06 अन्याधिष्ठिताधिकरणम्

विश्वास-प्रस्तुतिः - 15
  1. जन्म व्रीह्यादिनाम्ना श्रुतमिह तदिदं देवमर्त्यत्ववत्स्यात्
    नैरात्म्यं स्थावराणां नच निगमविदस्स्थापयन्तीति चेन्न ।
    पुण्यस्यैव प्रवृत्ते फलपरिगणने स्थावरत्वोक्त्त्ययोगात्
    रेतस्सिग्वर्ष्मणीव ह्युपचरति जनिं स्थावरेऽप्यन्यदेहे ॥
३४-तमाहोबिल-यतिः - 15
  1. जन्मेत्यादि । इह - प्रकरणे । व्रीह्यादिनाम्ना जन्म श्रुतम् - “त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते” इति व्रीह्यादिभावेन जन्म श्रुतम् । तदिदम् - व्रीह्यादिभावेन जननम् । देवमर्त्यत्ववत् स्यात् - देवत्वेन मनुष्यत्वेन जननवत् व्रीह्यादिरूपेण जन्मास्तु । निगमविदः - वेदान्तिनः । स्थावराणां नैरात्म्यम् - आत्मानो निर्गता निरात्मानः, आत्मशून्या इत्यर्थः । तेषां भावो नैरात्म्यम् । केवलाचिन्मात्रत्वमित्यर्थः । नच स्थापयन्ति - नाङ्गीकुर्वन्ति । इति चेन्न - इति शङ्क्यते चेत्तन्न युक्तम् । पुण्यस्यैव फलपरिगणने प्रवृत्ते स्थावरत्वोक्त्ययोगात् - अस्यां पञ्चाग्निविद्यायामिष्टापूर्तादिकर्मकारिणां पुण्यस्यैव फलपरिगणने प्राधान्येन प्रवृत्ते मध्ये “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः” इति शारीरपापकर्मफलभूतस्थावरत्वकथनस्यायुक्तत्वात् । अतो रेतस्सिग्वर्ष्मणीव - पितृशरीर इव । अन्यदेहे - आत्मान्तरदेहभूते । स्थावरेऽपि - व्रीह्यादिस्थावराचिद्विशेषे । जनिमुपचरति हि - जन्माभिनयति । नतु तथा तथा वास्तवं जन्म प्राप्नोतीत्यर्थः ॥
कुमार-वरदः - 15
  1. भाष्य एव सङ्गतिर्व्यक्ता “अवरोहन्तो जीवा व्रीह्यादिभावेन जायन्त इति श्रूयते मेघो भूत्वा प्रवर्षति ‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा जायन्ते’ इति । ते किमन्यैर्भोक्तृभिर्व्रीह्यादिशरीरैरधिष्ठितान् व्रीह्यादीनाश्लिष्यन्ति, उत ते भोक्तारो व्रीह्यादिशरीरा जायन्त इति विशये जायन्त इति वचनाद्देवो जायते मनुष्यो जायत इतिवद्व्रीह्यादिशरीरा एवेति प्राप्ते उच्यते” इति । तदर्थविचारस्तु - अवरोहतो जीवान्प्रति ‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा जायन्ते’ इति श्रुतिः किमन्यभोक्तृशरीरभूतव्रीह्यादिशरीरा जायन्त इति गमयति नेति । जायन्त इति वचनं किं देवो जायते मनुष्यो जायत इतिवदुत्पत्तिपरमुत सम्बन्धमात्रपरमिति ।जायन्त इति श्रवणस्य ‘कपूयचरणाः’ इत्यादिवत् कर्मसम्बन्धाभावस्संश्लेषमात्रपरतामवगमयति नेति । अत्र पूर्वपक्षी मन्यते - जन्मेति । व्रीह्यादिभावेन जायन्त इति ह्यत्र जन्मैव श्रूयते । अत इदं जन्म देवत्वमर्त्यत्ववत्स्यात् । ननु स्थावराणां नैरात्म्यमेव । तेन कथं स्थावरभावेन जीवस्य जन्मेति कश्चिदाह । तदिदं वेदान्तबहिष्ठस्य वचनमित्याह - नैरात्म्यमिति । इमं पूर्वपक्षं निराकरोति - नेति । तदेव विवृणोति - पुण्यस्येति । पञ्चाग्निविद्यायां हीष्टापूर्तादिकर्मकारिणां पुण्यफलमभिधीयते । एवं प्राधान्येन पुण्यफलाभिधानप्रसङ्गे ‘शरीरजैः कर्मदोषैर्याति स्थावरतां नरः’ इति स्थावरजन्मप्राप्तिरूपं पापफलमभिधीयत इति न युक्तमेतत् । तर्हि ‘जायन्ते’ इति साक्षाज्जननं कथमभिधीयत इत्याशङ्क्यान्याधिष्ठिते पितृशरीरे यथा जनिवचनं तथान्याधिष्ठते व्रीह्यादिशरीरेऽपि जनिवचनमवरोहतो जीवस्य औपचारिकमिति न कश्चिद्विरोधः ॥
