विश्वास-प्रस्तुतिः - 14
- व्योमादिस्थित्यवस्था चिरमचिरमिति व्यक्तनिर्देशहानेः
शुक्लावस्थानयात् स्यादनियतिरिति न स्वारसिक्याः प्रवृत्तेः ।
व्रीह्यादिभ्यो हि दुर्निष्प्रपतरमिति तु श्रूयते तेन पूर्वं
शीघ्रं तत्तद्दशायास्त्यजनमिति परिज्ञायते वाक्यशक्त्या ॥
३४-तमाहोबिल-यतिः - 14
- व्योमादीत्यादि । व्योमादिस्थित्यवस्था - जीवस्याकाशादौ या स्थितिः संसर्गविशेषरूपा सैवावस्था । चिरमचिरमिति व्यक्तनिर्देशहानेः - चिरं तिष्ठतीति वा अचिरं तिष्ठतीति वा स्फुटनिर्देशाभावात् । शुक्लावस्थानयात् - शुक्लावस्था हि परिपूर्णगर्भपर्यन्तमवस्थाने चिरम्, मध्येपाते सत्यचिरमित्यनियता, तन्न्यायात् । अनियतिस्स्यात् - न विद्यते नियतिर्नियमो यस्यास्सा अनियतिः इयन्तं कालमत्र तिष्ठतीति नियमशून्या स्यात् । इति न - इति चिन्तनं न युक्तम् । स्वारसिक्याः प्रवृत्तेः - विशेषनिर्णायकवाक्यविशेषस्वारसिकप्रवृत्तेर्विद्यमानत्वात् । तदेव विव्रियते - व्रीह्यादिभ्य इत्यादिना । व्रीह्यादिभ्यो हि दुर्निष्प्रपतरमिति तु श्रूयते - त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते अतो वै खलु दुर्निष्प्रपतरम् इति व्रीह्यादिभ्यो दुर्निष्प्रपतरत्वं श्रूयते । दुर्निष्प्रपतरं दुःखनिष्क्रमणतरमित्यर्थः इति भाष्यम् । खलन्ताद्दुर्निष्प्रपतशब्दादातिशायनिके तरप्प्रत्यये छान्दसे तशब्दलोपे दुर्निष्प्रपतरमिति रूपम् । व्रीह्यादिभ्यः कृच्छ्रनिष्क्रमणश्रवणादित्यर्थः । ततः किमिति चेत्, व्रीह्यादिभ्यो दुर्निष्प्रपतरमिति विशेषवचनमितरेभ्यस्सुप्रपतरत्वमाचष्टे । तेन पूर्वं शीघ्रं तत्तद्दशायास्त्यजनमिति वाक्यश्क्त्या परिज्ञायते - विषयविशेषे दुर्निष्प्रपतरत्वाभिधानमितरत्र दुर्निष्प्रपतरत्वं निषेधति, ततश्च तेभ्यश्शीघ्रनिष्क्रमणमवगम्यत इत्यर्थः ॥
कुमार-वरदः - 14
- अत्र सङ्गतिर्भाष्ये ‘आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति किं तत्रतत्र नातिचिरं तिष्ठति उतानियम इति विशये इति । तदर्थविचारस्तु - किमाकाशप्राप्तिप्रभृति व्रीह्यादिप्राप्तेः प्रागाकाशादिषु चिरं तिष्ठत्युताचिरेण निष्क्रामतीति । व्रीह्यादिप्राप्तौ ‘अतो वै खलु दुर्निष्प्रपतरम्’ इति दुर्निष्प्रपतरत्वाभिधानमन्यत्राचिरनिष्क्रमणमवगमयति नेति । अत्र पूर्वपक्षमाह - व्योमादीति । अत्र जीवस्य व्योमादिस्थित्यवस्था चिरमचिरमिति व्यक्तमेव विशेषनिर्देशाभावान्मातृशरीरे शुक्लावस्थान्यायेनानियतिरेव स्यात् । शुक्लावस्था हि परिपूर्णगर्भपर्यन्तमवस्थाने चिरं, मध्ये पाते पुनरचिरमिति दृष्टमेव । निराकरोति - नेति । तत्र हेतुमाह - स्वारसिक्या इति । ‘अतो वै खलु दुर्निष्प्रपतरम्’ इति स्वारसिक्याः वाक्यप्रवृत्तेर्विद्यमानत्वादित्यर्थः । तदेव स्वारसिकत्वमाह - व्रीह्यादिभ्य इति । व्रीह्यादिभ्यो हि दुर्निष्प्रपतरमिति विशेषवचनमितरेभ्यः सुप्रपतरत्वमाचष्टे । तेन पूर्वं वाक्यशक्त्यैव शीघ्रं तत्तद्दशायास्त्यजनमिति परिज्ञायते । विषयविशेषे दुर्निष्प्रपतरत्वाभिधानमितरत्र दुर्निष्प्रपतरत्वं निषेधतीत्यर्थः ॥
मूलम् - 14
- व्योमादिस्थित्यवस्था चिरमचिरमिति व्यक्तनिर्देशहानेः
शुक्लावस्थानयात् स्यादनियतिरिति न स्वारसिक्याः प्रवृत्तेः ।
व्रीह्यादिभ्यो हि दुर्निष्प्रपतरमिति तु श्रूयते तेन पूर्वं
शीघ्रं तत्तद्दशायास्त्यजनमिति परिज्ञायते वाक्यशक्त्या ॥