विश्वास-प्रस्तुतिः - 7
- इष्टापूर्तादिरूपं तनुभृदिह शुभं कर्म यत् किंच कुर्यात्
भुक्त्वा कृत्स्नं तदन्ते पुनरवनिमियादित्यसद्दृष्टबाधात् ।
कार्त्स्न्येनेत्यश्रुतत्वात् सुकृतफलतया जातिभेदा(भोगा)द्यधीतेः
तस्मात् प्रारब्धशेषैस्तदितरसहितैरापतेत् स्वर्गपान्थः ॥
३४-तमाहोबिल-यतिः - 7
- इष्टापूर्तेत्यादि । तनुभृत् - जीवः । इह - कर्मभूमौ । इष्टापूर्तादिरूपम् - इष्टं यागादि, पूर्तं तटाकादि, आदिशब्देन स्वर्गहेतुभूतगोभूम्यादिदानादिकमुच्यते, एवमादिरूपम् । यत्किञ्च शुभं कर्म कुर्यात् । तत् कृत्स्नं भुक्त्वा - स्वर्गादावनुभूय । तदन्ते - तदवसाने । पुनः अवनिम् - इमं भूलोकम् । इयात् - आगच्छेत् । इत्यसत् - इति पक्षो न साधुः । दृष्टबाधात् - आगच्छतां जीवानां मध्ये केषांचित् चण्डालयोनिप्राप्तिः केषांचित् ब्राह्मणाद्युत्तमयोनिप्राप्तिरित्येवं तत्तत्कर्मानुगुणतया दृष्टस्य फलवैषम्यस्य तन्मूलभूतकर्मशेषानङ्गीकारे विरोधात् । किञ्च कार्त्स्न्येनेत्यश्रुतत्वात् - ‘प्राप्यान्तं कर्मणस्तस्य’ इत्यादिश्रुतौ कार्त्स्न्येन कर्मणोऽन्तं प्राप्येत्यश्रुतत्वात्, सुकृतफलतया जातिभोगाद्यधीतेः - रमणीयचरणा अभ्याशोहयत्ते रमणीयां योनिमापद्येरन् इत्यादिश्रुत्या सुकृतफलत्वेन विशिष्टजातिभोगाद्याम्नानात् । तस्मात् - उक्तोपपादनात् । स्वर्गपान्थः - गतागतं कामकामा लभन्ते इति स्वर्गमार्गपथिकः । तदितरसहितैः - कर्मान्तरयुक्तैः । प्रारब्धशेषैः - कर्मविपाकादिशास्त्रेषु सुकृतस्य स्वर्गादिहेतुत्ववत् तदनुभवान्ते विशिष्टजातिवित्तसुखादिहेतुत्वस्यावगमात् अभुक्तफलकर्मशेषैस्सह । आपतेत् - आगच्छेत् ॥
कुमार-वरदः - 7
- अत्र सङ्गतिर्भाष्ये “केवलेष्टापूर्तदत्तकारिणां धूमादिना पितृयाणेन पथा गमनं कर्मफलावसाने पुनरावर्तनञ्चाम्नातं ‘यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते’ इति । तत्र प्रत्यवरोहन् जीवः किमनुशयवान् प्रत्यवरोहति उत नेति संशय्यते इति । तदर्थविचारस्तु किं यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते इति आम्नातो निवर्तमानस्सानुशयो निवर्तते उत निरनुशय इति । किं ‘यावत्सम्पातम्’ इति वाक्यं सम्पातशब्दस्य फलदानप्रवृत्तकर्मपरत्वाभावेन सर्वकर्मपरत्वात् निरनुशयस्य निवर्तनमवगमयति नेति । किमत्र सम्पातशब्दः कर्ममात्रपर उत फलप्रदानप्रवृत्तकर्मपर इति । किं ‘तद्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापध्येरन्’ इति वाक्यं सम्पातशब्दस्य फलप्रदानप्रवृत्तकर्मपरतामवगमयति नेति । किं ‘रमणीयचरणाः’ इति चरणशब्द आचारपर उत कर्मपर