मूलम् - 15
  1. जन्म व्रीह्यादिनाम्ना श्रुतमिह तदिदं देवमर्त्यत्ववत्स्यात्
    नैरात्म्यं स्थावराणां नच निगमविदस्स्थापयन्तीति चेन्न ।
    पुण्यस्यैव प्रवृत्ते फलपरिगणने स्थावरत्वोक्त्त्ययोगात्
    रेतस्सिग्वर्ष्मणीव ह्युपचरति जनिं स्थावरेऽप्यन्यदेहे ॥
विश्वास-प्रस्तुतिः - 16
  1. हिंसायोगादशुद्धं श्रुतिविहितमपि न्याय्यमिष्टादिकं तत्-
    पापांशं व्रीहिभावप्रभृतिषु सुकृती भुङ्क्त इत्यप्ययुक्तम् ।
    उक्ता मन्त्रार्थवादैः पशुहितमिति सा तच्चिकित्सावदेषां
    ब्रूते यज्ञे वधोऽसाववध इति मनुस्स्तौति निन्दा त्विहान्यत् ॥
३४-तमाहोबिल-यतिः - 16
  1. हिंसायोगादित्यादि । इष्टादिकं श्रुतिविहितमपि । हिंसायोगात् - पश्वालम्भनरूपहिंसासम्पातात् । अशुद्धम् - पापमिश्रमिति । न्याय्यम् - हिंसायाः पापत्वं सर्वन्यायवित्सम्मतमित्यर्थः । अतः सुकृती - यागादिकर्ता पुरुषः । व्रीहिभावप्रभृतिषु - व्रीहिभावयवतिलादिभावरूपजन्मसु । तत्पापांशम् - यागादिसुकृतसम्बन्धि पापांशम् । भुङ्क्ते - अनुभवति, इत्यपि - एवं कल्पनमपि । अयुक्तम् । एषाम् - पशूनाम् । सा - हिंसा । तच्चिकित्सावत् - तस्यैव पशोर्व्रणादिसम्भवे तत्प्रतिक्रियारूपशस्त्रच्छेदनक्षाराग्निकर्मादिवत् । पशुहितमिति - पशोरुत्तरकालिकमहासुखहेतुस्तदानीं किञ्चिद्दुःखप्रदमप्यालम्भनमिति । मन्त्रार्थवादैरुक्ता - ‘न वा उ एतन्म्रियसे न रिष्यसि’ इत्यादिमन्त्रैः ‘हिरण्यशरीर ऊर्ध्वं स्वर्गं लोकमेति’ इत्यादिभिरर्थवादैश्च प्रतिपादिता । मनुः - ‘यद्वै किञ्च मनुरवदत्तद्भेषजम्’ इत्युक्तवचनप्रामाण्यशाली मनुः । यज्ञेऽसौ वधः - पशुवधः । अवध इति ब्रूते - वध एव न भवतीति वदति । हिंसात्वमेव नास्तीत्यर्थः । इह - यागादिविषये । निन्दा तु अन्यत् स्तौति - ज्ञानस्तुत्यर्था यागादिकर्मनिन्दा । ‘नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते, अपि तु निन्दितादितरत् प्रशंसितुमि’ति न्यायविद इति भावः ॥
कुमार-वरदः - 16
  1. अत्र कश्चिच्चोदयति - ‘दृष्टवदानुश्रविकस्स ह्यविशुद्धिक्षयातिशययुक्तः’ इति साङ्ख्या हिंसायोगादंशेनाविशुद्धत्वं यज्ञादीनां वदन्ति । तेन पुण्यांशफलं स्वर्गादि पापांशफलं तु व्रीह्यादिभावः, अतः पुण्यफलप्रसङ्गेऽपि पापफलाभिधानं युक्तमेवेति । तदेतदनुवदति - हिंसेति । पश्वालम्भादिरूपहिंसायोगादशुद्धं श्रुतिविहितमपीष्टादिकं तदिति न्याय्यम् । अतः सुकृती व्रीह्यादिभावप्रभृतिषु पापांशं भुङ्क्त इति । अनूदितमर्थं प्रतिक्षिपति - अयुक्तमिति । तत्र हेतुमाह - उक्तेति । मन्त्रैरर्थवादैश्च पशुहितमित्येव खल्वेषा हिंसोक्ता । ‘न वा उ एतन्म्रियसे’ इत्यादिर्मन्त्रः । अर्थवादोऽपि ‘हिरण्यशरीर ऊर्ध्वं स्वर्गं लोकमेति’ इति । ननु श्रुतिरपि योग्यमेवार्थं ब्रूयात् । दुःखजननरूपस्य संज्ञपनस्य कथं पशुहितत्वमित्याशङ्क्य दृष्टान्तेनोपपादयति - तच्चिकित्सावदिति । लोके हि अधिकसुखप्राप्तिहेतुभूतमल्पदुःखात्मकं शस्त्रलवणक्षाराग्निकर्मादिकं हितमित्येवाभिधीयते, तद्वदित्यर्थः । ननु तर्हि बन्धुवधोऽपि हितस्स्यादित्याशङ्क्य हिताहितविभागश्शास्त्रैकसमधिगम्य इत्यभिप्रायेणाह - ब्रूत इति । ‘यद्वै किञ्च मनुरवदत्तद्भेषजम्’ इत्युक्तवचनप्रामाण्यशाली भगवान्मनुर्यज्ञे वधस्य वधत्वमेव नास्तीत्याह । हिंसात्वं नास्तीत्यर्थः । अशास्त्रीयमार्गेण प्राणवियोजने हिंसात्वं प्रसज्यते । यथा राज्ञां युद्धे शस्त्रुवधो न हिंसा । यथा वा चोरवधः । तस्यैव सर्वत्र विषयभेदेन हि पुण्यापुण्यव्यवस्था । आत्महननमपि क्वचित्पुण्यकोटिमाटीकते ‘ब्राह्मणार्थे गवार्थे वा सम्यक्प्राणान्परित्यजेत्’ । तेन न यज्ञादिषु हिंसा, न च तत्फलानुभवः, नापि विधिस्पृष्टो दोषः, नापि हिंसकत्वं वैदिकानामिति रमणीयमेतत् । ननु ज्ञानप्रसङ्गेष्वितिहासपुराणेषु क्वचित् क्वचित् कर्मनिन्दा दृश्यते तत्कथमित्याशङ्क्याह - स्तौतीति । नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपितु निन्दितादितरत् प्रशंसितुमिति न्यायेन तत्रतत्र विवक्षितज्ञानादिप्रशंसार्थैव कर्मनिन्दा । नचात्यन्तमवश्यकर्तव्यकर्मनिन्दा, अध्यात्मशास्त्रेषु फलसङ्गकर्तृत्वादिनिन्दायामेव तत्र तात्पर्यात् । तात्पर्ये हि शब्दः प्रमाणमिति हि तान्त्रिकाः । अन्यथा ‘कर्मण्यकर्म यः पश्येत्’ इत्यादिकं सकलमपि गीताशास्त्रं लोलुप्येतेति ॥
मूलम् - 16
  1. हिंसायोगादशुद्धं श्रुतिविहितमपि न्याय्यमिष्टादिकं तत्-
    पापांशं व्रीहिभावप्रभृतिषु सुकृती भुङ्क्त इत्यप्ययुक्तम् ।
    उक्ता मन्त्रार्थवादैः पशुहितमिति सा तच्चिकित्सावदेषां
    ब्रूते यज्ञे वधोऽसाववध इति मनुस्स्तौति निन्दा त्विहान्यत् ॥
विश्वास-प्रस्तुतिः - 17
  1. कर्तुर्दोषं दिशेत् संज्ञपनमिह पशोस्तत्क्रतोश्चोपकुर्यात्
    तस्मादस्मिन्निषेधं क्षिपति न विधिरित्यब्रुवन् सांख्यभक्ताः ।
    निर्धूते पश्वनर्थे न खलु तदुचितं पिष्टपश्वादिकल्पः
    तत्तत्कालाधिकारिप्रतिनियत इति क्वापि न स्याद्विरोधः ॥
३४-तमाहोबिल-यतिः - 17
  1. कर्तुरित्यादि । इह पशोः संज्ञपनम् - पशोरालम्भनम् । कर्तुर्दोषम् - कालान्तरानुभाव्यदुःखहेतुपापम् । दिशेत् - आपादयेत् । तत् - पशुसंज्ञपनमेव । क्रतोश्चोपकुर्यात् - यागस्याप्युपकारकं भवेत् । तस्मात् - पश्वालम्भनस्य पापहेतुत्वक्रतूपकारकत्वयोर्द्वयोरपि प्रामाणिकत्वात् । विधिः - अग्नीषोमीयं पशुमालभेत इति विधिः । अस्मिन् - पश्वालम्भने । निषेधं न क्षिपति - न वारयति । इति सांख्यभक्ताः अब्रुवन् । पश्वनर्थे