(तृतीयाध्यायस्य द्वितीयः पादः) (उपोद्घातः)
विश्वास-प्रस्तुतिः - 1
- ब्रह्मैव स्वैस्स्वभावैर्बहुमुखमवदत् प्राक्तनाध्याययुग्मे
तस्येहाकृष्य चिन्ता किमिति पुनरसौ साधनाध्यायमध्ये ।
मैवं विद्याः प्रभेत्तुं विशदयति परं तद्धि तद्रूपभेदात्
सिद्धोपायादिभावं प्रथयति च विभोः प्राप्यतृष्णाप्रथिम्ने ॥
३४-तमाहोबिल-यतिः - 1
- ब्रह्मैवेत्यादि । प्राक्तनाध्याययुग्मे - प्राक्तनं यत् अध्याययुग्मं प्रथमद्वितीयात्मकं तस्मिन् । स्वैः - स्वकीयैः । स्वभावैः - असाधारणधर्मैः । सहेति शेषः । ब्रह्मैव । बहुमुखम् - बहुप्रकारं, क्रियाविशेषणम् । अवदत् - व्यक्ततया प्रत्यपादयत् । इह साधनाध्यायमध्ये - साधनप्रतिपादनपरस्यास्य तृतीयाध्यायस्य मध्ये । तस्य - तथाप्रतिपादितस्य ब्रह्मणः । असौ पुनराकृष्य चिन्ता - पुनराकाङ्क्षामुत्थाप्य विचारः । किमिति - किं फलं भविष्यतीति । कस्मै फलायेति वा अर्थः । मैवम् - एवं मास्तु । विद्याः - मोक्षसाधनभूता विद्याः । प्रभेत्तुम् - विभज्य दर्शयितुम् । परम् - विद्याविषयभूतं परं ब्रह्म । विशदयति - स्पष्टतया प्रतिपादयति । तद्धि - परब्रह्मविशदीकरणम् । तद्रूपभेदात् - तद्गुणभेदात् । तेनोभयलिङ्गत्वादिविशेषणोपेतं ब्रह्मात्र चिन्तनीयमित्यर्थः । प्राप्यतृष्णाप्रथिम्ने - प्राप्ये परब्रह्मणि तृष्णातिशयजननाय । विभोः - परमात्मनः । सिद्धोपायादिभावञ्च - सिद्धोपायभावं सिद्धोपेयभावञ्चेत्यर्थः । प्रथयति - प्रतिपादयति । द्वयं खलु विशेषतः प्रतिपाद्यं ब्रह्मणस्सिद्धोपायत्वं सिद्धोपेयत्वञ्च । एतदुभयप्रतिपादनं प्राप्ये ब्रह्मणि तृष्णाविशेषसिद्ध्यर्थम् । तृष्णाविशेषाभावे खलूपायाधिकार एव पुरुषस्य न स्यात् । स्वर्गकामो हि यागादिष्वधिकुरुते । एवं परब्रह्मप्राप्तिकामो हि ब्रह्मोपासनेष्वधिकुर्यात् । तथा चोभयलिङ्गमुपासनानुष्ठाने विशेषेणोपकरोतीति न नैरर्थक्यप्रसङ्ग इति भावः ॥
कुमार-वरदः - 1
- अत्र वैराग्यपादानन्तरमुभयलिङ्गपादारम्भमाक्षिप्य समाधत्ते - ब्रह्मैवेति । पूर्वमुभाभ्यामध्यायाभ्यां सर्वैरपि स्वैः स्वभावैरन्वितं ब्रह्म प्रत्यपादि । अयञ्च साधनाध्यायः । अस्मिन्नध्याये समन्वयाविरोधाध्यायप्रतिपाद्यस्य ब्रह्मणः पुनराकृष्य चिन्ता किमर्थेति चोदकाभिप्रायः । चोद्यं निराकरोति - मैवमिति । अयमत्राभिप्रायः - सत्यमयं साधनाध्यायः । अथापि ब्रह्मचिन्ता विशेषतः कर्तव्यैव । साधनं हि द्विविधम् - साध्योपायस्सिद्धोपायश्च । सिद्धोपाय ईश्वरः । साध्योपायः सद्विद्यादिभेदवती तद्भक्तिरेव । विद्याभेदश्च रूपभेदात् । रूपञ्च विद्यायाः प्राधान्येन वेद्यं ब्रह्मैव । तस्य च भेदस्तद्गुणभेदात् । एवञ्च साधनाध्यायप्रतिपाद्यसाधनरूपभक्तिविषयत्वेन स्वयञ्च सिद्धोपायतया साधनत्वेन साधनाध्याये ब्रह्मचिन्ता विशेषेण सङ्गच्छत इति । तत्र ब्रह्मचिन्तनस्य विद्योपकारकत्वं तावदाह - विद्या इति । तद्धि तद्रूपभेदादिति - तद् ब्रह्मविशदीकरणं तद्रूपभेदात् तद्गुणभेदात्, तेनोभयलिङ्गत्वादि विशेषणोपेतं ब्रह्मात्र चिन्तनीयमित्यर्थः । अस्य सिद्धोपायत्वप्रतिपादनार्थं ब्रह्मचिन्तनं सफलमित्याह - सिद्धेति । द्वयं खलु विशेषतः प्रतिपाद्यम् - ब्रह्मणस्सिद्धोपयत्वं सिद्धप्राप्यत्वञ्च । एतदुभयप्रतिपादनं प्राप्ये ब्रह्मणि तृष्णाविशेषसिद्ध्यर्थम् । तृष्णाविशेषाभावे खलु उपायाधिकार एव पुरुषस्य न स्यात् । स्वर्गकामो हि यागादिष्वधिकुरुते, एवं परब्रह्मप्राप्तिकामो हि ब्रह्मोपासनेष्वधिकुर्यात् । तथा चोभयलिङ्गपाद उपासनानुष्ठाने विशेषेणोपकरोतीति शारीरकशास्त्रसारोऽयं पाद इति न नैरर्थक्यप्रसङ्गः । तृष्णाप्रथिम्न इति - तृष्णाभिवृद्ध्यर्थमित्युच्यते । अभिवर्धते ह्यत्र तृष्णा ‘स स्वेनैव फलप्रदः’ इत्युक्तप्रकारेण स्वप्रापकत्वेन स्वयमेव ब्रह्मणि परिज्ञाते इति भावः ॥
मूलम् - 1
- ब्रह्मैव स्वैस्स्वभावैर्बहुमुखमवदत् प्राक्तनाध्याययुग्मे
तस्येहाकृष्य चिन्ता किमिति पुनरसौ साधनाध्यायमध्ये ।
मैवं विद्याः प्रभेत्तुं विशदयति परं तद्धि तद्रूपभेदात्
सिद्धोपायादिभावं प्रथयति च विभोः प्राप्यतृष्णाप्रथिम्ने ॥
विश्वास-प्रस्तुतिः - 2
- नैर्गुण्यं ब्रह्मणश्चेद्वितथ इह गुणैर्ब्रह्मविद्याविभागः
सोऽस्त्वेतैः कल्पितैश्चेच्छ्रुतिमतविहतिर्नात्र दृष्टिक्रमोऽपि ।
निर्दोषत्वञ्च नित्यं यदि वदसि मुधा दोषशान्त्यर्थयत्नः
कल्प्यं चेद् दुष्टता स्यात् प्रकृतिरिति परक्षिप्तये चैष पादः ॥
३४-तमाहोबिल-यतिः - 2
