विश्वास-प्रस्तुतिः - 24
- सेतुं तीर्त्वेत्यधीतेः परिमितिवचनात् प्राप्यसम्बन्धितोक्ते-
रन्याधिक्यश्रुतेरप्यतिवहननयात्कारणं प्रापकं स्यात् ।
प्राप्यं त्वन्यद्भवेदित्यसदनवधिके कारणे प्राप्यतोक्तेः
सेतुत्वाद्युक्तिरस्मिन् बहुभिरविहतां वृत्तिमङ्गीकरोतु ॥
३४-तमाहोबिल-यतिः - 24
- सेतुं तीर्त्वेत्यादि । सेतुं तीर्त्वेत्यधीतेः - ‘एतं सेतुं तीर्त्वान्धस्सन्ननन्धो भवति’ इत्यादौ सेतुं तीर्त्वेति श्रवणात् । कूलादिप्रापकत्वं हि सेतौ दृश्यते तद्वदस्याप्यन्यप्रापकत्वप्रतीतेस्तीर्त्वेति तरितव्यत्वाभिधानाच्चेत्यर्थः । परिमितिवचनात् - ‘चतुष्पाद्ब्रह्म षोडशकलम्’ इत्यादौ जगत्कारणभूतस्य ब्रह्मणः परिमितत्ववचनात् । प्राप्यसम्बन्धितोक्तेः - ‘अमृतस्य परं सेतुम्’ इति प्राप्यस्यान्यस्य प्रापकतया तत्सम्बन्धित्वेनाभिधानात् । अन्याधिक्यश्रुतेरपि - ‘परात्परं यन्महतो महान्तम्’, ‘ततो यदुत्तरतरम्’ इत्यादौ सर्वस्मात्परस्यान्यस्य श्रुतेश्च । अतिवहननयात् - अर्चिराद्यातिवाहिकनीत्या । कारणं प्रापकं स्यात् -जगत्कारणभूतं ब्रह्म प्रापकमेव भवेत् । प्राप्यं त्वन्यद्भवेत् - जगत्कारणभूताद्ब्रह्मणोऽन्यदेव स्यात् । इत्यसत् - इत्याशङ्कनमप्यसाधु । अनवधिके कारणे प्राप्यतोक्तेः - स्वरूपगुणैरनवधिके जगत्कारणभूते ब्रह्मणि प्राप्यत्ववचनात् । जगत्कारणं हि ध्येयम् ‘कारणं तु ध्येयः’ इति श्रुतेः । यच्च ध्येयं तदेव प्राप्यम् ‘ब्रह्मविदाप्नोति परम्’, ‘ब्रह्म वेद ब्रह्मैव भवति’ इति प्राप्यपापकयोरेकत्वनिर्णयात् । अतो योऽमृतस्य सेतुस्तदेवामृतमिति भावः । तर्हि अस्मिन् ब्रह्मणि सेतुत्वाद्युक्तिः कथमिति चेत् तत्राह - सेतुत्वाद्युक्तिरित्यादि । अस्मिन् - जगत्कारणभूते अत एव प्राप्यप्रापकभूते ब्रह्मणि । सेतुत्वाद्युक्तिः - पूर्वोदाहृतं सेतुत्वतरितव्यत्वपरिमितत्वादिवचनं तु । बहुभिरविहतां वृत्तिमङ्गीकरोतु - बहुप्रमाणैरविरुद्धां वृत्तिमङ्गीकरोतु । ईश्वरस्यैव प्राप्यत्वं प्रापकत्वञ्च सकलवेदान्तसिद्धत्वादङ्गीकरणीयम्, तेन सेतुत्वाद्युक्तीनामुचितार्थपर्यालोचनयार्थवर्णनं कार्यमिति भावः ॥ ३१२ ॥
कुमार-वरदः - 24
