08 तदभावाधिकरणम्

विश्वास-प्रस्तुतिः - 11
  1. स्थानं जन्तोस्सुषुप्तौ श्रुतिरनियमतो वक्ति नाड्यः पुरीतद्
    हार्दं ब्रह्मेति तस्मादिह भवतु मिथो नैरपेक्ष्याद्विकल्पः ।
    तन्न, प्रासादखट्वाशयनवदुपकृत्यन्तरैर्योजितानां
    पक्षेपक्षे विकल्पः क्रमघटितचतुर्दोषयुक्तो न युक्तः ॥
३४-तमाहोबिल-यतिः - 11
  1. स्थानमित्यादि । श्रुतिः । जन्तोः - प्राणिनः । सुषुप्तौ स्थानम् - आधारभूतस्थानम् । नाड्यः - हिता नाम नाड्यो बह्व्यः । पुरीतत् - नाडीमूलस्थानविशेषः । ‘पुरीतदिति हृदयपरिवेष्टनमुच्यते’ इति शङ्करभाष्ये दृश्यते । हार्दं ब्रह्म - हृदये विग्रहविशेषेण संनिहितं ब्रह्म । इति - एवम्प्रकारेण । अनियमतो वक्ति - इदमेकमेवेति स्थाननियतिं विना क्वचिन्नाडीः, क्वचित्पुरीतत्, क्वचित् ब्रह्म च सुषुप्तिस्थानत्वेन प्रतिपादयति । तस्मात् - अनियमेन वचनात् ।मिथो नैरपेक्ष्यात् - नाडीपुरीतद्ब्रह्मणां परस्परनैरपेक्ष्यात् । इह - सुषुप्तौ ।विकल्पो भवतु - त्रयाणां मध्ये नाड्यो वा पुरीतद्वा ब्रह्म वेति विकल्पस्स्यात् । तन्न - तन्न युक्तम् । प्रासादखट्वाशयनवत् - यथा प्रासादः प्रथमं, तदुपरि खट्वा,
    खट्वोपरि शयनं, तथेत्यर्थः । उपकृत्यन्तरैः - विलक्षणोपकारैः । योजितानाम् - समुच्चयेन सङ्गमितानां नाडीपुरीतद्ब्रह्मणाम् । पक्षेपक्षे - विकल्प्यमानपक्षयोः प्रत्येकं प्रत्येकमित्यर्थः । क्रमघटितचतुर्दोषयुक्तः - क्रमेण वारत्रयानुष्ठानपर्यायात्मकेन घटितास्सम्भाविता ये चत्वारो दोषास्तैर्युक्तः । विकल्पः - विहितयोर्द्वयोस्तुल्यबलयोरन्यतरहानेनान्यतरस्यानुष्ठेयतया परिग्रहरूपः । न युक्तः - तथाहि ‘व्रीहिभिर्यजेत’ ‘यवैर्यजेत’ इति विकल्पेनानुष्ठीयमानयोर्व्रीहियवयोः प्रथमं व्रीह्यनुष्ठाने यवशास्त्रविषयौ द्वौ दोषौ स्तो यवशास्त्रे प्रामाण्यत्यागः, अप्रामाण्यस्वीकारश्चेति । समनन्तरं कदाचिद्यवानुष्ठाने व्रीहिशास्त्रे प्रामाण्यत्यागः, अप्रामाण्यस्वीकारश्चेति द्वौ दोषौ स्तः । तस्मिन्नेव यवानुष्ठानसमये यवशास्त्रे त्यक्तप्रामाण्यस्वीकारस्स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ भवतः । पुनः परिवृत्य व्रीह्यनुष्ठानरूपे तृतीयप्रयोगे व्रीहिशास्त्रे त्यक्तप्रामाण्यस्वीकारस्स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ स्त इति द्वितीयानुष्ठानवेलायाञ्चत्वारस्तृतीयानुष्ठाने पुनर्द्वौ दोषाविति बुद्ध्या विभज्य धीमद्भिर्भावनीयम् । प्रकारान्तरेणाप्यष्टदोषदुष्टत्वमाहुर्विकल्पविषयमाचार्याः ।व्रीह्यनुष्ठाने यवशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति चत्वारो दोषा एवं यवानुष्ठाने व्रीहिशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति चत्वारो दोषा इत्यष्टदोषदुष्टत्वमिति । तेनायमर्थः । गत्यभावे विकल्पस्स्वीकार्यः सम्भवन्त्यां गतौ समुच्चय इति तान्त्रिकसम्मतम् । अत्र तु प्रासादखट्वापर्यङ्कन्यायेन समुच्चयस्य सम्भवात् विकल्पो न स्वीकार्य इति । उक्तरीत्या प्रयोगत्रयसिद्धं विकल्पस्याष्टदोषदुष्टत्वं क्रमघटितचतुर्दोषयुक्त इत्यनेनोच्यते ॥