- नैर्गुण्यमित्यादि । ब्रह्मणो नैर्गुण्यञ्चेत् - गुणशून्यत्वमङ्गीक्रियते चेत् । इह - साधानाध्याये तृतीयपादे । गुणैः - प्रतिविद्यं व्यवस्थितैस्संयद्वामत्वादिगुणैः । ब्रह्मविद्याविभागः - ब्रह्मविद्यानामन्योन्यभेदज्ञापनव्यापारः । वितथः - व्यर्थो भवेत् । सः - विद्याभेदः । कल्पितैरेतैरस्त्विति चेत् - आरोपितैर्गुणैरस्त्विति चेत् । विद्याभेदनियामकानां ब्रह्मसम्बन्धितया श्रुतानां गुणानां न वास्तवत्वं अपितु शुक्तिरजतादिवदारोपित्वमेवेति चेदिति भावः । श्रुतिमतविहतिः - श्रुत्यभिमतार्थविरोधापत्तिः । अनादिनिधनाविच्छिन्नसम्प्रदायतया प्रतिपन्नस्य श्रुत्यर्थस्य कल्पितत्वे किमकल्पितं स्यात् । तथाच गुणानां कल्पितत्वं वदन् वेदान्तबहिर्भूत इत्यर्थः । ननु वेदान्तेऽपि मनो ब्रह्मेत्युपासीत इत्यादिषु दृष्टिविधिर्दृश्यते, तद्वदत्रापि स्यादित्याशङ्क्य निराकरोति - नात्रेति । अत्र - साक्षाद्ब्रह्मोपासनस्थले । दृष्टिक्रमोऽपि न - मनो ब्रह्म इत्यादिष्विव दृष्टिविधिक्रमोऽपि न सम्भवति । एकत्र अगत्या इतिशिरस्कत्वादिदृष्टिविधिलिङ्गैश्च दृष्टिविधित्वकल्पनेऽपि सर्वत्र तथैव स्यादिति न वक्तुं युज्यते । अन्यत्रान्यगुणारोपेणानुसन्धाने हि दृष्टिविधिः । ब्रह्मणस्तु सत्यत्वज्ञानत्वादिकं स्वरूपनिरूपकगुणत्वादबाध्यमिति भावः । निर्दोषत्वञ्च नित्यं वदसि यदि - ब्रह्मनिर्दोषत्वञ्च नित्यमेवेति प्रमाणानुसारेण यदि वदसि । दोषशान्त्यर्थयत्नो मुधा - तदा ब्रह्मव्यतिरिक्तस्य संसरतो जीवस्याभावात् ब्रह्मणो नित्यनिर्दोषत्वाच्च निरर्थक एव संसारदोषशान्त्यर्थो वेदान्तश्रवणादिप्रयासो भवेत् । कल्प्यञ्चेत् - निर्दोषत्वं कल्प्यञ्चेत् । दुष्टता प्रकृतिस्स्यात् - दुष्टतैव ब्रह्मणस्स्वभावस्स्यात् । इति - एवम् । परक्षिप्तये च एष पादः - परेषां मृषावादिनां प्रतिक्षेपाय चायमुभयलिङ्गपादः । अतो नास्य नैरर्थक्यमिति भावः ॥
कुमार-वरदः - 2
- किञ्च अखिलहेयप्रत्यनीककल्याणैकतानताप्रतिपादनपरोऽयमुभयलिङ्गपादो मृषावादिप्रभृतीनां परेषां प्रतिक्षेपे विशेषेणोपकरोतीति सफल एवेत्याह - नैर्गुण्यमिति । ब्रह्मणो नैर्गुण्यं चेत् गुणोपसंहारपादाधिकरणेषूभय- लिङ्गपादप्रतिपादितकल्याणगुणभेदैर्ब्रह्मविद्याविभागो वितथस्स्यात् । ननु कल्पितैरेव गुणैर्ब्रह्मविद्याविभागस्स्यादिति परपक्षमनुवदति - सोऽस्विति । तत् प्रतिक्षिपति - श्रुतिमतविहतिरिति । अनादिनिधनाविच्छन्नसम्प्रदायतया प्रतिपन्नस्य श्रुत्यर्थस्य कल्पितत्वे किमकल्पितं स्यात् ? तथा च गुणानां कल्पितत्वं वदन् वेदान्तबहिर्भूत इत्यर्थः । ननु वेदान्तेऽपि ‘मनो ब्रह्मेत्युपासीत’ इत्येवमादिषु ‘गरुडमात्मानं जानीयात्’ इत्यादिवद् दृष्टिविधिर्दृश्यते तद्वदत्रापि स्यादित्याशङ्क्य निराकरोति - नात्रेति । एकत्रागत्या दृष्टिविधिपरिग्रहे सर्वत्रापि तथैव स्यादिति न वक्तुं शक्यत इत्यर्थः । अन्यत्रान्यगुणारोपेणानुसन्धाने हि दृष्टिविधिः । ब्रह्मणस्तु सत्यत्वज्ञानत्वादिकं स्वरूपगुणत्वादबाध्यमित्यर्थः । एवं कल्याणगुणैकतानत्वप्रतिपादकप्रमाणविरोधात् मृषावादिनो दोषमुक्त्वा निर्दोषत्वप्रतिपादकप्रमाणविरोधादपि मृषावादिपक्षस्य दुष्टत्वमाह - निर्दोषत्वमिति । ब्रह्मनिर्दोषत्वञ्च नित्यमेवेति प्रमाणानुसारेण यदि वदसि तथा ब्रह्मव्यतिरिक्तस्य संसरतो जीवस्याभावाद् ब्रह्मणो नित्यनिर्दोषत्वाच्च मुधा निरर्थक एव संसाररूपदोषशान्त्यर्थो वेदान्तश्रवणादिप्रयास इति नैरर्थक्यमेव शास्त्रारम्भस्य । तर्हि निर्दोषत्वं ब्रह्मणः कल्प्यमिति वदाम इति परस्याभिप्रायमाशङ्क्य प्रतिक्षिपति - कल्प्यमिति । निर्दोषत्वं कल्प्यं चेत्, दुष्टतैव ब्रह्मणः प्रकृतिः स्यादिति पुनश्शास्त्रारम्भवैयर्थ्यमिति परेषां प्रतिक्षेपायोभयलिङ्गपादस्सफल एव ॥
मूलम् - 2
- नैर्गुण्यं ब्रह्मणश्चेद्वितथ इह गुणैर्ब्रह्मविद्याविभागः
सोऽस्त्वेतैः कल्पितैश्चेच्छ्रुतिमतविहतिर्नात्र दृष्टिक्रमोऽपि ।
निर्दोषत्वञ्च नित्यं यदि वदसि मुधा दोषशान्त्यर्थयत्नः
कल्प्यं चेद् दुष्टता स्यात् प्रकृतिरिति परक्षिप्तये चैष पादः ॥
विश्वास-प्रस्तुतिः - 3
- किञ्चादौ चिन्त्यभावः प्रमितिविषयता स्वप्रभत्वं सुखत्वं
विश्वाधिष्ठानता च स्वबहुभवनधीर्निर्विशेषे कथं स्यात् ।
सर्वश्रुत्यर्थहानं स्ववचनविहतिस्सर्वमानैश्च बाधो
मायावैयात्यभाजामिति सगुणदशोपास्तिपादश्च दुस्स्थः ॥
३४-तमाहोबिल-यतिः - 3
- किञ्चेत्यादि । किञ्च - दोषान्तराणि च बहूनि सन्तीत्यर्थः । आदौ - शास्त्रारम्भे प्रथमाधिकरणे । चिन्त्यभावः - जिज्ञास्यत्वम् । प्रमितिविषयता - विचारफलभूतप्रमित्यात्मकज्ञानविषयत्वम् । स्वप्रभत्वम् - स्वयम्प्रकाशत्वम् । सुखत्वम् - आनन्दरूपत्वम् । विश्वाधिष्ठानता च - विश्वस्यारोपिततया तदधिष्ठानत्वम् । स्वबहुभवनधीः - बहु स्याम् इति स्वस्य बहुभवनसङ्कल्पः । निर्विशेषे - ब्रह्मणो निर्विशेषत्वस्य पारमार्थ्ये तथा निर्विशेषे ब्रह्मणि । कथं स्यात् - एतेषां धर्माणामङ्गीकारे सविशेषत्वापत्तेरिति भावः । किञ्चादौ चिन्त्यवाद इति पाठभेदमालम्ब्य चिन्तामणिपङ्क्तिर्दृश्यते किञ्चेति । ब्रह्मणो निर्विशेषत्वपारमार्थ्ये ब्रह्मजिज्ञासा कर्तव्येति आदौ चिन्त्यत्ववादो न स्यात् इत्यादिः । सर्वश्रुत्यर्थहानम् - सर्वेषामपि श्रुत्यर्थानां कारणत्वोपास्यत्वप्राप्यत्वादीनां हानं त्याग एव स्यात् । स्ववचनविहतिः - युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोः इत्यादिभिः प्रत्यगर्थस्यास्मत्प्रत्ययविषयत्वविषयित्वजडविलक्षणस्वभावत्वादिबोधिभिस्स्ववाक्यैर्विरोधः । सर्वमानैर्बाधश्च - अबाधितानेकधर्मविशिष्टधर्मिप्रतिपादकप्रत्यक्षानुमानशब्दादिसर्वप्रमाणैर्बाधश्च । मायावैयात्यभाजाम् - मायाधार्ष्ट्यात् कष्टां दशामापन्नानां मृषावादिनाम् । भवतीति शेषः । इति, सगुणदशोपास्तिपादश्च - गुणोपसंहारपादस्थं सकलमपि सगुणोपासनवचनम् । दुस्स्थः - विरुद्धमित्यर्थः ॥
