विश्वास-प्रस्तुतिः - 22
- विश्वस्रष्टुस्स्वदुःखप्रजननमिह न स्वांशतोऽचित्त्वकॢप्तौ
मृत्तत्कार्यादिकञ्च स्वरसमिह बहूदाहृतं सप्रतिज्ञम् ।
तस्मादव्याकृतादिर्विहरणनियता विक्रियैवेति चेन्न
स्वांशे मौढ्यं वितन्वन्विहरति भगवानित्यनर्थानपोहात् ॥
३४-तमाहोबिल-यतिः - 22
- विश्वस्रष्टुरित्यादि । विश्वस्रष्टुः - जगत्कारणभूतस्य ब्रह्मणः । स्वांशतोऽचित्त्वकॢप्तौ - स्वांशतोऽचिद्वर्गप्रजनने । स्वदुःखप्रजननमिह न - इह स्वदुःखकारणत्वं नास्त्येव, अचितो दुःखाभावात् । इह - ब्रह्मणस्स्वांशतोऽचित्त्वकॢप्तौ । सप्रतिज्ञा - प्रतिज्ञापूर्वकम् । उदाहृतम् - दृष्टान्ततया निदर्शितम् । बहु - मृत्पिण्डलोहमणिनखनिकृन्तनादिरूपेण बहुविधम् । मृत्तत्कार्यादिकञ्च, स्वरसम् - अत्यन्तानुगुणं भवति । तस्मात् - एवं दृष्टान्तस्वारस्यात् । अव्याकृतादिः - प्रकृतिमहदहङ्काराद्यचिद्वर्गः । विहरणनियता विक्रियैव - लीलावशेन रचिता स्वांशविक्रियैव भवितुमर्हति । इति चेन्न - एवं शङ्क्यते चेत्तन्न युज्यते । भगवान् - ज्ञानानन्दादिकल्याणगुणपरिपूर्णो ज्ञानानन्दात्मा च परमात्मा । स्वांशे - ज्ञानानन्दरूपस्य स्वरूपस्यैकदेशे । मौढ्यं वितन्वन् विहरतीति - जाड्यमापादयन् लीलामनुभवतीति कल्पने । अनर्थानपोहात् - स्वानर्थापादनापत्तेः । द्विविधो ह्यनर्थः दुःखप्रजननमित्येकः, निरतिशयसुखरूपे वस्तुनि मौढ्यापादनमित्यपरः, तत्राचिद्वस्तुनश्चिद्विलक्षणत्वेन दुःखजननाभावेऽपि निरतिशयज्ञानानन्दस्वरूपे वस्तुन्यंशेऽचिद्रूपतया मौढ्यापादनमपि स्वानर्थापादनमेवेति भावः ॥ ३१० ॥
कुमार-वरदः - 22
- सङ्गतिर्भाष्ये ‘तस्याचिद्वस्तुनो ब्रह्मरूपत्वप्रकार इदानीं चिन्त्यते ब्रह्मणो निर्दोषत्वसिद्ध्यर्थम्’ इति । अयमर्थः - पूर्वाधिकरणे ब्रह्मणो निर्दोषत्वं प्रतिज्ञातम् । तस्य निर्दोषत्वस्य प्रतिष्ठापनार्थमचिद्वस्तुनो ब्रह्मरूपत्वमहिकुण्डलन्यायेनोत प्रभाप्रभावन्न्यायेन, अथवा विशेषणविशेष्यभावेनेति चिन्त्यत इति पूर्वाधिकरणेन सङ्गतिरिति । तदर्थविचारस्तु - किमचिद्वस्तुनो ब्रह्मरूपत्वमहिकुण्डलन्यायेन ? उत प्रभाप्रभावद्रूपेण ? उत विशेषणविशेष्यभावेनांशांशित्वेन इति । किं ‘स वा एष महानज आत्माजरोऽमरः’ इत्याद्यचिद्धर्मप्रतिषेधो विशेषणविशेष्यभावेन ब्रह्मरूपत्वं प्रपञ्चस्यावगमयति नेति । अत्र