इति । अत्र पूर्वपक्षी मन्यते - इष्टापूर्तादीति । श्रौतस्मार्तं कर्म यद्यदिह करोति तत्कृत्स्नमपि स्वर्गादौ स्थलान्तरे भुक्त्वा तदन्ते पुनरिहायाति । अतो निरनुशय एवायाति । अनुशयो नाम - फलोदयपर्यन्तमात्मन्यनुशेत इति कर्मवर्ग उच्यते । तेन सर्वं कर्म भुक्त्वा स्वयमेवायातीति पूर्वपक्षिणोऽभिप्रायः । तत्प्रतिक्षिपति - इत्यसदिति । अत्र हेतुमाह - दृष्टबाधादिति । सर्वेषामपि कर्मणां परत्रैवोपभोगादनन्तरमागमने कर्मानुरूपं केचिच्चण्डालयोनिमापद्यन्ते केचिद्ब्राह्मणयोनिमिति दृष्टं वैषम्यं बाध्येत । किञ्च ‘प्राप्यान्तं कर्मणस्तस्य’ इत्यत्र कार्त्स्न्येन कर्मणोऽन्तं प्राप्येति न श्रूयते । तेनोपभुज्यमानस्य कर्मणोऽन्तं प्राप्य कर्मान्तरेण सहागच्छतीति कार्यानुरूपं स्पष्टमेतत् । युक्त्यन्तरमाप्याह - सुकृतेति । रमणीयचरणा रमणीयां योनिमापद्येरन् कपूयचरणाः कपूयां योनिमापद्येरन्निति सुकृतदुष्कृतफलत्वेन जातिभेदाध्ययनात् । उक्तमर्थं निगमयति - तस्मादिति । प्रारब्धशेषैस्तदितरसहितैरिति - अयमर्थः कर्मविपाकशास्त्रेष्वेकस्यैव कर्मणस्स्वर्गादिफलं तदन्ते पुनरैहिकफलमपि भोक्तव्यत्वेनाभिधीयते । तेन प्रारब्धफलमपि कर्म भुक्त्वा तदवशेषेणाभुक्तफलेन कर्मान्तरेण च युक्तः पुनरावर्तत इति सर्वप्रमाणाविरोधेन नेतव्यमिति । स्वर्गपान्थ इति ‘गतागतं कामकामा लभन्ते’ इति प्रमाणमुपदर्शयति ।
मूलम् - 7
- इष्टापूर्तादिरूपं तनुभृदिह शुभं कर्म यत् किंच कुर्यात्
भुक्त्वा कृत्स्नं तदन्ते पुनरवनिमियादित्यसद्दृष्टबाधात् ।
कार्त्स्न्येनेत्यश्रुतत्वात् सुकृतफलतया जातिभेदा(भोगा)द्यधीतेः
तस्मात् प्रारब्धशेषैस्तदितरसहितैरापतेत् स्वर्गपान्थः ॥
विश्वास-प्रस्तुतिः - 8
- धूमं रात्रिं च पक्षं तिमिरकलुषितं दक्षिणावृत्तिमासान्
पश्चाल्लोकं पितॄणां गगनमपि मृतश्चन्द्रमभ्येति कर्मी ।
प्रत्यावृत्तौ तु चन्द्राद्गगनसततगौ धूममभ्रं च मेघं
व्रीह्यादीन्याति रेतस्सिचमथ जननीं यातनाचक्रवर्ती ॥
३४-तमाहोबिल-यतिः - 8
- धूममित्यादि । प्रथमं धूमम् । ततो रात्रिञ्च । पश्चात् तिमिरकलुषितं पक्षम् - कृष्णपक्षम् । ततो दक्षिणावृत्तिमासान् - दक्षिणायनघटितान् कटकसिंहकन्यातुलावृश्चिकधनूरूपान् षण्मासान् । पश्चात् पितॄणां लोकम् । तदनु गगनम् । ततश्चन्द्रमपि मृतः कर्मी अभ्येति - प्राप्नोति । यातनाचक्रवर्ती - यातनाचक्रे परिवर्तनपरः । प्रत्यावृत्तौ तु - पुनरागमने तु । चन्द्रात्, गगनसततगौ - गगनवायू । गगनं गगनानन्तरं वायुमित्यर्थः । ततो धूमम् । पश्चादब्भ्रम् - अपो बिभर्तीत्त्यब्भ्रम् । ततो मेघञ्च – मिह सेचने, वर्षणप्रवृत्तं तमित्यर्थः । ततो व्रीह्यादीन् - पितृभक्षणीयव्रीह्यादीन्, अथ रेतस्सिचम् - जनकं पुरुषम् । पश्चात् जननीं रेतोविशिष्टस्सन् याति । अयमेतादृशः सुकृतीनां गतागतक्रम इति भाव्यमिति भावः ॥
