03 अनिष्टादिकार्यधिकरणम्

विश्वास-प्रस्तुतिः - 11
  1. सर्वेषां देहपाते सति नियमवती चन्द्रमःप्राप्तिरुक्ता
    तस्मात् पापोत्तराणां निरयगतिपुरस्कारिणी सेति चेन्न ।
    लोकस्संपूर्यते तैर्न पर इति गिरा संकुचेत् सर्वशब्दः
    तेऽतस्तद्यातनान्ते तत इह सहसा कुत्सितां यान्ति योनिम् ॥
३४-तमाहोबिल-यतिः - 11
  1. सर्वेषामित्यादि । देहपाते सति - देहवियोगे जाते सति । सर्वेषाम् - प्राणिनां सर्वेषाम् । नियमवती चन्द्रमःप्राप्तिरुक्ता - अपरिहार्या चन्द्रप्राप्तिः ‘ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’ इति श्रुत्या प्रतिपादिता । तस्मात् - प्रमाणबलात् । पापोत्तराणाम् - पापोपहतानामपि । निरयगतिपुरस्कारिणी - निरयगतिर्नरकप्राप्तिस्तां पुरस्कर्तुं शीलमस्या इति निरयगतिपुरस्कारिणी निरयगत्यनन्तरभाविनीत्यर्थः । सा - चन्द्रप्राप्तिः । इति चेन्न - एवं शङ्क्यते चेन्नेदं युक्तम् । परो लोकस्तैर्न सम्पूर्यत इति गिरा - ‘तेनासौ लोको न सम्पूर्यते’ इति श्रुत्या अनिष्टादिकारिणां स्वर्गलोकप्राप्त्यभावं बोधयन्त्या स्वर्गप्राप्तिद्वारभूतचन्द्रप्राप्तिमपि तेषां निवारयन्त्या । सर्वशब्दः - ‘ये वै के च’ इत्यादौ श्रुतिवाक्ये ते सर्वे इत्यत्रत्यसर्वशब्दः । संकुचेत् - इष्टादिकारिप्रेतमात्रपरो भवेत् । अतः - एवं प्रमाणबलेन तेषां चन्द्रप्राप्त्यभावात्, ते - अनिष्टादिकारिणः, तद्यातनान्ते - नरकयातनानिवृत्त्यनन्तरम् । ततः - तस्मात् स्थानात् । सहसा - चन्द्रप्राप्त्यादिविलम्बं विना । इह कुत्सितां योनिं यान्ति - श्वसूकरचण्डालादियोनिं प्रतिपद्यन्ते ॥
कुमार-वरदः - 11
  1. अत्र सङ्गतिर्भाष्ये ‘केवलेष्टापूर्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्तन्त इत्युक्तम् । इदानीमनिष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति नेति संशय्यते’ इति । तदर्थविचारस्तु - किमनिष्टादिकारिणोऽपि यमयातनामनुभूय चन्द्रमसं गत्वा निवर्तन्त उत नेति । किं ‘ये वै के च’ इति वाक्यमनिष्टादिकारिणामपि चन्द्रमसः प्राप्तिमवगमयति नेति । किमत्र सर्वशब्दः प्रेतमात्रविषयः उतेष्टादिकारिप्रेतविषय इति । किं पितृयाणगमनम् अनिष्टादिकारिणामपि उतेष्टादिकारिणामेवेति । किं ‘य इमे ग्राम इष्टापूर्त’ इत्युपक्रमः पितृयाणस्येष्टादिकारिमात्रविषयत्वमवगमयति नेति । किम् अनिष्टादिकारिणां पञ्चमाहुतिमन्तरेण पुरुषत्वसम्पत्तिरस्ति नेति । ‘वेत्थ यथा केनासौ लोको न सम्पूर्यते’ इत्यस्य प्रतिवचने ‘अथैतयोः पथोः’ इत्युपक्रमस्य ‘जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते’ इत्येतस्य स्वर्लोकारोहाभावः, तृतीयस्थानस्य पञ्चमाहुतिमन्तरेण पुरुषत्वनिष्पत्तिमवगमयति नेति । अत्र पूर्वपक्षमारचयति - सर्वेषामिति । सर्वषां देहपाते सति नियमवती चन्द्रमसः प्राप्तिरुक्ता, तस्मात्पापोत्तराणामधिकपापोपहतानामपि निरयगतिपुरस्कारिणी चन्द्रप्राप्तिरिति । उक्तं प्रतिक्षिपति - नेति । प्रतिक्षेपमेव विवृणोति - लोक इति । अयमर्थः - ‘चन्द्रमसमेव ते सर्वे गच्छन्ति’ इति सर्वशब्दासङ्कोचार्थमेव ह्यनिष्टादिकारिणामपि चन्द्रमसः प्राप्तिर्भवतोच्यते । ‘तेनासौ लोको न सम्पूर्यते’ इति वचनबलात्सङ्कोचो न दोष इति । उक्तमर्थं निगमयति - त इति । अनिष्टादिकारिणस्ते यमशासनेन तद्यातनान्ते चन्द्रमसमप्राप्यैव कुत्सितां योनिं प्रतिपद्यन्त इति ॥
