विश्वास-प्रस्तुतिः - 14
- जाग्रत्स्वप्नौ न बाह्यावगमविरहितौ श्वासपूर्णा सुषुप्तिः
तस्मान्मुग्धिर्मृतिस्स्यात् प्रशमितकरणप्राणवर्गेति चेन्न ।
मृत्यादेर्हेतुभेदात्स्थितिमृतिविशयादुत्थितेरानियत्यात्
मर्तुं प्रक्रम्य मध्ये विरमति विधिनेत्यत्र तुर्यार्धभावः ॥
३४-तमाहोबिल-यतिः - 14
- जाग्रत्स्वप्नावित्यादि । जाग्रत्स्वप्नौ बाह्यावगमविरहितौ न - बाह्यज्ञानविरहितौ न भवतः । मुग्धिस्तु बाह्यज्ञानरहिता अतस्तौ न मुग्धिरिति भावः । सुषुप्तिश्श्वासपूर्णा - इयं तु सूक्ष्मतमश्वासा, अतो न सुषुप्तिर्मुग्धिरित्यर्थः । ततः किं तर्हि तस्मात् - जाग्रत्स्वप्नसुषुप्तीनां मुग्धित्वासम्भवात् । मुग्धिः - मूर्च्छा । प्रशमितकरणप्राणवर्गा - प्रशमितः स्वस्वकार्यासामर्थ्यापादनेन सूक्ष्मदशामापादितः करणवर्गश्चक्षुरादीन्द्रियगणः प्राणवर्गः प्राणापानादिदशमुख्यप्राणगणश्च यया सा । हेतुगर्भविशेषणम् । प्रशमितकरणप्राणवर्गत्वादित्यर्थः । मृतिस्स्यात् - मरणमेवास्तु । प्रशमितकरणप्राणवर्गत्वस्य मृतावेव सम्भवादिति भावः । इतिचेन्न - इति शङ्क्यते चेत्तन्न युक्तम् । मृत्यादेर्हेतुभेदात् - मरणमूर्च्छयोर्विसजातीयहेतुजन्यत्वात् । अभिघातादिमात्रात् मूर्छा, शिरश्छेदादेर्मरणम् । स्थितिमृतिविशयात् - मूर्च्छितं पार्श्वतस्स्थिताः स्थितो वा मृतो वेति विशेरते । स च संशयो मूर्च्छामरणयोर्वैलक्षण्यमावेदयति । उत्थितेरानियत्यात् - मूर्च्छितेष्वेव कश्चित् मन्त्रौषधादिना पुनरुत्तिष्ठति, मृतस्तु गच्छत्येव, एवमुत्थानस्यानियतत्वादित्यर्थः । तर्हि मूर्च्छेति कोऽयमवर्थाविशेष इत्याशङ्क्याह - मर्तुमिति । मर्तुं प्रक्रम्य - मरणायोपक्रम्य । विधिना - अदृष्टविशेषेण । मध्ये - मरणहेतुव्यापारमध्ये । विरमति - मरणहेतुभूतव्यापारान्निवर्तते । इति - एवं तत्त्वस्थित्या । अत्र - मूर्च्छायाम् । तुर्यार्धभावः - तुर्यं मरणं जाग्रत्स्वप्नसुषुप्तिमरणानीत्यवस्थासु चतसृषु मरणस्य चतुर्थत्वात् । तस्य अर्धभावोऽर्धत्वं अर्धमरणत्वमित्यर्थः । कल्पनीय इति शेषः ॥
कुमार-वरदः - 14
- जाग्रत्स्वप्नसुषुप्तिरूपावस्थाविशेषान् परिशोध्यानन्तरं मूर्च्छारूपा सुषुप्तितुल्यावस्था विचार्यत इति सङ्गतिः । जाग्रत्स्वप्नयोः प्रज्ञायुक्तत्वात् सुषुप्तिमूर्च्छयोः प्रज्ञाविलोपरूपत्वात् तयोर्मिथस्सङ्गतिः । तदर्थविचारस्तु - किं मूर्च्छा जाग्रत्स्वप्नसुषुप्त्यादीनामन्यतमावस्था, उतावस्थान्तरमिति । किं लक्षणतो भेदो व्यवस्थापयितुं शक्यते नेति । किं सूक्ष्मप्राणसम्बन्धो मूर्च्छेति लक्षणं भवति नेति । अत्र पूर्वपक्षी प्राह - जाग्रत्स्वप्नसुषुप्तिमरणभेदेन चत्वारो ह्यवस्थाविशेषा लोके प्रसिद्धाः । तत्र जाग्रत्स्वप्नौ बाह्यज्ञानविरहितौ न भवतः, सुषुप्तिश्च श्वासपूर्णत्वान्न मूर्च्छा, अतो मूर्च्छा मरणमेव, प्रशमितकरणप्राणवर्गत्वादिति । तदिदमनुवदति - जाग्रदिति । तत्प्रतिक्षिपति - नेति । मूर्च्छामरणयोर्भेदे कारणभेदमेव तावत् प्रमाणयति - मृत्यादेरिति । अभिघातादिमात्रान्मूर्च्छा, शिरश्छेदादेर्मरणमिति मूर्च्छामरणकारणयोर्भेदादित्येको हेतुः । हेत्वन्तरमप्याह - स्थितीति । मूर्च्छिते पर्यन्तस्थिताः स्थितो वा मृतो वेति विशेरते । स च संशयो मूर्च्छामरणयोर्वैषम्यमावेदयति । तृतीयमपि हेतुमाह - उत्थितेरिति । मूर्च्छितेष्वेव कश्चिन्मन्त्रौषधादिविभवात् पुनरुत्तिष्ठते । मृतस्तु गच्छत्येव, एवमुत्थानस्यानियतत्वादित्यर्थः । तर्हि मूर्च्छेति कोऽयमवस्थाविशेष इत्याशङ्क्याह - मर्तुमिति । मर्तुं प्रक्रम्य विधिना मध्ये विरमतीति मरणस्यार्धसम्पत्तिरूपावस्थाविशेषो मूर्च्छेति परिकल्पनीयमिति । अर्धमरणं मूर्च्छेत्यर्थः ॥