- भाष्य एव पूर्वाधिकरणनिगमनवाक्यान्वितेनोत्तराधिकरणोपक्रमवाक्येन सङ्गतिरुच्यते ‘ब्रह्मणो निर्दोषत्वेन कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम् । इदानीमस्मात् परस्माज्जगन्निमित्तोपादानरूपपरमकारणात् परब्रह्मणः परमपि किञ्चित् तत्त्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्क्य निराक्रियते’ इति । तदर्थविचारस्तु - यदिदमुभयलिङ्गं ब्रह्म किमस्मात्परमपि किञ्चित् तत्त्वमस्ति ? उत नेति । किमस्यैव परत्वे सेतून्मानसम्बन्धभेदव्यपदेशानामुपपत्तिरस्ति ? न वेति । अत्र सूत्रकारेणोपात्तान् पूर्वपक्षहेतूननुक्रमेणानूद्य सौत्रक्रमेण परिहारमपि दर्शयति - सेतुमिति । ‘एतं सेतुं तीर्त्वा’ इति तरितव्यत्ववचनात् ‘चतुष्पाद् ब्रह्म षोडशकलम्’ इति ब्रह्मणः परिमितत्ववचनात् प्राप्यसम्बन्धितोक्तेः ‘अमृतस्यैष सेतुः’ इति प्राप्यस्यान्यस्यामृतस्य प्रापकतया तत्सम्बन्धित्वेनाभिधानात्, अन्याधिक्यश्रुतेरपि ‘परात्परं पुरुषमुपैति दिव्यम्’ ‘परात्परं यन्महतो महान्तम्’ इति सर्वस्मात् परस्यान्यस्य श्रुतेश्च । अतिवहननयात् आतिवाहिकन्यायेनायं परमपुरुषो विश्वकारणभूतः प्रापक एव स्यान्न पुनः प्राप्यः । प्राप्यञ्चान्यदेव किञ्चिद् भवेदिति व्योमातीतवादिनः । तदिदं प्रतिक्षिपति - असदिति । यज्जगत्कारणं तदेव ध्येयम् ‘कारणं तु ध्येयः’ इति नियमात् । यच्च ध्येयं तदेव प्राप्यम् ‘ब्रह्मविदाप्नोति परम्’ ‘ब्रह्म वेद ब्रह्मैव भवति’ इति प्राप्यप्रापकयोरेकत्वनिर्णयात् । अतो योऽमृतस्य सेतुस्तदेवामृतमिति त्रय्यन्तवादिनां निर्णयः । अस्मिन् ब्रह्मणि सेतुत्वाद्युक्तिः कथमिति चेदत्रोत्तरम् - सेतुत्वेति । बहुप्रमाणैरविरुद्धां वृत्तिमङ्गीकरोतु । ईश्वरस्यैव तावत्प्राप्यत्वं प्रापकत्वञ्च सकलवेदान्तसिद्धत्वादङ्गीकरणीयमेव । तेन सेतुत्वाद्युक्तीनां योग्यार्थकल्पनयार्थोपवर्णनं कार्यमित्यर्थः । अन्यथा लोके मुख्यामुख्यप्रयोगविभागो न स्यात् । अमुख्यप्रयोगाणां परित्याज्यत्वञ्च स्यात् । उपक्रमोपसंहारादितात्पर्यलिङ्गपरिशोधनेन विदुषां तत्रतत्र वाक्यार्थोपवर्णनमपि न स्यादिति सर्वशास्त्रसङ्क्षोभः ॥
मूलम् - 24
- सेतुं तीर्त्वेत्यधीतेः परिमितिवचनात् प्राप्यसम्बन्धितोक्ते-
रन्याधिक्यश्रुतेरप्यतिवहननयात्कारणं प्रापकं स्यात् ।
प्राप्यं त्वन्यद्भवेदित्यसदनवधिके कारणे प्राप्यतोक्तेः
सेतुत्वाद्युक्तिरस्मिन् बहुभिरविहतां वृत्तिमङ्गीकरोतु ॥
