विश्वास-प्रस्तुतिः - 16
- नैर्गुण्यं निर्गुणोक्तेर्गुणवचनमिहाविद्यधर्मार्थवादो
नैर्दोष्यं वस्तुवृत्त्या तदितरदखिलं स्वाप्नभोगादितुल्यम् ।
इत्थं जीवेशभूमापहरणकुहनावादमोमुह्यमानान्
क्षेप्तुं नस्थानतोऽपीत्यधिकरणमथारभ्यतेऽनेकशृङ्गम् ॥
३४-तमाहोबिल-यतिः - 16
- नैर्गुण्यमित्यादि । इह - ब्रह्मणि - निर्गुणोक्तेः - निर्गुणं निरञ्जनम् इति श्रुतिवचनात् । नैर्गुण्यम् - सर्वगुणशून्यत्वमेव प्रामाणिकमित्यर्थः । गुणवचनम् - सत्यकामस्सत्यसङ्कल्पः इत्यादिरूपं भगवद्गुणप्रतिपादकं श्रुतिवचनजातं तु । आविद्यधर्मार्थवादः - अविद्यापरिकल्पितधर्मप्रशंसावादमात्रम् । नतु तत्र वास्तवार्थत्वलेश इति भावः । वस्तुवृत्त्या नैर्दोष्यम् - स्वरूपेणावस्थितस्योपाधिवैशिष्ट्येन जीवभावमनुभवतश्च ब्रह्मणः वस्तुस्थितिक्रमेण दोषशून्यत्वमेव प्रामाणिकम् । तदितरदखिलम् - गुणविग्रहादिकं संसारसम्बन्धश्चेत्येवमादि निखिलमपि । स्वाप्नभोगादितुल्यम् - स्वप्नदशासम्भावितराज्याभिषेकशिरच्छेदव्याघ्रादिभयवत् मिथ्याभूतमेव । ब्रह्मणो निर्गुणत्वं निर्दोषत्वञ्च वास्तवम्, तदितरगुणविग्रहादिकं सर्वमप्याविद्यकमवास्तवम्, ब्रह्माभिन्नस्य जीवस्य च संसारो मिथ्या, नैर्दोष्यमेव वस्तुतत्त्वमिति भावः । इत्थम् - उक्तदिशा । जीवेशभूमापहरणकुहनावादमोह्यमानान् - जीवस्य भूमा संसारभयाक्रान्तत्व-तन्निवर्तनौपयिक-भगवदुपासन-तदुपयुक्त-ज्ञानचिकीर्षाद्याश्रयत्व- भगवच्छेषत्व-पारतन्त्र्य-तत्प्रसादलभ्य-सकलपुरुषार्थभाक्त्व-निरतिशयज्ञानविकास-निरन्तरभगवदनुभव-कैङ्कर्यादिरूपः, ईशभूमा तु जगत्कारणत्व-सर्वज्ञत्व-सर्वशक्तित्वाद्यन्त-कल्याणगुणाप्राकृत-स्वासाधारण-दिव्यमङ्गल-विग्रह-विभूत्यादिरूपः, तयोरपहरणेन तच्चौर्याय प्रवृत्तेन कुहनावादेन वञ्चनार्थेन ब्रह्मतत्त्ववादेन मोमुह्यमानान् मोहं प्राप्तान् स्वमोहानुगुण्येन प्रलपतो मृषावादिनः । क्षेप्तुम् - प्रतिक्षेप्तुम् । अनेकशृङ्गम् - बहुप्रकारम् । नस्थानतोपीत्यधिकरणम् -‘न स्थानतोऽपि’ इत्यधिकरणम् । अथ - जीवदोषप्रदर्शकप्रथमपेटिकासमाप्त्यनन्तरम् । आरभ्यते - विरचितम् । सूत्रकारैरिति शेषः ॥
कुमार-वरदः - 16
- पूर्वाधिकरणे संसरन्तं मरणावस्थाधीनं जीवं वैराग्यातिशयसिद्ध्यर्थमुक्त्वा प्राप्यतृष्णाविशेषसिद्ध्यर्थं भगवत उभयलिङ्गत्वमुच्यत इति सङ्गतिः । तदिदं व्यक्तमेव दर्शयति - नैर्गुण्यमिति । अत्र मृषावादिनां पक्षमनूद्य विशेषतस्तत्प्रतिक्षेपार्थमेवेदमधिकरणं प्रवृत्तम् । ते खल्वेवमाहुः - ‘निर्गुणं निरञ्जनम्’ इति ब्रह्मणो नैर्गुण्यमेव प्रामाणिकम् । तर्हि ‘सत्यकामः सत्यसङ्कल्पः’ इत्यादि गुणवचनस्य का गतिरत्याशङ्क्याह - गुणवचनमिति । अविद्यापरिकल्पितधर्मार्थवादमात्रमेव गुणवचनं प्रलोभनार्थमित्यर्थः । तर्हि गुणाभावे किं ब्रह्मणो दोषवत्त्वमेव स्वाभाविकमिति भवतोच्यत इत्याशङ्क्याह - नैर्दोष्यमिति । अयमर्थः - ब्रह्मणि नैर्गुण्यं नैर्दोष्यं चोभयमपि स्वाभाविकमिति । तदिदमाह - वस्तुवृत्त्येति । तर्हि श्रुतिपुराणादिसिद्धं ब्रह्मगुणविग्रहादिकं संसारसम्बन्धश्च सर्वलोकप्रसिद्धः किं भवेदित्याशङ्क्याह - तदितरदिति । उक्तमेतदेकदेशमात्रमस्माभिः । इत्थमेवं जीवेश्वरैश्वर्यापहरणप्रवृत्तकुहनावादमोमुह्यमानान् निराकर्तुं ‘न स्थानतोपि’ इत्यधिकरणमारभ्यते । अनेकशृङ्गम् - बहुप्रकारमित्यर्थः ॥
मूलम् - 16
- नैर्गुण्यं निर्गुणोक्तेर्गुणवचनमिहाविद्यधर्मार्थवादो
नैर्दोष्यं वस्तुवृत्त्या तदितरदखिलं स्वाप्नभोगादितुल्यम् ।
इत्थं जीवेशभूमापहरणकुहनावादमोमुह्यमानान्
क्षेप्तुं नस्थानतोऽपीत्यधिकरणमथारभ्यतेऽनेकशृङ्गम् ॥
विश्वास-प्रस्तुतिः - 17
- हेयं वस्तु स्वतो यत् स्थितिरिह हि भवेद् दुःखकृत्स्वेच्छयापि
त्याज्यत्वं नान्यथा स्यादिति न निरुपधेर्हेयभावस्य हानेः ।
नित्यस्वातन्त्र्यभाजो भविन इव दशाभेदतो नाप्यवद्यं
श्रुत्यैवैकत्र देहे परतदितरयोश्शुद्ध्यशुद्धी ह्यधीते ॥
३४-तमाहोबिल-यतिः - 17