पूर्वपक्षमाह - विश्वस्रष्टुरिति । विश्वस्रष्टुः परमपुरुषस्य स्वांशतोऽचिद्वर्गप्रजनने स्वदुःखकारणत्वं नास्त्येव । अचितो दुःखाभावात् । अंशतश्चाचित्त्वकॢप्तौ मृत्तत्कार्यादिकञ्च बहूदाहृतं दृष्टान्तजातं सप्रतिज्ञं स्वरसमेव भवति । अतो ब्रह्मैवाव्याकृतादिसृष्टिं विहारवशाद् विक्रियामपि करोति । ततो विकाररूपाप्यचित्सृष्टिर्युज्यत एवेत्यर्थः । तदिदं प्रतिक्षिपति - नेति । तदेव विवृणोति - स्वांश इति । अयमर्थः - द्विविधो ह्यनर्थः । दुःखप्रजननमित्येकः । निरतिशयसुखानुभवयोग्ये वस्तुनि मौढ्यापादनमित्यपरः । अचिद्वस्तुनश्चिद्विलक्षणत्वेन दुःखजननाभावेऽपि निरतिशयज्ञानानन्दात्मनि वस्तुन्यंशे अचिद्रूपतया मौढ्यापादनमपि स्वानर्थापादनमेव । तस्मादचिद्रूपस्वांशसृष्टिर्न घटत एव ॥
मूलम् - 22
- विश्वस्रष्टुस्स्वदुःखप्रजननमिह न स्वांशतोऽचित्त्वकॢप्तौ
मृत्तत्कार्यादिकञ्च स्वरसमिह बहूदाहृतं सप्रतिज्ञम् ।
तस्मादव्याकृतादिर्विहरणनियता विक्रियैवेति चेन्न
स्वांशे मौढ्यं वितन्वन्विहरति भगवानित्यनर्थानपोहात् ॥
विश्वास-प्रस्तुतिः - 23
- कश्चिन्नित्योऽचिदंशो विविधविकृतिमान् ब्रह्मणीत्याहुरेके
फेनादिन्यायतोऽन्ये सति विकृतिवशाद् ज्ञाज्ञसर्वज्ञभागान् ।
चन्द्रज्योत्स्नादिनीत्या कतिचिदिह जगद्ब्रह्मणोरैकजात्यं
सर्वे ते सर्ववेदस्वरसगतिहतेरत्र वित्रासनीयाः ॥
३४-तमाहोबिल-यतिः - 23
- कश्चिदित्यादि । एके - केचित् । ब्रह्मणि - ब्रह्मस्वरूपे । कश्चिदंशः - कोऽप्येकदेशः । नित्यः - अनादिसिद्धः । अचित् - चैतन्यशून्यः । विविधविकृतिमानिति - महदहङ्कारादिनानाविधविकृतिशाली वर्तत इति । आहुः । अन्ये - तेभ्योऽन्ये केचित् । सति - सद्रूपे ब्रह्मणि । फेनादिन्यायतः - सागरे फेनतरङ्गबुद्बुदन्यायेन । ज्ञाज्ञसर्वज्ञभागान् - चिदचिदीश्वराख्यांशान् । विकृतिवशात् - विकारवशेन जातान् प्राहुः । कतिचित् - केचित् । चन्द्रज्योत्स्नादिनीत्या - चन्द्रचन्द्रिकासूर्यातपादिन्यायेन । इह - विषये । जगद्ब्रह्मणोरैकजात्यम् आहुः - चन्द्रचन्द्रिकादीनां तेजस्त्वेनेव जगद्ब्रह्मणोः सत्त्वेनाकारेण साजात्यमात्रं न स्वरूपैक्यादिकमिति प्रतिपादयाञ्चक्रुः । ते सर्वे । अत्र - अधिकरणे । सर्ववेदस्वरसगतिहतेः - सर्ववेदान्तस्वारस्यावगतिविरोधात् । वित्रासनीयाः - निरसनीयाः । अयमाशयः - प्रथमपक्षविरोधस्तदवस्थः; सर्वज्ञस्य ब्रह्मणो नित्यमेव तादृशमौढ्यसंवलितस्वरूपकल्पनस्यात्यन्तदौस्स्थ्यात् । द्वितीयोऽपि पक्षस्तादृश एव निर्विकारे विकारकल्पनात् स्वानर्थकरणदोषस्य तादवस्थ्याच्च । तृतीयेऽपि पक्षे वस्तुत्वमात्रेण साजात्यञ्चेत् सर्वलोकप्रसिद्धत्वात् न वेदान्तवेद्यम् । आत्मतया साजात्यञ्चेत् अचिद्वस्तुनि तन्नास्त्येव, ईश्वरत्वेन साजात्यञ्चेत् तत्त्वत्रयकॢप्तिपराहतं ‘भोक्ता भोग्यं प्रेरितारम्’ इति श्रुतिविरुद्धञ्च । अतो विशेषणविशेष्यभावेनैवैकार्थ्यमिति वेदान्ततत्त्ववेदिनां निर्णयः, तेन सर्वे वादिनस्सर्ववेदान्तवाक्यस्वारस्यविरोधेनात्र वित्रासनीया इति ॥ ३११ ॥
इत्यहिकुण्डलाधिकरणम् ॥ ८० ॥
कुमार-वरदः - 23
- उक्तपक्षेण सह पक्षान्तराण्यप्यनूद्य निराकरोति - कश्चिदिति । पूर्वं ब्रह्म स्वयमेव स्वस्मिन्नचित्त्वमापादयतीत्याशङ्क्य दूषितम् । अधुना पूर्वोक्तदोषपरिहारार्थं केचिदनादिसिद्धो नित्य एव कश्चिदचिदंशो विविधविकृतिमान् वर्तत इत्याहुः । तत्रापि विरोधस्तदवस्थः - सर्वज्ञस्य ब्रह्मणो नित्यमेव तादृशमौढ्यसंवलितरूपकल्पनस्यात्यन्तदौस्स्थ्यात् । पक्षान्तरमनुवदति - फेनादीति । सन्मात्रे ब्रह्मणि सागरे फेनतरङ्गबुद्बुदन्यायेन चिदचिदीश्वरात्मकं तत्त्वत्रयं विकृतिवशाज्जायत इत्यन्ये प्राहुः । तदपि तादृशमेव; निर्विकारे विकारकल्पनात् स्वानर्थकरणदोषस्य तादवस्थ्याच्च । कतिचित्पुनश्चन्द्रचन्द्रिकान्यायेन जगद्ब्रह्मणोरैकजात्यमेव ब्रुवते । तद् जगद्ब्रह्मणोरैक्यप्रतिपादकवेदान्तवाक्यानामननुकूलत्वादनादरणीयमेव । वस्तुत्वमात्रेण साजात्यञ्चेत् सर्वलोकप्रसिद्धत्वान्न वेदान्तवेद्यम् । आत्मतया साजात्यं चेत् अचिद्वस्तुनि नास्त्येव । ईश्वरत्वेन साजात्यञ्चेत् तत्त्वत्रयपरिकॢप्तिपराहतम् । “भोक्ता भोग्यं प्रेरितारम्” इति श्रुतिविरुद्धञ्च । अतो विशेषणविशेष्यभावेनैकात्म्यमिति वेदान्ततत्त्ववेदिनां निर्णयः । तेन सर्वे वादिनः सर्ववेदान्तवाक्यस्वारस्यविरोधादत्र वित्रासनीया इति शब्दान्वयः ॥
मूलम् - 23
- कश्चिन्नित्योऽचिदंशो विविधविकृतिमान् ब्रह्मणीत्याहुरेके
फेनादिन्यायतोऽन्ये सति विकृतिवशाद् ज्ञाज्ञसर्वज्ञभागान् ।
चन्द्रज्योत्स्नादिनीत्या कतिचिदिह जगद्ब्रह्मणोरैकजात्यं
सर्वे ते सर्ववेदस्वरसगतिहतेरत्र वित्रासनीयाः ॥