कुमार-वरदः - 3
- इत्थं निर्विशेषत्वस्य मिथ्यात्वे दोषं दृष्ट्वा पुनस्सत्यत्वं वदतो बम्भ्रम्यमाणस्य मृषावादिनो बहूनपि दोषानाह - किञ्चेति । ब्रह्मणो निर्विशेषत्वपारमार्थ्ये ब्रह्मजिज्ञासा कर्तव्येति आदौ चिन्त्यत्ववादो न स्यात्, तथा - प्रमाणगोचरत्वमपि तथैव स्वसिद्धान्तसारभूतं स्वयम्प्रकाशत्वमानन्दरूपत्वं विश्वाध्यासाधिष्ठानत्वं ‘बहु स्याम्’ इति स्वस्य बहुभवनसङ्कल्पः । एतादृशं सर्वमपि गुणजातं निर्विशेषे ब्रह्मणि कथं स्यात् ? न कथंचित् स्यादित्यर्थः । एते गुणा यदि परमार्थास्तदा सगुणवादप्रसङ्गः । अपरमार्थाश्चेत् स्वयम्प्रकाशत्वानन्दत्वयोरप्यपरमार्थत्वे स्वसिद्धान्तस्य मूलोच्छेदः । बौद्धादिभ्यो वैषम्यञ्च किं स्यात् ? अयमर्थविरोध उक्तः । श्रुतिविरोधमप्याह - सर्वेति । श्रुतिप्रमाणविरोधमुक्त्वा स्ववचनविरोधमप्याह - स्ववचनेति । प्रत्यक्षादिकृत्स्नप्रमाणविरुद्धवादित्वादिकं मृषावादिनस्सुप्रसिद्धमेव ‘दुर्घटत्वमविद्याया भूषणं नतु दूषणम्’ इति । तद् भूषणं चेद् ब्रह्मैवाविद्या, निरधिष्ठान एव भ्रमः, निष्प्रकाशमेव ब्रह्मेत्यादिकमप्यत्यन्तदुर्घटं श्रेष्ठमेव भूषणं स्यादिति माध्यमिकविजयतूर्यमेव जोघुष्येत । मायावैयात्येत्यादि - मायाधार्ष्ट्यात् कष्टां दशामापन्नानामष्टपादकल्पनां मृषावादिनामिह गुणोपसंहारपादप्रतिपाद्यं सकलमपि सगुणोपासनं समूलोन्मूलनमर्हतीति सर्वशास्त्रव्याकोपः ॥
मूलम् - 3
- किञ्चादौ चिन्त्यभावः प्रमितिविषयता स्वप्रभत्वं सुखत्वं
विश्वाधिष्ठानता च स्वबहुभवनधीर्निर्विशेषे कथं स्यात् ।
सर्वश्रुत्यर्थहानं स्ववचनविहतिस्सर्वमानैश्च बाधो
मायावैयात्यभाजामिति सगुणदशोपास्तिपादश्च दुस्स्थः ॥
विश्वास-प्रस्तुतिः - 4
- त्यक्तं दोषैर्गुणाढ्यं यदि पुनरिह तद् ब्रह्म चिन्त्येत पादे
जीवस्वप्नाद्यवस्थामननमथ कथं संघटेतेति चेन्न ।
स्वाप्नार्थस्रष्टृभावप्रभृतिबहुविधब्रह्ममाहात्म्यसिद्ध्यै
जन्तोरस्य स्वमुक्तावतिपरवशताज्ञप्तये चैतदत्र ॥
३४-तमाहोबिल-यतिः - 4
- त्यक्तमित्यादि । दोषैस्त्यक्तम् - क्लेशकर्मादिदोषैरस्पृष्टम् । गुणाढ्यम् - ज्ञानशक्त्यादिकल्याणगुणपरिपूर्णम् । तत् ब्रह्म । इह पादे - उभयलिङ्गपादे । पुनश्चिन्त्येत यदि - उपासनौपयिकाधिकारसिद्धये प्रथमद्विकविचारितमपि पुनश्चिन्तनीयं चेत् । जीवस्वप्नाद्यवस्थामननम् - जीवस्य याः स्वप्नसुषुप्तिमूर्च्छारूपावस्थास्तद्विचिन्तनम् । अथ कथं संघटेत - विचिन्तनीयमुभयलिङ्गं ब्रह्म विसृज्याधःपादे चिन्तितस्य जीवस्य पुनरत्रावस्थाविशेषद्वारा चिन्तनं कथं युज्येतेत्यर्थः । इति चेन्न - इति शङ्क्यते यदि तन्न युक्तम् । स्वाप्नार्थस्रष्टृभावप्रभृतिबहुविधब्रह्ममाहात्म्यसिद्ध्यै - स्वाप्नास्स्वप्नकालिका ये अर्था रथादयस्तेषां स्रष्टृभावस्तत्तत्पुरुषमात्रगोचरतया तत्कालमात्रावसानतया चाश्चर्यभूता सृष्टिः प्रभृतिः प्रधानं यस्य तथाविधस्यात एव बहुविधस्य ब्रह्ममाहात्म्यस्य विचित्रशक्त्यादिरूपस्य सिद्ध्यै ज्ञानाय । उभयलिङ्गविचारवदेवेदमपि ब्रह्ममाहात्म्यज्ञानायैव सुसम्पन्नमिति भावः । फलान्तरञ्चास्तीत्याह - जन्तोरित्यादिना । स्वमुक्तौ - स्वस्य जीवस्य मुक्तौ मोक्षदशायाम् । अस्य जन्तोः - जीवस्य । अतिपरवशताज्ञप्तये च - स्वप्नाद्यवस्थावत् सकलावस्थास्वपि जीवस्य परतन्त्रतया मोक्षदशायामपि ‘पशवः पाशिताः पूर्वं परमेण स्वलीलया । तेनैव मोचनीयास्ते नान्यैर्मोचयितुं क्षमाः ॥’ (श्रीविष्णुतत्त्वे 1.2.10) ‘दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः ।’ इत्यादिप्रमाणानुसारेणात्यन्तपारतन्त्र्यमेव, नतु स्वातन्त्र्यं, नच परमशेषिणैक्यमित्येतदर्थज्ञापनाय च । एतत् - जीवमननम् । अत्र - अस्मिन्पादे । क्रियत इति शेषः ॥
कुमार-वरदः - 4
- अस्मिन्नुभयलिङ्गपादे यदि ब्रह्म चिन्त्यमुच्यते, तर्हि जीवस्य स्वप्नाद्यवस्थाकथनं कथं सङ्घटेतेत्याशङ्क्य स्वप्नादिदृष्टिरपि भगवत्सङ्कल्पादेव सिध्यतीति तत्प्रदर्शनस्यापि भगवन्माहात्म्यप्रदर्शनपरत्वादस्मिन्पादे सङ्गतिर्युज्यत इति परिहरति - त्यक्तमिति । अयमत्र शब्दार्थः - दोषैस्त्यक्तं गुणाढ्यं ब्रह्म यदि पुनरिह चिन्त्येत तर्हि जीवस्य स्वप्नाद्यवस्थामननमथ वैराग्यपादानन्तरमस्मिन्पादे कथं संघटेतेति शङ्का । तामिमां निराकरोति - नेति । तदेव विवृणोति - स्वाप्नेति । स्वाप्नार्थस्यापि भगवानेव स्रष्टेति तत्स्रष्टृभावप्रभृतिबहुविधब्रह्ममाहात्म्यसिद्ध्यै, तथा अस्य जन्तोस्स्वमुक्तावत्यन्तपरवशताज्ञप्तये चैतज्जीवस्य स्वप्नाद्यवस्थामननमत्र क्रियते । अयमर्थः - न जीवस्स्वप्राधान्येनात्रोच्यते, अपि तु परमात्मनो जाग्रत्स्वप्नसुषुप्त्यादिसर्वावस्थाकर्तृत्वप्रतिपादनार्थम् इति परमात्मैवास्मिन्पादे सर्वत्र प्राधान्येनोच्यत इति ॥