विश्वास-प्रस्तुतिः - 25
- सेतुत्वं सेतुतुल्याद्विधरणनियमाद्बन्धनाद्वात्र युक्तं
व्याप्तेऽप्यस्मिन्नुपाधेः परिमितिवचनं सार्थकं सूत्रितं प्राक् ।
चातुष्पद्यञ्च तत्तन्मतिसमनुगुणं कल्प्यतेऽनन्तभूम्नः
स्वस्येत्येवामृतस्येत्यभिहितमथवा मुक्तिरेवामृतं स्यात् ॥
३४-तमाहोबिल-यतिः - 25
- सेतुत्वमित्यादि । सेतुत्वम् । सेतुतुल्याद्विधरणनियमात् - सेतौ यथा धारकत्वनियमस्तथाविधाद्धारकत्वनियमादित्यर्थः । भगवानेव हि सर्वधारकः । बन्धनाद्वा - असङ्करेण सर्वस्य तत्त्वजातस्य स्वस्मिन् बन्धनाद्वा । ‘षिञ् बन्धने’ इत्यस्माद्धातोस्सेतुशब्दनिष्पत्तिरिति भावः । अत्र - जगत्कारणभूते ब्रह्मणि । युक्तम् - समञ्जसमेवेत्यर्थः । व्याप्तेऽपि - सर्वव्यापकेऽपि । अस्मिन् -ब्रह्मणि । परिमितिवचनम् - अणीयस्त्वचतुष्पात्त्वषोडशकलत्वादिरूपपरिमितत्ववचनम् । उपाधेस्सार्थकं प्राक्सूत्रितम् - हृदयाद्यल्पोपाधिवशेन तथा व्यपदेश इति दहराधिकरणेऽन्यत्र च ‘अल्पश्रुतेरिति चेत्तदुक्तम्’ इत्यादिना सूत्रेण प्रागेव प्रतिपादितम् । अनन्तभूम्नः - अपरिच्छिन्नविभूतेर्ब्रह्मणः । चातुष्पद्यञ्च ‘चतुष्पाद्ब्रह्म’ इति श्रुत्युक्तं चतुष्पात्त्वञ्च । तत्तन्मतिसमनुगुणं कल्प्यते - तथातथोपासनात्मकमत्यनुगुणतया कल्प्यते । तथा च भाष्यम् - ‘योऽयं ‘चतुष्पाद्ब्रह्म षोडशकलम्’ ‘पादोऽस्य विश्वा भूतानि’ इत्युन्मानव्यपदेशः, स बुद्ध्यर्थ उपासनार्थः’ इत्यादि । चिन्तामणौ तु ‘चातुष्पद्यश्च तत्तच्छ्रुतिभिरनुगुणं कल्प्यतेऽनन्तभूम्नः’ इति पाठमङ्गीकृत्य व्याख्यातम् । तथा च तत्रत्यवाक्यम् ‘चतुष्पाद्ब्रह्मेति वचनं तु पादोऽस्य विश्वा भूतानीतिवत् तत्तच्छ्रुतिभिरनुगुणमेव कल्पनीयम्’ इति । स्वस्य - ब्रह्मणः । इत्येव - एवं तात्पर्येणैव । अमृतस्येत्यभिहितम् - अमृतस्य स्वस्यैव स्वयं सेतुरिति तात्पर्येणैवामृतस्येत्यभिहितम्, न त्वन्यस्यामृतस्य सेतुरिति । अथवा मुक्तिरेवामृतं स्यात् - मुक्तिरेवामृतशब्दार्थस्स्यादित्यर्थः ॥ ३१३ ॥
कुमार-वरदः - 25