- हेयमित्यादि । यत् वस्तु स्वतो हेयम् - स्वरूपेण त्याज्यं निन्द्यम्। इह - एतस्मिन्वस्तुनि । स्वेच्छयापि स्थितिः - परनियोजनेन वा स्वेच्छयैव वा अवस्थानम् । दुःखकृद्भवेद्धि - दुःखप्रदं भवेदिति सर्वलोकसिद्धं हि । अन्यथा - तत्रावस्थानस्य स्वेच्छाकृतस्य दुःखकृत्त्वाभावे । त्याज्यत्वं न स्यात् - तस्य हेयत्वमेव न भवेत् । पूयशोणितादिमज्जनं हि यथा राजकिङ्करस्य हेयम्, तथा राज्ञोऽपि तद्धेयमेव, तथा चेश्वरस्यापि जीववत् देहावस्थानं दुःखकारणमेव स्यात् । इति न - एवं न शङ्क्यम् । निरुपधेर्हेयभावस्य हानेः - निरुपाधिकहेयत्वस्य कस्मिन्नपि वस्तुन्यभावात् । ‘तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ तस्माद्दुःखात्मकं नास्ति नच किञ्चित् सुखात्मकम् ॥’ इति वचनन्यायेन लोके वस्तुषूलभ्यमानस्याल्पानुकूल्यस्य प्रातिकूल्यस्य च कर्मोपाधिमूलकत्वात् ईश्वरे तदभावात् न तस्य देहसम्बन्धमात्रेण दुःखसम्भव इति भावः । नित्यस्वातन्त्र्यभाजः - स्वशासित्रन्तरशून्यत्वेन कदाचिदपि पारतन्त्र्यशून्यस्य परमात्मनः कर्मफलानुभवहेतुभूत-पारतन्त्र्य-सापराधत्वरूप-स्वरूपयोग्यता-सहकारियोग्यता-शून्यस्येत्यर्थः । भविनः इव - संसारिणो जीवस्येव । दशाभेदतोऽप्यवद्यं न – अवस्थाभेदेनापि सुखदुःखानुभवहेतुभूतकर्मसंबन्धो न भवति । यथा जीवस्य मुक्तिदशायां कर्मसम्बन्धशून्यत्वेऽपि बन्धदशायां कर्मसम्बन्धोऽस्ति तथाऽवस्थाभेदेनापीश्वरस्य न कर्मसम्बन्धप्रयुक्तावद्यसम्भवः । नित्यस्वतन्त्रत्वेन कदाचिदपि योग्यताद्वयशून्यत्वादिति भावः । एकत्र देहे - एकस्मिन् शरीरे । वर्तमानयोरिति शेषः, परतदितरयोः - परमात्मजीवात्मनोः । शुद्ध्यशुद्धी - कर्मफलाननुभवसिद्धनिरतिशयदीप्तियोग-कर्मफलानुभवरूपे शुद्ध्यशुद्धी । श्रुत्यैव - ‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षँ परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥’ इति श्रुत्यैवेत्यर्थः । अधीते हि - स्पष्टतया प्रतिपादिते हि, अतो देहान्तःस्थितिमात्रेण नेश्वरस्य कर्ममूलकसुखदुःखानुभव इति भावः ॥
कुमार-वरदः - 17
- ‘दोषदर्शनात्’ इत्यादिना भाष्ये सङ्गतिर्व्यक्ता । प्रदर्शिता चास्माभिः पूर्वमेव । तदर्थविचारस्तु - सुषुप्त्युत्क्रान्त्यादिस्थानेषु स्थितस्य जीवस्य ये भवन्त्यपुरुषार्थाः, ते तदन्तर्यामिणस्तच्छरीरस्यापि प्रसज्यन्ते नेति । किं जीवस्यापुरुषार्थसम्बन्धश्शरीरसम्बन्धनिबन्धनः, उत कर्मसम्बन्धनिबन्धन इति । किं सशरीरस्यापि ब्रह्मण उभयलिङ्गत्वं श्रुतिप्रतिपन्नं कर्मसम्बन्धस्यैवापुरुषार्थत्वहेतुतामवगमयति नेति । किं श्रुतिप्रतिपन्नमुभयलिङ्गं तात्त्विकम्? उतातात्त्विकम्? इति । किं ‘अथात आदेशो नेतिनेति’ इति प्रकृतः सर्वविशेषनिषेधः ? उत प्रकृतैतावत्त्वनिषेधः ? इति । किं सर्वविशेषनिषेधे वाक्योपक्रमोपसंहारसामञ्जस्यम् ? उत प्रकृतैतावत्त्वनिषेधे ? इति । अत्र पूर्वपक्षाभिप्रायं विशेषतः प्रदर्श्य सिद्धान्ताभिप्रायेण निराकरणमपि दर्शयति - हेयमिति । इत्थं किल पूर्वपक्षी मन्यते - पूयशोणितादिमज्जनं हि यथा राजकिङ्करस्य हेयं, तथा राज्ञोऽपि हेयमेव, अन्यथा तस्य हेयत्वमेव न स्यात् । तथा चेश्वरस्यापि जीववत् देहावस्थानं दुःखकारणमेव स्यात् । ननु जीवः कर्मपरतन्त्रो देहे वर्तते, ईश्वरः स्वेच्छयैव, अतो न दोष इत्याशङ्क्य परिहरति - स्वेच्छयेति । स्वेच्छयापि पूयशोणितादिमज्जनं दुःखकारणमेव दृश्यते । अपयर्नुयोज्यत्वाद् वस्तुस्वभावानामिति । उक्तमर्थं प्रतिक्षिपति - नेति । तत्र हेतुमाह निरुपधेरिति । अयमर्थः - लोके हि त्याज्योपादेयभाव उपाधिभेदेनान्यथाक्रियते । यथा प्रातरनुकूलमौष्ण्यं मध्याह्ने प्रतिकूलमेव । शैत्यं च मध्याह्नेऽनुकूलं प्रातः प्रतिकूलमेव, एवं पुरुषभेदेनापि दृश्यते । पशूनामनुकूलं तृणादिकं मनुष्याणां प्रतिकूलम् । एवमवस्थाभेदेनापि क्षुधितस्यानुकूलमन्नं मृष्टमेव भुक्तवतः प्रतिकूलमेव । तदिदमुक्तं भगवता पराशरेण ‘तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ तस्माद् दुःखात्मकं नास्ति नच किञ्चित् सुखात्मकम् ॥’ इति । प्रतिपत्तृभेदेनापि सुखदुःखविभागो दृश्यते । एकस्मिन्नेव बालके तव पुत्रोऽयमित्युक्ते सुखम्, शत्रुपुत्र इत्युक्ते दुःखम् । एवं तत्तदुपाधिभेदात् सुखदुःखविपरिणामस्सर्वलोकसाक्षिकः सुप्रसिद्धः एवं पुण्यपापात्मककर्मोपाधिवशाज्जीवानां सुखदुःखविभागो नापह्नोतुं शक्यते । यथा लोके वातपित्तश्लेष्मवतामनुकूल-प्रतिकूलात्मकवस्तुवैषम्यमायुर्वेदादिषु पठ्यते तथैवोपलभ्यते च । तस्मान्नेश्वरस्य शरीरेष्ववस्थानात् कर्मसम्बन्धकथनं तत्प्रयुक्तसुखदुःखसम्बन्धकथनं वा योयुज्यते । नन्वीश्वरस्यापि शरीरसम्बन्धादेव कर्मसम्बन्धोऽपि स्यादित्याशङ्क्य परिहरति - नित्येति । अत्रायं विकल्पः - किमीश्वरशब्देन सर्वस्वामी विश्वजगन्नियन्तोच्यते, किं वा राजादिमात्रम् । उत्तरत्र चेत् सिद्धसाधनमेव, राजादीनामपि सुखदुःखानुभवस्य विभाव्यमानत्वात् । पूर्वत्र नेश्वरत्वमेव सिध्यति सुखदुःखादिकमनुभवति, ईश्वरश्चेति व्याघातात् । कर्मफलं हि सुखदुःखानुभवः । कर्म चेश्वराज्ञापरिपालनतदुल्लङ्घनजनितो गुणविशेष एव । अथवाऽध्यात्मशास्त्रमर्यादया शासितुरीश्वरस्य निग्रहानुग्रहसङ्कल्पः । तेनेश्वरस्य कथं सुखदुःखानुभवप्रसङ्गः ? यदि वदसि मोहादीश्वरस्यापि कश्चन प्रशास्ता अस्तीति तथा ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इत्यादिश्रुतिरेव भवतः कपोलताडनं करोतु । ताडितोऽपि यदि प्रलपसि बहिष्कुर्वन्तु भवन्तं ब्रह्मवादिनः । तस्मादीश्वरस्याज्ञापकेश्वरान्तराभावान्न शास्त्रवश्यत्वम् । शास्त्रवश्यत्वाभावान्न कर्मानुबन्धः । कर्मसम्बन्धाभावाच्च न शरीरसम्बन्धप्रयुक्तसुखदुःखानुभवप्रसङ्ग इति मानामानविवेककोविदानां महानुभावानां मार्गः । अयमर्थः श्रुत्यैव व्यक्तमेव विभज्य दर्शित इत्याह - श्रुत्यैवेति । ‘द्वा सुपर्णा’ इति हि श्रुतिरेकस्मिन्देहे वर्तमानयोर्जीवपरमात्मनोरेकस्य कर्मफलोपभोगमितरस्य कर्मफलभोगाभावेन निरतिशयदीप्तियोगञ्चाह । ‘द्वा सुपर्णा’ इत्यत्र जीवपरमात्मानावेव विभज्योक्ताविति प्रागेव प्रसाधितम् । पैङ्गिश्रुतिविरोधाभावोऽपि तत्रैव विशदं प्रकाशित इत्युपरम्यतेऽस्माभिः ॥
मूलम् - 17
- हेयं वस्तु स्वतो यत् स्थितिरिह हि भवेद् दुःखकृत्स्वेच्छयापि
त्याज्यत्वं नान्यथा स्यादिति न निरुपधेर्हेयभावस्य हानेः ।
नित्यस्वातन्त्र्यभाजो भविन इव दशाभेदतो नाप्यवद्यं
श्रुत्यैवैकत्र देहे परतदितरयोश्शुद्ध्यशुद्धी ह्यधीते ॥
विश्वास-प्रस्तुतिः - 18
- ब्रह्मक्षत्रादिदेहेष्वणुरिव विभुरप्यात्मभावेन तिष्ठन्
तत्तच्छब्दाभिलप्यस्तदिह स न कथं तत्तदादेशवश्यः ।
मैवं, न ज्ञाप्यतेऽसावविदितविरहाच्छासितृत्वान्न शास्यः
किञ्चिज्ज्ञो ह्यन्यतन्त्रो जगति हितविदा बोध्यते प्रेर्यते च ॥
३४-तमाहोबिल-यतिः - 18
- ब्रह्मक्षत्रादीत्यादि । ब्रह्मक्षत्रादिदेहेषु - ब्राह्मणक्षत्रियादिशरीरेषु । अणुरिव - अणुपरिमाणो जीव इव । विभुरपि - सर्ववस्तुव्यापक ईश्वरोऽपि । आत्मभावेन तिष्ठन् - शरीरधारकतया तत्प्रतिसम्बन्धिभूतशरीरितया वर्तमानस्सन् । तत्तच्छब्दाभिलप्यः - ब्राह्मणक्षत्रियादिशब्दानां वाच्यभूतः । तत् - तस्मात्कारणात् । ब्राह्मणादिशरीरेष्वात्मतयावस्थाय तत्तच्छब्दवाच्यत्वादित्यर्थः । इह - कर्मलोके । सः - ईश्वरः । तत्तदादेशवश्यः कथं न - ब्राह्मणो यजेत क्षत्रियो यजेतेत्यादितत्तद्विधिपरतन्त्रः कथं न भवेत् । विधिपरतन्त्रत्वे तदैव कर्मपारवश्यं सुखदुःखानुभवादिकञ्चेश्वरे सिद्धमेवेति प्रष्टुरभिप्रायः । मैवम् - एवं मा शङ्कनीयम् । विधिना ज्ञाप्यते वा प्रवर्त्यते वा परमात्मेति विकल्प्य क्रमेण निरस्यति - न ज्ञाप्यतेऽसावित्यादिना । अविदितविरहात् - ‘यस्सर्वज्ञस्सर्ववित्’ ‘अज्ञातं नास्ति ते किञ्चित्’ इत्यादिप्रमाणेन सर्वज्ञत्वेनाविदितवस्तुशून्यत्वात् । असौ - ईश्वरः । न ज्ञाप्यते - न प्रत्याय्यते । अज्ञातज्ञापनरूपविधिश्चेतनस्याज्ञातांशं ज्ञापयित्वोपकुर्यात्, ईश्वरस्याज्ञातांशाभावात् नाज्ञातज्ञापनं सम्भवतीति भावः । शासितृत्वात् - ‘एतस्य वा अक्षरस्य प्रशासने’ ‘अन्तः प्रविष्टश्शास्ता जनानाम्’ इति सर्वप्रशासितृत्वात् । न शास्यः - न परप्रवर्त्यः । जगति - लोके । किञ्चिज्ज्ञः - प्रमाणाधीनबुद्धिरसर्वज्ञः । अन्यतन्त्रः - परतन्त्रश्च यस्स हि । हितविदा - तद्धितं विजानता पित्रादिना पुरुषेण । बोध्यते - इदमित्थमिति ज्ञाप्यते । प्रेर्यते च - कर्तव्ये कार्ये स्वयमप्रवृत्तस्सन् प्रवर्त्यते च । तस्मात् सर्वज्ञ ईश्वरो बोध्यः प्रेर्यश्च स्यादिति वचनं न बुद्धिमतां वादः, अपि तु बुद्धिहीनानामिति भावः ॥