कुमार-वरदः - 8
- अत्र ‘यथेतमनेवञ्च’ इति सूत्रखण्डे गमनागमनयोर्वैषम्यस्याभिधानात् तदेव वैषम्यं दर्शयति - धूममिति । धूमं रात्रिं तिमिरकलुषितं पक्षं दक्षिणावृत्तिमासान् पश्चात्पितृलोकं गगनं चन्द्रमपि मृतः कर्मी प्राप्नोति । प्रत्यावृत्तौ तु चन्द्राद्गगनं गगनाद्वायुं ततो धूमं तस्मादब्भ्रं अब्भ्रान्मेघम्, अत्राब्भ्रमेघशब्दौ चार्थभेदादपुनरुक्तौ, अपो बिभर्तीत्यब्भ्रशब्देन कथ्यते मेघ एव । ‘मिह सेचने’ इति सेचनावस्थाविशिष्टवेषेण स एव मेघ इत्युच्यते । व्रीह्यादीन् - पितृभक्षणीयव्रीह्यादीनित्यर्थः । रेतस्सिगिति जनक उच्यते । अथ जननीं यातीत्यन्वयः । यातनाचक्रवर्तीति - यातनाचक्रे वर्तते इत्यर्थः । अथवा संसारवर्त्मनि सर्वत्र वर्तत इति चक्रवर्ती ॥
मूलम् - 8
- धूमं रात्रिं च पक्षं तिमिरकलुषितं दक्षिणावृत्तिमासान्
पश्चाल्लोकं पितॄणां गगनमपि मृतश्चन्द्रमभ्येति कर्मी ।
प्रत्यावृत्तौ तु चन्द्राद्गगनसततगौ धूममभ्रं च मेघं
व्रीह्यादीन्याति रेतस्सिचमथ जननीं यातनाचक्रवर्ती ॥
विश्वास-प्रस्तुतिः - 9
- आचारांशस्य साद्ध्यं चरणवचनतो जातिभोगादिकं स्यात्
कर्माचारौ विभक्तौ श्रुतित इति न सद्गत्यभावात्तथोक्तेः ।
मुख्यं वृत्त्या हि कर्मण्यपि चरणवचो नैकदेशे निरोद्ध्यं
जात्यादिः कर्मभेदप्रभव इति मिते चिन्त्यमाचारसाद्ध्यम् ॥
३४-तमाहोबिल-यतिः - 9
- आचारांशस्येत्यादि । चरणवचनतः - रमणीयचरणाः, कपूयचरणाः, इति आचारवाचकचरणवचनात् । जातिभोगादिकम् - विशिष्टजातिसुखादिकम् । आचारांशस्य साध्यं स्यात् - सन्ध्यावन्दनादिरूपाचारांशस्य फलभूतं भवतु । नतु स्वर्गार्थकर्मविशेषफलमित्यर्थः । श्रुतितः - श्रुत्यैव । कर्माचारौ विभक्तौ - “यान्यनवद्यानि कर्माणि, तानि सेवितव्यानि, यान्यस्माकं सुचरितानि, तानि त्वयोपास्यानि” इत्यादौ कर्माणि, सुचरितानीति पृथगाम्नानेन तौ परस्परभिन्नाविति दर्शितौ । इति न सत् - इति शङ्कनं न साधु । गत्यभावात् तथोक्तेः - गत्यभावेन शब्दसाफल्यार्थं तथा कथनात् । चरणवचः - चरणपदम् । वृत्त्या - प्रवृत्त्या । कर्मण्यपि मुख्यं हि - कर्मविषयेऽपि, चर्यतेऽनुष्ठीयत इति शक्त्यैव बोधनात्, मुख्यं हि । तत्पदम् । एकदेशे - वाच्यैकदेशे । न निरोध्यम् - उक्तरीत्या कर्माचारयोर्द्वयोरपि चरणशब्दवाच्यत्वेन तदेकदेशे आचारे तस्य निरोधो न युक्त इति