निर्धूते - पशोः पापिष्ठक्षुद्रशरीरसम्बन्धात्मकानिष्टहेतौ तदालम्भनेन निवारिते सति । तत् - आलम्भनस्य पापांशवत्त्ववचनम् । उचितं न खलु - अनर्थवारकश्चिकित्सादिः पापमिति न युक्तमित्यर्थः । पिष्टपश्वादिकल्पः - पिष्टमयपशुना यागकरणादिरूपो भारतादौ प्रसिद्धः पक्षः । तत्तत्कालाधिकारिप्रतिनियतः - कृतादिकालविशेषे शुद्धयाजिप्रभृतिष्वधिकारिषु व्यवस्थितः । इति क्वापि विरोधो न स्यात् - अन्यथा विरोधस्स्यादिति भावः ॥
कुमार-वरदः - 17
  1. अत्र कश्चिदाह - किमनेन कथञ्चित्समाधानेन । साङ्ख्याः खलु तत्त्वविदग्रगण्याः संज्ञपनं दोषमाहुः । अन्यथा कथं पुराणादिभिः पिष्टपशूपादानादिप्रसङ्ग उच्यत इति । इत्थं खलु साङ्ख्यानामभिप्रायः - ‘न हिंस्यात्’ इति निषेधो रागप्राप्तहिंसाविषयः । ‘आलभेत’ इति वैधहिंसा विधिप्राप्ता । विधिनिषेधयोर्विरोधे विहितव्यतिरिक्तविषयो निषेध इति विषयभेदेन विधिनिषेधव्यवस्था कर्तव्येति मीमांसका वदन्ति । तन्न युज्यते, विरोधे सत्येव हि विषयभेदेन व्यवस्था कार्या । स एवात्र न विद्यते । संज्ञपनविधिर्हि पश्वालम्भनेन क्रतुसाद्गुण्यमाह । ‘न हिंस्यात्’ इति निषेधो हिंसायाः पापहेतुत्वम् । एकमेव कर्म विधिनिषेधाभ्यामुभयमपि सुखदुःखात्मकं कार्यं करोतीति को विरोधः । तेन सविषान्नभक्षणन्यायेन हिताहितरूपं यज्ञादिकमिति । तदनुवदति - कर्तुरिति । सांख्यभक्ता इति परिहासवचनम् । उक्तेऽपि युक्ते मार्गे पुनःपुनः परिचोदकः केवलं भक्त्यैव साङ्ख्यसिद्धान्तप्रक्रियां प्रलपतीत्यर्थः । अयमत्र निर्णयः - अहितत्वप्रसङ्गमेव निवारयितुं सयुक्तिके मन्त्रे चार्थवादे च जाग्रति महाजनपरिग्रहादालम्भनविधिवचनप्रामाण्ये च तिष्ठति कथं सांख्यः पापसङ्करं प्रवदेदिति । तदिदमाह - निर्धूत इति । कथं तर्हि पुराणेतिहासादिषु पिष्टपश्वादिकल्पनं कथ्यत इत्याशङ्क्य तदपि कालविषेशनियतधर्मविशेषत्वान्न विरुध्यत इत्याह - पिष्टेति । यथा घटिकाव्यवस्थादिविशेषाद्धर्मव्यवस्था धार्मिकैरेव परिगृह्यते, एवमिहापीति न कश्चिद्विरोधः ॥
मूलम् - 17
  1. कर्तुर्दोषं दिशेत् संज्ञपनमिह पशोस्तत्क्रतोश्चोपकुर्यात्
    तस्मादस्मिन्निषेधं क्षिपति न विधिरित्यब्रुवन् सांख्यभक्ताः ।
    निर्धूते पश्वनर्थे न खलु तदुचितं पिष्टपश्वादिकल्पः
    तत्तत्कालाधिकारिप्रतिनियत इति क्वापि न स्याद्विरोधः ॥
विश्वास-प्रस्तुतिः - 18
  1. किञ्चोत्सर्गापवादक्रममिह जहतः कीदृशी नित्यहिंसा
    शुद्धं न क्वापि सिध्येत् तव हि विधिपदं स्पृष्टतत्तन्निषेधम् ।
    यत्रासत्यादि वैधं तदनु च विहिता निष्कृतिस्तन्निमित्ता
    तत्रागत्या तथा स्यादितरवदथवा केवलं तन्निमित्तम् ॥
३४-तमाहोबिल-यतिः - 18