कुमार-वरदः - 18
- अत्र कश्चिदुक्तमर्थतत्त्वमान्ध्यादतिगर्वाच्चाजानन् पुनश्चोदयति । ‘तथाहि कणभक्षादिपक्षे ईश्वरस्य धर्माधर्मयोः प्रेरकत्वेन शरीरान्तरवस्थानेऽपि शरीरित्वाभावान्न ब्राह्मणादिशब्दवाच्यत्वम् । तेन ‘ब्राह्मणो यजेत’ ‘क्षत्रियो यजेत’ इत्यादिवाक्येषु विधिगोचरत्वप्रसङ्ग एव नास्ति । युष्माकं सिद्धान्ते पुनर्ब्रह्मक्षत्रादिशब्दानां प्राधान्येनेश्वरवाचकत्वादीश्वर एव विधिगोचरतामश्नुते । कुर्यान्न कुर्यादिति नियाम्यत्वादीश्वरत्वमेव भज्येत’ इति । तदिदमनुवदति - ब्रह्मक्षत्रादीति । अयमत्र शब्दार्थः - ब्रह्मक्षत्रादिदेहेष्वणुर्जीव इव विभुरीश्वरोऽप्यात्मभावेन शरीरप्रेरकत्वेन तिष्ठन् तत्तच्छब्दाभिलप्यो भवदनुमत्या ब्राह्मणादिशब्दवाच्य एव भवति । तेन स ईश्वरो ब्राह्मणत्वाद्युपाधिविशिष्टस्तत्तद्विधिवश्यः कथं न भवति ? ईश्वरत्वान्न भवतीति चेत्, नहि साक्षात् श्रुतिप्रतिपन्नेऽर्थे नास्तिकत्वमङ्गीकर्तव्यम् । तस्माद् विधिनिषेधशास्त्रगोचरस्येश्वरस्य सर्वदोषाकरत्वमिति । तमिममन्धप्रलापं निराकरोति - मैवमिति । तदेव विवृणोति - न ज्ञाप्यत इत्यादिना । अयमत्र विकल्पः - किमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं वा विधिरिति भवतोच्यते ? न तावदज्ञातज्ञापनमीश्वरस्य सम्भवतीति तदाह - न ज्ञाप्यतेऽसाविति । तत्र हेतुमाह - अविदितविरहादिति । सर्वज्ञत्वादित्यर्थः । न हि दिवाकरस्य दीपेन कश्चिदुपकारः क्रियते । अप्रवृत्तप्रवर्तनमपि न सम्भवतीत्याह शासितृत्वादिति ।
ईश्वरस्य हि सर्वप्रशासितृत्वात् इतरप्रशासनाविषयतया पूर्वं स्वयमप्रवृत्तस्य प्रवर्तनमपि न संभवति । उक्तार्थस्य द्रढिम्ने लोकदृष्ट्या व्यतिरेकदृष्टान्तमाह - किञ्चिज्ज्ञ इति । लोके हि राज्ञा भृत्यादयः किञ्चिज्ज्ञत्वात् कर्तव्येषु बोध्यन्ते परतन्त्रत्वात् प्रेर्यन्ते चेति सर्वलोकदृष्टं नापह्नोतव्यम् । तस्मात् सर्वज्ञ ईश्वरो बोध्यः प्रेर्यश्च स्यादिति वचनं न बुद्धिमतां वादः अपितु बुद्धिहीनानामित्युपहसन्ति सन्तः । यत् श्रुतिप्रतिपन्नत्वाद् ब्राह्मणादिशब्दवाच्यस्येश्वरस्यापि प्रशास्यत्वमिति, तदपि हास्यम् - श्रुतिर्हि योग्यमेवार्थं वदति । न त्वत्यन्तायोग्यं श्रुत्यन्तरविरुद्धञ्चेति स्वयमेव भावयतु भवानपीति ॥
मूलम् - 18
- ब्रह्मक्षत्रादिदेहेष्वणुरिव विभुरप्यात्मभावेन तिष्ठन्
तत्तच्छब्दाभिलप्यस्तदिह स न कथं तत्तदादेशवश्यः ।
मैवं, न ज्ञाप्यतेऽसावविदितविरहाच्छासितृत्वान्न शास्यः
किञ्चिज्ज्ञो ह्यन्यतन्त्रो जगति हितविदा बोध्यते प्रेर्यते च ॥
विश्वास-प्रस्तुतिः - 19
- उत्सर्गेणापवादं न खलु नयविदः क्षोभणीयं क्षमन्ते
तस्मात् ब्राह्मे गुणादौ विधिविषयमतिक्रम्य तिष्ठेन्निषेधः ।
एवं शान्ते विरोधे नहि समविषयापच्छिदान्यायसिद्धिः
दृष्टो नित्यं निषेधः पर इह च ततस्स्यादुपक्रान्तिनीतिः ॥
३४-तमाहोबिल-यतिः - 19
- उत्सर्गेणेत्यादि । नयविदः - न्यायविदो मीमांसकाः । उत्सर्गेण - ‘न हिंस्यात्सर्वा भूतानि’ इत्यादिरूपेणोत्सर्गवचनेन । अपवादम् - ‘अग्नीषोमीयं पशुमालभेत’ इत्यादिरूपमपवादवचनम् । क्षोभणीयम् - बाधनीयम् । न क्षमन्ते खलु - न सहन्ते खलु । इदं तान्त्रिकाणां प्रसिद्धमेवेत्यर्थः । अपवादवचनेनैवोत्सर्गवचनस्य विषयसङ्कोचः कार्यते । न तूत्सर्गवचनेनापवादवचनस्य नैरर्थक्यं सम्पाद्यत इति भावः । तस्मात् - अपवादेनैवोत्सर्गस्य विषयसङ्कोचादेर्न्यायसिद्धत्वात् । ब्राह्मे - ब्रह्मसम्बन्धिनि । गुणादौ - गुणविग्रहादौ विषये । निषेधः - ‘निर्गुणं निरञ्जनम्’, ‘अशरीरं शरीरेषु’ इत्यादिरूपो निषेधः । विधिविषयमतिक्रम्य तिष्ठेत् - ‘सत्यकामस्सत्यसङ्कल्पः’, ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी’, ‘नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा’ इत्यादिविधिवाक्यविषयभूतं कल्याणगुणमप्राकृतमकर्मकृतं दिव्यमङ्गलविग्रहञ्च विसृज्य सत्त्वरजस्तमःप्रभृतिहेयगुणान् कर्मकृतं प्राकृतशरीरञ्च स्वविषयतया स्वीकृत्य सार्थक्यं भजेत । एवम् - उत्सर्गापवादन्यायेन गुणविग्रहनिषेधपराणां