत्पारम्यज्ञानोद्दीपनाय पादप्रधानार्थकथनम् ।) शुद्धानन्द इत्यादि । तत् इत्थम् - तत एवमुपपादनात् । शुद्धानन्दे - दुःखसंवलनसातिशयत्वरूपाशुद्धिरहितापरिच्छिन्नानन्दे । शुभगुणजलधौ - शुभानां हेयप्रतिभटानां गुणानां ज्ञानशक्तिवीर्यतेजःप्रभृतीनां जलधौ आकरभूते । सत्यनित्यस्वदेहे - सत्यः प्रमाविषयभूतो नित्यस्सदातनः स्वदेहस्स्वासाधारणशुद्धसत्त्वमयः कल्याणतमो देहो यस्य स सत्यनित्यस्वदेहस्तस्मिन् । देवीभूषायुधाद्यैरतिशयिनि - देवीभिः श्रीभूमिनीलादिभिः भूषाभिः किरीटमकुटचूडावतंसप्रभृतिभिः आयुधैः हेतिराजश्रीपाञ्चजन्यनन्दककौमोदकीशार्ङ्गादिभिः आद्यशब्दार्थैश्शेषशेषाशनादिपरिजनपरिच्छदैश्च अतिशयिनि स्वेतरसमस्तचेतनव्यावृत्तातिशयभाजि । कनद्भोगलीलाविभूतौ - कनन्त्यौ भोगविभूतिलीलाविभूती यस्य तस्मिन् । शेषित्वाधारभावप्रभृतिबहुविधस्थास्नुसम्बन्धदीप्ते - शेषित्वं चेतनाचेतनात्मकोभयविभूतिस्थवस्तुजातलब्धलीलाभोगरसात्मकोत्कर्षशालित्वम्, आधारभावः स्वरूपेण सङ्कल्पविशेषेण च धारकत्वम्, एतत्प्रभृतिभिः पितृत्वमातृत्वभ्रातृत्वसुहृत्त्वादिभिः बहुविधैः स्थास्नुभिः स्थिरतरैर्नित्यैरिति यावत् सम्बन्धैर्दीप्ते प्रकाशमाने । स्वर्गापवर्गप्रसवितरि - स्वर्गशब्दस्त्रिवर्गपरः, अपवर्गशब्दो मोक्षवाची, तथाच त्रिवर्गापवर्गात्मकसर्वफलप्रदातरि । हरौ - श्रीमन्नारायणे परमात्मनि विषये । श्रुतिः - अनादिनिधनाविच्छिन्नसम्प्रदाया असम्भावितदोषगन्धा श्रुतिरेव । नः - अस्माकम् । निर्निमेषा - निमेषरहिता दृष्टिः । तयैवैवङ्गुणगणमेवंविभूतिकमेवंस्वरूपं पुरुषोत्तममद्राक्ष्म येऽन्येऽन्यथा प्रलपन्ति तेऽपदृष्टय एवेति तेषां वचनं जात्यन्धवचनवत् दूरतस्त्याज्यमिति भावः ॥ ३१९ ॥
कुमार-वरदः - 31
- पादार्थेषु प्रधानार्थविशेषान् प्रकटयन् भगवत्पारम्यबुद्धिमुद्दीपयति - शुद्धानन्द इति । अयमत्र शब्दार्थः - तत् एवमुपपादनात् शुद्धानन्दस्वरूपे परस्मिन्ब्रह्मणि शुभगुणजलधौ सत्यनित्यस्वदेहे परमार्थनित्यविग्रहवति देवीभूषायुधपरिजनपरिच्छदादिभिरतिशयिनि । कनद्भोगलीलाविभूताविति विभूतिद्वयविशिष्टत्वमाह । कनदिति देदीप्यमानत्वमुच्यते । ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’ इति हि श्रुतिः । शेषित्वेति - आधेयत्वविधेयत्वशेषत्वैर्विश्वस्य शरीरत्वम्, आधारत्वादिभिरीश्वरस्य शरीरित्वमिति वेदान्तार्थतत्त्वनिर्णयसारः । सम्बन्धस्य स्थास्नुत्वं नित्यसिद्धत्वम् । स्वर्गापवर्गप्रसवितरीति ‘फलमत उपपत्तेः’ इत्यधिकरणार्थं विशेषतः प्राह । एवम्भूते हरौ निर्निमेषा दृष्टिरस्माकं श्रुतिरेवाबाधितप्रमाणमित्यर्थः । तेन श्रुतिसिद्धेष्वेतेष्वर्थेषु विवादो न वैदिकैः कर्तव्य इत्यर्थः । तेन कक्षानुमानतुल्यैरनुमानाभासैरीश्वरगुणविग्रहविभूत्यादिकं निराकुर्वतां सर्वेषामेव पूर्ववादिनां श्रुतिरेव परिपन्थिनीति नरशिरःपवित्रत्वानुमानमपि ते नमस्कुर्वन्तु । पुरस्कुर्वन्तु च ‘ब्राह्मणेन सुरा पेया’ इत्यादिकमपि वचनम् । अथवा मनुष्यत्वादिभिस्स्वब्राह्मण्यमपि तिरस्कुर्वन्त्विति हास्यमेवावशिष्यते ॥
