विश्वास-प्रस्तुतिः - 12
- मुक्तिर्ब्रह्मण्यपीतिर्जहदसुखगणा तादृशीयं सुषुप्तिः
श्रुत्यैव ख्याप्यतेऽतस्तदनु तनुभृदुद्बुध्यमानस्ततोऽन्यः ।
मैवं, कर्मानुवृत्तेस्स्मरणनियमतः पूर्व एवेतिशब्दात्
मोक्षोपायादिशिष्टेस्स्वपदनुवदनात् प्राच्य एव प्रबुद्धः ॥
३४-तमाहोबिल-यतिः - 12
- मुक्तिरित्यादि । मुक्तिः - मुक्तिः किल । जहदसुखगणा - दुःखसङ्घातविरहिता । ब्रह्मणि, अपीतिः - प्रलय एव । इयं सुषुप्तिस्तादृशी - तादृशीति । श्रुत्यैव - ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ इति ‘परं ज्योतिरुपसम्पद्य’ इति मुक्तिश्रुतिसमानार्थया श्रुत्यैव । ख्याप्यते - प्रतिपाद्यते । अतः - ब्रह्मसम्पत्तिरूपार्थसाम्यस्य श्रुत्यैव प्रतिपादनात् तथा ब्रह्मणि प्रलीनस्य पुनरावृत्त्यसम्भवात् । तदनु - सुषुप्त्यनन्तरम् । उद्बुध्यमानः, तनुभृत् - जीवः । ततोऽन्यः - पूर्वजीवाद्भिन्न एव । मैवम् - एवं न शङ्क्यम् । कर्मानुवृत्तेः - कर्मफलभूतसुखदुःखानुभवदर्शनानुमितात् पूर्वकर्मानुवृत्तिरूपहेतोः । स्मरणनियमतः - य एवाहं सुप्तस्स एव प्रबुद्धोऽस्मीति स्मरणनियमात् । नह्यन्यस्यैवं स्मरणसम्भवः । पूर्व एवेति शब्दात् - पूर्वं सुषुप्त एवायमुत्तिष्ठतीत्यर्थकात् ‘त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति’ इति श्रौतशब्दात् । मोक्षोपायादिशिष्टेः - मोक्षार्थविद्यानां तदङ्गभूतनित्यनैमित्तिकादिकर्मणां तथाभूतानां शमादीनाञ्च शिष्टेः - विधेः । सुषुप्तस्यैव मुक्तत्वे मुक्तेरयत्नसाध्यत्वेन तदुपायादिविधीनां नैरर्थक्यापत्तेरिति भावः । स्वपदनुवदनात् - स्वपतस्सुषुप्तस्यैव अनुवदनात् अनुवादात् । विनाशरूपत्वेन स्वानुभूतसुषुप्तिदशाया अभोग्यत्वानुवादात् । ‘नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि’ इत्यादिश्रुतौ हि तथानूद्यते । प्रबुद्धः - सुप्तोत्थितः पुरुषः । प्राच्य एव - उक्तैर्हेतुभिस्सुषुप्त एवायं नान्य इति भावः ॥
कुमार-वरदः - 12
- सङ्गतिर्भाष्ये ‘किं सुषुप्त एव प्रबोधसमय उत्तिष्ठत्युतान्य इति संशये’ इति । तदर्थविचारस्तु - किं सुषुप्तादन्यः प्रबोधसमये उत्तिष्ठति, उत स एवेति । किं सुषुप्तौ सकलोपाधिविनिर्मोकोऽस्त्युत नेति । किं कर्मानुस्मृतिशब्दविधयस्सकलोपाधिविनिर्मोकाभावं गमयन्ति नेति । ननु सुषुप्तिर्नाम मुक्तिप्रायैव मुक्तिः किल जहदसुखगणा दुःखसङ्घातविरहिता ब्रह्मण्यपीतिरेव प्रलय एव श्रुत्यैव ख्याप्यते तेन तदनु सुषुप्त्यनन्तरमुद्बुध्यमानः तनुभृदन्य एवेति पूर्वपक्षानुवादः क्रियते - मुक्तिरिति । इमं पक्षं प्रतिक्षिपति - मैवमिति । मुक्तेस्स्वापस्य