- अत्र पूर्वं सेतुत्वादिवचनं योग्यार्थकल्पनया योज्यमित्युक्तम् । तानेव योग्यानर्थाननुक्रमेण दर्शयति - सेतुत्वमिति । सेतुत्वं सेतुतुल्याद् विधरणनियमात् - धारकत्वनियमादित्यर्थः । भगवानेव हि सर्वधारकः । अर्थान्तरमप्याह - बन्धनादिति स एव भगवानसङ्करेण सर्वमपि तत्त्वजातं सम्बध्नाति । परिमितिवचनस्यापि गतिमाह - व्याप्तेऽपीति । व्याप्तेऽप्यस्मिन्परस्मिन् ब्रह्मणि परिमितिवचनं सार्थकमिति दहराकाशादिप्रसङ्गेषु तत्रतत्र सूत्रितमेव । ‘चतुष्पाद् ब्रह्म’ इति वचनं तु ‘पादोऽस्य विश्वा भूतानि’ इतिवत् तत्तच्छ्रुतिभिरनुगुणमेव कल्पनीयमनन्तभूम्नोऽपि ब्रह्मणः । ‘अमृतस्यैष सेतुः’ इत्यमृतरूपस्य ब्रह्मण इति वा ब्रह्मप्राप्तिरूपमोक्षस्यामृतस्येति वा योजनीयम् ॥
मूलम् - 25
- सेतुत्वं सेतुतुल्याद्विधरणनियमाद्बन्धनाद्वात्र युक्तं
व्याप्तेऽप्यस्मिन्नुपाधेः परिमितिवचनं सार्थकं सूत्रितं प्राक् ।
चातुष्पद्यञ्च तत्तन्मतिसमनुगुणं कल्प्यतेऽनन्तभूम्नः
स्वस्येत्येवामृतस्येत्यभिहितमथवा मुक्तिरेवामृतं स्यात् ॥
विश्वास-प्रस्तुतिः - 26
- अन्यस्याधिक्यवादे परमवधितया कारणं यत्र दृष्टं
तत्र ह्यव्याकृतादिस्तदवधिरितरापेक्षयासौ परश्च ।
यस्मादन्यत्परं नेत्यभिहितविषये तत्परोक्तेरयुक्तेः
एवन्त्वादित्यनूक्तिस्तत इति यदि वा व्याप्ययुक्तं तदस्तु ॥
३४-तमाहोबिल-यतिः - 26
- अन्यस्येत्यादि । अन्यस्य - प्रथमान्तपरशब्दनिर्दिष्टस्य । आधिक्यवादे - उत्कृष्टत्वकथने । कारणम् - महदादिकार्यकारणभूतम् । परम् - पञ्चमीतसिलन्तपरशब्दविशेषितपञ्चम्यन्ताक्षरशब्दितं वस्तु । यत्र अवधितया दृष्टम् - यस्मिन्वाक्ये उत्कर्षप्रतियोगितयावगतं यथा ‘अक्षरात् परतः परः’ इत्यादौ । तत्र हि - तादृशस्थले हि । अव्याकृतादिः - प्रधानादिः । तदवधिः - प्रथमान्तपरशब्दार्थानुयोगिकोत्कर्षस्य प्रतियोगी भवति । असौ - अव्याकृतादिः । इतरापेक्षया - स्वकार्यभूतमहदाद्यपेक्षया । परश्च -उत्कर्षाश्रयतया परशब्दितश्च भवति । ‘यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवाभियन्ति’ इत्यस्यां श्रुतौ ‘ततो यदुत्तरतरम्’ इति जगत्कारणभूताद्ब्रह्मणोऽपि परं प्रतीयत इत्याशङ्क्य तस्याश्श्रुतेर्निर्वाह उच्यते - यस्मादन्यदित्यादिना । यस्मादन्यत्परं नेत्यभिहितविषये - ‘यस्मात्परं नापरमस्ति किञ्चित्’ इति पूर्ववाक्ये अपरशब्दस्यान्यवाचकत्वात् ‘किञ्चित्’ इत्यस्य केनापि प्रकारेणेति भाषणात् यस्मादन्यत्केनापि प्रकारेण परभूतं वस्तु