  1. किञ्चेत्यादि । किञ्च - दोषान्तरमप्यस्तीत्यर्थः । इह - पश्वालम्भनविषये । उत्सर्गापवादक्रमं जहतस्तव - ‘न हिंस्यात्’ इति सामान्येन हिंसानिषेधः, ‘अग्नीषोमीयं पशुमालभेत’ इति हिंसाविशेषस्य कर्तव्यताबोधनम्, तत्र करणाकरणविरोधे सति औत्सर्गिकस्य निषेधस्य हिंसाविशेषविषये सङ्कोच इत्युत्सर्गापवादन्यायक्रमस्तं परित्यजतस्तवेत्यर्थः । नित्यहिंसा कीदृशी - पापांशराहित्येन शुद्धतया विहिता हिंसा का भविष्यतीत्यर्थः । सर्वस्या अपि हिंसायाः पापांशसम्भवादिति भावः । हि - यस्मात् । विधिपदम् - विधिविषयभूतं सर्वमपि कर्म । स्पृष्टतत्तन्निषेधम् - स्पृष्टस्तत्तन्निषेधो येन, तादृशम् । पञ्चमहायज्ञानुष्ठानस्याग्निहोत्रादेश्च व्रीहियवतिलपयःप्रभृतिसापेक्षत्वात् व्रीह्यादिहिंसागर्भत्वेन तेष्वपि निषेधस्पर्शसम्भव इति भावः । अतस्तव शुद्धं क्वापि न सिध्येत् - केवलपुण्यात्मकं कर्म क्वापि वेदभागे न सिध्येत् । तर्हि भवदुक्तप्रक्रिययोत्सर्गापवादक्रमविषयाङ्गीकारेऽपि क्वचिद्विवाहादिविषये प्रथममसत्यवचनविधिः, पश्चात् तत्प्रायश्चित्तविधिश्च दृश्यते, तत्र हि कर्मणः पुण्यपापात्मकत्वमपरिहार्यम्, तद्वदेव सर्वत्र स्यादित्याशङ्क्य प्रतिक्षिपति - यत्रेत्यादिना । यत्र - विवाहादिविषये । असत्यादि - अनृतवचनादि । वैधम् - विधिबलप्राप्तम् । तदनु - पश्चात् । तन्निमित्ता निष्कृतिश्च विहिता - तादृशानृतवचननिमित्तं प्रायश्चित्तञ्च विहितं दृश्यते । तत्र - तादृशस्थले । अगत्या - प्रायश्चित्तविधायकवचनस्य गत्यन्तराभावात् । तथा स्यात् - अनृतवचनादिकमुभयात्मकं स्यात् । इतरवत् - अगतिकस्थलान्तरवत् । अथवा - पक्षान्तरे । तत् - विवाहादिविषयेऽसत्यवचनम् । इतरवत् - उपरागादिवत् । केवलं निमित्तम् - कालसूचकत्वमात्रेण प्रवर्तकम् । नतु पातकादिवत् प्रयोजकनिमित्तमिति भावः ॥२८६॥
    इत्यन्याधिष्ठिताधिकरणम् ॥ ७४ ॥
कुमार-वरदः - 18
  1. पुनरपि सांख्यपक्षे दोषान्तरं समुच्चिनोति - किञ्चेति । तदुपपादयति - उत्सर्गेति । अयमर्थः - यद्यपि ‘स्वर्गकामो यजेत’ इत्यादिषु काम्यविधिषु स्वर्गरागात्तत्साधनक्रतूपकारकहिंसायां पुरुषः प्रवर्तत इति तत्र हिंसांशस्य पापरूपत्वात् तत्फलं व्रीह्यादिस्थावरभावेनानुभूयत इत्युच्यते । तथाप्यत्र उत्सर्गापवादन्यायं जहतस्तव ‘शरदि पशुमालभेत’ इत्यादि नित्यहिंसा कथं सिध्येत् । तत्र हिंसा नित्यप्राप्ता न रागजन्या । ननु तत्रापि रागोऽस्ति सर्ववर्णिनामपि स्वधर्मानुष्ठानेऽपरिमितसुखप्राप्तिवचनादिति चेत्, न, नित्यकाम्यलोपप्रसङ्गात् । तदिदमाह - कीदृशी नित्यहिंसेति । नित्यहिंसैव न सिध्येदित्यर्थः । ननु पिष्टादिनापि नित्यत्वसिद्धेर्विरोधो नास्तीति चेत् तत्राह - तव हीति । सर्वत्रोत्सर्गापवादन्यायं जहतस्तवेत्यर्थः । श्रुतिपुराणादिषु पञ्चमहायज्ञप्रस्तावे ‘पञ्चसूना गृहस्थस्य वर्तन्तेऽहरहस्तथा । खण्डनी पेषणी’ इत्यादिना पेषणादेरपि हिंसात्वकथनात् तव विहितेषु निषेधाविषयः किंचिदपि नास्त्येव । एवमस्त्विति चेन्न मन्त्रार्थवादविरोधस्य पूर्वमेवोक्तत्वात् । ननु ‘विवाहकाले ऋतुसम्प्रयोगे’ इत्यादिना ‘अनाक्रोश्यमाक्रोश्यानृतं वोक्त्वा त्रिरात्रमक्षारलवणभोजनम्’ इति चानृतकथनं विधाय तत्प्रायश्चित्तं विधीयते तत्र कथमिति चेत्, सत्यं, तत्रागत्या तदाश्रयणमित्याह - यत्रासत्यादि वैधमिति । इतरवदिति - अनृतकथनविधानवत् प्रायश्चित्तविधानमपि स्यादित्यर्थः । अथवा तत्र विहिते दोषसद्भावेन प्रायश्चित्तं न विधीयते । किंतु जातेष्टिवन्नैमित्तिकमेव किञ्चित्तद्विधीयत इति न विधिनेषेधयोरेकविषयत्वमित्याह - अथवा केवलं तन्निमित्तमिति । तत् अनृतकथनं पुत्रजननवन्निमित्तमात्रमित्यर्थः ॥ (* अयमर्थः - विधिर्निषेधं न क्षिपतीति वदता त्वयोत्सर्गापवादन्यायस्त्यक्तः । उत्सर्गापवादाभ्युपगमे क्रतुहिंसायाः पुण्यफलत्वेन कर्मसु प्रवृत्तिर्युज्यते । तदनभ्युपगमे ‘आलभेत’ इति विधिना क्रतुसाद्गुण्यमात्रज्ञाने सत्यपि निरयजननसमर्थहिंसान्वितक्रतुषु न कस्यापि प्रवृत्तिर्युज्यते । तथा सति ‘शरदि पशुमालभेत’ इति नित्यहिंसा अननुष्ठानलक्षणाप्रामाण्यपराहता भवति । ननु तत्रापि स्वधर्मानुष्ठाने सुखप्राप्तिवचनाद् रागात् प्रवृत्तिरिति चेत्, नित्यकाम्यविभागलोपः प्रसजेत् । ननु पिष्टादिना नित्यकर्मसिद्धिं ब्रूम इति चेत्, तत्रापि पेषणादेर्हिंसात्वकथनाद् रागतः प्राप्तिर्वक्तव्या, तथासति पूर्वोक्तनित्यकाम्यविभागलोप एव स्यात् । ननूत्सर्गापवादन्यायमभ्युपगच्छतस्तव विवाहादावनृतकथनस्य प्रायश्चित्तीयस्य विहितत्वं प्रायश्चित्तविधानादेव निषिद्धत्वञ्च सिद्धम्, अत एव तत्र विधिनिषेधयोरेकविषयत्वं स्यादिति चेन्न; तत्र निर्वाहो द्विविधः - अगत्या तदाश्रयणमित्येकः । जातेष्ट्यादिवन्निमित्तमात्रमनृतवदनम्, अतो विधिविषयस्यानृतवदनस्य न निषेधविषयत्वमित्यपर इति ॥
    इति एतदनन्तरं क्वचिदधिकं दृश्यते ।)
मूलम् - 18
  1. किञ्चोत्सर्गापवादक्रममिह जहतः कीदृशी नित्यहिंसा
    शुद्धं न क्वापि सिध्येत् तव हि विधिपदं स्पृष्टतत्तन्निषेधम् ।
    यत्रासत्यादि वैधं तदनु च विहिता निष्कृतिस्तन्निमित्ता
    तत्रागत्या तथा स्यादितरवदथवा केवलं तन्निमित्तम् ॥
विश्वास-प्रस्तुतिः - 19
  1. अश्लिष्टं विग्रहाद्यैर्नभ इव मुसलैः क्षेत्रिणं केचिदाहुः
    कर्माकर्तारमेवं फलमपि विविधोपाधिभेदैकनिष्ठम् ।
    अव्यक्तस्यापवर्गं भवभुजमपि चानादिमुक्तस्वभावं
    तेषामित्थं मनीषां बहिरकृत नयैरेष वैराग्यपादः ॥
३४-तमाहोबिल-यतिः - 19
  1. अश्लिष्टमित्यादि । केचित् - साङ्ख्या मृषावादिनश्च । मुसलैः - बाधकैर्मुसलादिभिः । नभ इव - आकाशमिव । क्षेत्रिणम् - जीवम् । विग्रहाद्यैः - बाधकैर्देहेन्द्रियादिभिः । अश्लिष्टमाहुः - न ह्याकाशो मुसलप्रहारैर्बाध्यते, एवं बाधकैर्देहादिभिस्साङ्ख्यमृषावाद्यभिमतमात्मतत्त्वमपि न बाध्यत इति भावः । एवम् - भोक्तृत्वं यथा नास्ति तथा । कर्माकर्तारम् - कर्मणामकर्तारम् । क्षेत्रिणमाहुरित्यनुषङ्गः । जीवस्य भोक्तृत्वं यथा नास्ति तथा कर्तृत्वमपि नास्तीत्यर्थः । फलमपि - सांसारिकफलमपि । विविधोपाधिभेदैकनिष्ठम् - जीवोपाधिभूताहङ्कारादिनिष्ठमित्यर्थः । अत्राप्याहुरित्यनुषङ्गः । अव्यक्तस्यापवर्गम् - प्रकृतेरेव मोक्षम् । आहुरिति पूर्ववत् । ‘संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः’ इति हि सांख्यकारिका । भवभुजमपि च - वस्तुतो नानाविधसांसारिकदुःखभागिनमपि जीवम् । अनादिमुक्तस्वभावम् - अनादिस्स्वरूपानुबन्धी मुक्तस्वभावो यस्य, तम् । अत्राप्याहुरिति सिद्धमनुषञ्जनम् । ‘तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित्’ इति हि सांख्यकारिका । तेषाम् - सांख्यानां मृषावादिनाञ्च । इत्थं मनीषाम् - बुद्धिं, सिद्धान्तमित्यर्थः । एष वैराग्यपादः - ‘तदन्तरप्रतिपत्तौ’ इत्यादिस्तृतीयाध्यायप्रथमपादः । नयैः - स्वघटकाधिकरणसिद्धन्यायैः । बहिरकृत - निराचकारेत्यर्थः ॥२८७॥
कुमार-वरदः - 19
  1. एतस्य पादस्य सांख्यमायावादिनोः पक्षनिराकरणे विशेषेणोपकारकत्वं दर्शयति – अश्लिष्टमिति । एवं किल सांख्याः प्राहुः केचिन्मायावादिनश्च । बाधकैर्देहादिभिरश्लिष्टं नभो मुसलैरिव क्षेत्रिणं प्राहुः । नह्याकाशो मुसल-प्रहारैर्बाध्यते, एवं बाधकैर्दैहादिभिस्सांख्यमृषावाद्युक्तमात्मतत्वमपि न बाध्यतेऽसङ्गतत्वादिति । इत्थं फलभोक्तृत्वं नास्तीत्युक्त्वा कर्तृत्वमपि नास्तीत्याह - कर्माकर्तारमिति । अत्राप्याहुरित्यनुषज्यते । तर्हि जीवस्य कर्तृत्वाभावे कुत्र फलमित्याशङ्क्याह - फलमित्यादि । जीवोपाधिभूताहङ्कारनिष्ठमित्यर्थः । तर्हि सांसारिकफलमस्त्वहङ्कारादेः, मोक्षः कस्येत्याशङ्क्य मोक्षोऽपि प्रकृतेरित्याह - अव्यक्तस्येति। ‘संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः, इति हि साङ्ख्यप्रक्रिया । ‘तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित्’ इति जीवस्यानादिमुक्तत्वमेवाहुः । ‘पुरुषस्तु सदा पुष्करपलाशवन्निर्लेपः’ इति साङ्ख्यानामाख्यानम् । अत्र सर्वत्राहुरित्यन्वयः । इदं साङ्ख्यमृषावादिनोरभिमतं जीवस्यैव संसारसम्बन्धप्रतिपादनात् सूत्रकारो निराचकारेत्याह - तेषामिति अयं वैराग्यपादः साङ्ख्यमृषावादिनोर्मतं बहिरकृत निराचकारेत्यर्थः । अत्रायं विशेषः - साङ्ख्यानां प्रकृतिस्सत्या प्रकृतिसम्बन्धप्रयुक्ताः सुखदुःखादयो दोषा मिथ्येति पक्षः । मृषावादिनां पुनर्मायापि मिथ्या तत्सम्बन्धप्रयुक्तसंसारोऽपि मिथ्येति पक्षः । पक्षद्वयमपि संसारसम्बन्धपारमार्थ्यप्रतिपादनेन निराकृतमित्यर्थः ॥
मूलम् - 19
  1. अश्लिष्टं विग्रहाद्यैर्नभ इव मुसलैः क्षेत्रिणं केचिदाहुः
    कर्माकर्तारमेवं फलमपि विविधोपाधिभेदैकनिष्ठम् ।
    अव्यक्तस्यापवर्गं भवभुजमपि चानादिमुक्तस्वभावं
    तेषामित्थं मनीषां बहिरकृत नयैरेष वैराग्यपादः ॥
विश्वास-प्रस्तुतिः - 20
  1. पादे त्वर्थाष्षडस्मिन् वपुरिह विजहद्भूतसूक्ष्मैस्सहेयात्
    भुक्तस्वर्गोऽवरोहेदनुशयसहितो मात्रया भिन्नमार्गः ।
    चन्द्रावाप्त्यादि न स्यान्निरयपथजुषामम्बरादौ सदृक्त्वं