विशेषं दर्शयति - कर्मानुवृत्तेरित्यादिना । पूर्वकर्मानुवृत्तेः कर्मफलस्य सुखदुःखादेर्दर्शनात् कर्मानुवृत्तिर्दृश्यते । अन्यत्वे कथमिव स्मरणं सम्भवति? शब्दोऽपि ‘त इह व्याघ्रो वा’ इत्यादिभाष्योपात्तः । विधिरपि - सुषुप्तस्यैव मुक्तत्वे मोक्षार्थविधयः कथं सङ्घटेरन्? अयत्नलभ्यस्य किं यत्नेनेति । स्वपदनुवदनादिति - ‘नाहं खल्वयमेवम्’ इत्यादिना ‘नाहमात्र भोग्यं पश्यामि’ ‘विनाशमेवापीतो भवति’ इति सुषुप्तस्यानुवदनाच्च । प्राचीन एव विनष्टप्रायः पुरुषः प्रबुद्धो भवतीति मन्तव्यम् ॥
मूलम् - 12
- मुक्तिर्ब्रह्मण्यपीतिर्जहदसुखगणा तादृशीयं सुषुप्तिः
श्रुत्यैव ख्याप्यतेऽतस्तदनु तनुभृदुद्बुध्यमानस्ततोऽन्यः ।
मैवं, कर्मानुवृत्तेस्स्मरणनियमतः पूर्व एवेतिशब्दात्
मोक्षोपायादिशिष्टेस्स्वपदनुवदनात् प्राच्य एव प्रबुद्धः ॥
विश्वास-प्रस्तुतिः - 13
- जीवानादित्वमूचे दृषदनुकरणं क्षेप्स्यते चापवर्गे
स्वर्गाद्यर्थप्रवृत्तिश्श्रुतिनयविदिता सौगताद्याश्च भग्नाः ।
कल्पान्तेऽप्येकतोक्तेर्नियमितविषया नामरूपप्रहाणात्
भूयश्चिन्ता सुषुप्तेः प्रलयसमदशासञ्जिहासादिसिद्ध्यै ॥
३४-तमाहोबिल-यतिः - 13
- जीवानादित्वमित्यादि । जीवानादित्वम् - जीवस्य नित्यत्वम् । ऊचे - ‘नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः’, ‘न कर्माविभागादिति चेन्नानादित्वात्’ इति सूत्रेणोक्तमेव । अपवर्गे - मोक्षदशायाम् । दृषदनुकरणञ्च - पाषाणतुल्यत्वञ्च । आत्मा विध्वस्ताखिलविशेषगुणः पाषाणवन्मुक्तौ तिष्ठतीति काणादकल्पनमित्यर्थः । क्षेप्स्यते - चतुर्थाध्यायचतुर्थपादे ‘ब्राह्मेण जैमिनिः’ इत्यादिसूत्रैर्निरसिष्यत इत्यर्थः । स्वर्गाद्यर्थप्रवृत्तिः - जीवानां स्थायित्वोपपादनेन कालान्तरभाविस्वर्गादिसाधनभूतज्योतिष्ष्टोमादिकर्मप्रवृत्तिस्तु । श्रुतिनयविदिता - कालान्तरानुभाव्यस्वर्गादिफलार्थं ज्योतिष्ष्टोमादि कर्म विदधानया श्रुत्या पूर्वमीमांसासिद्धैरात्मनित्यत्वमन्तरेणानुपपद्यमानैः कृत्स्नैरपि न्यायैर्व्यक्तमवगमिता । सौगताद्याश्च - यत् सत् तत्क्षणिकमिति सर्वक्षणिकत्ववादेनात्मनोऽपि क्षणभङ्गित्ववादिनो बौद्धाद्याश्च । भग्नाः - ‘अनुस्मृतेश्च’ इत्यादिबौद्धनिराकरणसूत्रैर्जीवस्य स्थायित्वोपपादकैः पूर्वमेव प्रतिक्षिप्ताः । कल्पान्तेऽपि - प्रलयदशायामपि । एकतोक्तिः - ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ इत्यादिश्रुत्या प्रतीता ईश्वरेणैकीभावोक्तिः । नामरूपप्रहाणात् - नामरूपप्रहाणमात्रात् नपुनस्स्वरूपैक्यात् । नियमितविषया - पृथग्व्यवहारानर्हसंश्लेषमात्रपरतया निदर्शितविषया । तत्रतत्रोक्तिभिरिति शेषः । सुषुप्तेः भूयः - अत्र प्रकरणे । चिन्ता - विचारः । प्रलयसमदशासञ्जिहासादिसिद्ध्यै - काणादकल्पिता मुक्तौ जीवस्य या प्रलयसमदशा तस्यां सञ्जिहासादिर्हेयतया निन्द्यतादिबुद्धिस्तत्सिद्ध्यै । कृतेति शेषः । इदं चिन्तामणिकृतं तात्पर्यवर्णनम् । वस्तुतस्तु अनुदिनं जीवस्य या धर्मभूतज्ञानातिसङ्कोचेन प्रलयतुल्या सुषुप्तिरूपा दुर्दशा तस्यां दृढतरहेयतानिश्चयसिद्ध्यर्थमिति सुगमम् । पूर्वोत्तरयोस्स्वप्नमुग्ध्योरिवास्यामपि दशायां दोषप्रदर्शनार्थमेवैतच्चिन्तनं न त्वर्थान्तरार्थमिति श्लोकहृदयम् । ‘स एव तु’ इति जीवस्थायित्वसाधनप्रवृत्त्या तत्फलमार्गणम् । तस्य सूत्रस्य प्रलयसाम्येन सुषुप्तेर्हेयत्वोपपादनमेव फलं न त्वर्थान्तरमिति समाधानमिति भाति ॥
कुमार-वरदः - 13
- अत्र सुषुप्तस्यैव प्रबोधसमये पुनरुत्थानमिति किमर्थं स्थाप्यते विशेषप्रयोजनाभावादित्याशङ्क्यात्यन्तोपयुक्तं प्रयोजनविशेषमाह - जीवानादित्वमित्यादिना पद्येन । जीवानामनादित्वसिद्ध्यर्थमिदं सूत्रं चेत् तत्रोक्तमेव ‘न कर्माविभागादिति चेन्नानादित्वात्’ इत्यादिना । मोक्षे दृषदनुकरणक्षेपणं मूढत्वक्षेपणमनेन सूत्रेण क्रियते चेत् तदप्युत्तरत्र करिष्यते । स्थायित्वोपपादनेन जीवानां स्वर्गाद्यर्थप्रवृत्तिः क्रियते चेत् सापि श्रुतिनयविदिता कृत्स्नस्यापि मीमांसाशास्त्रस्य स्थायित्वमन्तरेणानुपपत्तेस्स्वर्गाद्यर्थप्रवृत्तिरपि श्रुत्या तदनुग्राहकन्यायेन च पूर्वमेव विदिता । आत्मस्थैर्योपपादनेन क्षणभङ्गभङ्गश्चेत् सोऽपि सौगताधिकरणादिषु सिद्धः । जीवस्य सुषुप्तावीश्वरैक्यत्वनिराकरणार्थमिदमधिकरणं चेत् तस्य कल्पान्तेऽप्येकत्वमपि नामरूपादिप्रहाणमात्रान्न पुनस्स्वरूपैक्यादिति तत्रतत्रोक्तम् । तेन साप्युक्तिर्नियमितविषया । अतो भूयश्चिन्ता सुषुप्तेः न कर्तव्येति कस्यचिद् बालप्रायस्य चोद्यमनूदितं परिहरति - प्रलयसमदशासञ्जिहासादिसिद्ध्या इति । नैयायिकदुर्दुरूढाः केचित् पाषाणप्रायमेव मोक्षं वदन्ति । तर्हि ‘नाहमत्र भोग्यं पश्यामि’ ‘विनाशमेवापीतो भवति’ इति निन्दिता सुषुप्तिरपि मुक्तिस्स्यात्, नेयं मुक्तिरिति मनीषिभिः प्रार्थ्यते । एवं पाषाणवन्मुक्तिरिति वैराग्यपादे तन्मुक्तिनिन्दया तज्जिहासाविशेषोऽपि सिध्यति तदर्थमयं प्रसङ्ग इति न नैरर्थक्यमित्यर्थः ॥
मूलम् - 13
- जीवानादित्वमूचे दृषदनुकरणं क्षेप्स्यते चापवर्गे
स्वर्गाद्यर्थप्रवृत्तिश्श्रुतिनयविदिता सौगताद्याश्च भग्नाः ।
कल्पान्तेऽप्येकतोक्तेर्नियमितविषया नामरूपप्रहाणात्
भूयश्चिन्ता सुषुप्तेः प्रलयसमदशासञ्जिहासादिसिद्ध्यै ॥