मूलम् - 4
- त्यक्तं दोषैर्गुणाढ्यं यदि पुनरिह तद् ब्रह्म चिन्त्येत पादे
जीवस्वप्नाद्यवस्थामननमथ कथं संघटेतेति चेन्न ।
स्वाप्नार्थस्रष्टृभावप्रभृतिबहुविधब्रह्ममाहात्म्यसिद्ध्यै
जन्तोरस्य स्वमुक्तावतिपरवशताज्ञप्तये चैतदत्र ॥
विश्वास-प्रस्तुतिः - 5
- पादस्यास्याद्यमर्धं कतिचिदधिजगुः पूर्वपादस्य शेषं
पश्चार्धञ्चात्र साक्षादनुघटितमुपास्त्यर्थतत्तद्गुणोक्तेः ।
एतन्नातीव हृद्यं शबलितकथने चातुरीवैपरीत्यात्
ब्रह्मोक्तौ जीवदोषग्रह इह तु मुखं तत्प्रतिद्वन्द्विबुद्धेः ॥
३४-तमाहोबिल-यतिः - 5
- पादस्येत्यादि । कतिचित् - केचिदेकदेशिनः । अस्य पादस्य - उभयलिङ्गपादस्य । आद्यमर्धम् - पूर्वार्धम् । पूर्वपादस्य शेषमधिजगुः - जीवावस्थाप्रतिपादकप्रथमपादशेषमित्यूचुः । एतत्पादपूर्वार्धस्यापि स्वप्नसुषुप्तिमुग्धिरूपजीवावस्थाप्रतिपादकत्वादिति भावः । पश्चार्धञ्च - उत्तरार्धं तु । उपास्त्यर्थतत्तद्गुणोक्तेः - उपासनोपयुक्ततत्तद्भगवद्गुणोपपादनात् । अत्र साक्षादनुघटितमधिजगुः - अस्मिन्पादे मुख्यतया घटितमित्यूचुः । एतत् - एवमर्धभेदेन वैजात्यकल्पनम् । अतीव हृद्यं न । कुत इति चेत्, शबलितकथने चातुरीवैपरीत्यात् - पूर्वार्धं पूर्वपादानुगतम्, उत्तरार्धमुत्तरपादानुगतम्, तथाविधमर्धद्वयमेकपादीकृत्य कथने पादार्थानुगत्यभावेन चातुर्यहानिप्रसङ्गादित्यर्थः । इह - उभयलिङ्गपादे । जीवदोषग्रहस्तु - जीवस्य स्वपतस्सुषुप्तस्य मूर्च्छितस्य च ये दोषास्तेषां ग्रह उपपादनं तु । तत्प्रतिद्वन्द्विबुद्धेः - तस्य अनन्तदोषास्पदस्य जीवस्य प्रतिद्वन्द्वि निर्दोषानन्तकल्याणगुणं ब्रह्म तस्य बुद्धेस्तिमिरज्ञानस्य तेजोबोधजनन इव बोधोत्पादनात् । ब्रह्मोक्तौ - अखिलहेयप्रत्यनीकत्वकल्याणगुणाकरत्वरूपोभयलिङ्गब्रह्मप्रतिपादने । मुखम् - उपाय इत्यर्थः । अत उभयलिङ्गब्रह्मात्मक एक एवास्य पादस्यार्थ इति न पादार्थाननुगतिरित्यर्थः । यद्वा ब्रह्मोक्तौ - ब्रह्मोक्तिप्रकरणे । जीवदोषग्रहः - जीवदोषोपपादनम् । तत्प्रतिद्वन्द्विबुद्धेः - निर्दोषब्रह्मप्रतिद्वन्द्व्यनन्तदोषबुद्ध्युत्पादनद्वारा । इह - ब्रह्मोक्तौ । मुखमुपाय इति वार्थः ॥
कुमार-वरदः - 5
- अत्र केचिदाहुः - ‘अस्मिन्नुभयलिङ्गपादे पूर्वार्धं जीवपरं वैराग्यपादशेषभूतम्, उत्तरार्धं परमात्मपरमिति । एतदनुवदति - पादस्येति । पश्चार्धमत्रास्मिन्पादे साक्षादनुघटितमुपास्त्यर्थतत्तद्भगवद्गुणोक्तेरिति । इदमेकदेशिमतं नातीव हृद्यमिति निराकरोति - एतदिति । तत्र हेतुमाह - शबलितेति । सङ्कीर्णकथने चातुरीवैपरीत्यादिति । तर्हि पादपूर्वार्धे जीवदोषग्रहणं किमर्थमित्याशङ्क्य ब्रह्मगुणाभिव्यक्त्यर्थमिति परिहरति - ब्रह्मेति । संसरतो जीवस्य कथने हि संसारमोचकस्य परमात्मनो माहात्म्यं सिध्यतीत्यर्थः । शब्दार्थस्तु - जीवदोषग्रह इह तु मुखमुपाय इत्यर्थ इति ॥
मूलम् - 5
- पादस्यास्याद्यमर्धं कतिचिदधिजगुः पूर्वपादस्य शेषं
पश्चार्धञ्चात्र साक्षादनुघटितमुपास्त्यर्थतत्तद्गुणोक्तेः ।
एतन्नातीव हृद्यं शबलितकथने चातुरीवैपरीत्यात्
ब्रह्मोक्तौ जीवदोषग्रह इह तु मुखं तत्प्रतिद्वन्द्विबुद्धेः ॥
विश्वास-प्रस्तुतिः - 6
- स्वप्नेऽर्थास्सन्तु सृष्टास्तदपि बहुविधा दुस्त्यजा भ्रान्तिरत्र
प्रध्वस्तानामिदानीन्तनवदनुभवात् स्थायितादिभ्रमाच्च ।
सत्यं, श्रुत्यादिसिद्धे श्रुतपरिहरणायोगतस्सृष्टिमात्रं
स्वीकृत्यांशे तु बाधाद् भ्रममपि हि यथाजागरं न क्षिपामः ॥
३४-तमाहोबिल-यतिः - 6
- स्वप्न इत्यादि । स्वप्ने - स्वप्नसमये । अर्थाः - रथाद्यर्थाः । सृष्टास्सन्तु - ईश्वरेण सृष्टाः कामं सन्तु । तदपि - तथाङ्गीकारेऽपि । अत्र - स्वप्ने । प्रध्वस्तानामिदानीन्तनवदनुभवात् - पूर्वनष्टानामपि पित्रादीनामिदानीन्तनवदनुभवात् । स्थायितादिभ्रमाच्च - स्वप्नलब्धानां सुवर्णादीनामस्थिराणामपि स्थायित्वकार्यकारित्वादिभ्रमाच्च । बहुविधा भ्रान्तिर्दुस्त्यजा - भवतामप्यपरिहार्येति चेत् । सत्यम् - अर्धाङ्गीकारे । अङ्गीकृतमनङ्गीकृतञ्च विभज्य दर्शयति - श्रुत्यादीति । श्रुत्यादिसिद्धे - श्रुतिस्मृत्यादिसिद्धेऽर्थे । श्रुतपरिहरणायोगतः - श्रुतहानायोगात् । सृष्टिमात्रं स्वीकृत्य - सर्वकर्तुर्भगवतस्तत्कालमात्रे तत्तत्पुरुषमात्रानुभाव्यवस्तुसृष्टिमङ्गीकृत्य । अंशे तु बाधात् - अत्यन्तव्याहतार्थांशे बाधादेव । यथाजागरम् - जागरतुल्यम् । भ्रममपि हि स्वीकृत्य - भ्रान्तिमप्यङ्गीकृत्य । न क्षिपामः - सर्वनिर्वाहतश्श्रुतिसिद्धमर्थं न त्यजामः ॥
कुमार-वरदः - 6