मूलम् - 31
- शुद्धानन्दे तदित्थं शुभगुणजलधौ सत्यनित्यस्वदेहे
देवीभूषायुधाद्यैरतिशयिनि कनद्भोगलीलाविभूतौ ।
शेषित्वाधारभावप्रभृतिबहुविधस्थास्नुसम्बन्धदीप्ते
दृष्टिस्स्वर्गापवर्गप्रसवितरि हरौ निर्निमेषा श्रुतिर्नः ॥
विश्वास-प्रस्तुतिः - 32
- पादे स्वप्नार्थहेतुस्तदयमिह सुषुप्त्याधृतिस्सुप्तगोप्ता
मुग्धोद्बोधादिकर्ता त्वनघशुभगुणोऽचिद्भिरंशी स्वदेहैः ।
पारम्यस्यैकसीमा सकलफलद इत्युच्यते भक्तिभूम्ने
सत्ये ह्येवं गुणादावथ परभजने रूपभेदादि चिन्त्यम् ॥
३४-तमाहोबिल-यतिः - 32
- (तृतीयाध्यायद्वितीयपादाधिकरणार्थानां विभज्य कथनम् ।)
पाद इत्यादि । तत् - तस्मात् उक्तोपपादनात् । इह पादे - उभयलिङ्गपादे । अयम् - परमात्मा । स्वाप्नार्थहेतुः - स्वप्नसम्बन्ध्यर्थस्य स्रष्टा । सुषुप्त्याधृतिः - सुषुप्त्याधारः । सुप्तगोप्ता - सुप्तस्य विनाशाभावेन संरक्षकः । मुग्धोद्बोधादिकर्ता - मुग्धस्य मूर्च्छितस्य कदाचिदुद्बोधं करोति कदाचिन्न करोतीत्यर्थः । तुः पादपूरणे । अनघशुभगुणः - अनघा हेयप्रत्यनीकाश्शुभगुणाः कल्याणगुणा यस्य सः । उभयलिङ्ग इत्यर्थः । स्वदेहैरचिद्भिरंशी - स्वशरीरभूताचिद्विशिष्ट इत्यर्थः । अचितोऽपि विशेषणत्वेनैवांशत्वमित्यर्थः । पारम्यस्य एकसीमा - एक एष एव परस्तस्मात्परो नास्तीत्यर्थः । सकलफलदः - त्रिवर्गापवर्गफलपदः । इति - एतादृशानन्यसाधारणगुणविशिष्टतया । भक्तिभूम्ने उच्यते - वक्ष्यमाणब्रह्मविद्यारूपभक्त्यभिवृद्ध्यर्थमभिहित इत्यर्थः । एवं गुणादौ सत्ये हि - एवमुक्ते गुणादौ सत्ये सत्येव हि । अथ परभजने रूपभेदादि चिन्त्यम् - अनन्तरपादे परभजनादौ रूपभेदादिकं विचारयितुं शक्यम् । उक्तगुणानां वक्ष्यमाणगुणानाञ्चासत्यत्वे रूपभेदादिकं चिन्तयितुं न शक्यमेव रूपाणामेवाभावादिति भावः । स्वाप्नार्थहेतुरिति ‘सन्ध्ये सृष्टिः’ इत्यादिप्रथमाधिकरणार्थः । सुषुप्त्याधृतिरिति ‘तदभावो नाडीषु’ इत्यादिद्वितीयाधिकरणार्थः । सुप्तगोप्तेति । ‘स एव तु कर्मानुस्मृति’ इत्यादितृतीयाधिकरणार्थः । मुग्धोद्बोधादिकर्तेति ‘मुग्धेऽर्धसम्पत्तिः’ इत्यादिचतुर्थाधिकरणार्थः । अनघशुभगुण इति ‘न स्थानतोऽपि’ इत्यादिपञ्चमाधिकरणार्थः । स्वदेहैरचिद्भिरंशीति ‘उभयव्यपदेशात्त्वहिकुण्डलवत्’ इत्यादिषष्ठाधिकरणार्थः । पारम्यस्यैकसीमेति ‘परमतस्सेतून्मान’ इत्यादिसप्तमाधिकरणार्थः । सकलफलद इति ‘फलमत उपपत्तेः’ इत्याद्यष्टमाधिकरणार्थः । अस्मिन्पादे प्रथमं चतुरधिकरणान्येका पेटिका ततःपरं पञ्चमषष्ठसप्तमाष्टमाधिकरणान्येका पेटिकेति पेटिकाद्वयम् ॥ ३२० ॥