मूलम् - 14
- जाग्रत्स्वप्नौ न बाह्यावगमविरहितौ श्वासपूर्णा सुषुप्तिः
तस्मान्मुग्धिर्मृतिस्स्यात् प्रशमितकरणप्राणवर्गेति चेन्न ।
मृत्यादेर्हेतुभेदात्स्थितिमृतिविशयादुत्थितेरानियत्यात्
मर्तुं प्रक्रम्य मध्ये विरमति विधिनेत्यत्र तुर्यार्धभावः ॥
विश्वास-प्रस्तुतिः - 15
- जन्तूनां जागरादिस्थितिषु भवति यद्वैशसं दर्शितं तत्
तत्तत्स्थानेषु योगेऽप्यनघशुभगुणं ब्रह्म संशोध्यतेऽत्र ।
संसर्गैक्यादिमूलान् परिहरति ततो दोषवर्गानुभाभ्यां
हीनत्वौदार्यहानी परमपनयते नीतियुग्मेन नेतुः ॥
३४-तमाहोबिल-यतिः - 15
- जन्तूनामित्यादि । जन्तूनाम् - प्राणिनाम् । जागरादिस्थितिषु - जाग्रत्स्वप्नसुषुप्तिमूर्च्छारूपास्ववस्थासु । यत् वैशसं भवति - यद्दुःखं सम्भवति । तद्दर्शितम् - एवं चतुर्भिरधिकरणैस्तत्प्रतिपादितम् । अत्र - अतः परमधिकरणचतुष्टयात्मिकायां पेटिकायाम् । तत्तत्स्थानेषु योगेऽपि - हेयतमेषु सर्वेष्वपि स्थानेषु अन्तर्यामितया सम्बन्धेऽपि । अनघशुभगुणम् - निर्दोषं कल्याणगुणयुक्तम् । ब्रह्म संशोध्यते - शङ्कितदोषपरिहारेण गुणप्रतिपादनेन च स्पष्टमुपपाद्यते । अस्यैवार्थस्य विवरणमुत्तरार्धम् । ततः - अस्मिन्पादे प्रथममधिकरणचतुष्टयेन जीवदोषकथनानन्तरम् । उभाभ्याम् - उपरितनाभ्यां ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । उभयव्यपदेशात्त्वहिकुण्डलवत्’ इत्यादिरूपाभ्यामुभाभ्यामधिकरणाभ्याम् । संसर्गैक्यादिमूलान् - दोषवत्संसर्गश्रौतैक्याभिधानमूलकान् । दोषवर्गान् परिहरति - श्रुतिप्रतिपन्नब्रह्मस्वभावप्रतिपादनेन निराकरोति । परम् - ततः परम् । नीतियुग्मेन - अधिकरणद्वयेन । नेतुः - परमात्मनः । हीनत्वौदार्यहानी - सर्वस्मात्परत्वाभावं निरतिशयौदार्याभावञ्चेत्यर्थः । अपनयते - निराकरोति । तथाचास्मिन्पादे प्रथममधिकरणचतुष्टयात्मिका एका पेटिका, ततः परमधिकरणचतुष्टयात्मिका अपरा पेटिकेति विभागः । तत्र प्रथमपेटिकया जीवदोषख्यापनम्, द्वितीयया परमात्मनो निर्दोषत्वकल्याणगुणाकरत्वरूपोभयलिङ्गसमर्थनमिति वेदितव्यम् ॥
कुमार-वरदः - 15
- अत्राष्टानामप्यधिकरणानामन्योन्यार्थभेदोपपादनात् पेटिकाभेदमुत्तरपेटिकायामवान्तरपेटिकाभेदञ्चाह - जन्तूनामिति । एवं चतुर्भिरधिकरणैर्जन्तूनां जाग्रत्स्वप्नसुषुप्त्याद्यवस्थासु यद्वैशसं तद्दर्शितम् । अतः परंतु सर्वस्थानयोगेऽपि स्वयमनघशुभगुणं ब्रह्म संशोध्यत इति पेटिकाविभागः । उत्तरपेटिकायामपि पूर्वभागस्योत्तरभागस्य चार्थभेदेन वैषम्यमाह - संसर्गेत्यादिना । उभाभ्यामधिकरणाभ्यां दोषवत्संसर्गमूलांस्तत्तादाम्याभिधानमूलांश्च दोषान् परिहरति । अथोत्तराधिकरणद्वयार्थमाह - हीनत्वेति । सर्वस्मात्परत्वाभावे निरतिशयौदार्याभावे चोपास्यत्वासम्भवात् सर्वस्मात्परत्वहानिं निरतिशयौदार्यरहितत्वं चोत्तराभ्यामधिकरणाभ्यां निराकरोतीति मिथो विभागः ॥
मूलम् - 15
- जन्तूनां जागरादिस्थितिषु भवति यद्वैशसं दर्शितं तत्
तत्तत्स्थानेषु योगेऽप्यनघशुभगुणं ब्रह्म संशोध्यतेऽत्र ।
संसर्गैक्यादिमूलान् परिहरति ततो दोषवर्गानुभाभ्यां
हीनत्वौदार्यहानी परमपनयते नीतियुग्मेन नेतुः ॥