- अत्र चोदयति ‘स्वप्नसृष्टिः परमार्थभूतेति भवद्भिरुच्यते तत्कथं सङ्घटते ? अतीतानागतयोरपि स्वप्ने दर्शनात् । असम्भावितार्थदर्शनं हि जागरे मिथ्या किं पुनस्स्वप्ने । अतस्स्वप्नसृष्टिर्न परमार्थभूता’ इति । तदिदमाह - स्वप्न इति । अयमत्र शब्दान्वयः - स्वप्नेऽर्थास्सृष्टास्सन्तु । अथापि बहुविधा भ्रान्तिरत्र स्वप्ने दुस्त्यजा प्रध्वस्तानां पित्रादीनामिदानीन्तनवदनुभवात् स्वप्नलब्धानां सुवर्णादीनामस्थिराणामपि स्थायितादिभ्रमाच्च, अतः स्वप्नस्य अपारमार्थ्यं तव वक्तव्यमिति । तदिदमर्धाङ्गीकारेण निराकरोति - सत्यमिति । तत्र अङ्गीकृतमनङ्गीकृञ्च विभज्य दर्शयति - श्रुत्यादीति । श्रुत्यादिसिद्धेऽर्थे श्रुतहानायोगात् सर्वकर्तुर्भगवतस्तत्कालमात्र-तत्तत्पुरुषमात्रानुभाव्यवस्तुसृष्टिमङ्गीकृत्यात्यन्तव्याहतेष्वर्थेषु बाधादेव जागरवद् भ्रान्तिमङ्गीकृत्य सर्वं निर्वहन्तश्श्रुतिसिद्धमर्थं न क्षिपाम इति ॥
मूलम् - 6
- स्वप्नेऽर्थास्सन्तु सृष्टास्तदपि बहुविधा दुस्त्यजा भ्रान्तिरत्र
प्रध्वस्तानामिदानीन्तनवदनुभवात् स्थायितादिभ्रमाच्च ।
सत्यं, श्रुत्यादिसिद्धे श्रुतपरिहरणायोगतस्सृष्टिमात्रं
स्वीकृत्यांशे तु बाधाद् भ्रममपि हि यथाजागरं न क्षिपामः ॥
विश्वास-प्रस्तुतिः - 7
- कश्चिद्योगप्रभावान्निजपरभवनस्वैरसञ्चारनीत्या
निष्क्रान्तः पूर्वदेहाद्विशति परवपुः पूर्वमाप्नोति भूयः ।
इत्थं स्वप्नेऽप्युदन्तस्थितिरिति कतिचिच्छ्वासवृत्त्या तथान्ये
चित्तोद्यद्धीप्रसृत्येतरतनुभजने सौभरिन्यायसिद्धेः ॥
३४-तमाहोबिल-यतिः - 7
- कश्चिदित्यादि । कश्चित् - योगी । योगप्रभावात् - साङ्गयोगाभ्याससिद्धशक्तिविशेषात् । निजपरभवनस्वैरसञ्चारनीत्या - स्वीयपरकीयगृहस्वच्छन्दसञ्चारन्यायेन । पूर्वदेहात् निष्क्रान्तः परवपुर्विशति । भूयः - पुनः । पूर्वम् - विसृष्टशरीरम् आप्नोति । इत्थं स्वप्नेऽपि, उदन्तस्थितिः - उदन्तस्य वृत्तान्तस्य स्थितिरवस्थानम् । यद्वा - उत्, अन्तःस्थितिः इति च्छेदः । उत्स्थितिः - अन्तःस्थितिः इत्यन्वयः । स्वप्नेऽपि इत्थं योगिनः स्वपरगृहसञ्चारन्यायेन उत्स्थितिः स्वदेहादुत्क्रम्य देहान्तरे स्थितिः । अन्तःस्थितिः पुनरागत्य देहे स्थितिश्च । इति कतिचित् - ऊचुरिति शेषः । अन्ये - केचित् । चित्तोद्यद्धीप्रसृत्या - चित्तेन मनसा उद्यन्त्याः विकसन्त्याः धियः धर्मभूतज्ञानस्य प्रसृत्या प्रसरणेन । इतरतनुभजने - शरीरान्तरप्रवेशेऽभ्युपगते । सौभरिन्यायसिद्धेः - सौभरिः किल ऋषिरेकशरीरे स्वयं तिष्ठन् बहूनि शरीरान्तराणि योगमाहात्म्यसचिवधर्मभूतज्ञानेनाविश्य बह्वीभिस्स्रीभिरपत्यैश्च सुखमनुबभूव । स एष सौभरिन्यायः, तस्य सिद्धेः । श्वासवृत्त्या - शयानदेहं परित्यज्य जीवश्शरीरान्तरं यदि प्रविशेत्, तदा शयानदेहे यथापूर्वं श्वासप्रवृत्तिर्न दृश्येत, अतो जीवश्शयानदेह एव तिष्ठतीति वक्तव्यम्, अतश्श्वासवृत्त्या शयानदेहे जीवावस्थितिज्ञापिकया । तथा - धर्मभूतज्ञानद्वारैव जीवस्य शरीरान्तरप्रवेश इति । ऊचुरित्यध्याहारः ॥
कुमार-वरदः - 7
- तर्हि स्वयमेकत्र वर्तमानस्य स्वप्ने देशान्तरगमनं पारमार्थिकं कथं स्यादित्याशङ्क्य नानाशरीरपरिग्रहवतो योगिन इव विश्वकर्तुर्भगवतस्सङ्कल्यप्रभावात् सर्वं सङ्घटत इत्याह - कश्चिदिति । अयमत्र शब्दान्वयः - कश्चिद्योगी योगप्रभावात् स्वपरगृहयोस्स्वैरसञ्चारन्यायेन पूर्वदेहान्निष्क्रान्तो विशति परवपुर्देहान्तरं प्राप्नोति । तेनैव तत्र सञ्चारादिकमपि करोति । पूर्वं शरीरमपि भूयस्समागत्य प्राप्नोतीति । तथा स्वप्ने पूर्वशरीरं परित्यज्य भगवता सृष्टं शरीरान्तरं स्वप्नद्रष्टा प्राप्नोति स्वप्नान्ते पूर्वशरीरं पुनः प्राप्नोतीति केचित्प्रतिपेदिरे । तदिदमाह - इत्थमिति । पक्षान्तरमप्याह - श्वासवृत्त्येति । अयं खल्वन्येषामभिप्रायः - यदि स्वप्ने शयितः पुरुषः पूर्वशरीरं परित्यज्य शरीरान्तरं परिगृह्णाति, तदा पूर्वस्मिन् शरीरे श्वासवृत्तिर्न स्यात् । अतस्तस्मिन्नेव शरीरे जीवोऽवतिष्ठते । भगवता सृष्टेषु तु स्वाप्नेषु शरीरान्तरेषु ‘प्रदीपवदावेशः’ इति वक्ष्यमाणन्यायेन धर्मभूतज्ञानव्याप्त्या सौभरिन्यायस्य सिद्धत्वात् धर्मभूतज्ञानव्याप्त्यैव शरीरान्तरपरिग्रह इति निरणैषुरिति ॥
मूलम् - 7
- कश्चिद्योगप्रभावान्निजपरभवनस्वैरसञ्चारनीत्या
निष्क्रान्तः पूर्वदेहाद्विशति परवपुः पूर्वमाप्नोति भूयः ।
इत्थं स्वप्नेऽप्युदन्तस्थितिरिति कतिचिच्छ्वासवृत्त्या तथान्ये
चित्तोद्यद्धीप्रसृत्येतरतनुभजने सौभरिन्यायसिद्धेः ॥
विश्वास-प्रस्तुतिः - 8
- उक्तं पत्या प्रजानां भविनि दहरवत्सत्यसंकल्पताद्यं
पुत्रादेश्चैष कर्ता प्रकृत इह सृजेत्स्वाप्नमर्थञ्च मैवम् ।
मुक्तौ तादृग्गुणोक्तेरनभिमतसमुत्पादनादेरयोगात्
स्वाप्नानां सूचकत्वादपि निखिलजगत्कर्तुरेषापि सृष्टिः ॥
३४-तमाहोबिल-यतिः - 8