इति श्रीमद्रङ्गनाथशठमथनयतिराजकटाक्षलब्धोभयवेदान्तहृदयस्य भारद्वाजस्य श्रीनिवासराघवदासस्य (श्रीमदहोबिलमठमहास्थाननिर्वहणधुरन्धर-श्रीमद्वेदमार्गप्रतिष्ठापनाचार्य-परमहंसपरिव्राजकाचार्य-सर्वतन्त्रस्वतन्त्रोभयवेदान्ताचार्य-श्रीभगवद्रामानुजसिद्धान्तनिर्धारणसार्वभौम-श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवकश्रीवण्शठकोपश्रीशठकोपरामानुजमहादेशिकस्य) कृतौ अधिकरणसारावलीव्याख्यायां पदयोजनाख्यायां तृतीयस्याध्यायस्य द्वितीयः पादः ॥
कुमार-वरदः - 32
- उत्तरत्र विद्याभेदेषु गुणभेदकथनार्थमेतत्पादे प्रत्यधिकरणमुक्तानर्थभेदान् प्रत्येकमुपादाय प्रकटयति - पाद इति । स्वप्नसम्बन्ध्यर्थस्रष्टा सुषुप्त्याधृतिस्सुषुप्त्याधारस्सुप्तगोप्ता सुप्तस्य विनाशाभावेन संरक्षकः । मुग्धोद्बोधातिकर्ता मूर्च्छितस्योद्बोधं कदाचित् करोति । कदाचिन्मरणमित्यादि शब्दार्थः । अनघशुभगुण इत्युभयलिङ्गत्वमुच्यते । अचिद्भिरंशी स्वदेहैरित्यहिकुण्डलाधिकरणार्थ उच्यते । अथ पराधिकरणार्थः - पारम्यस्यैकसीमेति । एक एव परस्तस्मात् परो नास्तीत्यर्थः । सकलफलद इति फलाधिकरणार्थः । एवमुच्यते भगवान् किमर्थमित्याशङ्क्याह - भक्तिभूम्न इति । वक्ष्यमाणब्रह्मविद्यारूपभक्त्यभिवृद्ध्यर्थमित्यर्थः । ननु व्यावहारिकं गुणजातमेतादृशमस्त्विति वयमपि ब्रूम इति मृषावादिनः प्रवदन्ति तत्रोत्तरमाह - सत्ये हीति । एवमुक्ते गुणादौ सत्ये सत्येव ह्यनन्तरपादे परभजनादौ रूपभेदादिकं वक्तुं शक्यते । अयमर्थः - तत्त्वमेव वेदान्तशास्त्रमुपपादयति । तत्प्रतिपाद्यमर्थजातमतत्त्वं चेत् किं तत्त्वम् ? न किमपीति चेत् माध्यमिकसङ्करप्रसङ्गः । विशेषणमतत्त्वं विशेष्यमात्रं तत्त्वमिति चेत् कः प्राह ? श्रुतिरिति चेद्, वाच्यत्ववेद्यत्वादिभिः पुनरपि मिथ्याभूतं ब्रह्म स्यात् । स्वयम्प्रकाशं तदिति चेत् कि तत् स्वयम्प्रकाशत्वम् ? अवेद्यत्वे सति अपरोक्षव्यवहारानुगुणत्वमिति चेद् व्यवहारानुगुणत्वादेव पुनरपि मिथ्यात्वमुन्मज्जेत् । स्वयम्प्रकाशत्वमृषात्वान्न दोष इति चेत् स्वयम्प्रकाशत्वस्य मिथ्यात्वे परप्रकाशत्वमेव तथ्यमिति पुनरपि दृश्यत्वान्मिथ्यात्वं समर्थयसे ब्रह्मण इत्यसम्बद्धवादिना भवता विवादमपि कर्तुमपत्रपामहे ॥
मूलम् - 32
- पादे स्वप्नार्थहेतुस्तदयमिह सुषुप्त्याधृतिस्सुप्तगोप्ता
मुग्धोद्बोधादिकर्ता त्वनघशुभगुणोऽचिद्भिरंशी स्वदेहैः ।
पारम्यस्यैकसीमा सकलफलद इत्युच्यते भक्तिभूम्ने
सत्ये ह्येवं गुणादावथ परभजने रूपभेदादि चिन्त्यम् ॥