    तस्माच्छीघ्रोऽवरोहः परवपुषि चिरं व्रीहिपूर्वे तु योगः ॥
३४-तमाहोबिल-यतिः - 20
  1. पादेत्वित्यादि । इह - लोके । वपुर्विजहत् - देहं परित्यजन् जीवः । भूतसूक्ष्मैस्सहेयात् - लोकान्तरं गच्छेत् । अयं ‘तदन्तरप्रतिपत्तौ’ इत्यादिप्रथमाधिकरणार्थः । भुक्तस्वर्गः - अनुभूतस्वर्गसुखो जीवः । मात्रया - किञ्चित् । भिन्नमार्गः - ‘यथेतमनेवञ्च’ इत्युक्तेः किञ्चिद्विलक्षणमार्गस्सन् । अनुशयसहितः - भुक्तशिष्टं कर्म अनुशयस्तत्सहितस्सन् । अवरोहेत् - स्वर्गलोकादिमं लोकमागच्छेदित्यर्थः । अयं ‘कृतात्ययेऽनुशयवान्’ इत्यादिद्वितीयाधिकरणार्थः । निरयपथजुषाम् - नरकमार्गगामिनां जीवानाम् । चन्द्रावाप्त्यादि - चन्द्रप्राप्तिपञ्चमाहुत्यपेक्षादिकम् । न स्यात् - न भवेत् । अयं ‘अनिष्टादिकारिणाम्’ इत्यादितृतीयाधिकरणार्थः । अम्बरादौ - आकाशादिप्राप्तौ । सदृक्त्वम् - आकाशादिसादृश्यमेव, न पुनस्तद्रूपेण जन्मेति । अयं ‘तत्स्वाभाव्यापत्तिः’ इत्यादिचतुर्थाधिकरणार्थः । तस्मात् - आकाशादेः । अवरोहः - निर्गमनम् । शीघ्रः - न चिरकालिको नाप्यनियतः । अयं ‘नातिचिरेण’ इत्यादिपञ्चमाधिकरणार्थः । परवपुषि - जीवान्तरशरीरभूते । व्रीहिपूर्वेऽति - व्रीह्यादौ । चिरं योगस्तु - संसर्गमात्रमित्यर्थः । अयं ‘अन्याधिष्ठिते पूर्ववत्’ इत्यादिषष्ठाधिकरणार्थः । एवमनुक्रान्ताः षडर्थास्तु - षट्संख्या अधिकरणानां प्रधानार्थाः । अस्मिन्पादे - वैराग्यपादे । सन्तीति शेषः ॥२८८॥
    ॥ इति श्रीमद्रङ्गनाथशठमथनयतिराजकटाक्षलब्धोभयवेदान्तहृदयस्य भारद्वाजस्य श्रीनिवासराघवदासस्य (श्रीमदहोबिलमठमहास्थाननिर्वहणधुरन्धर श्रीमद्वेदमार्गप्रतिष्ठापनाचार्य परमहंसपरिव्राजकाचार्य सर्वतन्त्रस्वतन्त्रोभयवेदान्ताचार्य श्रीभगवद्रामानुजसिद्धान्तनिर्धारणसार्वभौम श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवकश्रीवण्शठकोपश्रीशठकोपरामानुजमहादेशिकस्य) कृतौ अधिकरणसारावलीव्याख्यायां पदयोजनाख्यायां तृतीयस्याध्यायस्य प्रथमः पादः ॥
कुमार-वरदः - 20
  1. अत्रोक्तानां षण्णामधिकरणानामर्थभेदान् विभज्य दर्शयति - पाद इति । अस्मिन्पादे षडर्थाः प्रतिपाद्याः । तानेवार्थाननुक्रमेणाह - वपुरिति । वपुर्देहं विजहज्जीवो भूतसूक्ष्मैस्सहेयादित्येकोऽर्थः । अपरस्तु - भुक्तस्वर्गस्सानुशय एव यथेतमनेवञ्चावरोहेदिति । तृतीयः पुनर्निरयपथजुषां नरकमार्गेण गच्छतां चन्द्रावाप्तिर्न स्यादिति । चतुर्थोऽप्याकाशादिसादृश्यमेव न पुनस्तद्रूपेण जन्मेति । आकाशादेरवरोहश्शीघ्र एवेति पञ्चमः । षष्ठोऽपि परशरीरे व्रीह्यादौ चिरं योगमात्रमिति । योगस्तु - संसर्गमात्रमित्यर्थः ॥
मूलम् - 20
  1. पादे त्वर्थाष्षडस्मिन् वपुरिह विजहद्भूतसूक्ष्मैस्सहेयात्
    भुक्तस्वर्गोऽवरोहेदनुशयसहितो मात्रया भिन्नमार्गः ।
    चन्द्रावाप्त्यादि न स्यान्निरयपथजुषामम्बरादौ सदृक्त्वं
    तस्माच्छीघ्रोऽवरोहः परवपुषि चिरं व्रीहिपूर्वे तु योगः ॥