- उक्तमित्यादि । प्रजानां पत्या - प्रजापतिना । भविनि - संसारिणि जीवेऽपि । दहरवत् - दहराकाशशब्दितस्य परमात्मन इव । सत्यसङ्कल्पताद्यम् - सत्यसङ्कल्पत्वप्रभृतिगुणाष्टकम् । उक्तम् - ‘य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासितव्यस्स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच’ इति वाक्ये प्रतिपादितम् । एषः - स्वाप्नार्थस्रष्टा । पुत्रादेः कर्ता चेह प्रकृतः - ‘कामंकामं पुरुषो निर्मिमाणः’ इति वाक्येन ‘शतायुषः पुत्रपौत्रान् वृणीष्व’ इति पूर्वप्रकृतपुत्रपौत्रादिरूपकामनिर्मातृत्वेन चेह प्रस्तुतः । अतो जीव एव स्वाप्नमर्थञ्च सृजेत् - ‘अथ रथान् रथयोगान् पथः सृजते इत्यादौ रथादीनां जीवानुकूलवस्तूपलक्षणत्वात् पुत्रादिकर्तृत्वेन प्रकृतो जीव एव स्वाभीष्टं स्वाप्नमर्थं सृजेदित्यर्थः । मैवम् - एवं न शङ्कनीयम् । मुक्तौ तादृग्गुणोक्तेः - मुक्तिदशायामेव जीवस्यापहतपाप्मत्वादिगुणाष्टकाविर्भावस्योक्तेः । स्वप्नावस्थायामन्धप्रायो जीवः कथमपहतपाप्मत्वादिगुणाष्टकं प्राप्नुयात् । कथन्तरां तादृशस्य जीवस्य सङ्कल्पमात्रात् स्रष्टृत्वमित्यर्थः । किञ्च, अनभिमतसमुत्पादनादेरयोगात् - जीवस्यैव स्वाप्नार्थस्रष्टृत्वे स्वानभिमतानां स्वप्रतिकूलानां कृष्णदन्तभयङ्करपुरुषादीनामुत्पादनस्यायोगात् । नहि स्वानर्थभयदं वस्तु स्वयं सृजेदित्यर्थः । किञ्च स्वाप्नानां सूचकत्वादपि - स्वाप्नार्थानां भाविशुभाशुभसूचकत्वादपि हेतोः । यदि जीव एव स्रष्टा तदा अनर्थसूचकं न सृजेत् । अतः एषापि सृष्टिर्निखिलजगत्कर्तुः - एषा स्वाप्नार्थसृष्टिरपि निखिलजगत्स्रष्टुः परमात्मन एव । न तु जीवस्येति भावः । स्वाप्नार्थानां शुभाशुभसूचकत्वञ्च ‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात् तस्मिन्स्वप्ननिदर्शने ॥’ ‘अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’ इत्यादिश्रुतौ स्वप्नाध्याये चावगन्तव्यम् ॥
कुमार-वरदः - 8
- अत्र सङ्गतिर्भाष्ये ‘एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम् । इदानीमस्य स्वप्नावस्था परीक्ष्यते’ इति । तदर्थविचारस्तु - ‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’ इत्यारभ्य स्वाप्नसृष्टिराम्नायते, सा किं पारमार्थिकी, उत मायामात्रमिति । किं ‘सृजते स हि कर्ता’ इति निर्देशः पारमार्थिकतामवगमयति नेति । किमयं निर्देशस्सृष्टिकर्तुः कर्तृत्वपरः, उत स्वप्नज्ञानवत्कर्तृत्वपर इति । किं प्रजापतिवाक्यावगतसत्यसङ्कल्पत्वस्य जीवस्य स्वप्ने सङ्कल्पमात्रात् सृष्टिस्सम्भवति नेति । ‘य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाणः’ इति जीवस्य स्वप्ने सङ्कल्पमात्रात् स्रष्टृत्वमवगमयति नेति । किमिदं वाक्यं जीवपरमुत परमात्मपरमिति । अस्मिन् खल्वधिकरणे स्वप्नसृष्टिर्जीवकार्यमुत परमात्मकार्यमिति चिन्त्यते । अत्र पूर्वपक्षवादी मन्यते - उक्तमिति । उक्तं हि दहरवाक्यशेषभूते प्रजापतिवाक्ये प्रजानां पत्या सत्यसङ्कल्पताद्यं दहरवद् दहराकाशवज्जीवस्यापि । भविनीति सप्तमी । जीवे इत्यर्थः । तेन स्वसङ्कल्पात् सृष्टिस्स्वप्ने जीवस्यैव समुचिता । किञ्चात्र पुत्रादीनां सृज्यत्वमुच्यते । पुत्रादिसम्बन्धो जीवस्यैव सङ्घटते रथादीनां जीवानुकूलवस्तूपलक्षणत्वात् । तेन पुत्रादिकर्तृत्वेन प्रकृतो जीवस्स्वाभीष्टं स्वाप्नमर्थं सृजेदित्यर्थः । इममर्थं प्रतिक्षिपति - मैवमिति । तत्र हेतुमाह - मुक्ताविति । तादृग्गुणोक्तेः - जीवस्यापहतपाप्मत्वादिगुणाष्टकाविर्भावस्योक्तेः स्वप्नावस्थायामन्धप्रायो जीवः कथमपहतपाप्मत्वादिगुणाष्टकं प्राप्नुयादित्यर्थः । हेत्वन्तरमप्याह - अनभिमतेति । यदि जीवस्स्वयमेव स्वार्थं स्वप्ने सृजति तदानीं नियतमेवानुकूलं सृजेत् । सुप्तः खलु कदाचित्प्रतिकूलानपि स्वप्ने पश्यति । तन्न युज्यते सत्यसङ्कल्पत्वे जीवस्य स्वप्रतिकूलं स्वयमेव कथं सृजेदिति । तृतीयमपि हेत्वन्तरमाह - स्वाप्नानां सूचकत्वादिति । शुक्लानि सर्वाणि शुभावहानीत्येवं स्वप्नेऽपीश्वरसङ्कल्पेन स्वयमागतानि शुक्लादीनि शुभाशुभसूचकानीति प्रतिपत्तव्यमित्यर्थः । तस्मादीश्वरस्रष्टृत्वमेव स्वप्नप्रपञ्चस्य । तदिदमाह - निखिलजगदिति ॥
मूलम् - 8
- उक्तं पत्या प्रजानां भविनि दहरवत्सत्यसंकल्पताद्यं
पुत्रादेश्चैष कर्ता प्रकृत इह सृजेत्स्वाप्नमर्थञ्च मैवम् ।
मुक्तौ तादृग्गुणोक्तेरनभिमतसमुत्पादनादेरयोगात्
स्वाप्नानां सूचकत्वादपि निखिलजगत्कर्तुरेषापि सृष्टिः ॥
विश्वास-प्रस्तुतिः - 9
- कामङ्कामं विधातेत्यपि णमुलुचितोऽनूद्यते चेश इत्थं
सोऽयं सुप्तेषु जागर्त्यपि विशदमिदं सम्परिष्वङ्गवाक्यात् ।
तत्तत्कालावसानाः कतिकति नियता जागरेऽप्यर्थभेदाः
तत्तत्कर्मानुरूपं फलवितरणमित्येतदप्युक्तमाप्तैः ॥
३४-तमाहोबिल-यतिः - 9
