विश्वास-प्रस्तुतिः - 13
- आहुत्योर्देहवत्त्वं प्रथमचरमयोर्निर्विवादं तथा स्यात्
जन्मैवाकाशवायुप्रभृतिषु भवतेरन्वयादित्यसारम् ।
रेतस्सिग्भावनीत्या पृथगभिलपनानर्हतामात्रमेव
द्युभ्वोः पुण्यप्रसाध्यं फलमिह पठितं नास्ति भोगस्य मध्ये ॥
३४-तमाहोबिल-यतिः - 13
- आहुत्योरित्यादि । प्रथमचरमयोराहुत्योर्देहवत्त्वं निर्विवादम् - पञ्चस्वाहुतिषु प्रथमचरमयोराहुत्योर्देहवत्त्वं निर्विवादमेव । ‘सोमो राजा सम्भवति’, ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति देहवत्त्वस्य प्रकटमेव कथनात् । आकाशवायुप्रभृतिषु - यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति इत्याम्नातेषु आकाशवायुधूमाब्भ्रादिषु वस्तुष्वपि । भवतेरन्वयात् - भवतीति भूधातोर्जन्मबोधकस्य तेष्वप्यन्वयात् । तथा जन्मैव स्यात् - प्रथमचरमाहुत्योरिवाकाशादिभावेन जन्मैवास्तु । इत्यसारम् - इदमग्राह्यमित्यर्थः । रेतस्सिग्भावनीत्या - ‘यो यो ह्यन्नमत्ति यो रेतस्सिञ्चति तद्भूय एव भवति’ इत्युक्तरेतस्सेक्तृभावन्यायेन । पृथगाभिलपनानर्हतामात्रमेव - आकाशादिभावेऽपि संसर्गविशेषात् पृथगभिलपनानर्हतामात्रमेव प्रत्याय्यमित्यर्थः । द्युभ्वोः - प्रथमाहुतिस्थाने स्वर्गलोके, चरमाहुतिस्थाने भूलोके च । पुण्यप्रसाध्यं फलम् - सुखानुभवरूपं फलम् । इह - पञ्चाग्निविद्यायाम् । पठितम् । मध्ये - प्रथमचरमाहुतिमध्ये आकाशादिभावस्थले । भोगश्च नास्ति - कर्मफलानुभवश्च नास्ति । शरीरस्य सुखाद्यनुभवरूपकर्मफलार्थत्वादाकाशादिभावस्थले तदभावाच्च न तद्भावश्शरीरप्राप्तिरूपः, अपि तु संसर्गविशेषरूप एवेति भावः ॥
कुमार-वरदः - 13
- अत्र सङ्गतिर्भाष्ये इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्तास्सानुशयाश्चन्द्रमसोऽवरोहन्तीत्युक्तम् । अवरोहप्रकारश्च ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाब्भ्रं भवत्यब्भ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’ इतिवचनात् । यथेतमनेवञ्चेत्युक्तम् । तत्रास्याकाशादिप्रतिपत्तौ देवमनुष्यादिभाववदाकाशादिभाव उत तत्सादृश्यापत्तिमात्रम्’ इति । तदर्थविचारस्तु ‘यथैतमाकाशम्’ इत्याकाशादिभावो देवमनुष्यादिभाववदाकाशादिदेहापत्तिरुत तत्सादृश्यापत्तिमात्रमिति । अत्र कश्चिन्मन्यते - पञ्चस्वाहुतिषु प्रथमचरमयोराहुत्योर्देहवत्वं निर्विवादमेव ‘तस्या आहुतेस्सोमो राजा सम्भवति’ ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति देहवत्वस्य प्रकटमेव कथनात् । तथा आकाशवायुप्रभृतिष्वपि जन्मैव स्यात् पुरुषस्य, सोमो राजा भवतीति प्रथमश्रुतस्य भवतेर्धातोरन्वयादिति । तदेतदाह - आहुत्योरिति । तन्निराकरोति - असारमिति । तदेव प्रकटयति - रेतस्सिगिति । यथा पितृशरीरप्रवेशे केवलं संसर्गमात्रम्, एवमाकाशादिभावेऽपि संसर्गविशेषात् पृथगभिधानानर्हतामात्रमेवाकाशादिवादिना शब्देनाभिधेयमित्यर्थः । उक्तार्थे हेतुमाह - द्युभ्वोरिति । मध्ये शरीरपरिग्रहे शरीरस्य पुण्यफलभोगार्थत्वात् पुण्यफलमपि श्रूयेत । नच तच्छ्रूयते । नच कश्चिदुपभोगो दृश्यते इत्यर्थः ॥
मूलम् - 13
- आहुत्योर्देहवत्त्वं प्रथमचरमयोर्निर्विवादं तथा स्यात्
जन्मैवाकाशवायुप्रभृतिषु भवतेरन्वयादित्यसारम् ।
रेतस्सिग्भावनीत्या पृथगभिलपनानर्हतामात्रमेव
द्युभ्वोः पुण्यप्रसाध्यं फलमिह पठितं नास्ति भोगस्य मध्ये ॥