गुणविग्रहविशेषविधायकानाञ्च वचनानां विषयविभजनेन । विरोधे शान्ते - परस्परबाध्यबाधकभावरूपे विरोधे निवृत्ते सति । समविषयापच्छिदान्यायसिद्धिर्न हि - तुल्यविषयो योऽपच्छेदन्यायः, तस्यात्र प्रवृत्तिर्न भवति । द्वयोर्वचनयोस्समानविषयतया विरोधे सति पूर्वबाधेन परस्य सार्थक्यसम्पादनमपच्छेदन्यायकार्यम् । अत्र द्वयोर्वचनयोरुत्सर्गापवादन्यायेन विषयविभजनवशेन तुल्यविषयत्वस्यापनोदनात् नापच्छेदन्यायस्यायं विषय इति भावः । किञ्चानियतपौर्वापर्यविषये हि अपच्छेदन्यायप्रसङ्गः । यथा कदाचिदुद्गाता पूर्वमपच्छिद्येत, कदाचित् प्रतिहर्ता, तेन तत्रोत्तरप्राबल्यम् । इह तु नियतं पौर्वापर्यम्; विधिः पूर्वो निषेधः पर इति भवतैव नैयत्याभिधानात् । तस्मादुपक्रमाधिकरणन्यायेन सगुणवाक्यस्यैव प्राबल्यमित्याह - दृष्ट इत्यादिना । निषेधो नित्यं परो दृष्टः - निषेधस्य प्रतियोगिसापेक्षत्वेन प्रतियोगिसमर्पणपरं शास्त्रं पूर्वं तन्निषेधपरं शास्त्रं पश्चात्तनमिति सर्वत्र दृष्टमित्यर्थः । ततश्च - तस्माद्धेतोः । इह - भगवद्गुणविग्रहविधिनिषेधविषये । उपक्रान्तिनीतिस्स्यात् - उपक्रमाधिकरणन्याय एव प्रवर्तितव्य इत्यर्थः । उपक्रमाधिकरणे हि उपक्रमगतवाक्यस्यासंजातविरोधित्वेन प्राबल्यादुपक्रमगतवेदपदार्थाबाधेन तदानुगुण्येनोपसंहारगतऋगादिपदानामर्थवत्त्वसम्पादनं कृतं, तद्रीत्यात्राप्यर्थक्रमेणोपक्रमभूतसगुणवाक्यानामसञ्जातविरोधितया प्राबल्यात् तदानुगुण्येन निर्गुणवाक्यानां हेयगुणादिपरत्वमेव न्याय्यमिति भावः ॥ ३०७ ॥
कुमार-वरदः - 19
- अस्मिन्नुभयलिङ्गाधिकरणे ह्यखिलहेयप्रत्यनीकत्वं कल्याणैकतानत्वञ्चोभयलिङ्गत्वेनोच्यते । एतच्च त्रिभिर्न्यायैर्निपुणनिरूपितैरुपपाद्यम् । ‘न हिंस्यात् सर्वा भूतानि’, ‘अग्नीषोमीयं पशुमालभेत’ इत्यत्रोत्सर्गापवादन्यायो विहितव्यतिरिक्तविषयत्वान्निषेधशास्त्रस्येति । ‘प्रजापतिर्वरुणायाश्वमनयत्’ इत्यादावुपक्रमाधिकरणन्यायः, उपसंहारादुपक्रमो बलीयान् उपक्रमस्यासञ्जातविरोधित्वादुपसंहारस्य सञ्जातविरोधित्वादिति । ‘यद्युद्गातापच्छिद्येत’ इत्यादावनियतपौर्वापर्यविरोधे पुनरपच्छेदाधिकरणन्यायः । ‘पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिद्ध्यति’ इति पूर्वं बाधित्वैवोत्तरस्योत्पत्तेः । अत्र मृषावादिनः प्राहुः - सगुणवाक्यानि तावत् प्रवर्तन्ते तानि तु पूर्वाण्येव विधिरूपार्थप्रतिपादकत्वात् । निर्गुणवाक्यानि तु पराणि निषेधरूपार्थप्रतिपादकत्वात् । लोके हि विधिपूर्वको निषेध इति सुप्रसिद्धमेतत् । तेन विधायकस्य प्रत्यक्षप्रमाणस्य च पूर्वभावित्वाद् बाध्यत्वम् । निषेधकानां ‘निर्गुणं निरञ्जनम्’, ‘नेह नानास्ति किञ्चन’ इत्यादीनां वाक्यानां परत्वाद् बाधकत्वम् । एवमनुमानस्यापि । तथा कर्मशास्त्राणामपि । यानि तु वाक्यानि वेदान्तेऽपि सगुणोपासनपराणि तान्यपि कर्मशास्त्रतुल्यत्वादित्थमेव बाध्यानि । यानि पुनः सगुणब्रह्मस्वरूपपराणीति कानिचिद्वाक्यानि सगुणवादिभिरभिधीयन्ते तान्यपि विधिविषयत्वात् पूर्वभावित्वाद् बाध्यानि । निर्गुणवाक्यानि तु निषेधविषयत्वाच्चरमभावित्वेन बाधकत्वाच्च प्रमाणत्वेनावतिष्ठन्ते । यथा अपच्छेदाधिकरणे उद्गातृप्रतिहर्त्रपच्छेदयोरनुक्रमेण जातयोर्निमित्तयोः परस्परविरुद्धप्रायश्चित्तद्वयप्रसङ्गे पूर्वापच्छेदनिमित्तप्रायश्चित्तं बाधित्वोत्तरापच्छेदनिमित्तप्रायश्चित्तमेवानुष्ठीयते । तेनात्रापि विधिवाक्यविषयगुणं बाधित्वा निर्गुणवाक्यविषयभूतनैर्गुण्यमेव प्रामाणिकैरङ्गीकर्तव्यमिति । तदिदमितरन्यायद्वयनिरूपणेन प्रतिक्षिपति - उत्सर्गेणेति । ‘न हिंस्यात् सर्वा भूतानि’ इत्युत्सर्गः । ‘अग्नीषोमीयं पशुमालभेत’ इत्यपवादः । तत्र अपवादेनोत्सर्ग एव क्षोभ्यते, न पुनरुत्सर्गेणापवाद इति तान्त्रिकप्रक्रिया । तेन ‘निर्गुणं निरञ्जनम्’ इत्युत्सर्गः । ‘सत्यकामस्सत्यसङ्कल्पः’ इत्यपवादः । एकस्य सामान्यविषयत्वादितरस्य च विशेषविषयत्वात् । तेन सगुणवाक्येनैव निर्गुणवाक्यं हेयगुणविषयतया सङ्कोचनीयमिवि नीतिविदां निर्णयः । तदिदमाह - तस्मादिति । ‘निर्गुणं निरञ्जनम्’ इति ब्राह्मे गुणादौ निषेधः ‘सत्यकामस्सत्यसङ्कल्पः’ इत्यादिविधिविषयमतिक्रम्य