- कामंकाममित्यादि । कामंकामं विधातेत्यपि - ‘कामंकामं पुरुषो निर्मिमाणः’ इति वाक्ये कामंकाममित्यत्र । णमुल् उचितः - णमुल्प्रत्यय एव युक्तः न त्विच्छाविषयवाचकद्वितीयान्तपदत्वम् । जीवस्यासत्यसङ्कल्पस्य कर्तृत्वायोगात् भगवतस्सङ्कल्पमात्रेण स्रष्टृत्वाभिधानार्थं णमुल्प्रत्ययान्तत्वमेव कामशब्दयोरुचितमित्यर्थः । कामंकामं सङ्कल्प्य सङ्कल्प्येत्यर्थः । इत्थञ्च ईशोऽनूद्यते - तथा च सतीश्वर एवानूद्यते । सोऽयं सुप्तेषु जागर्ति - सोऽयं परमात्मा सुप्तेषु जीवेषु जागर्ति । तेन तस्यैवाश्चर्यरूपकार्यकरणे कर्तृत्वं युज्यत इत्यर्थः । ‘य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाणः’ इति श्रुतेरिति भावः । इदम् - ईश्वरस्य जागरणम् । सम्परिष्वङ्गवाक्यादपि विशदम् - ‘प्राज्ञेनात्मना संपरिष्वक्तः’ इति वाक्यादपि स्फुटम् । ‘प्राज्ञेन’ इति श्रवणादिति भावः । जागरेऽपि - न केवलं स्वप्न एव अपि तर्हि जागरेऽपीत्यर्थः । तत्तत्कालावसानाः - तत्तत्काले उत्पत्तिकाले एव अवसानं नाशो येषां ते तत्तत्कालावसानाः । अर्थभेदाः - पदार्थविशेषाः । निमेषोन्मेषविद्युदादयः । कतिकति - अनेके । नियताः - नित्योपलब्धाः । तत्तकर्मानुरूपं फलवितरणमिति - स्वप्नदर्शनं हि सुखदुःखात्मकत्वात् कर्मफलम्, कर्म चेश्वरसङ्कल्पविशेष इति ईश्वरायत्तत्वमेव स्वाप्नार्थजातस्य, पापी हि पापानुरूपं स्वप्नं पश्यति, धर्मोत्तरस्तु तदनुरूपमिति । एतदप्युक्तमाप्तैरिति - अयमभिप्रायः - कस्यचित् क्वापि काले शुभप्राप्तिरितरस्य पुनरशुभप्राप्तिरिति निमित्तसामुद्रिकतत्तद्ग्रहसञ्चारादिना विद्वद्भिरभिधीयते, प्रतिबन्धादिना यदि तन्न स्यात्, तत् स्वप्नेऽपि न प्राप्यत इति तैरेवाभिधीयते, अतोऽपि कर्मफलत्वं सिद्धं स्वाप्नस्य सुखदुःखादेः ॥
कुमार-वरदः - 9
- अत्र ‘कामङ्कामं पुरुषो निर्मिमाणः’ इति विषयवाक्ये किं णमुल्प्रत्ययेनाभिधानम् ? किं वा कामंकाममिति कर्मभूतविषयविशेषाभिधानम्? इत्याशङ्क्य भगवतस्सत्यसङ्कल्पस्य स्रष्टृत्वाभिधानार्थं णमुलेव समुचित इत्याह - कामंकाममिति । जीवस्यासत्यसङ्कल्पस्य कर्तृत्वायोगात् । तथा च सतीश्वर एवानूद्यते । अयं च परमात्मा सुप्तेषु पुरुषेषु जागर्ति । तेन तस्याश्चर्यरूपकार्यकरणे कर्तृत्वं युज्यत इत्यर्थः । तस्य जागरणञ्च श्रुतिसिद्धमित्याह - विशदमिति । ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ इति हि श्रूयते । ननु जागरवत् स्वप्नस्यापि परमार्थसृष्टिरूपत्वे कथं तत्तत्कालावसायित्वम्? कथं वा तत्तदेकैकपुरुषमात्रानुभाव्यत्वं? इत्याशङ्क्य निरङ्कुशस्वतन्त्रेश्वरसङ्कल्पविशेषादित्यभिप्रायेण परिहरति - तत्तदिति । न केवलं स्वप्न एव तत्तत्कालावसानकार्यसृष्टिः, अपितु जागरेऽपि मेघोदयादीनां तादृक्त्वेनोपलम्भो दृश्यते । ननु तथाप्येकपुरुषानुभाव्यत्वं न दृश्यत इति चेत् तदपीश्वरसङ्कल्पादिति मन्तव्यम् । दृश्यन्ते हि मन्त्रौषधसिद्धाञ्जनादिप्रभावात् तत्तत्पुरुषमात्रानुभाव्या विषयविशेषाः । अपर्यनुयोज्यः खल्वीश्वरप्रभावविशेषः । (विश्वामित्रादयोऽपि!)
सङ्कल्पमात्राद्विश्वं सृजति अनुग्रहमात्रादेव द्रष्टव्यमपि दर्शयति । अत एवोच्यते ‘दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्’ इति । स्वप्नदर्शनस्य ईश्वरसृज्यत्वे हेत्वन्तरमप्याह - तत्तत्कर्मानुरूपं फलवितरणमिति । स्वप्नदर्शनं हि सुखदुःखात्मकत्वात्कर्मफलं, कर्म चेश्वरसङ्कल्पविशेष इतीश्वरायत्तत्वमेव स्वाप्नस्यार्थजातस्य । पापी हि पापानुरूपं स्वप्नं पश्यति, धर्मोत्तरस्तु तदनुरूपमिति महानयं मार्गस्सर्वैरप्यनतिलङ्घनीय एव । एतदप्युक्तमाप्तैरिति - अयमभिप्रायः । कस्यचित्क्वापि काले शुभप्राप्तिरितरस्य पुनरशुभप्राप्तिरिति निमित्तसामुद्रिकतत्तद्ग्रहसञ्चारादिना विद्वद्भिरभिधीयते, प्रतिबन्धादिना यदि तन्न स्यात् तत्स्वप्नेऽपि न प्राप्यत इति तैरेवाभिधीयते, अतोऽपि कर्मफलत्वं सिद्धं स्वाप्नस्य सुखदुःखादेरिति ॥
मूलम् - 9
- कामङ्कामं विधातेत्यपि णमुलुचितोऽनूद्यते चेश इत्थं
सोऽयं सुप्तेषु जागर्त्यपि विशदमिदं सम्परिष्वङ्गवाक्यात् ।
तत्तत्कालावसानाः कतिकति नियता जागरेऽप्यर्थभेदाः
तत्तत्कर्मानुरूपं फलवितरणमित्येतदप्युक्तमाप्तैः ॥
विश्वास-प्रस्तुतिः - 10
- मायामात्रोक्तिलाभाच्छ्रुतिमुखसुगता विश्वमिथ्यात्वमाहुः
शास्त्रारम्भे तदेभिः कथितमिह ततोऽसङ्गतत्वादिदुस्स्थम् ।
मायाशब्दो न मिथ्यावचन उपचरत्वन्ततः किं ततस्स्यात्
सत्येऽस्त्रादौ प्रयोगादुचितनियमने सोऽयमाश्चर्यतार्थः ॥
३४-तमाहोबिल-यतिः - 10