मूलम् - 11
  1. सर्वेषां देहपाते सति नियमवती चन्द्रमःप्राप्तिरुक्ता
    तस्मात् पापोत्तराणां निरयगतिपुरस्कारिणी सेति चेन्न ।
    लोकस्संपूर्यते तैर्न पर इति गिरा संकुचेत् सर्वशब्दः
    तेऽतस्तद्यातनान्ते तत इह सहसा कुत्सितां यान्ति योनिम् ॥
विश्वास-प्रस्तुतिः - 12
  1. जन्मप्राप्तिर्जरायुप्रभृतिषु भविनां कर्मपाकैर्विचित्रा
    भूयिष्ठैः पुण्यपापैरपवदनवती पञ्चमाहुत्यपेक्षा ।
    तद्वद्धूमादिमार्गः कति कति च शुभैरुत्कटैर्देहपाते
    दिव्यं रूपं विमानादिकमपि सपदि प्राप्य याताः प्रसिद्धाः ॥
३४-तमाहोबिल-यतिः - 12
  1. जन्मप्राप्तिरित्यादि । भविनाम् - संसारिणां जीवानाम् । जरायुप्रभृतिषु - जरायुर्गर्भावारकश्चर्मविशेषः । प्रभृतिशब्देनाण्डमुच्यते । जराय्वण्डादिषु । मनुष्यतिर्यागादियोनिष्वित्यर्थः । जन्मप्राप्तिः कर्मपाकैर्विचित्रा - अनेकप्रकारतया आश्चर्यावहा । अतः पञ्चमाहुत्यपेक्षा - पञ्चाग्निविद्योक्तक्रमेण गर्भोत्पत्तेः पञ्चमाहुत्यावश्यकता । भूयिष्ठैः - महद्भिर्बहुभिश्च । पुण्यपापैः अपवदनवती - अपवादयुक्ता । येषामतिमात्रपुण्यपापैर्जन्मलाभस्तेषां पञ्चमाहुत्यपेक्षा नास्तीत्यर्थः । दृश्यते हि द्रौपदीधृष्टद्युम्नप्रभृतीनां पञ्चमाहुत्यनपेक्षमेव जन्म । धूमादिमार्गः - धूमादिमार्गेण गमनमपि । तद्वत् - पञ्चमाहुतिवदेव न सार्वत्रिकी । कतिकति च - कतिकति तु जनाः । देहपाते, उत्कटैश्शुभैः - उत्कृष्टसुकृतविशेषैः । सपदि - देहपातोत्तरक्षण एव । दिव्यम् - आश्चर्यकरम् । रूपम् - शरीरम् । विमानादिकमपि प्राप्य । याताः प्रसिद्धाः - याता इतिपुराणभारतादिषु प्रसिद्धं हीति भावः । अतः पञ्चमाहुत्यपेक्षा धूमादिमार्गगमनञ्च न सर्वेषामिति सिद्धम् ॥
कुमार-वरदः - 12
  1. ननु पञ्चमाहुत्यपेक्षया जन्मवतां जन्म कथ्यते, कथं तर्हि पापोत्तराणां पञ्चमाहुतिमन्तरेण जन्म भवतीत्याशङ्क्याह - जन्मेति । जरायुजप्रभृतीनां जन्म तावत् प्रमाणप्रतिपन्नमेव । अथापि पञ्चमाहुत्यपेक्षा वक्तुं न शक्यत एव पितृशरीरान्मातृशरीरप्रवेशादर्शनात् । कथं तर्हि प़ञ्चमाहुत्यपेक्षावचनमित्याशङ्क्याह - भूयिष्ठैरिति । अयमर्थः पञ्चमाहुत्यपेक्षावचनं सामान्यम् । तत्तु यत्रापवादो नास्ति तत्रैवावकाशं लभते, नान्यत्र । भूयिष्ठादृष्टजन्मानो द्रौपदीधृष्टध्युम्नादयः पञ्चमाहुतिं नापेक्षन्ते । एवं जरायुजादयोऽपि भूयिष्ठपापजन्यत्वात् । तद्वदेव प़ञ्चमाहुत्यपेक्षावत् धूमादिमार्गोऽप्यवदनवानित्यर्थः । अस्मिन्नर्थे सुकृतविशेषादतिशयिताद्ब्रह्मलोकप्राप्तिपर्यन्तं स्वतस्सिद्धदिव्यदेहादिपरिग्रहेण प्रयाताः कतिकति श्रूयन्ते । त एव पञ्चमाहुत्यनपेक्षदेहपरिग्रहे दृष्टान्ततयोपादेया इत्यर्थः ॥
मूलम् - 12
  1. जन्मप्राप्तिर्जरायुप्रभृतिषु भविनां कर्मपाकैर्विचित्रा
    भूयिष्ठैः पुण्यपापैरपवदनवती पञ्चमाहुत्यपेक्षा ।
    तद्वद्धूमादिमार्गः कति कति च शुभैरुत्कटैर्देहपाते
    दिव्यं रूपं विमानादिकमपि सपदि प्राप्य याताः प्रसिद्धाः ॥