तिष्ठेत् । एवमुत्सर्गापवादन्यायेन सगुणनिर्गुणवाक्ययोर्विषयभेदेन विरोधशान्तिमुक्त्वा, विरोधे शान्ते सति, अपच्छेदाधिकारणन्यायापेक्षैव नास्तीत्याह - नहि समविषयेति । तुल्यविषयत्वे सत्येव ह्यपच्छेदाधिकरणन्यायः प्रवर्तते । अपच्छेदयोः अपच्छेदत्वेन तुल्यत्वात् । अत्र पुनर्न्यायान्तरसिद्धेन विषयभेदेन विरोध उपशान्तः । तेन तदुपशमनहेतुरपच्छेदाधिकरणन्यायो नैरर्थक्यादनपेक्षणीय एव । विषदष्टस्य मणिमन्त्रादिष्वन्यतमेन विषदोषपरिहारे किमितरेण प्रतिविधानाभासेन? अत्रापच्छेदाधिकरणन्यायप्रसङ्गस्याभासत्वमेव प्रदर्शयति - दृष्ट इति । अयमर्थः - अनियतपौर्वापर्यविषये ह्यपच्छेदाधिकरणन्यायप्रसङ्गः, यथा कदाचिदुद्गाता पूर्वमपच्छिद्यते, कदाचित् प्रतिहर्ता, तेन तत्रोत्तरप्राबल्यम् । इह तु नियतपौर्वापर्यमेव विधिः पूर्वो निषेधः पर इति । उपक्रमाधिकरणे हि दातृप्रतिग्रहीत्रोः कस्याश्वप्रतिग्रहेष्टिरिति चिन्तायामुपक्रमवाक्यानुसारेण दातुरित्येव निर्णीतम् । तेनात्रापि पूर्वप्राबल्यात् सगुणवाक्यानामेव प्राबल्यम्, न पुनर्निर्गुणवाक्यानामिति निर्णेतव्यम् । अत्र वक्तव्यशेषमशेषमपि तत्त्वमुक्ताकलापव्याख्याने तत्त्वटीकादौ च द्रष्टव्यम् । भाष्ये च प्रथमसूत्र एव ‘उत्तरप्राबल्यकथनं माध्यमिकविजयप्रसङ्गेनापहसितम्’ इति । तदेवात्र विस्तरेणानुसन्धेयमवहितकरणैरन्तेवासिभिः । किञ्चोपजीव्यविरोधमालपन्ति न्यायविदः । यथाहुः - ‘पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयते । अन्योऽन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥’ इति । तेन स्वरूपे स्वप्रामाण्ये च भेदप्रतीतिसापेक्षाणां भेदनिषेधशास्त्राणां प्राबल्यकथनमश्रुतमीमांसानां श्रुतिविस्मृतमीमांसानां वा कथनम् । नहीदं पूर्वमिदं परमिति भेदप्रतीतिमन्तरेणापच्छेदाधिकरणेऽपि प्राबल्यदौर्बल्यनिर्णयः । न च तत्प्रतीतिमन्तरेण प्रामाण्यनिर्णय इत्युपरम्यते ॥
मूलम् - 19
- उत्सर्गेणापवादं न खलु नयविदः क्षोभणीयं क्षमन्ते
तस्मात् ब्राह्मे गुणादौ विधिविषयमतिक्रम्य तिष्ठेन्निषेधः ।
एवं शान्ते विरोधे नहि समविषयापच्छिदान्यायसिद्धिः
दृष्टो नित्यं निषेधः पर इह च ततस्स्यादुपक्रान्तिनीतिः ॥
विश्वास-प्रस्तुतिः - 20
- सत्त्वं कार्यस्य गोपायति कथमसतस्सद्भवेदित्यधीतिः
द्रव्यान्यत्वं हि कार्ये व्यपनयति परं मृत्तिकेत्येवशब्दः ।
अन्तर्भावाद्विशिष्टे भगवति जगतो नेहनानेति युक्तं
निर्दिष्टेयत्त्वशङ्कां प्रशमयति परे नेतिनेतीति चोक्तिः ॥
३४-तमाहोबिल-यतिः - 20
- तर्हि श्रुतिमेवाश्रयामः, सा हि प्रपञ्चमिथ्यात्वमेव सर्वत्र वदति, तत् तत्त्वमेव, न खलु माता विषं ददाति, तेन ‘असदेवेदमग्र आसीत्’ इत्यादिश्रुतिसिद्धत्वात् प्रपञ्चमिथ्यात्वमेव तत्त्वमिति कैश्चित्प्रलपिते तदेतच्छ्रुतिपर्यालोचनयैव प्रतिक्षिप्यते - सत्त्वं कार्यस्येत्यादिना । कथमसतस्सद्भवेदित्यधीतिः - ‘कथमसतस्सज्जायेत’ इति श्रुतिः । कार्यस्य सत्त्वम् । गोपायति - रक्षति । कार्यस्य सत्त्वमङ्गीकृत्य कारणासत्त्वमेव प्रतिक्षिपति, तेन कार्यमपि सत्, कारणमपि सदित्युक्तं भवति । ‘तद्धैक आहुः’ इतिशब्दप्रयोगादसत्त्वं परपक्ष इत्येव प्रतीयते । ननु मा भूदिदं वाक्यम्, ‘यथा सोम्य’ इति इतः पूर्वतनं वाक्यमस्माकमर्थसाधकमित्याशङ्क्याह - द्रव्यान्यत्वं हीति । मृत्तिकेत्येवशब्दः - ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इति वाक्ये मृत्तिकेत्येवेति शब्दः । कार्ये द्रव्यान्यत्वं हि परं व्यपनयति - कार्यस्य कारणातिरिक्तद्रव्यत्वमात्रमेव प्रतिक्षिपति, नतु कार्यस्य मिथ्यात्वं स्थापयति । मृत्तिकेत्येवेत्यत्र इतिशिरस्केन मृत्तिकेत्यनेन सावधारणेन सूक्ष्मनिरीक्षणे कार्यमपि मृत्तिकेत्येव प्रामाणिकम्, नत्वतिरिक्तमवयव्यस्तीति खलु प्रतीयत इत्यर्थः । तर्हि ‘नेह नानास्ति’ इति वचनमस्माकमवलम्बनमित्यत्राह - अन्तर्भावादित्यादि । विशिष्टे भगवति - घटत्वविशिष्टे घट इव, प्रभाविशिष्टे भास्कर इव चेतनाचेतनात्मकविशेषणयुक्ते ब्रह्मणि । जगतोऽन्तर्भावात् - तत्प्रकारतैकस्वभावतया पृथगवस्थानाभावात्, ब्रह्मणि भेदो नास्तीत्यत्राङ्गीकार्यब्रह्मपदार्थकोटिप्रविष्टत्वेन