नास्तीत्युक्तपरमपुरुषविषये इत्यर्थः । तत्परोक्तेरयुक्तेः - अनन्तरवाक्ये ‘ततो यदुत्तरतरम्’ इत्यत्र तत इति शब्देन पूर्ववाक्ये केनापि प्रकारेण स्वभिन्नपरवस्तुशून्यत्वेन निर्दिष्टं परमपुरुषमवधित्वेन निर्दिश्य ‘यदुत्तरतरम्’ इति तद्भिन्नस्य कस्यचित् परत्वप्रतिपादनस्यायोगात् । तत इति - तत इति पदेन । एवन्त्वादित्यनूक्तिः - यदुत्तरतरं पुरुषतत्त्वं तदेवारूपमनामयं यतः, तत इति वक्ष्यमाणार्थहेतुत्वेन पूर्ववाक्योक्तार्थस्यानुवाद इत्यर्थः । यदि वा - यद्वा । यद् व्याप्यमुक्तम् - ‘तेनेदं पूर्णं पुरुषेण सर्वम्’ इति पूर्ववाक्ये परमपुरुषव्याप्यत्वेन यत् इदंशब्दविशेषितसर्वशब्दनिर्दिष्टं जगत् । तत् - तदेव । तत इति उक्तमस्तु - तत इत्यवधिवाचकशब्दप्रतिपाद्यमित्यङ्गीक्रियतामित्यर्थः । ततश्चायमर्थस्सम्पद्यते - ‘ततः’ पूर्ववाक्ये व्याप्यतया निर्दिष्टात् सर्वस्मादपि वस्तुनः ‘यत् उत्तरतरम्’ परभूतं यद्वस्तु तदरूपमनामयमिति । चिन्तामणौ तु ‘इयमत्र शब्दयोजना - अन्यस्य ईश्वरस्याक्षरात्परतः पर इत्याधिक्यवादे परं प्रकृत्यादिकं अवधितया यत्र दृष्टं तत्र तस्मिन्नेवोदाहरणे तदवधिरव्याकृतादिस्तदपेक्षयावधिः स्यात् । स्वयञ्चाक्षरात्परत इति स्वकार्यवर्गात्परत्वेनापि निर्दिश्यते । अत्र तु ‘न ह्येतस्मादिति नेत्यन्यत्परमस्ति’ इति ‘इति न’ इत्युपदिष्टादन्यत्परं नास्तीति परान्तरराहित्येनोपदिष्टे विषये तत्परोक्तेस्तस्मात्परस्यान्यस्योक्तेरयुक्तेः । तेन परत्वकल्पनं परमपुरुष एव पर्यवस्यति । ततो यदुत्तरतरमित्यत्र तु पञ्चम्यन्तस्य तच्छब्दस्य हेतुपरत्वमित्येको निर्वाहः । अवधिपरत्वेऽपि पूर्वोक्तात्परमपुरुषव्याप्यात् प्रकृतत्वेन तच्छब्देन निर्देष्टुं योग्यादित्यपरो निर्वाहः’ इति ॥ ३१४ ॥ इति पराधिकरणम् ॥ ८१॥
कुमार-वरदः - 26
- अत्र नारायणस्य परत्वमङ्गीकृत्य तस्मादप्यन्यस्य परत्वमुच्यत इति पूर्वपक्षिणा वर्ण्यते । तत्र दृष्टान्तोऽप्युक्तः । यथा ‘अक्षरात् परतः परः’ इत्यत्र परतोऽक्षरादन्यः पर(तर?) इति पर उच्यत इति । एवमुक्ते दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाह - अन्यस्येति । अयमर्थः दृष्टान्ते हि प्रथमान्तपरशब्दनिर्दिष्टस्य परस्याधिक्यवादे पञ्चम्यन्तपरशब्दनिर्दिष्टमवधितया दृष्टम् । तस्य च