भावः । जात्यादिः - स्वर्गात् पुनरागतानां जीवानां विशिष्टजात्यादिलाभः । कर्मभेदप्रभवः - स्वर्गार्थकर्मविशेषादेव भवति । इति मिते - एवं शास्त्रेण प्रमिते सति । आचारसाध्यमचिन्त्यमेव, न चिन्त्यमित्यर्थः । ‘सन्ध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मसु’ इत्यादिदृढतरप्रमाणसिद्धस्योत्तरकर्माधिकारादेः फलस्य विद्यमानत्वेन न चिन्तासाध्यं तत्फलमित्यर्थः । इयं चिन्तामणियोजना । चिन्त्यमित्येव पदच्छेदः । आचारसाध्यम् - आचारेण साधनीयं फलं तु, चिन्त्यम् - ‘सन्ध्याहीनोऽशुचिर्नित्यम्’ ‘नित्यकर्मानुष्ठानेऽपरिमितं सुखम्’ इत्यादिप्रमाणानुसारेणोत्तरकर्माधिकारापादनादिकं योजनीयमित्यर्थः ॥
कुमार-वरदः - 9
- अत्र पूर्वपक्षवादी मन्यते - पूर्वकृतकर्मशेषेणावरुह्य जात्यादिकं प्राप्नोतीति भवतोक्तं, तन्नोपपद्यते, कपूयचरणाः कपूयां योनिमित्यादिना वाक्येन चरणस्यैवोपादानात् तस्य च केवलाचारमात्रत्वादिति । तदिदमाह - आचारेति । आगतस्य जातिभोगादिकं केवलाचारमात्रसाध्यं स्यात् चरणवचनात् । ननु आचार एव कर्म कर्मेवाचार इत्याशङ्क्य विभागमाह - कर्मेति । श्रूयते हि - ‘यान्यनवद्यानि कर्माणि तानि सेवितव्यानि’ ‘यान्यस्माकं सुचरितानि’ इति । तदिदं प्रतिक्षिपति - न सदिति । तत्र हेतुमाह - गत्यभावादिति । आचारस्य शब्दस्य कर्मवाचकत्वेऽपि कर्माचारयोर्द्वयोरपि तस्मिन्वाक्ये दृष्टत्वाद् गत्यभावेन शब्दसाफल्यार्थं तथाकथनम् । तदेवोपपादयति - मुख्यमिति । वृत्त्या प्रवृत्या कर्मण्यपि मुख्यं चरणवचनं नैकदेशे आचारमात्रे निरोध्यम् । ‘पुण्यं कर्माचरति, पापं कर्माचरति’, इति हि प्रयोगप्रसिद्धिरुपलभ्यते । एवं जात्यादिः कर्मभेदप्रभव इति कर्मविपाकशास्त्रैस्तत्रतत्र ‘चण्डालः प्रेत्य जायते’ ‘शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते’ इति प्रमिते सति आचारसाध्यमचिन्त्यमेव न चिन्त्यमित्यर्थः । द्रृढतरप्रमाणप्रमितत्वात् । दृश्यते ह्याचारसाध्यतया ‘सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु’ इत्यादावुत्तरकर्माधिकारादिकम् ॥
मूलम् - 9
- आचारांशस्य साद्ध्यं चरणवचनतो जातिभोगादिकं स्यात्
कर्माचारौ विभक्तौ श्रुतित इति न सद्गत्यभावात्तथोक्तेः ।
मुख्यं वृत्त्या हि कर्मण्यपि चरणवचो नैकदेशे निरोद्ध्यं
जात्यादिः कर्मभेदप्रभव इति मिते चिन्त्यमाचारसाद्ध्यम् ॥
विश्वास-प्रस्तुतिः - 10
- प्राप्ताचारातिवृत्तौ प्रतिपदमृषयस्सस्मरुः प्रत्यवायान्
प्राचीनांहःप्रणाशं तदनुसरणतः पुण्यकर्मार्हतां च ।
नातस्सत्कर्ममात्रात् त्रिदिव इति धिया तत्परित्यागशङ्का