निषेध्यकोट्यप्रवेशादित्यर्थः । ‘यत्र हि द्वैतमिव भवति’, ‘नेह नानास्ति किञ्चन’ इत्यादिभेदनिषेधपरश्रुतिनिर्वाहकस्य ‘तत् कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया तदात्मकत्वेनैक्यात् तत्प्रत्यनीकनानात्वं प्रतिषिध्यते’ इत्यादिभाष्यस्य व्याख्यानावसरे श्रुतप्रकाशिकायां ‘तदात्मकत्वं नाम जगतस्तत्प्रकारतैकस्वभावतया पृथगवस्थानाभावात् तदन्तर्गतत्वं तेन प्रकारेणैक्यम्, नतु स्वरूपैक्यम्, विशिष्टान्तर्भाव एवैक्यमित्यर्थः । तत्प्रत्यनीकनानात्वमिति - विहितोभयविधैक्यप्रत्यनीकनानात्वं निषिध्यत इत्यर्थः । कार्यकारणभेदः कुतर्कमूलभ्रान्तिविषयः, स्वनिष्ठभेदो लौकिकप्रतीतिमूलभ्रान्तिविषयः । अतो भ्रान्तिमूलत्वाविशेषात् विहितैक्यप्रत्यनीकत्वाविशेषाच्च तेनाकारेणोभयविधं भेदं नानाशब्देन परामृश्य निषिध्यत इति न वाक्यभेदः’ इत्याद्युपपादनात् तद्रीत्या विशिष्टान्तर्भावरूपैक्यादिति पर्यवसितम् । नेह नानेति युक्तम् - नेह नानेति भेदनिषेधो युक्त एव, ‘इह’ विशिष्टात्मके ब्रह्मणि ‘नाना न’ नानात्वं न । कार्यकारणभावमूलकभेदस्स्वनिष्ठभेदश्च नास्तीत्यस्याश्श्रुतेरर्थ इति न काप्यस्माकं हानिर्न कोऽपि भवतां लाभ इति । तर्हि साक्षात् ‘नेतिनेति’ इति प्रपञ्चनिषेधकं वाक्यमस्माकं कुलधनमिति चेत्, तदपि स्वप्नलब्धसुवर्णमित्युच्यते - निर्दिष्टेत्यादिना । नेतिनेतीत्युक्तिश्च - श्रुत्युक्तिश्च । परे - परमात्मनि । निर्दिष्टेयत्त्वशङ्कां प्रशमयति - पूर्वं ब्रह्मणः कानिचिद्विशेषणान्युक्त्वा निर्दिष्टेयत्त्वमेव ब्रह्मण इति मन्दस्य शङ्कां नेतिनेतीतिवादो व्यपनयति । इति न इति न इति प्रागुक्तप्रकारविशिष्टमात्रं न भवति ब्रह्मेत्यर्थः । अत एव च सूत्रं ‘प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः’ इति । एवं सर्वासामपि श्रुतीनां विषयभेदेन प्रामाण्यसिद्धेस्सगुणब्रह्मवादिनामेव वेदान्तार्थनिर्णयसाद्गुण्यमिति निर्गुणवादो निर्गुणानां स्वेच्छालापः ॥ ३०८ ॥
कुमार-वरदः - 20
- ‘तर्हि श्रुतिमेवाश्रयामः । सा हि प्रपञ्चमिथ्यात्वमेव सर्वत्र वदति । तत् तत्त्वमेव । नखलु माता विषं ददाति । तेन ‘असदेवेदमग्र आसीत्’ इत्यादिश्रुतिसिद्धत्वात् प्रपञ्चमिथ्यात्मेव तत्त्वम्’ इति केचित् प्रलपन्ति । तदेतत् श्रुतिपर्यालोचनयैव प्रतिक्षिपति - सत्त्वं कार्यस्येति । अयमर्थः - ‘कथमसतस्सज्जायेत’ इति वाक्यं हि कार्यस्य सत्त्वमङ्गीकृत्य कारणासत्त्वमेव प्रतिक्षिपति । तेन कार्यमपि सत् कारणमपि सदित्युक्तं भवति । तेन ‘तद्धैक आहुः’ इत्येकशब्दप्रयोगात् असत्त्वस्य परपक्षत्वमेव प्रतीयते । शब्दान्वयस्तु - कथमसतस्सद्भवेदित्यधीतिः कार्यकारणयोर्द्वयोरपि सत्त्वमवगमयतीति । ननु मा भूदिदं वाक्यं ‘यथा सोम्य’ इति वाक्यमस्माकमवलम्बनं स्यादित्याशङ्क्य परिहरति - द्रव्यान्यत्वमिति । तदपि वाक्यं कार्यकारणयोर्द्रव्यान्यत्वमात्रमेव प्रतिक्षिपति । नपुनः प्रपञ्चमिथ्यात्वं प्रतिपादयतीत्यर्थः । तर्हि ‘नेह नानास्ति किञ्चन’ इति वचनमस्माकमवलम्बनमिति च भवद्भिर्न वक्तव्यमित्याह - अन्तर्भावादिति । विशिष्टे भगवति विशेषणानां अन्तर्भावात् ‘नेह नाना’ इति वाक्यमप्यब्रह्मात्मकनानात्वमेव प्रतिक्षिपति । तर्हि साक्षात् ‘नेति नेति’ इति प्रपञ्चनिषेधकं वाक्यमस्माकं कुलधनमिति चेत् तदपि स्वप्नलब्धसुवर्णमित्याह - निर्दिष्टेति । पूर्वं ब्रह्मणः कानिचिद् विशेषणान्युक्त्वा निर्दिष्टेयत्त्वमेव ब्रह्मण इति मन्दस्य शङ्कां नेतिनेतीतिवादो व्यपनयति । इति न, इति न, इति प्रागुक्तप्रकारविशेषमात्रं निषिध्यते, नपुनर्वक्ष्यमाणं गुणजातमपि । अत एव सूत्रकारः प्राह ‘प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः’ इति । एवं सर्वासामपि श्रुतीनां विषयभेदेन प्रामाण्यसिद्धेस्सगुणब्रह्मवादिनामेव वेदान्तार्थनिर्णयसाद्गुण्यमिति निर्गुणवादो निर्गुणानामेव स्वेच्छालापः ॥
मूलम् - 20
- सत्त्वं कार्यस्य गोपायति कथमसतस्सद्भवेदित्यधीतिः
द्रव्यान्यत्वं हि कार्ये व्यपनयति परं मृत्तिकेत्येवशब्दः ।
अन्तर्भावाद्विशिष्टे भगवति जगतो नेहनानेति युक्तं
निर्दिष्टेयत्त्वशङ्कां प्रशमयति परे नेतिनेतीति चोक्तिः ॥