कुमार-वरदः - 11
  1. अत्र सङ्गतिर्भाष्ये ‘इदानीं सुषुप्तिस्थानं परीक्ष्यते’ इति । पूर्वं स्वप्नो निरूपितः, इदानीं सुषुप्तिस्थानमित्यर्थः । तदर्थविचारस्तु - किं नाडीपुरीतद्ब्रह्माणि जीवस्य विकल्पेन सुषुप्तिस्थानानि? उत समुच्चयेनेति । किमेषां प्रासादखट्वापर्यङ्कवत् कार्यभेदोऽस्ति नेति । ‘सत आगच्छामहे’ इति ब्रह्मणः प्रबोधश्रवणं ब्रह्मणः पर्यङ्कस्थानीयतामवगमयत् किं कार्यभेदमवगमयति नेति । अत्र पूर्वपक्षी मन्यते - स्थानं जन्तोरित्यादि । जन्तोस्सुषुप्तौ श्रुतिरनियमतो नाड्यः पुरीतत् ब्रह्मेति च स्थानं वक्ति वदति । तस्मात् त्रयाणामपि स्थानानां मिथो नैरपेक्ष्यात् नाड्यो वा पुरीतद्वा ब्रह्म वेति विकल्प इति पूर्वपक्षः । उक्तमर्थं प्रतिक्षिपति - तन्नेति । प्रतिक्षेपमेव युक्त्या विवृणोति - प्रासादेति । अयमर्थः - समुच्चये कार्यभेदाभावे हि विकल्पो न्याय्यः । अत्र पुनः कार्यभेदेन समुच्चयेन योजितानां प्रासादखट्वापर्यङ्कन्यायेन नाडीपुरीतद्ब्रह्मणां विकल्पो न न्याय्य एव । स च विकल्पोऽष्टदोषदुष्ट एव । तदेवाह - पक्षेपक्ष इति । ‘व्रीहिभिर्यजेत’ ‘यवैर्यजेत’ इति विकल्पेनानुष्ठीयमानयोः व्रीहियवयोः प्रथमं व्रीह्यनुष्ठाने यवशास्त्रविषयौ द्वौ दोषौ स्तो यवशास्त्रे प्रामाण्यत्यागोऽप्रामाण्यस्वीकारश्चेति । समनन्तरं कदाचिद्यवशास्त्रानुष्ठाने व्रीहिशास्त्रे प्रामाण्यत्यागोऽप्रामाण्यस्वीकारश्चेति द्वौ दोषौ स्तः । तस्मिन्नेव यवानुष्ठानसमये यवशास्त्रे त्यक्तप्रामाण्यस्वीकारस्स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ भवतः । पुनः परिवृत्य व्रीहिशास्त्रानुष्ठानरूपे तृतीये प्रयोगे व्रीहिशास्त्रे त्यक्तप्रामाण्यस्वीकारः स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ स्त इति प्रयोगत्रयादष्टदोषदुष्टत्वं द्वयोरपि शास्त्रयोश्चत्वारश्चत्वारो दोषा इति प्रथमानुष्ठानवेलायां द्वौ दोषौ, द्वितीयानुष्ठानवेलायां चत्वारस्तृतीयानुष्ठानवेलायां पुनर्द्वौ दोषाविति बुद्ध्या विभज्य धीमद्भिर्भावनीयम् । प्रकारान्तरेणाप्यष्टदोषदुष्टत्वमाहुर्विकल्पविषयमाचार्याः - व्रीह्यनुष्ठाने यवशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति चत्वारो दोषाः । एवं यवानुष्ठाने व्रीहिशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति चत्वारो दोषा इत्यष्टदोषदुष्टत्वम् । तेनायमर्थः - गत्यभावे विकल्पस्स्वीकार्यः, सम्भवन्त्यां गतौ समुच्चय इति । अत्र तु प्रासादखट्वापर्यङ्कन्यायेन समुच्चयस्य सम्भवाद् विकल्पो न स्वीकार्यः । क्रमघटितचतुर्दोषयुक्त इति - प्रयोगत्रयसिद्धमष्टदोषदुष्टत्वमनुवदति । तेन प्रयोगद्वयादिति बालकानां प्रतिभासो दुष्प्रतिभास इत्यर्थः ॥
मूलम् - 11
  1. स्थानं जन्तोस्सुषुप्तौ श्रुतिरनियमतो वक्ति नाड्यः पुरीतद्
    हार्दं ब्रह्मेति तस्मादिह भवतु मिथो नैरपेक्ष्याद्विकल्पः ।
    तन्न, प्रासादखट्वाशयनवदुपकृत्यन्तरैर्योजितानां
    पक्षेपक्षे विकल्पः क्रमघटितचतुर्दोषयुक्तो न युक्तः ॥