- मायामात्रोक्तिलाभादित्यादि । श्रुतिमुखसुगताः - श्रुतिश्श्रुतिवर्णमात्रं मुखेषु येषां ते श्रुतिमुखास्तेच ते सुगताः पदार्थाङ्गीकारक्रमेण तु बौद्धा मायावादिनः । मायामात्रोक्तिलाभात् – मायामात्रपदस्य ‘मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्’ इति सूत्रे लाभात् । सूत्रे मायामात्रपदस्य प्रयोगमात्रमवलम्ब्येत्यर्थः । विश्वमिथ्यात्वमाहुः - जगतो मिथ्यात्वमूचुः । तत् - प्रपञ्चमिथ्यात्वम् । एभिः - मायिभिः । शास्त्रारम्भे - शास्त्रारम्भभूतजिज्ञासाधिकरणादौ । कथितम् - सूत्रविवक्षितत्वेनाध्यासभाष्यादौ सूत्रव्याख्यानावसरे च प्रतिपादितम् । ततः - तस्मात् । पूर्वमेवोक्तत्वादित्यर्थः । इह - अस्मिन्प्रकरणे पुनरुक्तौ । असङ्गतत्वादिदुस्स्थम् - जीवावस्थाविशेषप्रतिपादनप्रकरणे जगन्मिथ्यात्वकथनस्याङ्गतत्वात् स एको दोषः, आदिशब्देन पुनरुक्तिः, एवमादिभिः दुस्स्थम् - अप्रतिष्ठितम् । अयुक्तमिति यावत् । मायाशब्दो मिथ्यावचनो न - मिथ्यार्थाभिधायको न भवति । लोके मायाशब्दो मिथ्यावचन इत्याभिधानिकपाठाभावादिति भावः । अन्ततः - प्रयोगप्राचुर्यान्यथासिद्ध्यनन्यथासिद्ध्यादियुक्तिविचारे भवतामवलम्बाभावात् यथाकथञ्चित् क्वाचित्कप्रयोगनिमित्तकथनमात्रसमये । उपचरतु - मिथ्यार्थे उपचारेण प्रवर्तताम् । नह्यौपचारिकः प्रयोगश्शब्दस्य शक्तिविशेषं नियमयतीति भावः । इदमेवोच्यते किं ततस्स्यात् - औपचारिकक्वाचित्कप्रयोगमात्रेण किं साध्यते । सत्येऽस्त्रादौ प्रयोगात् - ‘तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमैकैकश्येन सूदितम् ॥’ इत्यादौ सत्यभूत एवास्त्रादौ प्रयोगात् । मिथ्यात्वस्य प्रयोगनिमित्तत्वे तदनिर्वाहादिति भावः । सोऽयम् - मायाशब्दः । उचितनियमने - उचितं नियमनं सर्वप्रयोगविषयानुगतप्रवृत्तिनिमित्तनिष्कर्षणं तस्मिन् क्रियमाणे । आश्चर्यतार्थः - आश्चर्यता आश्चर्यकरत्वम् अर्थः प्रवृत्तिनिमित्तं यस्य स आश्चर्यतार्थः । अतस्सूत्रस्थमायामात्रशब्द आश्चर्यभूतसृष्टिविशेषवाचक इति भावः ॥
कुमार-वरदः - 10
- अत्र ‘मायामात्रन्तु कार्त्स्न्येन’ इति सूत्रे मायाशब्दप्रयोगमात्रमवलम्ब्य श्रुतिमुखसुगता वेदवादच्छद्मबौद्धा मृषावादिनो विश्वमिथ्यात्वमाहुः । तन्मतं दूषयति - मायेति । तत् प्रपञ्चमिथ्यात्वं तैश्शास्त्रारम्भे कथितमिति पुनरत्राभिधाने पौनरुक्त्यमसङ्गतत्वञ्च । तेनेश्वरविचित्रसृष्टिस्स्वप्नप्रपञ्च इत्येतदेवात्रोच्यते नपुनर्विश्वमिथ्यात्वम् । मायाशब्दमात्रावलम्बनेनैव हि मृषावादिनामिदमभिधानम्, तदपि तेषामनालम्बनमित्याह - मायाशब्द इति । न हि लोके मायाशब्दो मिथ्यावचन इत्याभिधानिकाः पठन्ति । ‘माया तु वयुनं ज्ञानम्’ इति हि नैघण्टुका ज्ञानविशेष एव मायाशब्दं प्रयुञ्जते । ‘इन्द्रो मायाभिः पुरुरूप ईयते’ इत्यादावीश्वरस्सङ्कल्पविशेषैर्नानारूपोऽनुभूयत इति ह्युच्यते । आह च पराशरः - ‘अनेकशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया ॥ जगतामुपकाराय न सा कर्मनिमित्तजा ॥ इति । लीलेति स्वसङ्कल्प एवोच्यते । स च सङ्कल्पो ज्ञानञ्च माया, अतो न मायाशब्दो मिथ्यावाची, अपित्वाश्चर्यसृष्टिवाची, यद्वा तत्सृष्टिहेतुभूतशक्तिविशेषवाची, अथवा तत्तत्सृष्टिनिदाननिमित्तभूतसङ्कल्पविशेषवाची । दृश्यन्ते हि प्रयोगाः ‘देवमायेव निर्मिता’ इति । मिथ्यात्वे हि कल्पितेति व्यपदिश्येत । अन्यदपि । ‘तेन मायासहस्रं तत् शम्बरस्याशुगामिना । बालस्य रक्षता देहमैकैकश्येन सूदितम् ॥ इति । अत्र हि सूदितमिति नाश्यत्वमेवोच्यते । नाशो हि परमार्थसतः प्रध्वंसः । अन्यथा बाध्यत्वमेवोच्येत । बाधो हि प्रतिपन्नोपाधौ निषेध्यत्वमिति मृषावादिनो वदन्ति । ‘मायां तु प्रकृतिं विद्यात्’ इति मायाशब्दस्य मिथ्यार्थत्वव्यावृत्त्यर्थं हि प्रकृतिं विद्यादित्युच्यते । अत एव ‘मायामृगो हतः’ इत्यत्र मारीचस्य प्रध्वंस एव वर्ण्यते । मेघनादमायादिष्वपि मन्त्रविशेषसाध्यपरमार्थसर्पाणामेव मायेति व्यवहारः । कथमन्यथा गरुडप्रभावविशेषैर्निराकरणीयत्वं युज्यते? किञ्च सर्वलोकप्रसिद्धोऽयं व्यवहारः । सामभेददानदण्डमायेन्द्रजालोपेक्षा इति सप्तोपाया नीतिशास्त्रेषु निर्दिश्यन्ते । तत्र मायेन्द्रजालयोर्वैषम्यमुच्यते । मन्त्रादिशक्तिविशेषात् परमार्थसर्पादिसृष्टिर्माया । तस्मादेव मन्त्रादिशक्तिविशेषादपरमार्थगजतुरगरथपादातादि प्रदर्शनेन परकटकभञ्जनमिन्द्रजालफलमिति । एवमन्यत्राप्युदाहरणानि द्रष्टव्यानि । अथापि पुराणेषु पामरप्रयोगेषु च मिथ्याविषयेऽपि मायाशब्दः प्रयुज्यत इत्याशङ्क्योत्तरमाह - उपचरत्विति । न ह्यौपचारिकः प्रयोगश्शब्दस्य शक्तिविशेषं नियमयतीत्यर्थः । तदिदमाह - किं तत इति । प्रयोगप्राचुर्यमितिहासपुराणादिष्वपि प्राचुर्येण सत्यभूत एवासुरराक्षसास्त्रादावेव दृश्यत इत्याह - सत्य इति । ‘मेघोदयस्सागरसंनिवृत्तिः’ इत्युपक्रम्य ‘विष्णोर्विचित्राः प्रभवन्ति मायाः’ इति पुराणेष्वपि पठ्यते । तर्हि कृत्स्नस्यापि कार्यस्य मायाशब्दवाच्यत्वे किं नियामकमित्याशङ्क्याह - उचितनियमन इति । अयमर्थः - आश्चर्यरूपकार्यविशेषो मायेत्युच्यते, इन्द्रजाले मायाशब्दाभिधानमाश्चर्यरूपत्वाविशेषादौपचारिकमिति मायेन्द्रजालयोर्विभागः । ‘देवी ह्येषा गुणमयी मम माया दुरत्यया’ इति वचनं त्रिगुणस्यैव विचित्रप्रपञ्चसृष्टिहेतोर्मायाशब्दवाच्यत्वं व्यक्तमेव स्थापयति ॥
मूलम् - 10
- मायामात्रोक्तिलाभाच्छ्रुतिमुखसुगता विश्वमिथ्यात्वमाहुः
शास्त्रारम्भे तदेभिः कथितमिह ततोऽसङ्गतत्वादिदुस्स्थम् ।
मायाशब्दो न मिथ्यावचन उपचरत्वन्ततः किं ततस्स्यात्
सत्येऽस्त्रादौ प्रयोगादुचितनियमने सोऽयमाश्चर्यतार्थः ॥