न ह्याचारप्रहीणे श्वदृतिजलसमश्शोधको वेदवर्गः ॥
३४-तमाहोबिल-यतिः - 10
- प्राप्ताचारेत्यादि । प्राप्ताचारातिवृत्तौ - प्राप्तानां स्वस्ववर्णाश्रमानुगुण्येन विधिबलप्राप्तानां आचाराणां सन्ध्यावन्दनाद्याचाराणां अतिवृत्तौ अतिक्रमे अकरण इत्यर्थः । ऋषयः - मनुयाज्ञवल्क्यप्रभृतयस्स्मर्तारः । प्रतिपदं प्रत्यवायान् सस्मरुः - विशेषतः कण्ठोक्त्या उत्तरकर्मानधिकारादिकान् दोषान्प्रत्यपादयन् । तदनुसरणतः - आचाराणां यथाकालमविकलानुष्ठानतः । प्राचीनांहःप्रणाशं पुण्यकर्मार्हताञ्च सस्मरुः - ‘यदह्ना पापमकार्षम्, अहस्तदवलुम्पतु ।’, ‘शुचिना कर्म कर्तव्यम्’ इत्यादिप्रमाणानुसारेणोपात्तदुरितनिवृत्तिं पुण्यकर्मानुष्ठानयोग्यताञ्च प्रत्यपादयन् । अतः - उक्तप्रकारेण आचारस्यात्याज्यत्वात् । सत्कर्ममात्रात् त्रिदिव इति धिया - स्वर्ग्यकर्मानुष्ठानेन स्वर्गलाभो भविष्यति किमेभिस्सन्ध्यावन्दनादिभिरिति बुद्ध्या । तत्परित्यागशङ्का न - सन्ध्यावन्दनाद्याचारपरित्यागशङ्का न युक्ता । ‘अपहतपाप्मा स्वाध्यायो देवपवित्रं वा एतत्’ इत्यादिप्रमाणेन वेदाध्ययनमेव शुद्धिं जनयतीत्याशङ्क्याह - नहीत्यादि । आचारप्रहीणे - आचारशून्ये पुरुषे । श्वदृतिजलसमः - ‘श्वदृतौ च यथा पयः’ इति श्वचर्मस्थतीर्थतुल्यः । वेदवर्गः - साङ्गाधीतऋगादियावद्वेदवर्गोऽपि । शोधको नहि - ‘आचारहीनं न पुनन्ति वेदा यद्यप्यधीतास्सह षङ्भिरङ्गैः’ इत्यादिप्रमाणात् शुद्धिहेतुर्न भवतीत्यर्थः ॥
कुमार-वरदः - 10
- अत्र प्रसङ्गादाचारस्यावश्यकर्तव्यत्वमाह - प्राप्तेति । इत्थं किल कश्चिन्मनुते कर्मानुष्ठानादेव स्वर्गादिसिद्धिः, किमनेनाचारेणेति । तत्रोत्तरं प्राप्तेत्यादि । प्राप्तानां सन्ध्यावन्दनादीनामतिवृत्तौ ऋषयः प्रतिपदं प्रत्यवायानाहुः । उत्तरकर्मानधिकारादीन्दोषानित्यर्थः । तदनुसरणतः - आचारानुसारात् । प्राचीनपापप्रणाशञ्चाहुः । ‘यदह्ना पापकार्षम्’ इत्यादिभिश्श्रूयते । ‘शुचिना कर्म कर्तव्यम्’ इत्यादिना पुनराचारानुसारात् पुण्यकर्मार्हताञ्चाहुः । एवमेतैर्हेतुभिः सत्कर्ममात्रात् त्रिदिव इति धियैवाचारस्य परित्यागो नार्ह इत्याह - नात इति । अत्र प्रमाणं दर्शयति ‘आचारहीनं न पुनन्ति’ इत्यादिकम् - नहीति । आचारप्रहीणे पुरुषे श्वदृतिजलसमो वेदवर्गश्शोधको न भविष्यतीत्यर्थः ॥
मूलम् - 10
- प्राप्ताचारातिवृत्तौ प्रतिपदमृषयस्सस्मरुः प्रत्यवायान्
प्राचीनांहःप्रणाशं तदनुसरणतः पुण्यकर्मार्हतां च ।
नातस्सत्कर्ममात्रात् त्रिदिव इति धिया तत्परित्यागशङ्का
न ह्याचारप्रहीणे श्वदृतिजलसमश्शोधको वेदवर्गः ॥