परशब्दवाच्यत्वं तत्कार्यरूपमहदाद्यपेक्षयेति वचनान्निर्णीतम् । तत्र स्वकार्यापेक्षया परस्मादक्षरात् परो जीवो वा परमात्मा वेति वक्तुं शक्यते । इह पुनः ‘न ह्येतस्मादिति नेत्यन्यत् परमस्ति’ इति परमात्मापेक्षया परः प्रतिक्षिप्यते । तस्मादन्यः परो न कल्पनीय एव । ननु ‘ततो यदुत्तरतरम्’ इत्यत्र तच्छब्देन प्रकृतं परमपुरुषं निर्दिश्य ततोऽप्युत्तरतरं तत्त्वान्तरं निर्दिश्यते । अतः परमपुरुषादुत्तरं तत्त्वमस्तीति केचिदूचुः । तत् परिहरति - एवन्त्वादिति । तत्र तत इत्येवन्त्वादिति हेतुरनूद्यते । पूर्वं बहुभिः प्रमाणैः परमपुरुष एव परतत्त्वमित्युपपादितत्त्वादित्यर्थः । तेन ‘यदुत्तरतरम्’ इत्यादिकं परमपुरुषमेवाह नपुनस्तत्त्वान्तरम् । तत इति शब्दस्यार्थान्तरमप्याह - यदि वेति । ततः परमपुरुषव्याप्यत्वेन पूर्वोक्तात् प्रपञ्चात् उत्तरतरं यदरूपमनामयमित्यन्वयः । अत्रापि परमपुरुष एव परत्वेनोच्यते । यदि परमपुरुषादुत्तरतरं वस्त्वस्तीत्यभिधीयते तदा प्रकरणोपक्रमे पुरुषसूक्तप्रत्यभिज्ञानेन परमपुरुषादुत्तरस्य प्रतिक्षेपादुपक्रमोपसंहारयोरुपक्रमबलीयस्त्वस्य न्याय्यत्वादुपक्रमानुगुण्येनोपसंहारवाक्यमस्मदुक्तप्रक्रिययैव योजनीयमिति भावः । इयमत्र शब्दयोजना - अन्यस्येश्वरस्य ‘अक्षरात्परतः परः’ इत्याधिक्यवादे परं प्रकृत्यादिकं अवधितया यत्र दृष्टं तत्र तस्मिन्नेवोदाहरणे तदवधिरव्याकृतादिस्तदपेक्षया अवधिः स्यात् । स्वयञ्च ‘अक्षरात् परतः परः’ इति स्वकार्यवर्गात् परत्वेनापि निर्दिश्यते । अत्र तु ‘न ह्येतस्मादिति नेत्यन्यत्परमस्ति’ इति ‘इति न’ इत्युपदिष्टादन्यत्परं नास्तीति परान्तरराहित्येनोपदिष्टे विषये तत्परोक्तेस्तस्मात्परस्यान्यस्योक्तेरयुक्तेः । तेन परत्वकल्पनं परमपुरुष एव पर्यवस्यति । ‘ततो यदुत्तरतरम्’ इत्यत्र तु पञ्चम्यन्तस्य तच्छब्दस्य हेतुपरत्वमित्येको निर्वाहः । अवधिपरत्वेऽपि पूर्वोक्तात् परमपुरुषव्याप्यात् प्रकृतत्वेन तच्छब्देन निर्देष्टुं योग्यादित्यपरो निर्वाह इति ॥
मूलम् - 26
- अन्यस्याधिक्यवादे परमवधितया कारणं यत्र दृष्टं
तत्र ह्यव्याकृतादिस्तदवधिरितरापेक्षयासौ परश्च ।
यस्मादन्यत्परं नेत्यभिहितविषये तत्परोक्तेरयुक्तेः
एवन्त्वादित्यनूक्तिस्तत इति यदि वा व्याप्ययुक्तं तदस्तु ॥