विश्वास-प्रस्तुतिः - 21
- तत्तद्वस्तुप्रदेशे सकलगुणतया पूर्णदृश्यः परात्मा
वृद्धिह्रासादिभेदोज्झित इति हि जलाधारसूर्योपमोक्तिः ।
अस्पर्शोदाहृतिश्चेन्न हि घटकरकाकाशदृष्टान्तयुक्ति-
स्तस्माद्ब्रह्म द्विलिङ्गं द्विविधविभवमित्येव वेदान्तपक्षः ॥
३४-तमाहोबिल-यतिः - 21
- तत्तद्वस्त्वित्यादि । तत्तद्वस्तुप्रदेशे - महीमहीधरमहार्णवदेवतिर्यङ्मनुष्यादितत्तद्वस्तुप्रदेशे । सकलगुणतया - परिपूर्णज्ञानशक्त्यादिगुणत्वेन । पूर्णदृश्यः - परिपूर्णतयाऽवगम्यः । परात्मा । वृद्धिह्रासादिभेदोज्झित इति हि - तत्तद्वस्तुगतवृद्धिह्रासादिभेदविधुर इत्येतदर्थप्रत्ययार्थं हि । जलाधारसूर्योपमोक्तिः - ‘जलाधारेष्विवांशुमान्’ इति वचनेन परमात्मनो जलाधारभूतघटमणिककूपतटाकमहार्णवादिप्रतिफलितसूर्यदृष्टान्तकथनम् । किमर्थमियं क्लिष्टकल्पना, असंसर्गार्थमेवात्र निदर्शनमुच्यत इत्याशङ्कते - अस्पर्शोदाहृतिश्चेदिति । सर्वैरस्पृष्टं ब्रह्मेत्यस्पर्शार्थमेव जलाधारप्रतिफलितसूर्यदृष्टान्तोपादानमिति चेत् । तर्हि घटकरकाकाशदृष्टान्तयुक्तिर्न हि - ‘आकाशमेकं हि यथा घटादिषु पृथग्भवेत्’ इति वचनान्तरेण परमात्मनो घटकरकादिस्थिताकाशदृष्टान्तयोजनं न हि घटेत । अत उभयदृष्टान्तसामञ्जस्यार्थमुचित एवार्थ उदाहर्तव्यः न(स) पुनस्तद्गतदोषैरस्पृष्टत्वमेवेति भावः । तस्मात् - उक्तोपपादनात् । ब्रह्म द्विलिङ्गं द्विविधविभवमित्येव वेदान्तपक्षः - अखिलहेयप्रत्यनीकत्वकल्याणगुणाकरत्वरूपोभयलिङ्गं लीलाविभूतिभोगविभूतिरूपविभूतिद्वयविशिष्टमित्येव वेदान्तसम्मतः पक्षस्सिद्धान्तः । तथा पराशरादिभिः ‘समस्तकल्याणगुणात्मकोऽसौ’ इत्यादिभिः प्रतिपादनादिति भावः ॥ ३०९ ॥
इति उभयलिङ्गाधिकरणम् ॥ ७९ ॥
कुमार-वरदः - 21
- ‘ननु सन्त्वेतानि समाधानानि, अथाप्यसमाधेयमिदमेकं दृश्यते । सर्वत्रावस्थितस्य भगवतो ‘जलाधारेष्विवांशुमान्’ इति दृष्टान्त उपादीयते । तन्मिथ्यात्वमेव प्रतिपादयति’ इति कश्चिन्मनुते, तस्याप्युत्तरमाह - तत्तद्वस्त्विति । तात्पर्ये हि शब्दः प्रमाणम् । नात्र जीवानां मिथ्यात्वं विवक्ष्यते प्रमाणविरुद्धत्वात् । अपितु ब्रह्मणस्सर्वत्रावस्थितस्यापि विशेषणभूततत्तद्वस्तुगतवृद्धिह्रासभाक्त्वमेव केवलं निषिध्यते । यथा तरङ्गेषु प्रतीयमानस्य चन्द्रबिम्बस्य तरङ्गगतवृद्धिह्रासादिभाक्त्वं न परमार्थतो विद्यते । एवं सर्वान्तर्यामित्वेनावस्थितस्य परस्य ब्रह्मणस्तत्तद्वस्तुप्रयुक्तदोषसम्बन्धो नास्तीति । अयमत्र विद्यमानस्यापि ब्रह्मणः प्रभावविशेषादौपाधिकदोषप्रसङ्गाभाव इति दृष्टान्तप्रदर्शनमात्रमेतदिति । अयमत्रान्वयः - तत्तद्वस्तुप्रदेशे सकलगुणतया परिपूर्णं दृश्यः परमात्मा वृद्धिह्रासादिभेदविधुर इति हि ‘जलाधारेष्विवांशुमान्’ इत्युच्यते । तात्पर्यानुगुणमेवार्थस्योपवर्णनीयत्वात् । किमर्थमियं क्लिष्टकल्पना ? असंसर्गार्थमेवात्र निदर्शनमुच्यत इत्याशङ्कते - अस्पर्शोदाहृतिश्चेदिति । सर्वैरस्पृष्टमेवात्र ब्रह्मोच्यत इत्यर्थः । तत्रोत्तरमाह - न हीति । न ह्येक एव दृष्टान्तो महर्षिभिरुच्यते । क्वचिद् ‘जलाधारेष्विवांशुमान्’ इति, इतरत्र ‘आकाशमेकं हि यथा घटादिषु पृथग्भवेत्’ इति क्वचिदविद्यमानं प्रतिबिम्बमुदाह्रियतेऽपरत्र विद्यमानमेवाकाशम् । तेनोभयदृष्टान्तसामञ्जस्यार्थमुचित एवार्थ उदाहर्तव्यः । न पुनस्तद्गतदोषैरस्पृष्टत्वमेव । अन्यथैकोपादाने इतरप्रच्यवनादुभयमपि न सिध्येत् । एवं विस्तरेणार्थतत्त्वमुपपाद्योभयलिङ्गत्वं निगमयति - तस्मादिति । द्विलिङ्गम् - अखिलहेयप्रत्यनीककल्याणैकतानत्वादुभयगुणयुक्तम् । द्विविधविभवम् - उभयविभूतिविशिष्टम् । ‘पुरुष एवेदं सर्वम्’ इत्यादिप्रमाणप्रसिद्धविभूतिद्वयविशिष्टमित्यर्थः । विवृतं हि भगवता पराशरेण ‘समस्तकल्याणगुणात्मकोऽसौ’ इत्यादिना । वेदान्तपक्ष इति कथनं मृषावादिपक्षस्य बौद्धपक्षनिक्षेपार्थम् ॥
मूलम् - 21
- तत्तद्वस्तुप्रदेशे सकलगुणतया पूर्णदृश्यः परात्मा
वृद्धिह्रासादिभेदोज्झित इति हि जलाधारसूर्योपमोक्तिः ।
अस्पर्शोदाहृतिश्चेन्न हि घटकरकाकाशदृष्टान्तयुक्ति-
स्तस्माद्ब्रह्म द्विलिङ्गं द्विविधविभवमित्येव वेदान्तपक्षः ॥